कथासरित्सागरः/लम्बकः १२/तरङ्गः ०१
शशाङ्कवती नाम द्वादशो लम्बकः ।
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
अव्याद्वो विघ्नविध्वंसकीर्तिस्तम्भमिवोत्क्षिपन् ।
करं गणपतिः क्रीडालीनभृङ्गाक्षरावलिम् ।। १
अरागमपि रागाढ्यरचनाचतुरं परम् ।
हरं नवनवाश्चर्यसर्गचित्रकरं नुमः ।। २
जितं स्मरशरैर्येषु पौष्पेष्वपि पतत्स्विह ।
वज्रादीन्यपि जायन्ते कुण्ठितान्येव तद्भृताम् ।। ३
एवं वत्सेश्वरसुतस्तां तां भार्यामवाप्य सः ।
नरवाहनदत्तोऽत्र कौशाम्ब्यामथ तस्थिवान् ।। ४
बहुभार्योऽपि तामाद्यां दैवीं मदनमञ्चुकाम् ।
प्राणेभ्योऽप्यधिकां मेने रुक्मिणीमिव माधवः ।। ५
एकदा च निशि स्वप्ने नभसागत्य दिव्यया ।
कयापि कन्ययात्मानं ह्रियमाणं ददर्श सः ।। ६
प्रबुद्धश्च महाशैलसानौ सच्छायपादपे ।
अपश्यत्स्थितमात्मानं तार्क्ष्यरत्नशिलातले ।। ७
तां च कन्यां स्वपार्श्वस्था निशि द्योतितकाननाम् ।
ईक्षते स्म स्मरस्येव विश्वसंमोहनौषधिम् ।। ८
अनयाहमिहानीत इति मत्वा च वीक्ष्य च ।
लज्जाविलम्बितेच्छां तां कृत्वा चालीकसुप्तकम् ।। ९
प्रलपन्निव जिज्ञासुरेवं धूर्तोऽथ सोऽब्रवीत् ।
क्व त्वमालिङ्ग मामेहि प्रिये मदनमञ्चुके ।। १०
तच्छ्रुत्वेव तदुद्धातात्स्मृत्वा निर्व्रीडयन्त्रणम् ।
रूपं तद्दयितायाः सा तस्याः कृत्वालिलिङ्ग तम् ।। ११
ततः स नेत्रे उन्मील्य दृष्ट्वा तां स्वप्रियाकृतिम् ।
अहो विज्ञानमित्युक्त्वा कण्ठे जग्राह सस्मितः ।। १२
साथ हित्वा त्रपां रूपं स्वं प्रदर्श्य जगाद तम् ।
आर्यपुत्र गृहाणेमां मामिदानीं स्वयंवराम् ।। १३
एवमुक्तवतीं तां च परिणिन्ये स कन्यकाम् ।
नरवाहनदत्तोऽत्र गान्धर्वविधिना तदा ।। १४
नीत्वाथ तत्र तां रात्रिं यथावत्स तया सह ।
प्रातस्तां दयितां युक्त्या कुलजिज्ञासयाभ्यधात् ।। १५
प्रिये शृणु कथामेतामपूर्वां कथयामि ते ।
ब्रह्मसिद्धिरिति क्वापि मुनिरासीत्तपोवने ।। १६
तस्याश्रमसमीपे च योगसिद्धस्य सन्मुनेः ।
अभूच्छृगाली जरती गुहायां विहितास्पदा ।। १७
तां दुर्दिने निराहारा भक्ष्यार्थं जातु निर्गताम् ।
वशाविश्लेषसोन्मादो हन्तुमागाद्वनद्विपः ।। १८
तद्दृष्ट्वा स मुनिर्ज्ञानी कृपालुस्तां शृगालिकाम् ।
परेण करिणीं चक्रेऽनुग्रहायैतयोर्द्वयोः ।। १७
ततः स हस्ती तां दृष्ट्वा करेणुं शान्तवैकृतः ।
अनुरक्तोऽभवत्तस्यां सापि मृत्योरमुच्यत ।। २०
ततो भ्रमंस्तया साकं स गजो जातु तत्कृते ।
प्राविशत्पद्ममानेतुं शरत्पङ्काकुलं सरः ।। २१
ममज्ज तत्र पङ्कान्तर्न शशाक विचेष्टितुम् ।
तस्थौ कुलिशनिर्लूनपक्षो भ्रष्ट इवाचलः ।। २२
दृष्ट्वा तथावसन्नं तं सा शृगालीकरेणुका ।
तदैवान्यं समाश्रित्य वारणं क्वाप्यगात्ततः ।। २३
तावच्च पूर्वविश्लिष्टा करिणी तस्य सा निजा ।
अन्विष्यन्ती गजस्यागात्तं प्रदेशं विधेर्वशात् ।। २४
सा भद्रजातिर्दृष्ट्वैव ग्रस्तं पङ्केन तं पतिम् ।
अनुसर्तुं सरःपङ्कं तमेव प्राविशत्तदा ।।
तत्काले स मुनिर्ब्रह्मसिद्धिस्तेनागतः पथा ।
शिष्ययुक्तस्तदालोक्य बभूव करुणान्वितः ।। २६
उद्धारयामास च तौ वशानागौ महातपाः ।
शिष्यैर्वरोद्भूतबलैः सरःपङ्कान्तरात्ततः ।। २७
ततस्तस्मिन्मुनौ याते दंपती तौ वशागजौ ।
मृत्योर्वियोगाच्चोत्तीर्णौ यथाकामं विजह्रतुः ।। २८
एवमुत्तमजन्मानस्तिर्यञ्चोऽप्यापदि प्रिये ।
प्रभुं नोज्झन्ति मित्त्रं वा तारयन्ति ततः पुनः ।। २९
हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयम् ।
कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनाम् ।। ३०
एतद्वत्सेश्वरसुताच्छ्रुत्वा सा दिव्यकन्यका ।
तमुवाचैवमेवैतत्संशयो नात्र विद्यते ।। ३१
अभिप्रायश्च विज्ञातो मयैवंवादिनस्तव ।
तदिमामपि मत्तस्त्वमार्यपुत्र कथां शृणु ।। ३२
शूरदत्ताभिधानोऽभूत्कान्यकुब्जे द्विजोत्तमः ।
महीपतेर्बाहुशक्तेर्मान्यो ग्रामशतेश्वरः ।। ३३
भार्या वसुमती नाम तस्यासीत्पतिदेवता ।
तस्यां स वामदत्ताख्यं भव्यं पुत्रमजीजनत् ।। ३४
स वामदत्तो नचिरात्सर्वविद्यासु शिक्षितः ।
भार्यां शशिप्रभां नाम परिणिन्ये पितृप्रियः ।। ३५
कालेन पितरि स्वर्गं भार्ययानुगते गते ।
प्रावर्तत च गार्हस्थ्ये स तया भार्यया सह ।। ३६
सा च तस्याभवद्भार्या स्वेच्छाचारिण्यजानतः ।
दैवात्कुतश्चित्संप्राप्तशाकिनीसिद्धिसंवरा ।। ३७
एकदा राजसेवार्थं स्थितस्तत्कटके च सः ।
गृहादेत्य पितृव्येन निजेन जगदे रहः ।। ३८
नष्टमस्मत्कुलं पुत्र यतो भार्या मया तव ।
दृष्टा महिषपालेन त्वदीयेनैव संगता ।। ३९
एतत्पितृव्यादाकर्ण्य कटके तं निवेश्य च ।
स वामद्त्तः खड्गैकसखः स्वगृहमाययौ ।। ४०
तत्र गुप्तं स्थितो यावत्पुष्पारामे प्रविश्य सः ।
नक्तमागात्स तत्रैव तावन्महिषपालकः ।। ४१
क्षणाच्च तमुपागात्सा तत्रोपपतिमुत्सुका ।
तद्भार्या विविधाहारहस्ता महिषपालकम् ।। ४२
ततो भुक्तवता तेन साकं सा शयनं ययौ ।
तद्दृष्ट्वा वामदत्तोऽसौ सोऽभ्यधावदुदायुधः ।। ४३
आः पापौ गच्छथः क्वेति वदतस्तस्य गेहिनी ।
सा दृष्ट्वोत्थाय धिग्जाल्मेत्युक्त्वा धूलिं मुखे न्यधात् ।। ४४
तदा स मानुषोऽप्याशु महिषः समपद्यत ।
वामदत्तः स्मृतिस्त्वस्य तद्भावे न व्यलुप्यत ।। ४५
ततो महिषमध्ये सा निक्षिप्य लगुडैः शठा ।
भार्या महिषपालेन ताडयामास तेन तम् ।। ४६
तदैव तं च कस्यापि वणिजो महिषार्थिनः ।
विक्रीणीते स्म सा क्रूरा तिर्यक्त्वविवशीकृतम् ।। ४७
तेनारोपितभारोऽथ महिषीभावपीडितः ।
स वामदत्तो नीतोऽभूद्ग्रामं गङ्गासमीपगम् ।। ४८
विश्वस्तस्य गृहे भार्या सुदुर्वृत्ताप्यतर्किता ।
कक्षान्तरप्रविष्टेव भुजगी कस्य शर्मणे ।। ४९
इति तं चिन्तयन्तं च तत्रोद्बाष्पं सुदुःखितम् ।
भारक्लेशास्थिशेषाङ्गमपश्यत्कापि योगिनी ।। ५०
सा बुद्ध्वा ज्ञानतः सर्वं तद्वृत्तान्तं कृपाकुला ।
मन्त्रतोयेन सिक्त्वा तं महिषत्वादमोचयत् ।। ५१
प्राप्तमानुषरूपाय सैव नीत्वा निजं गृहम् ।
तस्मै कान्तिमतीं नाम कन्यां दुहितरं ददौ ।। ५२
एभिराहत्य दुर्भार्यामाद्यां तां वडवां कुरु ।
इत्युक्त्वा प्रददौ चास्मै सर्षपानभिमन्त्रितान् ।। ५३
ततः स तां कान्तिमतीं भार्यामादाय नूतनाम् ।
स्वगृहं वामदत्तस्तदाजगाम ससर्षपः ।। ५४
हत्वा महिषपालं तं तत्र कृत्वा च सर्षपैः ।
वडवामाद्यभार्यां तां शालाबद्धां व्यधत्त सः ।। ५५
दत्त्वा च प्रत्यहं तस्यै लगुडाहतिसप्तकम् ।
स चक्रे भोजनं बद्धप्रतिज्ञो वैरशुद्धये ।। ५६
एवं तत्र स्थितस्यास्य कान्तिमत्या समं पुनः ।
भार्यया वामदत्तस्य कोऽप्यागादतिथिर्गृहे ।। ५७
भोक्तुं तस्मिन्प्रवृत्ते च सोऽभुक्त्वा निर्ययौ हृतम् ।
वामदत्तः स्मृतादत्तकुभार्यालगुडाहतिः ।। ५८
दत्त्वा च तस्यै बडवारूपायै लगुडाहतीः ।
नियतास्ताः प्रविश्यात्र बुभुजे जातनिर्वृतिः ।। ५९
सतोऽतिथिर्विस्मितः स तं पप्रच्छ सकौतुकः ।
त्यक्ताहारः च यातोऽभूत्संभ्रमेण भवानिति ।। ६०
ततः स वामदत्तोऽत्र तस्मायतिथयेऽब्रवीत् ।
तमा मूलात्स्ववृत्तान्तमथ सोऽपि तमभ्यधात् ।। ६१
दुर्ग्रहेण किमेतेन पशुत्वं ते हृतं यया ।
तामेवाराध्य स्वश्वश्रूं प्रकर्षं कंचिदाहर ।। ६२
इत्युक्तोऽतिथिना तेन वामदत्तस्तथेति तत् ।
श्रद्धाय सोऽतिथिं प्रातः सत्कृत्य विससर्ज तम् ।। ६३
अथाकस्माद्गृहायातां श्वश्रूं तां सिद्धयोगिनीम् ।
अनुग्रहार्थी सोऽभ्यर्च्य प्रार्थयामास यत्नतः ।। ६४
साथ योगेश्वरी तस्मै सभार्याय यथाविधि ।
कालसंकर्षिणीं विद्यां दीक्षापूर्वमुपादिशत् ।। ६५
ततः श्रीपर्वतं गत्वा स विद्यां तामसाधयत् ।
सा च सिद्धा सती साक्षात्तस्मै खड्गोत्तमं ददौ ।। ६६
प्राप्तखड्गश्च संपन्नः स तया भार्यया सह ।
कान्तिमत्या कृती वामदत्तो विद्याधरोत्तमः ।। ६७
ततो रजतकूटाख्ये शृङ्गे मलयभूभृतः ।
कृतं पुरवरं तेन निजसिद्धिप्रभावतः ।। ६८
ततो विद्याधरेन्द्रस्य तत्र कालेन कन्यका ।
तस्यां पत्न्यां समुत्पन्ना नाम्ना ललितलोचना ।। ६९
जातमात्रैव या विद्याधरसच्चक्रवर्तिनः ।
भार्या भवित्री निर्दिष्टा गगनोद्भूतया गिरा ।। ७०
तामार्यपुत्र मां विद्धि विदितार्थां स्वविद्यया ।
अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ।। ७१
इत्याख्यातकुलां तां बुद्ध्वा विद्याधरीं स बहु मेने ।
नरवाहनदत्तोऽथ प्रीतमना ललितलोचनां भार्याम् ।। ७२
आस्त च तत्र तया सह संप्रति तं चास्य वत्सराजाद्याः ।
रत्नप्रभादिविद्याविभवाद्वृत्तान्तमधिजग्मुः ।। ७३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके प्रथमस्तरङ्गः ।