प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २ ऐतरेय आरण्यकम्
अध्यायः ३
अध्यायः ४ →


हिङ्कारेणैतदहः प्रतिपद्येतेत्याहुः, इति । ब्रह्म वै हिंकारो ब्रह्मैव तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते य एवं वेद, इति । यदेव हिंकारेण प्रतिपद्यता३इ वृषा वै हिंकारो योषर्क्तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद, इति । यद्वेव हिंकारेण प्रतिपद्यता३इ यथा वा अभ्रिरेवं ब्रह्मणो हिंकारो यद्वै किंचाभ्रियाऽभितितृत्सत्यभ्येवैनत्तृणत्त्येवम्, इति । यं कामं कामयते हिंकारेणाभ्येवैनं तृणत्ति य एवं वेद, इति । यद्वेव हिंकारेण प्रतिपद्यता३इ वाचो वा एषा व्यावृत्तिर्दैव्यं च मानुष्ये च यद्धिंकारः स यद्धिंकृत्य प्रतिपद्यते वाचमेव तद्व्यावर्तयति दैवीं च मानुषीं च, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये प्रथमः खण्डः ।। १.३.१ ।। ( ९)


तदाहुः कैतस्याह्नः प्रतिपदिति मनश्च वाक्चेति ब्रूयात्, इति । सर्वेऽन्यस्मिन्कामाः श्रिताः सर्वानन्यान्कामान्दुहे, इति । मनसि वै सर्वे कामाः श्रिता मनसा हि सर्वान्कामान्ध्यायति, इति । सर्वे हास्मिन्कामाः श्रयन्ते य एवं वेद, इति । वाग्वै सर्वान्कामान्दुहे वाचा हि सर्वान्कामान्वदति, इति । सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद, इति । तदाहुर्नैतदहर्ऋचा न यजुषा न साम्ना प्रत्यक्षात्प्रति.पद्येत नर्चो न यजुषो न साम्न इयादिति, इति । तदेता व्याहृतीः पुरस्ताज्जपेत्, इति । भूर्भुवः स्वरित्येता वाव व्याहृतय इमे त्रयो वेदा भूरित्येव ऋग्वेदो भुव इति यजुर्वेदः स्वरिति सामवेदस्तन्नर्चा न यजुषा न साम्ना प्रत्यक्षात्प्रतिपद्यते नर्चो न यजुषो न साम्न एति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। १.३.२ ।। ( १०)


तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिप्रतिपद्यते, इति । एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरद्व्यक्षरां ततेति तातेति तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्य क्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते, इति । तदुक्तमृषिणा, इति । बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रम् इति । यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते, इति । यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमैतदरिप्रम्, इति । प्रेणा तदेषां निहितं गुहाऽऽविरितदिमु ह गुहाऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ।। १.३.३ ।। ( ११)


तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यत एतद्वाव भुवनेषु ज्येष्ठम्, इति । यतो जज्ञ उग्रस्त्वेष नृम्ण इत्यतो ह्येष जात उग्रस्त्वेष नृम्णः, इति । सद्यो जज्ञानो निरिणाति शत्रूनिति सद्यो ह्येष जातः पाप्मानमपाहत, इति । अनु यं विश्वे मदन्त्यूमा इति भूतानि वै विश्व ऊमास्त एनमनु मदन्त्युदगादुदगादिति, इति । वावृधानः शवसा भूर्योजा इत्येष वै वावृधानः शवसा भूर्योजा इति, इति । शत्रुर्दासाय भियसं दधाति, इति । अव्यनच्च व्यनच्च सस्नीति यच्च प्राणि यच्चाप्राणकमित्येव तदाह, इति । सं ते नवन्त प्रभृता मदेष्विति तव सर्वं वश इत्येव तदाह, इति । त्वे क्रतुमपि बृञ्जन्ति विश्व इति त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह, इति । द्विर्यदेते त्रिर्भवन्त्यूमा इति द्वौ वै सन्तौ मिथुनौ प्रजायेते प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । स्वादोः स्वादीयः स्वादुना सृजा समिति मिथुनं वै स्वादु प्रजा स्वादु मिथुनेनैव तत्प्रजां संसृजति, इति । अदः सुमधु मधुनाऽभियोधीरिति मिथुनं वै मधु प्रजा मधु मिथुनेनैव तत्प्रजामभियुध्यति, इति । तदुक्तमृषिणा स्वां यत्तनूं तन्वामैरयतेत्यस्यां शारीर्यामिमां छन्दोमयीमित्येव तदाह इति । तनूरेव तन्वो अस्तु भेषजमित्यस्यै शारीर्या इयं छन्दोमयीत्येव तदाह, इति । तस्यै यान्यष्टावक्षराणि सा गायत्री यान्येकादश सा त्रिष्टुब्यानि द्वादश सा जगत्यथ यानि दश सा विराड्दशिन्येषु त्रिषु च्छन्दःसु प्रतिष्ठिता, इति । पुरुष इति त्र्यक्षरं स उ विराजि, इति । एतानि वाव सर्वाणि च्छन्दांसि यान्येतानि विराट् चतुर्थान्येवमु हैवैवं विदुष एतदहः सर्वैश्छन्दोभिः प्रतिपन्नं भवति, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ।। १.३.४ ।। ( १२)


ता नदेन विहरति पुरुषो वै नदस्तस्मात्पुरुषो वदन्त्सर्वः संनदतीव, इति । नदं व ओदतीनामितीँ३ आपो वा ओदत्यो या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति । नदं योयुवतीनामिती३ आपो वाव योयुवत्यो या अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयुवत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति । पतिं वो अघ्न्यानामितीँ३ आपो वा अघ्न्या या अग्नेर्धूमाज्जायन्त आपो वा अघ्न्या याः शिश्नात्प्रसृज्यन्ते, इति । धेनूनामिषुध्यसीतीँ३ आपो वाव धेनवस्ता हीदं सर्व धिन्वन्तीषुध्यसीति यदाह पतीयसीत्येव तदाह, इति । त्रिष्टुभं चानुष्टुभं च विहरति वृषा वै त्रिष्टुब्योषाऽनुष्टुप्तन्मिथुनं तस्मादपि पुरुषो जायां वित्त्वा कृस्नतरमिवाऽऽत्मानं मन्यते, इति । तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ।। १.३.५ ।। ( १३)


तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिप्रतिपद्यत एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरद्व्यक्षरा ततेति तातेति तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते तदुक्तमृषिणा बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रं प्रेणा तदेषां निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति,इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ।। १.३.६ ।। ( १४)


तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यते यद्वै ज्येष्ठं तन्महन्महद्वद्रूपसमृद्धमेतस्याहो रूपम्, इति । तां सु ते कीर्तिं मघवन्महित्वेति महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । भूय इद्वावधे वीर्यायेति वीर्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । नृणामु त्वा नृतमं गीर्भिरुक्थैरित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । न्यूनाक्षरे प्रथमे पदे विहरति न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामवरुद्ध्या एतान्कामानवरुन्धे य एवं वेद, इति । द्वे दशाक्षरे भवत उभयोरन्नाद्ययोरुपाप्त्यै यच्च पद्वद्यच्चापादकमित्यष्टादशाष्टादशाक्षराणि भवन्ति यानि दश नव प्राणा आत्मैव दशमः साऽऽत्मनः संस्कृतिरष्टावष्टा उद्यन्तेऽश्नुते यद्यत्कामयते य एवं वेद, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये सप्तमः खण्डः ।। १.३.७ ।। ( १५)


ता नदेन विहरति प्राणो वै नदस्तस्मात्प्राणो नदन्त्सर्वः संनदतीव, इति । नदं व ओदतीनामितीँ३ उष्णिगक्षरै र्भवत्यनुष्टुप्पादैरायुर्वा उष्णिग्वागनुष्टुप्तदस्मिन्नायुश्च वाचं च दधाति, इति । तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ वाक् आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्वै एव पञ्चविंशतिर्भवन्तीत्यध्यात्मं पञ्चविंशः, इति । अथाधिदैवतं चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः पञ्च देवता इमं विष्टाः पुरुषं पञ्चो हैवैता देवता अयं विष्टः पुरुषः सोऽत्राऽऽ लोमभ्य आ नखेभ्यः सर्वः साङ्ग आप्यते तस्मात्सर्वाणि भूतान्या पिपीलिकाभ्य आप्तान्येव जायन्ते, इति । तदुक्तमृषिणा, इति । सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्ति इति । यावद्द्यावापृथिवी तावदित्तदिति यावती वै द्यावापृथिवी तावानात्मा, इति । सहस्रधा महिमानः सहस्रमित्युक्थान्येव तदनु मदति महयति, इति । यावद्ब्रह्म विष्ठितं तावती वागिति यत्र ह क्व च ब्रह्म तद्वाग्यत्र वा वाक्तद्वा ब्रह्मेत्येतत्तदुक्तं भवति, इति । एषां वा एषां सूक्तानां नवर्चं प्रथमं नव वै प्राणाः प्राणानां क्लृप्त्यै, इति । षळृचम भवति षड्वा ऋतव ऋतूनामाप्त्यै, इति । पञ्चर्चं भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्यै, इत्यादि । तृचो भवति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै, इति । ता अभि संपद्यन्ते बृहती छन्दोऽमृतं देवलोकमेष आत्मैवमु हैवैवं विदेतयैव संपदाऽमृतमेवाऽऽत्मानमभिसंभवति संभवति, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्यायेऽष्टमः खण्डः ।। १.३.८ ।। ( १६)

इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयोऽध्यायः ।। ३ ।।