तृतीयोऽध्यायः।

पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम्।
ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत्॥३.०१॥

सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम्।
सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम्॥३.०२॥

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम्।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम्॥३.०३॥

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम्।
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी॥३.०४॥

न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम्।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित्॥३.०५॥

न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम्।
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा॥३.०६॥

न देहं न मुखं घ्राणं न जिह्वा न च तालुनी।
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च॥३.०७॥

न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम्।
न दूरं नान्तिकं नाहं नोदरं न किरीटकम्॥३.०८॥

न हस्तपादचलनं न शास्त्रं न च शासनम्।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः॥३.०९॥

तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम्।
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम्॥३.१०॥

न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः।
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम्॥३.११॥

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा।
न पीनं न कृशं क्लेदं न कालं देशभाषणम्॥३.१२॥

न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः।
न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम्॥३.१३॥

न पक्षी न मृगो नागी न लोभो मोह एव च।
न मदो न च मात्सर्यं कामक्रोधादयस्तथा॥३.१४॥

न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत्।
न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि॥३.१५॥

न लौकिको न लोकोवा न व्यापारो न मूढता।
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम्॥३.१६॥

न शत्रुमित्रपुत्रादि न माता न पिता स्वसा|
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः॥३.१७॥

न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः।
न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः॥३.१८॥

न वारपक्षमासादि वत्सरं न च चञ्चलम्।
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः॥३.१९॥

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः।
न यमो न यमलोको वा न लोका लोकपालकाः॥३.२०॥

न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं।
नाविद्या न च विद्या च न माया प्रकृतिर्न च॥३.२१॥

न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम्।
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित्॥३.२२॥

न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं।
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम्॥३.२३॥

न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि।
न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम्॥३.२४॥

न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम्।
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः॥३.२५॥

न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः।
न दुस्सहं दुरालापं न किरातो न कैतवम्॥३.२६॥

न पक्षपातं पक्षं वा न विभूषणतस्करौ।
न च डंभो डांभिको वा न हीनो नाधिको नरः॥३.२७॥

नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता।
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः॥३.२८॥

न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता।
न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका॥३.२९॥

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः॥३.३०॥

एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः॥३.३१॥

ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु॥३.३२॥

आत्मा निषेधरूपेण तुभ्यं संप्रतिपादितः।
अथाद्य विधिरूपेण शृणु संप्रतिपाद्यते॥३.३३॥

सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम्॥३.३४॥

ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा।
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम्॥३.३५॥

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम्॥३.३६॥

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः॥३.३७॥

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम्॥३.३८॥

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम्॥३.३९॥

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम्।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः॥३.४०॥

लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम्॥३.४१॥

जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम्।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत्॥३.४२॥

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम्॥३.४३॥

नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत्॥३.४४॥

अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम्।
अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः॥३.४५॥

अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम्।
अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम्॥३.४६॥

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम्।
आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन॥३.४७॥

चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम्।
अहमेव जगत्सर्वमहमेव परंपदम्॥३.४८॥

अहमेव गुणातीतोस्म्यहमेव परात्परः।
अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः॥३.४९॥

अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम्।
आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च॥३.५०॥

आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत्।
आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि॥३.५१॥

आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत्।
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि॥३.५२॥

ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम्।
ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम्॥३.५३॥

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम्।
ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन॥३.५४॥

ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि।
ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि॥३.५५॥

ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः।
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित्॥३.५६॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन।
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः॥३.५७॥

यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः।
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि॥३.५८॥

कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम्।
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम्॥३.५९॥

कालभेदं देशभेदं वस्तुभेदं जयाजयम्।
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम्॥३.६०॥

असदन्तःकरणमसदेवेन्द्रियादिकम्।
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम्॥३.६१॥

असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः।
असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम्॥३.६२॥

असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा।
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः॥३.६३॥

सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत्।
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः॥३.६४॥

सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः।
अहमेव परानन्दोऽस्म्यहमेव परात्परः॥३.६५॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः॥३.६६॥

येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः।
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते॥३.६७॥

ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि।
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम्॥३.६८॥

यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति।
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति॥३.६९॥

ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि।
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात्॥३.७०॥

ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा।
दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः॥३.७१॥

ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम्।
प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत्॥३.७२॥

प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः।
प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते॥३.७३॥

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः।
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते॥३.७४॥

प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम्।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः॥३.७५॥

प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम्।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय॥३.७६॥

प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय॥३.७७॥

न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय॥३.७८॥

सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम्।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम्॥३.७९॥

जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम्।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः॥३.८०॥

ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः॥३.८१॥

ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम्।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम्॥३.८२॥

ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम्।
ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः॥३.८३॥

तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय॥३.८४॥

अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः॥३.८५॥

अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः॥३.८६॥

यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः।
त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः॥३.८७॥

अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम्।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम्॥३.८८॥

जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः।
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः॥३.८९॥

दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः।
विवेकेन परं सौख्यं निदाघ व्रज सन्ततम्॥३.९०॥

॥इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं
श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः॥

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. ऋभुगीता
    1. ऋभुगीता १
    2. ऋभुगीता २
    3. ऋभुगीता ३
    4. ऋभुगीता ४
  2. गीता

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=ऋभुगीता_३&oldid=46989" इत्यस्माद् प्रतिप्राप्तम्