← अध्यायः ३ ऐतरेय आरण्यकम्
अध्यायः ४
अध्यायः ५ →

1.4.1

अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो ग्रीवास्ता आचक्षते यथा छन्दसमुष्णिह इति, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वा अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशंसनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु सर्वमिदं प्रजायते यदिदं किंच प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो विजवस्ता विराजो भवन्ति तस्मात्पुरुषः पुरुषमाह वि वा अस्मासु राजसि ग्रीवा वै धारयसीति स्तभमानं वा यद्वा द्रुताः संबाह्ळतमाः सत्योऽन्नतमां प्रत्यच्यन्तेऽन्नं हि विराळन्नमु वीर्यम्, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये प्रथमः खण्डः ।। १ ।। ( १७)

1.4.2

अथातो दक्षिणः पक्षः सोऽयं लोकः सोऽयमग्निः सा वाक्तद्रथंतरं स वसिष्ठस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात एव कामानामभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति । अथात उत्तरः पक्षः सोऽसौ लोकः सोऽसावादित्यस्तन्मनस्तद्बृहत्स भरद्वाजस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात एव कामानामभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति । ता ऊनातिरिक्तौ भवतो वृषा वै बृहद्योषा रथंतरमतिरिक्तं वै पुंसो न्यूनं स्त्रियै तस्मात्, इति । ऊनातिरिक्तौ भवतोऽथो एकेन ह वै पुत्रेण सुपर्णस्योत्तरः पक्षो ज्यायांस्तस्मादेकयर्चोत्तरः पक्षो भूयान्भवति, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातः पुच्छं ता एकविंशतर्द्विपदा भवन्त्येकविंशतिर्हीमानि प्रत्यञ्चि सुपर्णस्य पत्राणि भवन्ति, इति । अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठा पुच्छं वयसाम्, इति । द्वाविंशी शंसति प्रतिष्ठयोरेव तद्रूपं क्रियते तस्मात्सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छम्, इति । स एष द्वाभ्यां दशिनीभ्यां विराड्भ्यामनयोर्द्वाविंश्योर्द्विपदयोरयं पुरुषः प्रतिष्ठितस्तस्य यत्सुपर्णरूपं तदस्य कामानामभ्याप्त्या अथ यत्पुरुषरूपं तदस्य श्रियै यशसेऽन्नाद्यायापचित्यै, इति । अथ सूददोहा अथ धाय्याऽथ सूददोहा वृषा वै सूददोहा योषा धाय्या तदुभयतः सूददोहसा धाय्या परिशंसति तस्माद्द्वयो रेतः सिक्तं सदेकतामेवाप्येति योषामेवाभ्यत आजाना हि योषाऽतः प्रजाना तस्मादेनामत्र शंसति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः ।। २ ।। ( १८)

1.4.3

[ गायत्रीं तृचाशीतिं शंसत्ययं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदिति, इति । अथ सूददोहाः प्राणो वै सूददोहाः [ प्राणेनेमं लोकं संतनोति, इति । बार्हतीं तृचाशीतिं शंसत्यन्तरिक्षलोको वै बार्हती तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्रवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूददोहाः प्राणेनान्तरिक्षलोकं संतनोति, इति । औष्णिहीं तृचाशीतिं शंसत्यसौ वै लोको द्यौरौष्णिही तृचाशीतिर्यदेवामुष्मिँलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूददोहाः प्राणेनामुं लोकं संतनोति संतनोति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ।। ३ ।। ( १९)
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थोऽध्यायः ।। ४ ।।