प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १ ऐतरेय आरण्यकम्
अध्यायः २
अध्यायः ३ →

5.2.1

अथ पञ्चमारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः । (सप्तमः) ग्रीवाः, इति । यस्येदमारजस्तुजो युजो वनं सहः । इन्द्रस्य रन्त्यं बृहत्, इति । नाधृष आदधर्षदाधृषाणं धृषितं शवः । पुरा यदीमतिव्यथिरिन्द्रस्य धृषितं सहः, इति । स नो ददातु तं रयिं रयिं पिशङ्गसंदृशम् । इन्द्रः पतिस्तवस्तमो जनेष्वा, इति । सूददोहाः, इति । शिरो गायत्रमिन्द्रमिद्गाथिनो बृहदिति, इति। अन्यासु चेत्समाम्नातासु स्तुवीरन्नुभयासंस्था न विपर्ययोऽसमाम्नातासु चेत्स्तुवीरन्मिश्रासु च, इति । सूक्तस्योत्तमां सूददोहाः, इति । विजवः, इति । सुतस्ते सोम उपयाहि यज्ञं मत्स्वा मदं पुरुवारं मघाय । मंहिष्ठ इन्द्र विजुरो गृणध्यै, इति । ससाहतुर्वृत्रहत्येषु शत्रूनृभुर्विगाह एषः । स नो नेतारं महयाम इन्द्रम्, इति । इनो वसुः समजः पर्वतेष्ठाः प्रति वामृजीषी । इन्द्रः शश्वद्भिर्जोहूत्र एवैः, इति । सूददोहाः, इति । इत्येतत्त्रयं ग्रीवा शिरो विजवः सर्वमर्धर्च्यम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। ( ७)

5.2.2

राथंतरो दक्षिणः पक्षः, इति । अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरस्य स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति । इन्द्रस्य नु वीर्याणि प्रवोचं त्वे ह यत्पितरश्चिन्न इन्द्रेति पञ्चदश यस्तिग्मशृङ्ग वृषभो न भीम उग्रो जज्ञे वीर्याय स्वधावानुदु ब्रह्माण्यैरत श्रवस्याऽऽते मह इन्द्रोऽत्युग्रेति पञ्च सूक्तान्या न इन्द्रो दूरादा न आसादिति संपात इत्था हि सोम इन्मद इति पङ्क्तिः सूददोहाः, इति । बार्हत उत्तरः, इति । त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति । तमु ष्टुहि यो अभिभूत्योजाः सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीण्यभूरेको रयिपते रयीणामित्यष्टौ सूक्तानि कथा महामवृधत्कस्य होतुरिति संपात इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः, इति । राथंतरो दक्षिणः पक्षः पञ्चदशः स्तोम एकशतं वसिष्ठप्रासाहा बार्हत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्वाजप्रासाहः, इति । भद्रं पुच्छं द्विपदासु, इति । इमा नु कं भुवना सीषधामाऽऽयाहि वनसा सहेति नव समाम्नाता अथासमाम्नाताः, इति । प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति । अर्चन्त्यर्कं देवतास्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति । उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति । विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति । स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ।। त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति । विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम्, इति । इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति । शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति । एष ब्रह्मेति तिस्रः, इति । आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( ८) ।।

5.2.3

'गायत्री तृचाशीतिः, इति । महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति पुरोळाशं नो अन्धस इति तिस्र इन्द्र इत्सोमपा एक इत्येतत्प्रभृतीनां तिस्र उत्तमा उद्धरति तासां स्वादवः सोमा आयाहीत्येतामुद्धृत्य न ह्यन्यं बळाकरमित्येतां प्रत्यवदधाति जज्ञानो नु शतक्रतुरित्येका पुरुहूतं पुरुष्टुतमिति शेष उद्धेदभि श्रुता मघमित्युत्तमामुद्धरति प्रकृतान्यृजीषिण आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ९) ।।

5.2.4

बार्हती तृचाशीतिः, इति । मा चिदन्यद्विशंसतेत्येकया न त्रिंशत्पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति यदिन्द्र प्रागपागुदगिति चतुर्दश वयं घ त्वा सुतावन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथंतरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधात्यभि प्र वः सुराधसमिति षड्वालखिल्यानां सूक्तानि यः सत्राहा विचर्षणिरिति शेषोऽयं ते अस्तु हर्यत इति सूक्ते उभयं शृणवच्च न इति सप्तमीं चाष्टमीं चोद्धरति तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति यो राजा चर्षणीनामित्येकादश तं वो दस्ममृतीषहमा नो विश्वा सुहव्यो या इन्द्र भुज आभर इति नव सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १०)

5.2.5

औष्णिही तृचाशीतिः, इति । य इन्द्र सोमपातम इति सूक्ते तम्वभि प्रगायतेत्युत्तमामुद्धरतीन्द्राय साम गायत सखाय आशिषामहीति तिस्र उत्तमा उद्धरति य एक इद्विदयत आयाह्यद्रिभिः सुतं यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः संपदोष्णिहः सप्त सप्त गायत्र्यः षट्षळुष्णिहो भवन्ति यदिन्द्राहं यथा त्वं प्र संम्राजं चर्षणीनामिति सूक्ते उत्तरस्योत्तमे उद्धरति वार्त्रहत्याय शवस इत्युत्तमामुद्धरति सुरूपकृत्नुमूतय इति त्रीण्येन्द्रसानसिं रयिमिति सूक्ते य आनयत्परावत इति तिस्र उत्तमा उद्धरति रेवतीर्नः सधमाद इति तिस्रः सूददोहाः, इति । इत्येतास्तिस्रस्तृचाशीतयः सर्वा अर्धर्च्याः, इति । अन्नमशीतयः, इति । उदरं वशः, इति । त्वाऽवतः पुरूवसविति वशः सनितः सु सनितरित्येतदन्तो ददीरेक्ण इति द्विपदा नूनमथेत्येकपदा ता अस्य सूददोहस इत्येतदन्तः सूददोहाः सूददोहाः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( ११) इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयोऽध्यायः ।। २ ।।