प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ऐतरेय आरण्यकम्
अध्यायः १
अध्यायः २ →

5.1.1

महाव्रतस्य पञ्चविंशतिं सामिधेन्यः, इति । एकविंशतौ प्रागुपोत्तमायाः समिधाऽग्निमिति चतस्रः, इति । वैश्वकर्मण ऋषभ उपालम्भनीय उपांशु, इति । आज्यप्रउगे विश्वजितः, इति । होत्राश्चतुर्विंशात्, इति । ईङ्खयन्तीरपस्युव इति च ब्राह्मणच्छंस्यावपेत प्रातःसवने तीव्रस्याभिवयसो अस्य पाहीति माध्यंदिनः, इति । त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रिय एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत प्रोष्वस्मै पुरोरयमित्यतोऽनुरूपः, इति । चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय, इति । जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयम्, इति । संस्थिते मरुत्वतीये होता विसंस्थितसंचरेण निष्क्रम्याऽऽग्नीध्रीये तिस्र आज्याहुतीर्जुहोत्यौदुम्बरेण स्रुवेण, इति । अनु मामिन्द्रो अनु मां बृहस्पतिरनु सोमो अनु वाग्देव्यावीत् । अनु मां मित्रावरुणाविहावतामनु द्यावापृथिवी पूर्वहूतौ, इति । आदित्या मा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः । वायुः पूषा वरुणः सोमो अग्निः सूर्यो नक्षत्रैरवत्विह माऽनु, इति ।। पितरो मा विश्वमिदं च भूतं पृश्निमातरो मरुतः स्वर्काः । ये अग्निजिह्वा उत वा यजत्रास्ते नो देवाः सुहवाः शर्म यच्छतेति, इति । दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यंदिने मार्जालीयो जागरितो भवति तस्मिन्परिवृते जुहोति प्राग्द्वारे वोदग्द्वारे वा प्रागुदग्द्वारे वा,इति। अग्निरिवानाधृष्यः पृथिवीव सुषदा भूयासम्, इति । अन्तरिक्षेमिवानाप्यं द्यौरिवानाधृष्यो भूयासम्, इति । सूर्य इवाप्रतिशयश्चन्द्रमा इव पुनर्भूर्भूयासम्, इति । मन इवापूर्वं वायुरिव श्लोकभूर्भूयासम्, इति । अहरिव स्वं रात्रिरिव प्रियो भूयासम् , इति । गाव इव पुनर्भुवो मिथुनमिव मरीचयो भूयासम्, इति । आप इव रस ओषधय इव रूपं भूयासम्, इति । अन्नमिव विभु यज्ञ इव प्रभूर्भूयासम्, इति । ब्रह्मेव लोके क्षत्रमिव श्रियां भूयासम्, इति । यदग्न एषा समितिर्भवातीति, इति । अत्र विभजाथ वीथेति त्रीण्यनन्वृचम् , इति। अत्र तिष्ठन्नादित्यमुपतिष्ठते पर्यावृत्ते प्रदक्षिणमावृत्यैतैश्चैवास्वाहाकारैरेह्येवा३ इदं मधू३ इदं मधु । इमं तीव्रसुतं पिबा३ इदं मधू३ इदं मध्विति च, इति । प्रेष्याः संशास्ति पूर्णकुम्भास्तिस्रोऽवमाः षडुत्तमाः, इति । इमं धिष्ण्यमुदकुभं च त्रिः प्रदक्षिणं परिव्रजाथ दक्षिणैः पाणिभिर्दक्षिणानूरूनाघ्नाना एह्येवा३ इदं मधू३ इदं मध्विति वदत्यः । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।।

5.1.2

उपाकृते स्तोत्रे त्रैधं निनयाथात्रोत्तरे च मार्जालीये शेषमन्तर्वेदि, इति । प्रदक्षिणमग्निं निष्क्रम्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखास्तिष्ठन्नग्नेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति, इति । तेनैव यथेतं प्रत्येत्य दक्षिणमुदङ्मुखः पक्षं नमस्ते राथंतराय यस्ते दक्षिणः पक्ष इति, इति । अपरेणाग्निपुच्छमतिक्रम्य प्राङ्मुख उत्तरं नमस्ते बृहते यस्त उत्तरः पक्ष इति, इति । पश्चात्प्राङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिष्ठेति, इति । दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।।

5.1.3

यथेतं सदः प्रसर्पति, इति । पुरस्तात्प्रेङ्ख उपक्लृप्तो भवति, इति । स्थूणे रज्जू वीवध इत्येतत्प्रक्षाल्य तीर्थेन प्रपाद्योत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वया द्वारा सदः सर्वान्धिष्ण्यानुत्तरेण, इति । औदुम्बराणि काष्ठानि प्रेङ्खस्य भवन्ति पालाशानि मिश्राणि वा, इति । त्रीणि फलकान्युभयतस्तष्टानि द्वे वा सूच्यश्च तावत्यः, इति । इषुमात्रः प्राङ्प्रेङ्खो निमुष्टिकस्तिर्यङुदगग्रः प्रागग्राभ्यां सूचीभ्यां समुतः, इति । दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमत्यादधात्यास्यसंमितं कर्तुः, इति । कुष्ठासु च्छिद्राणि प्रेङ्खस्य भवन्ति रज्जूभ्यामूर्ध्वमुद्वयति दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्ये त्रिगुणे स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः प्रदक्षिणं पर्यस्योर्ध्वग्रन्थिं निष्टर्क्यं बध्नाति, इति । शाखाभिर्बृसीभिर्वा पर्यृषन्त्यप्रकम्पि, इति । चतुरङ्गुलेनैष विभूमः प्रेङ्खः स्यान्मुष्टिमात्रेण वा, इति । दक्षिणत उदाहिततरः समो वा, इति । पदमात्रे धिष्ण्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ।। ३ ।।

5.1.4

निष्ठिते प्रेङ्खे होता वाणमौदुम्बरं शततन्तुमुभाभ्यां परिगृह्योत्तरत उपोहते यथा वीणाम्, इति । सप्तभिश्छन्दोभिश्चतुरुत्तरैः स्थानान्यस्योर्ध्वमुद्गृह्णीयाद्दशभिर्वा, इति । गायत्रेण त्वा छन्दसोदूहाम्यौष्णिहेन त्वाऽऽनुष्टुभेन त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति । छन्दांस्यनुक्रम्य स्थानानामनुपरिक्रमणमौदुम्बर्याऽऽर्द्रया शाखया सपलाशया मूलदेशेन वाणं त्रिरूर्ध्वमुल्लिखति, इति । प्राणाय त्वाऽपानाय त्वा व्यानाय त्वोल्लिखामीति, इति । अन्येभ्योऽपि कामेभ्यः पुनरपि न तूल्लिखामीति ब्रूयात्, इति । अथैनं सशाखं छन्दोगेभ्यः प्रयच्छति, इति । भूतेभ्यस्त्वेति पश्चार्धे फलके पाणी प्रतिष्ठापयति प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वीङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्, इति । भूर्भुवः स्वरिति जपति, इति । प्राणाय त्वेति प्राञ्चमेव व्यानाय त्वेति तिर्यञ्चमपानाय त्वेत्यभ्यात्मम्, इति । वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति, इति । अथ पूर्वं फलकं नानापाणिभ्यामभिपद्येत यथा हि स्रप्स्यन्, इति । मध्यमं छुबुकेनोपस्पृशेद्द्वयोर्वा संधिम्, इति । रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति दक्षिणं सक्थ्यतिहरत्यादित्यास्त्वा जागतेन च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति सव्यं विश्वे त्वा देवा आनुष्टुभेन च्छन्द साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति । पश्चात्स्वस्य धिष्ण्यस्य दक्षिणं पादं प्राञ्चं प्रतिष्ठापयत्यथ सव्यं यदेतरः श्राम्येदथेतरं यदेतरोऽथेतरं नोभौ विभूमौ कुर्यात्, इति । कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । यदि कस्मैचिदवश्यकर्मिणो जिगमिषेदादिश्य पालं प्राङ्वरुह्य चरित्वा तमर्थमेवमेवाजपया वृताऽऽरोहेत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।।

5.1.5

प्रस्तोतारं संशास्ति पञ्चविंशस्य स्तोमस्य तिसृष्वर्धतृतीयास्वर्धत्रयोदशासु वा परिशिष्टासु प्रथमं प्रतिहारं प्रब्रूतादिति, इति । अर्धत्रयोदशासु प्रवाचयतेति जातूकर्ण्यः, इति । प्रोक्ते जपति इति । सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं बहोर्भूयः करिष्यन्तीं स्वर्गच्छन्तीं स्वर्वदिष्यन्तीं स्वः पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीं स्वरिमं यज्ञं वक्ष्यन्तीं स्वर्मां यजमानं वक्ष्यन्तीमिति, इति । दीक्षिते यजमानशब्दो नादीक्षिते, इति । स्वरमुमिति योऽस्य प्रियः स्यान्न तु वक्ष्यन्तीमिति ब्रूयात्, इति । उक्थवीर्याणि च, इति । सं प्राणो वाचा समहं वाचा सं चक्षुर्मनसा समहं मनसा सं श्रोत्रमात्मना समहमात्मना मयि महान्मयि भर्गो मयि भगो मयि भुजो मयि स्तोभो मयि स्तोमो मयि श्लोको मयि घोषो मयि यशो मयि श्रीर्मयि कीर्तिर्मयि मुक्तिरिति, इति । आहूय वागिति जपति, इति । त्रय आहावाः शस्त्रादेर्निविदः परिधानीयाया इति, इति । शब्दानध्वर्यवः कारयन्ति, इति । एतस्मिन्नहनि प्रभूतमन्नं दद्यात्, इति । राजपुत्रेण चर्म व्याधयन्त्याघ्नन्ति भूमिदुन्दुभिं पत्न्यश्च काण्डवीणा भूतानां च मैथुनं ब्रह्मचारिपुंश्चल्योः संप्रवादोऽनेकेन साम्ना निष्केवल्याय स्तुवते राजनस्तोत्रियेण प्रतिपद्यते, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।।

5.1.6

तदिदास भुवनेषु ज्येष्ठं तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधे वीर्याय नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः, इति । अत्र हैके स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाऽभि योधीरित्यात्मन एते पदे उद्धृत्य पक्षपदे प्रत्यवदधात्यश्वायन्तो मघवन्निन्द्र वाजिनो गामश्वं रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति । श्रियमह गोरश्वमात्मन्धत्ते सं पक्षयोः पतनाय, इति । नदं व ओदतीनामित्येतयैतानि व्यतिषजति पादैः पादान्बृहतीकारं नदवन्त्युत्तराणि प्रथमायां च पुरुषाक्षराण्युपदधाति पादेष्वेकैकमवसाने तृतीयवर्जं स खलु विहरति, इति । अपि निदर्शनायोदाहरिष्यामस्तदिदास भुवनेषु ज्येष्ठं पु । नदं व ओदतीनाम् । यतो जज्ञ उग्रस्त्वेष नृम्णो रु । नदं योयुवतीनो३म् । सद्यो जज्ञानो निरिणाति शत्रून्पतिं वो अघ्न्यानाम् । अनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोमिति, इति । एवमेतां त्रिः, इति । अन्यासु चेत्समाम्नातासु राजनेन साम्ना स्तुवीरन्यथास्थानं ता इहैवेमा असमाम्नातासु चेत्स्तुवीरन्त्समाम्नातस्य तावतीरुद्धृत्य तत्र ताः शंसेदिहो एवेमाः, इति । अन्यासु चेत्प्राक्सूददोहसस्ताः, इति । तदिदासेत्येतदादि शस्त्रम्, इति । अविहृतश्चात्र प्रतिगरः, इति । ता अस्य सूददोहस इत्येतदादिः सूददोहाः सूददोहाः इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।। इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमोऽध्यायः ।। १ ।।