चतुर्थोऽध्यायः।

पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम्।
तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात्॥४.०१॥

ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः॥४.०२॥

नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत्।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम्॥४.०३॥

यतो वचो निवर्तन्ते अप्राप्य मनसा सह।
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः॥४.०४॥

सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम्।
आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं॥४.०५॥

[श्री गुरुमूर्तिः]
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः।
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा॥४.०६॥

[निदाघः]
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः।
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते॥४.०७॥

आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि।
श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः॥४.०८॥

नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते।
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत्॥४.०९॥

एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना।
ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात्॥४.१०॥

ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम्।
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत्॥४.११॥

पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत्।
श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु॥४.१२॥

उपसंक्रमितव्यो यदानन्दमय उच्यते।
वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः॥४.१३॥

तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः।
आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः॥४.१४॥

भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ।
पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु॥४.१५॥

मयट्प्रयोगाभावेन हेतुना निर्विकारता।
न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात्॥४.१६॥

अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम्।
निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय॥४.१७॥

प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः।
सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत्॥४.१८॥

शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु।
विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च॥४.१९॥

नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते।
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात्॥४.२०॥

उपसंक्रमणं चोक्तं मयडन्तस्य केवलम्।
आनन्दस्य ततोन्यस्य न परात्मतया खलु॥४.२१॥

ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम्।
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु॥४.२२॥

आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने।
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते॥४.२३॥

प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च।
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम्॥४.२४॥

तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः।
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते॥४.२५॥

मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत्।
इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः॥४.२६॥

ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः।
उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते॥४.२७॥

स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः।
तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि॥४.२८॥

न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम्।
स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम्॥४.२९॥

सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते।
अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु॥४.३०॥

एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः।
जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम्॥४.३१॥

आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका।
तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका॥४.३२॥

आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः।
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः॥४.३३॥

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः॥४.३४॥

दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः।
आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः॥४.३५॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक्।
आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च॥४.३६॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्।
आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च॥४.३७॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥४.३८॥

प्रभवस्सर्वभावानां सतामिति विनिश्चयः।
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक्॥४.३९॥

विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः।
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता॥४.४०॥

इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥४.४१॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे।
देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा॥४.४२॥

आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत।
स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः॥४.४३॥

नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं।
न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम्॥४.४४॥

इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम्।
अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया॥४.४५॥

एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं।
शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः॥४.४६॥

स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः।
तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन॥४.४७॥

निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः।
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः॥४.४८॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः॥४.४९॥

नात्मानं न परं चैव न सत्यं नापिचनृतं।
प्राज्ञः किंच न संवेत्ति तुर्यं तत्सर्वदृक्सदा॥४.५०॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः।
बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते॥४.५१॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः॥४.५२॥

अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते॥४.५३॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते।
अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा॥४.५४॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥४.५५॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित्।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥४.५६॥

[निदाघः]
भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः।
भवतोभिमतं तत्र संशयो मे भवत्यलम्॥४.५७॥

[ऋभुः]
द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने।
ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा॥४.५८॥

अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः।
ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः॥४.५९॥

द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे।
नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत्॥४.६०॥

द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात्।
निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः॥४.६१॥

अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम।
अरूपागोचरब्रह्मवादिनां तादृशे मते॥४.६२॥

चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम्।
नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम्॥४.६३॥

यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति।
तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः॥४.६४॥

वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते।
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने॥४.६५॥

[निदाघः]
देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते।
तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः॥४.६६॥

ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत्।
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक॥४.६७॥

[ऋभुः]
अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि।
तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति॥४.६८॥

तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति।
रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः॥४.६९॥

योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा।
शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः॥४.७०॥

अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः।
याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि॥४.७१॥

तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः।
सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये॥४.७२॥

जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै।
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः॥४.७३॥

सुषुप्तौ कारणं देहमानन्दमयकोशकम्।
तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम्॥४.७४॥

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम्।
स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति॥४.७५॥

स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके।
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति॥४.७६॥

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः।
पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम्॥४.७७॥

आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च।
यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं॥४.७८॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च।
खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी॥४.७९॥

यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत्।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत्॥४.८०॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते।
तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते॥४.८१॥

त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत्।
तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः॥४.८२॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्।
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम्॥४.८३॥

अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम्।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि॥४.८४॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः।
अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं॥४.८५॥

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम्।
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति॥४.८६॥

न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च।
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम्॥४.८७॥

अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम्।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम्॥४.८८॥

[श्री गुरुमूर्तिः]
एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः।
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे॥४.८९॥

यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात्।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत्॥४.९०॥

॥इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं
श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः॥

॥ॐ तत्सत्॥

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. ऋभुगीता
    1. ऋभुगीता १
    2. ऋभुगीता २
    3. ऋभुगीता ३
    4. ऋभुगीता ४
  2. गीता

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=ऋभुगीता_४&oldid=46991" इत्यस्माद् प्रतिप्राप्तम्