प्रमुखा विकल्पसूचिः उद्घाट्यताम्

षष्ठ: प्रपाठक:

सम्बन्धप्रबोधनम्


अथाथर्वणाङ्गिरसशिल्पकाश्यपादय उपेत्य पिप्पलादमाश्रमे पप्रच्छुः, भगवन्तः कुतो ह वा रूपे भेदः सञ्जायत इति श्रोष्यामः श्रेयः । तान्। ह स पिप्पलादो होवाच, इयं

न्यासधारणा श्रेष्ठा ॥ ६.१ ॥

सा धारणा सृष्टिः । सौम्यपिप्पलादः सुप्रसन्नं इदं वव्रे , यथा प्रजाकामो वै प्रजापतिः स तपोऽतप्यत, स तपस्तप्त्वा मिथुनमुदपादयत्,' रयिञ्च प्राणञ्चेति, एतौ मे बहुधा प्रजाः करिष्यत इति पूर्वे प्रश्ने मयोक्तम् । तथा कामचारिणः सुखं कामयन्ते । सुखमसीमं तत् सुखचक्रे

वृत्त्या दैवचिन्तने भेदः सञ्जायते ॥ ६.२ ॥

स हि द्विधा, तद्भेदात्’ प्रतिरूपाणि कल्पयन्तीति वादः । अथ हैनमाथर्वणाङ्गिरसादयस्त्रयःः श्रोतारः पप्रच्छुः, भगवन्त: रूपाकले केनोपायेन ब्राह्मणा दैवेऽन्यसन्धामारोपयन्ति । कथं न्यसन्ति । ततः षोडशकलपिप्पलादपुरुषो होवाच शृणुतामृतस्य पुत्राः । -

लक्षणप्रकाशार्थं शिल्पविद्या ॥ ६.३ ॥

न्यासोऽलङ्कारमुद्राऽऽयुधबाध्रकक्ष वाहनोपदेवारिस्तुवक क्रमेण रूपनवाङ्गमिति ध्येयम् ।।६.४।।


सुप्रसन्नेन, ग, घ।
मुपपादयेत् , ग, घ।
प्रश्नोपनिषदि,ख
सुखार्थम्, ग।
तद् द्विधया दैवचिन्तने भेदः सञ्जायते, क।
क कक्ष


स रेखान्यासः, अलङ्करणम् , मुद्रा, (आायुधम्) बाध्रः, कक्षः, वाह्नम् , उपदैवतम्, अरिणः, [इत्येवं] कल्पयन्ति । आशृणुत वत्सास्त्रय: ,
न्यासनवाङ्गानुशासनमिति' पिप्पलादो वव्रे । रेखा रूपाङ्गसौष्ठवप्राप्त्यर्थं शैले लिखन्ति प्राज्ञस्थापका । इति नवाङ्गं न मानुषे, दैवक्षेत्रे मुख्यम् । -
उष्णीषमस्तकाः कारुकाराः शैलक्षेत्रे दैवभावे रेखाः वज्रचूर्णेन लिखन्ति ।

तिस्रः रेखाः श्रेष्ठाः ॥ ६.५ ॥

ऊर्ध्वरेखा अग्निरेखा: यथा शिखा उत्थिता प्रज्वलति । पार्श्वगा रेखा अपछेदा यथा नदीनां प्रवाहः । कर्णक्षेत्रगा भेनकारेखा मारुतच्छेदा मारुतस्य तिर्यग्गतिरिव , उदाहृतरेखया शैलक्षेत्रे पञ्जराख्यं कोष्ठककर्माऽऽचरेत् । एष कोष्ठकः: अग्न्यम्मारुतरेखासमष्ट्या संयोगेन सम्भवति ।

रूपक्षेत्रे कोष्ठकालिर्मुख्या ॥ ६.६ ॥

शैलगुहायां भित्तैौ सूक्ष्मकोष्ठकरचने आकलान्युपलभ्यन्ते सुखेन । यथा षोडशकलो1 वै पुरुषः षोडशांशैः पूर्णो भवति तथा –

षोडशकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रूपार्थं श्रेष्ठम् ॥ ६.७ ॥

वज्रचूर्णेन सह तत्क्षेत्रे शलघूर्णिकया वृत्तमेकं रचय मर्मलाभार्थम् । स नेमिः ब्रह्माभास इति । रूपे तद् विलं प्राणविलम् ।

विलमिति मर्म , ब्रह्मेव ध्येयम् ॥ ६.८ ॥

तन्मर्मणाऽङ्गभावः प्रसरति ।

कोष्ठकः

षोडशकोष्ठकप्रमाणविभागस्तु ब्राह्मदैवजैवोपदैवयाजकक्रमेण पञ्चधा ध्येयः ॥ ६.९ ॥

कोणचतुष्टयावलम्बनेन नेम्या सह कोणवर्गं कर्तय। कर्तितकोष्ठके ऊर्ध्वदेशस्य क्षेत्रद्वये यज्ञगन्धर्वानप्सरसादीन् खोदय। अधःस्थं तदनुपातय। क्षेत्रद्वयं स्तुवकक्षेत्रम्। उभयकोणे मानवोपसकं रचय। अधोमध्यस्थले


1.षोडशकलं वै ब्रह्म शतपथब्राह्मणे उक्तम् । “षोडशर्चेभ्यः स्वाहा
” इति षोडशकलाः उक्ताः । अथर्व १९.२३.१३.


“रूपे नवाङ्गं स्मरन्ति ये विचक्षणाः । इत्यधिकः पाठः, ग ।
"तद्० , घ ।
०पार्श्वे, ग ।



कोष्ठकौ द्वौ जीवक्षेत्रं दैववाहनार्थम् । मध्यस्थाश्चत्वारः कोष्ठकाः ब्रह्मक्षेत्रम् ।
तत्रार्चारूपस्याङ्गनिर्णयः । अधोर्ध्वावधि तुङ्गाङ्गपर्यन्तमापादशीर्षमाचर | ब्रह्मक्षेत्रस्य वामदक्षिणस्थं क्षेत्रचतुष्टयं जायाक्षेत्रम्।

रूपाङ्गं चतुर्धेति विशेषः ॥ ६.१० ॥

पार्थिवाङ्गं जैवाङ्गं प्राणाङ्गं देवताङ्गमिति । पादान्ताद् गुल्फपर्यन्तं पार्थिवाङ्गम्२ गुल्फान्नाभिपर्यन्तं जैवाङ्गम्३ नाभेः कण्ठावधि प्राणाङ्गम्४, कण्ठाद् ब्रह्मरन्धपर्यन्तं द्योतङ्गम्५ । तन्मूर्तितारकममूर्तितारकमिव६ । यथापूर्वं वेदेनोक्तम ।
ऊर्ध्वयुगभागयोः रूपस्याननालङ्कारैः सह दैवतेजोमण्डलम । अण्डाकार पिण्डाकारं वा स्यात । तत्र ' शुक्लज्योती रसामृतं७ विद्येते । एवं रूपेऽङ्गभेदाश्चत्वारः शिलादेवतार्थम् । वामे दक्षिणे क्षेत्रद्वये दिव्यक्षेत्रे देवशक्तिभिरुपदैवतानि तिष्ठन्तीति, उभयदिशि कोष्ठकाश्चत्वारः । एवं षोडशकोष्ठकानां सन्धा इति । महासूत्रं सर्वरूपक्षेत्रे विधेयम् । इति सौम्यः पिप्पलादो वव्रे ।
अथ शिल्पकाश्यपाङ्गिरसकोशलादयः पप्रच्छुः, भगवन्तो वास्तुकर्माङ्ग- अवतारषोडशकलपुरुषपिप्पलादाः । केनोपदेवता रूपे भावं प्रददाति । काः सन्धाः० श्रेष्ठा इति ।
वरदव्याख्यानकरसंयुतः स्वस्तिमुच्चार्य्य, सौम्यः पिप्पलादो होवाच । आशृणुत शिल्पर्षयो बिन्दुसन्धामादौ ।

बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् । । ६.११ । ।

रूपकोष्ठकान्तराले बिन्दुर्द्विधा । ब्रह्मबिन्दुर्मध्यबिन्दुर्ब्रह्मेव । ऊर्ध्वमध्यग: सत्याख्यबिन्दु: दौ विशिष्टौ ।

ब्रह्म सत्यादौ ॥ ६.१२ ॥

यथाऽऽदिपुरुषस्य नाभेः प्रजापतिः स्रष्टा सृजति प्रजाः । ब्रह्मजज्ञानं प्रथमं पुरस्तात् यथा जनन्या नाभितन्तोनालतन्त्ववधारणे मातृकोषे भ्रूण उपजायते लोकसृष्टौ, तथा रूपे ।


२यदङ्गं चरति धरायाम् ।
३नाभौ जीवसता राजते प्रसरति च ।
४हृदये प्राणस्तिष्ठति ।
५ब्रह्मरन्ध्रे तेजो विभाति, आविर्भवति ।
६तत्तारकं द्विविधम्, मूर्तितारकममूर्तितारकञ्चेति । यदिन्द्रियान्तं तन्मूर्तिमत्, यद् भ्रूयुगातीतं तदमूर्तिमत् इति अद्वयतारके उक्तम् ।
७.सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् इति स्वराट् योगतत्त्वोपनिषदि उक्तम् ।


“सम्बन्धः , गतः ।
"ऊर्ध्र्वमण्डले, घ ।


ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गानि सौभगानि भवन्ति ॥ ६.१३ ॥

तस्योर्ध्वबिन्दुः सत्यबिन्दुः । भ्रुवोर्मध्ये हिरण्मयेन पात्रेण ब्रह्मरसो विद्यते । तद्रसाद् ज्ञानं प्रसरति जीवे । तथा रूपाकले तद् बिन्द्ववलम्बनेन रूपाङ्गवैभवं कल्पयन्ति स्थापका इति । पुरुषी रूपार्थं ब्रह्मकीलस्य त्रिभागानां मध्ये मर्मार्थं बिन्दुं चिन्तयेत्, येनोपायेन रूपाणि सुभागानि भवन्ति, सिद्धिं प्रददति । लोकाः प्रहृष्टा भवन्तीति ।
अथ शृणुत श्रोतारः अलङ्करणन्यासम् ।

अलङ्करणं दैवभूषणमिति ॥ ६.१४ ॥

तद्भूषणात् प्रेक्षाभावः प्रसरति, याजका प्रहसन्ति । बहुधा भूषणं ग्राह्यम् । उष्णीषम्, राज्ञां त्रिवलिकिरीटम केशग्रन्थिम् ऋषीणां जटाम्, कर्णे नागकडारम्, लोलम्, प्रवर्तम्, वलयम, पैण्डं कुम्भं च रचय । कण्ठार्थं कुशच्छन्दः, स्वर्णनिस्पम्, रज्जुयुगलमिति, कट्यां मेखलाग्रन्थिम्, वस्त्रमाजानुलुलितम् । ऋषीणां कृष्णसारचर्मसूत्रम्, नारीणामङ्घ्रौ पञ्चवलयम, करे व्यालच्छदः, करतले रेखादीन्, दैवपक्षे शङ्खपद्मादिनिधिलक्षणं निधेहि । इन्द्रार्थं वपूष्णीषम््, पशुपत्यर्थं विष्कचर्म, व्यालोत्तरीयादि दैवभूषणं रचयेति । अलङ्कारदर्शनान्मानुषाः सर्वे प्रमुदिता भवन्ति ।

प्रतिमुचः रतिः प्रसरति ॥ ६.१५ ॥
 
रत्यास्तद्दर्शनं भवति । स एष रूपप्रज्ञया9 ब्रह्मसाक्षात्कार10 आनन्दमिति एवं वेदे।

करमुद्रा रूपस्य भावं ज्ञापयति ॥ ६.१६ ॥

शृणु रूपबोधे मुद्राङ्गसन्धाः । यज्ञकर्मणि दैवाङ्गे च यथा यज्ञकृत्ये’ होद्गीथाः करान् गाथाभिः सह प्रदर्शयन्ति प्रसारयन्ति सा मुद्रा । यज्ञस्य साधनमिति ।


8.हिरण्मये परे कोषे विरजं ब्रह्म निष्कलमिति न्यायेन ।
9.यथा नारदपरिव्राजकोपनिषदि उक्तम्-चक्षुषा रूपग्रह्णं श्रोत्रे शब्दग्रहणमित्यादि । अथर्ववेदे - रूपं रूपं वयोवय इत्याद्युक्तम् ।
10.तद् वै ब्रह्मणो रूपेऽमृतत्वं चैवामृतं च शतपथब्राह्मणे उक्तम् ।
 --------------------------------------------------------------------
त्रिभागस्य, ग, घ।
प्रमुुदन्ति, घ, ङ।
उष्णीषं बन्धने, ग।
पैण्डणिम्, ग, घ।
वृत्त्या, घ।

रूपे ता योजयन्ति रूपकाराः रूपेऽत्र न भेदः, यत्क्रिया रूपाङ्गे प्रतिफलिता भवति । मुट्रापञ्चकं श्रेष्ठम् । तर्जनीवराभययोगव्याख्यानमिति । यथोद्गीथाः सदस्या उत्तरारण्यामवरारणिचालने उदूखलप्रोक्षणे करौ प्रसारयन्ति । स्थण्डिलशोधने, कुशाण्डिके, पुरोडाशप्रोक्षणे व तन्मुद्रापञ्चकम् । तस्य प्रयोगं शृणु सौम्येति । अरणिमन्थने,-

ॐ अग्नये मथ्यमानायानुब्रूहीत्युच्चार्य अध्वर्युर्मन्त्रेणाङ्गुलिं प्रदर्शयति सा तर्जनिका मुद्रा रूपे सौम्येति । यथा उदूखले हविर्वैतानप्रसारणार्थं करान् प्रसारयन्ति उदूखलोपरि सा ध्वजमुद्रा रूपे सौम्येति । स्थण्डिलवीक्षणे यज्ञगाथागायने
ॐ यज्ञं ब्रूमो यजमानमृचः सामानि भेषजेति वाक्यमुच्चार्च्य ब्राह्मणा यथा वैश्वानरं प्रार्थयन्ति करसम्पुटेन साऽऽवाहनीति वरमुद्रा रूपे सौम्येति । प्रवरकर्मणि कुशाण्डिकाकाले दर्भकङ्कणं करे धृत्वा यथाऽऽचार्या वैश्वानरमुत्थापयन्ति करप्रदर्शनेन सा रूपेऽभयमुद्रा रूपे सौम्येति । एवं च वराभयमुद्रायुग्मस्म रूपस्य ब्रह्मक्षेत्रे ध्येयं, न जैवक्षेत्रे ( प्रवण) आभाति सा कोष्ठके । पुरोडाशाच्छादने यजमानं प्रति. पुरोडाशवत्सा सुदुघा लोकेऽस्मा उपतिष्ठतीत्याद्युच्चार्य्य यथा सदस्या एषा करान प्रदर्शयन्ति, हविष इत्यादिवाक्येन पुरोडाशस्विष्टकृते यजन्ति सा योगमुद्रा रूपे, व्याख्यानमुद्रापि रूपे सौम्येति । इति मुद्रापञ्चकं रूपे ध्येयम् ।
अथ श्रुणुत शिल्पाध्येतारः शिल्पे११ बाध्रसन्धाम् ।

बाध्रं बलं ज्ञापयति रूपे । । ६.१७ । ।

बाध्रमित्यायुधम्१२ । सर्वं तनुवत् । कौणपान प्रति देवाः क्षिपन्ति । तदाऽऽयुधस्थ मन्त्रबीजानि१३ ध्येयानि । मन्त्रहीनायुधं लोष्ट्रं भवति । तथा खोदनेऽपि मन्त्रम्14 उच्चारयन्ति स्थापकाः । तथाऽऽयुधस्य द्वादश बीजानि जानन्ति मन्त्रिणः । मन्त्रस्य सूक्ष्मनादो बीजमिति । तद्योगेन मन्त्रक्रिया प्रकटी भवति ।
इन्द्रस्यायुध वज्रः । ॐ वं वज्राय, वं बीजेन प्रोक्षन्ति सा संहारशक्तिरिति१५ । मरुतस्यायुधं ध्वजः । ॐ ध ध्वजाय, धंबीजेन प्रोक्षन्ति ।


११.कौषीतकिब्राह्मणे कलाविद्येत्युक्तम् । पिप्लादसंहितायाम् १ उक्तम ।
१२.अथर्ववेदे ( ६. १३३.२) मेखलाबन्धनप्रसङ्गे उक्तम आहुतास्यभिहुते ऋषीणामस्यायुधम् इति । परामित्रान्दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन्ये संग्रामस्येशते । अथर्व ०५. २१. ७ ( ग)
१३.आथर्वणीये आसुरकल्पे बीजमन्त्रस्य प्रयोग उक्तः ।
१४.वाग् वै मन्त्र इति शतपथे उक्तम । वाचा वै देवानां मन्त्र इति कौषीतकीये उक्तम । १५. संहारण वं इति पूर्वपाठशब्दस्य शक्तिरित्यर्थः ।


 ० मन्थने, घ ।
 तै.सं 6.3.5.3. श.ब्रा. 3.4.1.22
 अथर्व 11.6.14
' ० युक्ते ख ।



एषा धूनन१६ शक्तिरिति । यमस्यायुधं दण्डः । ॐ दुं दण्डाय, दुंबीजेन प्रोक्षन्ति । सा घातनशक्तिरिति । वरुणस्यायुधं पाशः । ॐ पं पाशाय. पंबीजेन प्रोक्षन्ति । साऽऽकर्षणी शक्तिरिति । ईशानस्यायुधं शूलम् । ॐ शुं शूलाय, शुंबीजेन प्रोक्षन्ति । सा भेदनशक्तिरिति । सोमस्यायुधं पात्रम् । ॐ पं पात्राय, पंबीजेन प्रोक्षन्ति । सा प्राणशक्तिरिति । वैश्वानरस्यायुधं स्रुक् । ॐ स्रुं स्रुवाय, स्रुंबीजेन प्रोक्षन्ति । सा त्यागशक्तिरिति । सूर्यस्यायुधं पद्मम् । ॐ पं पद्माय, पंबीजेन प्रोक्षन्ति । सा प्रह्लादिनी शक्तिरिति । अम्बाया आयुधं माला । ॐ मं मालायै, मंबीजेन प्रोक्षन्ति । सा ध्यानशक्तिरिति । विष्णोरायुधं चक्रम् । ॐ हुं चक्राय, हुंबीजेन प्रोक्षन्ति । सा माया शक्तिरिति । कुबेरस्यायुधं कुम्भः । ॐ कं कुम्भाय, कंबीजेन प्रोक्षन्ति । सा निधिशक्तिरिति । गणदैवतस्यायुधमङ्कुशः । ॐ अं अङ्कुशाय, अंबीजेन प्रोक्षन्ति । सा संयमशक्तिरिति ।
रीत्या नादयुक्तं रचयन्ति कारुकारा आयुधानि । नाद इति मन्त्रस्य रसः । स हि बीजमिति कृत्यं ज्ञेयम् । षोडशकोष्ठकेषु रूपस्य करसंयोगे नेमिस्पर्शनं ध्येयम ।
अथ वास्तूद्गीथान् प्रति कक्षासन्धां सौम्याननो वव्रे ( पिप्पलादः) ।
 
आसनषट्कं मुख्यम् । । ६.१८ । ।

आसन रूपस्य कृत्यं प्रकाशयति देहस्याकृतिः प्रकेतनमिति । उत्सर्गा चासीनः चेति भेदेन द्वे मुख्य इति । रूपाकले या उत्थितास्ता१८ उत्सर्गाः । रूपभेदे या आसीनास्ता आसिका इति ज्ञेयम् । यथा यज्ञे यज्ञकर्मणि तथा रूपप्रयोगे ग्रावणि च ।
आसनं षड्धा । यथा यजमानाः स्वशालायां दर्भासने उपविशन्ति तत सुखासन रूपे । यथाऽरणिमन्धने अग्निध्रा रज्जुं चालयन्ति तद् विषमासनं रूपे ।
यथा वेद्युपरि आचार्या उपविशन्ति तत् स्वस्तिकासनं रूपे । यथा सूत्रायणकाले रक्षाविधाने पिशङ्के सूत्रशङ्खले तद्बन्धनकाले ब्राह्मणा वसन्ति तद् योगासनं रूपे । यथा सवित्राराधने द्विजा उपविशन्ति तत कुक्कुटासनं रूपे । यथा होद्गीथा वाजसनेयसंहितोक्त सन्ध्योपासनकाले करौ प्राचीं प्रति प्रसारयन्ति तत् सौम्यासनं रूपे, इति प्रयोग । इति आसनषट्कं रूपे यज्ञे च ।


१६.कम्पनमित्यर्थः ।
१७.प्रज्ञा इत्यर्थः ।
१८दण्डायमाना मूर्तिरित्यर्थः ।


-निर्यास, ख, घ, ङ । चासिका, ग
इत्याधिकपाठः ।
-कृत्ये क ।

पप्रच्छुराङ्गिरस - शिल्पकाश्यपादिश्रोतारो भगवन्तः किमर्थमासने भेदा जायन्ते, कथमुपवेशनार्थमेतद् ध्येयमिति । इत्यगम्यरूपबोधार्थं तेषां काः सन्धा प्रवदन्तु श्रद्धया सौम्याः ।
आसनाद्रूपस्य कृत्यभावं प्रचक्षते । सुखासनं रूपस्य शान्तभावं प्रददाति । विषमासनं वैरभावं क्षेपण- क्रियादि प्रकटयति । स्वस्तिकासनं प्राज्ञभावं प्रकटयति, योगासनं ब्रह्मानुभूतिमात्मानुभूतिभावं च विज्ञापयति । कुक्कुटासनमुद्ग्रीवभावं प्रकाशयति । सौम्यासनं स्थैर्यं प्रददाति । रूपाकलार्थमेतद् ध्येयम । सर्वे शिल्पाचार्या ब्रह्मक्षेत्रे षोडशकोष्ठकान्तराले नेमिमध्ये रूपान्वये एतदाचरन्ति ।
शृणुत प्रियङ्करश्रोतारः, रूपाकले दैववाहनस्य१९ सन्धाः । वाहनानि रूपस्य गुणान् प्रकाशयन्ति विज्ञापयन्ति ।

गुणानुसृतं रूपत्रयम् । । ६.१९। ।

सत्त्वात् सात्त्विकानि रजसो राजसानि तमसस्तामसानीति भेदाः । यानि रूपाणि सायुज्यं प्रददति तानि सात्त्विकरूपाणि । यानि कायसुखप्रदायकानि तानि राजसानि । यानि रूपाण्यरिं प्रति मृत्युप्रदानि तानि तामसानि२० । गुणानुक्रमेण वास्तुवेदस्य रूपविद्या इति व्याख्यानम् । य एनां वेद । शृणु वाहनस्वरूपम्-

वाहनं रूपस्य प्रकृतिज्ञापकविशेषः । । ६.२० । ।

यथा इन्द्रो२१ दिग्गजानाकर्षति । पर्जन्यं वर्षयति । तथाऽऽकर्षणात्मकम् ऐरावतमारोहति । यथा यमो जीवस्य प्राणानाकर्षति, तथा घोरमहिषम्२२ आरोहति । यथा वैश्वानरो याज्ञिकैर्दीप्तो भवति, तथा मेषम्२३ आरोहति । यथा एकायने सविता भ्रमति सप्ततन्तुस्तथैकरथाङ्गाढ्यरथम्२४ आरोहति ।


१९.ऐतरेये यथोक्तवाहनरूपस्य रूपविशेष ।
२०.शतपथे छान्दोग्ये चोक्तः - एष क्रमः एषा देवयजनविद्या । आत्मानन्देन यजनोपायेन त्रयस्त्रिंशद् देवताः तार्क्ष्ये ब्राह्मणे उक्ताः ।
२१.बृहद्धि जालं बृहतः शक्रस्य वाजिनीवत इति अथर्व० ८ .८ .६
२२.प्राणो वै महिष इति शतपथे उक्तम ।
२३. मेष इव वै सं च वि चोर्वच्यसे इति । अथर्व० ६. ४९.२ ।
२४. सूर्यस्य वा एक रश्मिर्वृष्टिदं इति शतपथे उक्तम् । स सविता रथेनेति ।


देहस्य, ख, ग ।
स्थैर्यभावं प्रकाशयति ग ।
Sutra only found in the list of Sutras in क
आकर्षयति ख ग ।
आकर्षयति, ख ग ।

यथा रुद्रो धर्मं सञ्चारयति तथा धर्मवृषभम्२५ आरोहति । यथा प्रजापतिर्ज्ञानेन प्रजा आकर्षति तथा हंसम् आरोहति । यथा विष्णुर्मोक्षं प्रददाति तथा सुपर्णम्२७ आरोहति । यथाऽम्बा [ रिपुवर्गं नाशयति तथा द्वीपिनम२८ आरोहति ।
वाहनानि षोडशकोष्ठके जैवक्षेत्रे ध्येयानि । रूपे ब्रह्मक्षेत्रस्य निम्ने. अधोऽन्यच्च श्रेयः । आशृणु उपदैवतस्य२९ सन्धाः । सौम्य पिप्पलादो वव्रे ।

उपदैवतं प्रतिरूपमिति । । ६.२१ । ।

प्रजापतेरेते सर्वे देवा इमानि पञ्च महाभूतानि तद्गुणा पृथिवीवाय्वाकाशाब्ज्योतिरित्येतानि जायन्त इति । तद्भूत ज्ञानात् स्वस्वगुणभावरूप इव प्रचक्षते । तद्भूतज्ञानादुपदैवतभावाः सन्ति ।
यथा वैश्वानर३० इति ब्रह्म । स यज्ञः । यज्ञस्य दाहिका शक्तिः स्वाहा । पचनात्मिका स्वधा३२ । इत्थमुपदैवभावः प्रथितः प्रसरति तत्सपर्या- यामिन्द्रस्य प्रजननशक्तिरिन्द्राणी३३ । मारुतस्य वेगिनी शक्तिर्वायुनायी सा द्रुता । यमस्य द्वौ गुणौ, पालिकाऽवनाशिकेति । तस्य पालिका शक्तिः आकूतिः३४, अवनाशिका मृत्युरिति३५ । वरुणस्य प्रवाहिका शक्तिर्वारुणी३८ । सोमस्य धारिका शक्तिरिलेति३७ । सूर्यस्य सवितुरवलम्बिनी शक्तिश्छाया३८ ।


२५.वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ इति । अथर्व० ११. १.३५ ।
२६. हंसेति शब्दार्थः सर्वेषु देहेषु व्याप्तो वर्तते इति हंसोपनिषदि उक्तम् ।
२७.द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते इति । ऋ०. १. १६४.२० अथर्व० ९.९.२० ।
२८.एना व्याघ्र परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय इति । अथर्व० ४. ८.७ ।
२९.वास्तुवेदे इदमुपदैवतं प्रतिरूपमित्यर्थः । प्रतिरूपं शतपथब्राह्मणे एकादशकाण्डे उक्तम्। तेषां चर्य्या जैमिनयिब्राह्मणे-प्रत्यङ्गं ह्येष सर्वाणि रूपाणि य आदित्यः स प्रतिरूपमित्युक्तः
३०.वैश्वानरो वै सर्वेऽग्नय इति शतपथे उक्तम् ।
३१. असौ वैश्वानरो योऽ सौ तपति ( पचति) इति शतपथे ।
३२.पुरुषे येनेदमन्नं पच्यते इति शतपथे उक्तम् ।
३३. सेन्द्रस्य पत्नीति गोभिलगृह्यसूत्रे उक्तम् ।
३४ जीवस्याऽ वयवात्मिका ।
३५. अग्निर्वै मृत्युरिति कौषीतकि ब्राह्मणे मृत्युर्वै तस्य शतपथे च ।
३६. ऐतरेये वारुणी रात्रिरिति उक्तम् ।
३७. इला वै अन्नमिति अथर्ववेदे उक्तम् ।
३८. तमश्छाया।


आकर्षयति ख ग । प्रजापतिः प्राणान् सञ्चारयति ग । अपवर्गं क ख ग ङ ।
Sutra only found in the list of sutras in क
अधिकपाठः क ।
अग्नेरिति युक्तम् ।
'ग्रथितः ।
इन्द्रायणी क ख ग घ ।
Possibly it has the influence of अग्नायी.



साऽ ऽ वेशिनी शक्तिरुषा३९ । विष्णोर्मुक्तिप्रदा श्रीशक्तिः४० हिरण्यवर्णा हरिणी धारिणी शक्तिः पृथिवी४१ । शेषस्य सहना शक्तिः शक्तिः धृतिर्व्यापिनी विधृतिः यथा क्षमाऽन्नधृतिरिति । विधृतिः सौख्यमिति। हिरण्यगर्भस्य कालात्मिका० शक्तिः । गायत्री ज्ञानरूपा, सावित्री४३ मेधारूपा. सरस्वती४४ प्रज्ञारूपा देवी विशिष्टा त्रिकालरूपा च । राष्ट्रया४५ रुद्रेति० । तस्य प्रजननशक्तिरम्बा४६
ऽम्बालिका४७ चेति द्वे । दुर्गाया रक्षणशक्तिः सुन्दरी मोहिनी चेति द्वे आकर्षणरूपे । एतत्क्रमे दैवगुणस्यानुकमे उपदैवतानि जायाभावेन जायन्ते । तदेतल्लक्षणानि ।
अथ प्रतिकीर्णमाथर्वणाङ्गिरसशिल्पकाश्यप कुवित्स - कोशलादयः प्रणम्य पप्रच्छुः भगवन्तः पिप्पलादा दिव्यपुरुषाः कथं का हेतय इत्यबोध्यमिति विशदेन ब्रुवन्तु सौम्याः । दिव्यपुरुषपिप्पलादो वव्रे । शिल्पोद्गीथाः शृणुत वक्ष्यामो विस्तरेण अपसार्थममुथ उपरूपाकलस्यानुशासनं पूर्वं वेदेन यथोक्तम ।
प्रजापतिरसृजत् कालम । दक्षिणोत्तरौ द्वौ । उत्तराद्देवा दक्षिणात् पितरः । उत्तरात्सविता दक्षिणाच्चन्द्रमाः । प्रतिकाममृषयो दक्षिणं प्रतिपादयन्ति । तत् पितृयानं रात्रिरिति । ब्रह्मचारिणो मोक्षकामा उत्तर प्रतिपादयन्ति । तद्धि देवयानं दिवम । दक्षिणादर्यमलोकाः पञ्चपादपितरः४८ । उत्तराद्द्वादशाकृतिदिवमाहुः । एतन्न्याये गुणेनैकं ब्रह्म द्वादशधा भवति । तथा हि सूर्यो ज्योतिषां पतिरिति गुणानुसूतेर्देवस्तल्लक्षणानुसूते रूपाणि, ततः प्रतिरूपाणि जायन्ते । एतत्सत्यम् ।
यथा यज्ञात् त्याग४९ इति मुख्यम् । दैवभावे तत्स्वाहा५० । त्यागवृत्तिरिति


३९उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना इति अथर्ववेदे उक्तम ।
४० द्यौरित्यर्थः । भूतभविष्यदभीष्टवीर्या लक्ष्मीर्बलमिति अथर्ववेदे उक्तम ।
४१. सेयं देवानां पत्नीति शतपथे उक्तम ।
४२ तेजसा वै गायत्री प्रथममिति ताण्ड्यब्राह्मणे ।
४३ वाक् सावित्रीति गोपथब्राह्मणे उक्तम् ।
४४ सारस्वतरूपम् ऐतरेये उक्तम ।
४५.सविता राष्ट्रं राष्ट्रपतिरिति शतपथे च ११.४.३.१४ ।
४६ अम्बा अथर्ववेदे उक्ता ।
४७. भेषजरूपा अम्बालिकेति वाजसनेये उक्ता ।
४८. देवाः पितरः पितरो देवा । यो अस्मि सो अस्मि० अथर्व० ६. १२३.३ काण्डे । स विश्वेदेवा तथा पितर उपदेवा वसुपितर रुद्रपितामह आदित्य प्रपितामह इति पितृयूप प्रोत्थानमन्त्राणि २४ सूक्तोक्तं च ।
४९मुञ्चताहंसोअंहस इति वदन्ति । अथर्व० १. ३१. २ । ये दक्षिणतो जुहूति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् इति त्यागः । अथर्व० ४.४०.२ । इन्द्रासोमा तपतं रक्ष इति वदन्ति । अथर्व० ८. ४. १ । विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि इति भोगः अथर्व ० ८.३.२३ ।
५०. स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहितेति । शतपथे उक्तम ।


०धात्री व्यापिनीशक्तिः विधात्री ख ग घ ।
०कलात्मका ग ।
०सवितुमिति क ।



स्वाहा । भोग्यमिति स्वधा, इद पितृभावः ।
यथा विष्णुर्मोक्षं ददाति । मोक्ष इति श्रीः । भोग्यरूपेण पृथिवी० भोग्या५१ । यथा रुद्रस्य मोक्षगुणादम्बा, भोगवृत्याऽम्बालिकेति द्वे । यथेन्द्रस्य त्यागवृत्त्या यज्ञाः, भोगवृत्त्येन्द्राणीति । यदा गुणा बहुधा उपवृत्त्या ( तदा) बहुधा प्रतिरूपाणि भवन्तीति परिपश्यन्ति धीराः ।
यथा वैश्वानरस्य सप्त वृत्तय० उत्थानाद् विलयान्तं प्रवदन्ते । क्रमेण ताः स्निग्धा, धूम्रा, तप्ता, उत्तप्ता, दाहिका, भस्मा, निर्वाणेति । एतत्क्रमेणाग्निस्तपति । तद्गुणात् सप्त जिह्वा जायन्ते । जिह्वायाः प्रतिरूपाणि कल्पयन्ति । ( पूर्वक्रमेण) काली, कराली, मनोजवा , सुलोहिता, सुधूम्रवर्णा, स्फुलिङ्गिनी, विश्वरुची इत्येताः सर्वाः स्त्रीरूपाः रूपभावे ग्राह्याः ।
यथा श्रुतिरिति महती । सा मेधारूपेण भारती सम्भवति । मेधाया यथा वाणी प्रभवति तथा श्रुतेर्महती महीयसी सरस्वती५२ जायते पराविद्याया रूपा । तत्तदाकारात्मिकाः पुष्टिभावेन लक्ष्मीदेवहूत्यादयः । एताः सर्वाः षोडशक्षेत्रस्थ द्विपार्श्वे दैवक्षेत्रे तत्तद्रूपस्य जायाभावेनोपदेवतानीति सत्यं ध्येयम् - रूपकारा वास्तूद्गीथाः ।

उपदैवताद्रूपज्ञानं प्रसरति । । ६.२२ । ।

सपर्यया भूतविद्याः५३ प्रशम्यन्ति ।

अरिसन्धा ध्येया । । ६.२३ । ।

रूपधाराया वृत्तिरिति श्रेष्ठा । । ६.२४ । ।

अथ रूपधारायाः शृणु वृत्तिभेदान् । यथा वृत्त्याः परिणामः । प्राजापत्य प्रथम - वृत्तिर्मनः५४ । मनसो वृत्तिः प्राणः५५ । प्राणस्य वृत्तिः क्रिया । क्रिया० हि विद्या५६ । सा द्विविधा कथयन्ति ऋषयः । सदसद्विद्येयम । या ऋतस्य धारा सा दैवक्रिया । सा परा विद्या । या अनृता सा अक्रिया । सा अदैवा अपरेति । तदपराज्ञानादसुराः । अहर्देवा आश्रयन्ते रात्रिमसुराः५७ ।
एतेन विष्णोः श्रीदेवी भूदेवीति वृत्तिद्वयं सूचितम् ।


५२सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात ।। अथर्व० १८. ४. ४५ ।
५३लौकिक सिद्ध्यर्थे या विद्या सा भूतविद्या घ ।
५४मन इव हि प्रजापतिः तैत्तिरीयब्राहाणे उक्तम । ( २. २. १. २)
५५प्राणो वै हरिः स हि हरतीति । कौषीतकिब्राह्मणम् ( १७. १) ।
५६यन्नाम चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । ( अथर्व० ६. ११६. १) ।
५७. गोभिलगृह्यसूत्रे उक्तम्।


०वसुन्धरा ग घ।
०गुणाः ग ।
०क्रिया विविधा इति, ग


येषां भयशोकाः सन्ति, यथा निकन्दिनः०, कण्वजम्भाः, यातुधानाः, पृश्निपर्ण्यादयोऽवयोनयो गुणानुभेदेनैते सर्वेऽन्यार्थघातकाः सर्वेऽ रिणो देवे च लोके यज्ञं घातयन्ति । एते सर्वे शलभक्षका बीभत्सरूपाः कोकमुखा रुक्षग्रीवाः शिमिजाः५८ । सर्वे वैराज्यकिम्पुरुषाः क्रुधा दैवघातकाः । एतानरीन् षोडशकोष्ठकरूपक्षेत्रे मर्दितरूपेण जैवक्षेत्रे आचरन्ति प्रतिरूपचर्यायाम । एते शलभक्षिणो देवानां भयदा भवन्ति । एतैस्तेषां दुःखम । यज्ञात् तरन्ति । एतदर्थं केचिद्वा ऋषीन् ध्यायन्ति देवाः । देवयजनान्मुनयो मनस्विनो भवन्ति । दैवभावेन देवार्थं होतारोऽन्नसमिधः क्षिपन्ति वैश्वानरे । ऋषयः स्तोतारो भवन्ति ।

स्तोतॄणां० रूपे सुभगविशेषः५९। । ६.२५ । ।

गाथाः६० पठन्ति । जना यजन्ति बहुधा रूपं सर्वक्रियाधारः मनुष्यलोके रूपविद्या । नादः सत्यमिति ध्येयम । रूपं चरन्ति वास्तुवेदिनः स्थापका वास्तूद्गीथाः । स्तोतॄणां बहुधा पैलो नालन्दिनोऽप्सरसो देवान् मोदयन्ति मोदकाः ।
कायमनोवाक्येन गायन्ति ते स्तुवका भ्राजिनः । यक्षा गायन्ति गाथाः । गन्धर्वा६१ देवानन्दार्थं नृत्यन्ति । सर्वे मिश्रयोनयः षोडशकोष्ठकक्षेत्रे ऊर्ध्व०कोणगतक्षेत्रे निधेयाः उपदैवक्षेत्रे ।
ये नरा दैवभावपरायणास्ते याजका । ध्याने तेषां सत्ता दिव्येव विभाति । तान् जैवक्षेत्रस्य पार्श्वगतक्षेत्रे अधः क्षेत्रद्वये न्यसेत् । एवं दैवरूपं षोडशकोष्ठके ध्येयम् । ते तु धन्या ये क्रतूँश्च यज्ञानाचरन्ति उपासन्ते रूपाणि । रूपज्ञानाद् प्रज्ञा० प्रभवति लोके ।

प्रज्ञार्थमेतद् वास्तुपाख्यानम् । । ६.२६ । ।

एतदर्थं प्रज्ञां व्याख्यापयाम इति । वास्तुसूत्रोपनिषद् भगवतः पिप्पलादस्य भव्यं व्याख्यानम । यो जानाति स रूपाचार्यो भवतीति वास्तूद्गाता इति ध्येयम् । ये ध्यायन्ति ते मुक्ताः । परमऋषिभ्यो नमः ।



५८शिमिकर्म, तज्जाताः ।
५९स्तोतुर्यो वचः शृणवद्धवं व मे इति ।। ( अथर्व० ६. २. १)
६०.कुन्तापसूक्तादयः खिलपाठाः । यथा शुनःशेपस्य शतगाथा इति ।
६१.योषित्कामा गन्धर्वा गन्धेन वै रूपेण चरन्तीति शतपथे उक्तम ।


०निकन्दाः ग ।
०स्तावकः व ।
०तिर्यक ग ।
०यज्ञः क ।
०ॐ । ख ग घ ।




स्तुता मया वरदा वेदमाता
प्र चोदयन्तां पावमानी द्विजानाम् ।
आयुः प्राणं प्रजां पशुं कीर्तिः द्रविणं ब्रह्मवर्चसम् ।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् । ।
( अथर्व० १९.७१.१)
इति ॐ नमो विश्वकर्मणे ।
ॐ विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन क्रमे तस्मिंछ्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा । । इति
( अथर्व० १९. १७. ७)
इति षष्ठप्रपाठकः समाप्तः ।
परमऋषिभ्यो नमः । परमऋषिभ्यो नमः ।
सम्पूर्णेयं वास्तुकर्मावतारपिप्पलादस्य आथर्वणीय - वास्तुसूत्रोपनिषत् । उड्रदेशिकेन आथर्वणोद्गात्रा सोमभट्टेन कृता परिशुद्धिटिप्पणी समाप्ता ।

प्रासादविग्रहादिषु ।


पुष्पिका (COLOPHON)

इदम् आथर्वणीय वास्तुसूत्रोपनिषद् अथर्वणाचार्यसोमभट्टेन कृत विषयबोधिनिटिप्पणी समेत लिखितं मया बांकी कुरुमचइनि ग्रामवासिना वास्तुशास्त्रि कामदेव उद्गाथा श्री रामचन्द्रदेव भूपालस्य पञ्चदशाङ्के राजा हरिचन्दन नृपार्थ । ॐ नमो महादेव्यै । ।