प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तृतीयस्तरङ्गः ।
एवं मृगाङ्कदत्तोऽत्र कर्मसेननृपात्मजाम् ।
तां शशाङ्कवतीं प्राप्तुकामो वेतालवर्णिताम् ।। १
गन्तुमुज्जयिनीं गुप्तं स्वनगर्यां निविर्गमम् ।
महाव्रतिकवेषेण सोऽमन्त्रयत मन्त्रिभिः ।। २
आदिदेश च खट्वाङ्गकपालादिसमाहृतौ ।
स राजपुत्रः सचिवं स्वैरं भीमपराक्रमम् ।। ३
तेन तच्चाहृतं स्वस्मिन्गृहे चारादबुध्यत ।
मृगाङ्कदत्तस्य पितुर्मन्त्री मुख्योऽत्र भूपतेः ।। ४
तत्कालं चात्र सोऽकस्मात्संचरन्हर्म्यपृष्ठतः ।
मृगाङ्कदत्तस्ताम्बूलनिष्ठीवनरसं जहौ ।। ५५
स च तस्यापतन्मूर्ध्नि दैवात्तत्पितृमन्त्रिणः ।
अदृष्टस्य किलाधस्तात्तेन मार्गेण गच्छतः ।। ६
बुद्ध्वा मृगाङ्कदत्तेन मुक्तं निष्ठीवनं स तत् ।
मन्त्री परिभवक्रोधं कृतस्नानो हृदि न्यधात् ।। ७
अथात्रामरदत्तस्य राज्ञो दैवाद्विषूचिका ।
मृगाङ्कदत्तजनकस्यान्येद्युरुदपद्यत ।। ८
ततः सोऽवसरं लब्ध्वा मन्त्री तं विजने नृपम् ।
सहसोद्भूतरोगार्तमवदद्याचिताभयः ।। ९
अभिचारः प्रभो भीमपराक्रमगृहे तव ।
मृगाङ्कदत्तेनारब्घः कर्तुं तेनासि पीडितः ।। 12.3.१०
मया चारमुखाज्ज्ञातं प्रत्यक्षं तच्च दृश्यते ।
तन्निराकुरु देशात्तं देहाद्व्याधिमिवात्मजम् ।। ११
तच्छ्रुत्वा स समुद्धान्तः प्राहिणोत्तदवेक्षणे ।
निजं सेनापतिं भीमपराक्रमगृहं नृपः ।। १२
स च केशकलापादि लब्ध्वा सेनापतिस्ततः ।
आनीय तत्क्षणं तस्मै राज्ञे साक्षाददर्शयत् ।। १३
राज्यलुब्धः स पुत्रो मे द्रोही निर्वास्यतामितः ।
नगर्याः सहितोऽमात्यैस्त्वयाद्यैवाविलम्बितम् ।। १४
इत्यादिशत्स तं क्रुद्धो राजा सेनापतिं ततः ।
आश्वस्तो वेत्ति कुसृतिं प्रभुः को हि स्वमन्त्रिणाम् ।। १५
सोऽथ सेनापतिर्गत्वा राजादेशं निवेद्य तम् ।
मृगाङ्कदत्तं सामात्यं नगर्या निरकालयत् ।। १६
सोऽप्यपेक्षितसंपत्तिर्हृष्टोऽर्चितविनायकः ।
मृगाङ्कदत्तो मनसा प्रणम्य पितरौ ततः ।। १७
अयोध्यातो विनिर्गत्य दूरं तान्सहयायिनः ।
प्रचण्डशक्तिप्रमुखानुवाच दश मन्त्रिणः ।। १८
शक्तिरक्षितनामास्ति किराताधिपतिर्महान् ।
सब्रह्मचारी विद्यासु स च बालसुहृन्मम ।। १९
युद्धबन्दीकृतेन प्राक्स हि पित्रात्ममुक्तये ।
नियमाय प्रतिनिधिस्तातस्येह समर्प्यत ।। 12.3.२०
मृते पितरि चोद्भूतगोत्रजः स्वबलेन सः ।
मद्विज्ञप्तेन तातेन पित्र्ये राज्येऽधिरोपितः ।। २१
तत्तस्य निकटं तावद्गच्छामः सुहृदस्ततः ।
क्रमेणोज्जयिनीं यामस्तां शशाङ्कवतीं प्रति ।। २२
इत्युक्तवांस्तथेत्युक्तवद्भिस्तैः सचिवैः सह ।
प्रययौ स ततः प्राप सायं चैकां महाटवीम् ।। २३
तस्यां निर्वृक्षतोयायां कृच्छ्रादकमवाप सः ।
तीरोपान्तप्ररूढैकशुष्कपादपकं सरः ।। २४
तस्मिन्सांध्यमनुष्ठाय विधिं पीत्वा जलानि सः ।
श्रान्तः सुष्वाप सामात्यस्तस्य शुष्कतरोरधः ।। २५
रात्रौ च चन्द्रशुभ्रायां प्रबुद्धः स ददर्श तम् ।
शुष्कवृक्षं दलैः पुष्पैः फलैश्चापूरितं क्रमात् ।। २६
पक्वानि च फलान्यस्य पतन्त्यालोक्य तत्क्षणम् ।
प्रबोध्य दर्शयामास सचिवेभ्यस्तदद्भुतम् ।। २७
ततस्तैर्विस्मयाविष्टैः क्षुधितैः सह तानि सः ।
फलानि तस्य सुस्वादुरसानि बुभुजे तरोः ।। २८
भुक्तवत्सु च तेष्वत्र पश्यत्सेवाखिलेषु सः ।
शुष्कवृक्षः क्षणाद्विप्रकुमारः समपद्यत ।। २९
पृष्ठो मृगाङ्कदत्तेन विस्मितेनाथ सोऽब्रवीत् ।
दमधिर्नाम कोऽप्यासीदयोध्यायां द्विजोत्तमः ।। 12.3.३०
तस्याहं श्रुतधिर्नाम पुत्रः स च मया सह ।
दुर्भिक्षे मृतजानिः सन्भ्रमन्प्रापदिमां भुवम् ।। ३१
इह केनापि दत्तानि प्राप्य पञ्च फलानि सः ।
क्षुत्क्षामस्त्रीणि मे प्रादाद्द्वे चास्थापयदात्मने ।। ३२
ततः स्नातुं सरस्तोयं गते तस्मिन्फलान्यहम् ।
तानीह भुक्त्वा निःशेषाण्यकार्षं व्याजसुप्तकम् ।। ३३
सोऽथ स्नात्वागतो बुद्ध्वा छद्मतः काष्ठवत्स्थितम् ।
मां शप्तवान्भवेहैव शुष्कवृक्षः सरस्तटे ।। ३४
रात्रौ च ते पुष्पफलं चन्द्रवत्यां भविष्यति ।
तर्पयित्वातिथीञ्जातु फलैः शापाद्विमोक्ष्यसे ।। ३५
इति पित्राभिशप्तोऽहं सद्यः शुष्कद्रुमोऽभवम् ।
युष्मद्भुक्तफलश्चाथ चिरान्मुक्तोऽस्मि शापतः ।। ३६
इत्युक्तनिजवृत्तान्तं पृच्छन्तं श्रुतधिं ततः ।
मृगङ्कादत्तोऽपि स तं स्ववृत्तान्तमबोधयत् ।। ३७
ततः सोऽबान्धवो नीतावधीती श्रुतधिर्द्विजः ।
मृगाङ्कदत्ताद्वृतवान्वरं तदनुयायिताम् ।। ३८
ततो नीत्वा निशां प्रातस्तेन श्रुतधिना सह ।
मृगाङ्कदत्तः स ततः प्रतस्थे सचिवान्वितः ।। ३९
गच्छंश्च स प्राप्य वनं करिमण्डितसंज्ञकम् ।
ददर्श पुरुषान्पञ्च भूरिकेशान्दुराकृतीन् ।। 12.3.४०
उपेत्य प्रश्रयात्ते च तमूचुर्जातविस्मयम् ।
काशिपुर्यां वयं जाता विप्रा धेनूपजीविनः ।। ४१
तेऽवग्रहप्लुष्टतृणात्ततो देशादिदं वनम् ।
आगताः स्मो बहुतृणं दुर्भिक्षे सह धेनुभिः ।। ४२
इह च प्राप्तमस्माभिर्वापीवारि रसायनम् ।
तीररूढद्रुमभ्रश्यत्त्रिफलानित्यभावितम् ।। ४३
पिबतां तत्सदास्माकमेषां क्षीरभुजां सताम् ।
पञ्च वर्षशतान्यस्मिन्व्यतीतान्यजने वने ।। ४४
तेनेदृशा वयं देव यूयं चातिथयोऽधुना ।
अस्माभिर्दैवतः प्राप्तास्तदेतास्माकमाश्रमम् ।। ४५
इति तैरर्थितो गत्वा सानुगः स तदाश्रमम् ।
मृगाङ्कदत्तः क्षीरादिभोजी तदनयद्दिनम् ।। ४६
प्रस्थितश्च ततः प्रातरन्यान्यपि विलोकयन् ।
कौतुकानि स संप्राप किरातविषयं क्रमात् ।। ४७
प्राहिणोच्छ्रुतधिं चात्र स्वागमावेदनाय सः ।
तं किरातपतिं मित्त्रं शक्तिरक्षितकं प्रति ।। ४८
सोऽपि बुद्ध्वा किरातेशो निर्गत्याग्रे तमानतः ।
मृगाङ्कदत्तं सामात्यं पुरं प्रावेशयन्निजम् ।। ४९
तस्तेनोपचरितस्तस्थौ तत्र स कांश्चन ।
मृगाङ्कदत्तो दिवसानुक्तागमनकारणः ।। 12.3.५०
स्वकार्ये प्राप्तकालं च साहाय्ये शक्तिरक्षितम् ।
स्थापयित्वात्र सज्जं तमामन्त्र्य च नृपात्मजः ।। ५१
प्रातिष्ठत स पुण्याहे पुनरुज्जयिनीं प्रति ।
शशाङ्कवत्या हृतधीरात्मना द्वादशस्ततः ।। ५२
गच्छंश्च सोऽटवीं प्राप्य शून्यां तरुतलस्थितम् ।
तपस्विनं ददर्शैकं भस्माजिनजटाभृतम् ।। ५३
निराश्रमपदेऽरण्ये किमेकाकीह तिष्ठसि ।
भगवन्नित्युपागम्य स तं पप्रच्छ सानुगः ।। ५४
सोऽथ तं तापसोऽवादीदहं शिष्यो महागुरोः ।
शुद्धकीर्त्यभिधानस्य नानामन्त्रौघसिद्धिमान् ।। ५५
सोऽहं कदाप्यकरवं स्वस्थावेशं प्रसङ्गतः ।
शुभलक्षणमासाद्य कंचित्क्षत्रकुमारकम् ।। ५६
स कुमारः समाविष्टः पृष्टो नानाविधानि मे ।
सिद्धौषधिरसक्षेत्राण्युदीर्येदमथाब्रवीत् ।। ५७
अस्तीहोत्तरदिग्भागे केवलः शिंशपातरुः ।
विन्ध्याटव्यामधश्चास्य नागेन्द्रभवनं महत् ।। ५८
तच्चार्द्रधूलिप्रच्छन्नजलं सदुपलक्ष्यते ।
मध्याह्ने हंसमिथुनैः क्रीडद्भिः साम्बुसारसैः ।। ५९
तत्र पारावताख्योऽस्ति नाम्ना नागवरो बली ।
तस्य देवासुररणात्प्राप्तः खङ्गोऽस्त्यनुत्तमः ।। 12.3.६०
वैदूर्यकान्तिर्नाम्ना तं खङ्गं प्राप्नोति यो नरः ।
स सिद्धाधिपतिर्भूत्वा विचरत्यपराजितः ।। ६१
स चासिः प्राप्यते वीरै सहायैरित्युदीरिते ।
तेनाविष्टेन तस्याहमथाकार्षं विसर्जनम् ।। ६२
ततोऽन्यविमुखः खड्गं प्रेप्सुस्तं पृथिवीमहम् ।
भ्रान्त्वा सहायानप्राप्य खिन्नो मर्तुमिहागतः ।। ६३
एतन्मृगाङ्कदत्तोऽत्र श्रुत्वा तस्मात्स तापसात् ।
अहं सहायः समात्यस्तवेति तमभाषत ।। ६४
स चाभिनन्द्य तत्तेन सानुगेन समं ययौ ।
तस्य नागस्य भवनं पादलेपेन तापसः ।। ६५
तत्राभिज्ञानसंप्राप्ते मन्त्रबद्धासु दिक्षु च ।
रात्रौ मृगाङ्कदत्तादीन्स्थापयित्वाभिमन्त्रितैः ।। ६६
सर्षपैः प्रकटीकृत्य क्षिप्तैस्तद्धूलितो जलम् ।
स नागदमनैर्मन्त्रैर्होमं कर्तुं प्रचक्रमे ।। ६७
विघ्नांश्चोत्पातमेघादीन्मन्त्रशक्त्या जिगाय सः ।
ततोऽत्र निर्ययौ तस्माद्दिव्या स्त्री शिंशपातरोः ।। ६८
मोहमन्त्रं पठन्तीव सा रत्नाभरणारवैः ।
उपेत्य तं क्षणाच्चक्रे कटाक्षक्षतमानसम् ।। ६९
हृतधैर्या च सा तस्य समालिङ्ग्य घनस्तनी ।
हस्ताद्विस्मृतमन्त्रस्य होमभाण्डमपातयत् ।। 12.3.७०
लब्धान्तरश्च तत्कालं स नागो भवनात्ततः ।
पारावताख्यः कल्पान्तघनाघन इवोदगात् ।। ७१
तं दृष्ट्वा नयनज्वालाघोरं गर्जितदारुणम् ।
स नष्टदिव्यनारीको हृत्स्फोटं प्राप तापसः ।। ७२
तस्मिन्विनष्टे तस्यात्र कृतसाहायकान्स तान् ।
नागो मृगाङ्कदत्तादीनशपच्छान्तवैकृतः ।। ७३
युष्माभिरेतत्संघातात्कृतं निष्कारणं यतः ।
विप्रयुक्तास्ततोऽन्योन्यं कंचित्कालं भविष्यथ ।। ७४
इत्युक्त्वान्तर्हिते नागे सर्वे ते तत्र तत्क्षणम् ।
ध्वान्तरुद्धदृशो ध्वस्तशब्दश्रवणशक्तयः ।। ७५
जग्मुर्मृगाङ्कदत्ताद्या विप्रयुक्ता यतस्ततः ।
शापप्रभावात्क्रोशन्तश्चिन्वन्तश्च परस्परम् ।। ७६
मृगाङ्कदत्तश्च ततः स गते रात्रिविभ्रमे ।
भ्राम्यन्नितस्ततोऽटव्यां तत्रासीत्सचिवैर्विना ।। ७७
गतेष्वेवं च मासेषु द्वित्रेष्वत्राथ तस्य सः ।
अकस्माच्छ्रुतधिर्विप्रो विचिन्वन्प्रापदन्तिकम् ।। ७८
स पादपतितः साश्रुः श्रुतधिस्तं कृतादरम् ।
स्वमन्त्रिवार्तां पृच्छन्तं समाश्वास्यैवमभ्यधात् ।। ७९
न दृष्टास्ते मया किं तु जाने यास्यन्ति ते प्रभो ।
पुरीमुज्जयिनीं सैव गन्तव्या वर्तते हि वः ।। 12.3.८०
इत्याद्युक्तवता तेन प्रेरितस्तद्युतोऽथ सः ।
मृगाङ्कदत्तः शनकैः प्रायादुज्जयिनीं प्रति ।। ८१
गच्छन्स्तोकैश्च दिवसैर्मार्गेणाशङ्कितागतम् ।
हृष्टो विमलबुद्धिं स संप्राप निजमन्त्रिणम् ।। ८२
तद्दर्शनोद्वाष्पदृशं प्रणतं परिरभ्य सः ।
उपवेश्य च पप्रच्छ वार्तामितरमन्त्रिणाम् ।। ८,३
ततो विमलबुद्धिस्तं भृत्यप्रियमुवाच सः ।
न जाने देव कस्तेषु क्व गतो नागशापतः ।। ८४
त्वं तु तान्प्राप्स्यसीत्येतद्यथा जाने तथा शृणु ।
तदाहं नागशापेन दूराकृष्टः परिभ्रमन् ।। ८५
अटव्याः पूर्वदिग्भागे क्लान्तः केनापि साधुना ।
आश्रमं प्रापितोऽभूवं महर्षेर्ब्रह्मदण्डिनः ।। ८६
तत्र तेनर्षिणा दत्तैः फलाम्भोभिर्गतक्लमः ।
पर्यटन्नाश्रमादारादद्राक्षं बृहतीं गुहाम् ।। ८७
प्रविश्य कौतुकात्तस्यां दृष्ट्वान्तर्मणिमन्दिरम् ।
प्रवृत्तवानहं जालगवाक्षैस्तत्र वीक्षितुम् ।। ८८
तावत्स्थितान्तश्चक्रं स्त्री भ्रामयन्ती सभृङ्गकम् ।
भृङ्गास्तेऽथाश्रिता भेदेनात्रस्थौ वृषगर्दभौ ।। ८९
ताभ्यां च वान्तौ क्षीरासृकफेनौ पीत्वा यथाश्रयम् ।
द्वये सितासिता भूत्वा जातास्ते जालकारकाः ।। 12.3.९०
स्वविष्ठाभिस्ततस्तैश्च द्विविधैर्विविधाः कृताः ।
जालपाशाः सुपुष्पैश्च विषपुष्पैश्च संगताः ।। ९१
तेषु पाशेषु ते सक्ता जालकारा यथासुखम् ।
श्वेतकृष्णोभयमुखेनैत्य दष्टा महाहिना ।। ९२
नानाघटेष्वथ क्षिप्तास्तया नार्या समुत्थिताः ।
पुनस्तथैव तानेव पाशाञ्श्लिष्ट्वा यथातथम् ।। ९३
विषोद्वेगाच्च तत्पुष्पजालस्थेष्वारटत्स्वथ ।
अन्येऽपि तेऽन्यजालस्थाः प्रवृत्ताः क्रन्दितुं तदा ।। ९४
तच्छब्दभग्नध्यानेन तत्रस्थेन कृपालुना ।
केनापि भालतो मुक्ता ततो ज्वाला तपस्विना ।। ९५
तया निर्दग्धपाशास्ते दण्डं सुषिरवैद्रुमम् ।
प्रविश्यैव तदूर्ध्वस्थे लीना ज्योतिषि भास्वरे ।। ९६
तावत्क्वापि गता सा स्त्री सचक्रवृषगर्दभा ।
तद्दृष्ट्वा विस्मितो यावत्स्थितोऽहं तत्र पर्यटन् ।। ९७
तावत्पुष्करिणीं हृद्यामपश्यं भृङ्गनादितैः ।
इहाप्यागत्य वीक्षस्वेत्याह्वयन्तीमिवाम्बुजैः ।। ९८
तीरोपविष्टस्तस्याश्च वीक्षे यावद्वनं महत् ।
जालान्तरे वने चैको लुब्धकस्तत्र तेन च ।। ९९
दशबाहुरवाप्यैकः सिंहपोतो विवर्ध्य च ।
अनायत्त इति क्रोधाद्वनात्तस्मात्प्रवासितः ।। 12.3.१००
सोऽपि सिंहः समाकर्ण्य सिंह्या शब्दं वनान्तरे ।
तत्र गच्छन्महावातेनावकीर्णभुजः कृतः ।। १०१
ततो लम्बोदरेणैत्य पुंसारोपितबाहुकः ।
संपादितः स यातस्तद्वनं केसरिणीकृते ।। १०२
तत्र तस्याः कृते क्लेशमनुभूय वनान्तरे ।
प्रागात्तां प्राप्य तद्युक्तः स निजं वनमागतः ।। १०३
सभार्यमागतं तं च दृष्ट्वैव करिमर्दनम् ।
वनं समर्प्य तत्तस्मै लुब्धकः स ततो गतः ।। १०४
एतदप्यहमालोक्य गत्वाश्रमपदं ततः ।
उभयं तन्महाश्चर्यमवोचं ब्रह्मदण्डिने ।। १०५
सोऽथ प्रीत्या त्रिकालज्ञो मुनिर्मामेवमभ्यधात् ।
धन्योऽसि दर्शितं सर्वं प्रसन्नेनेश्वरेण ते ।। १०६
या दृष्टा स्त्री त्वया तत्र सा माया भ्रमितं च यत् ।
तया संसारचक्रं तद्ये भृङ्गास्ते च जन्तवः ।। १०७
वृषगर्दभरूपौ तौ धर्माधर्मौ पृथक्पृथक् ।
श्रितास्तद्वान्तदुग्धासृग्रूपे सुकृतदुष्कृते ।। १०८
स्वस्वाश्रयोत्थे संसेव्य भूत्वा च श्वेतकल्मषाः ।
द्विविधा जालकाराभा विष्टब्धा निजवीर्यतः ।। १०९
निर्माय द्विविधानेव जालपाशान्सुतादिकान् ।
सत्पुष्पविषपुष्पाभसुखदुःखानुषङ्गिणः ।। 12.3.११०
यथास्वं तेषु संसक्ताः कालेनोरगरूपिणा ।
शुभाशुभाभ्यां वक्त्राभ्यां हताः पुत्र यथोचितम् ।। १११
ततो घटकरूपासु नानायोनिषु मायया ।
स्त्रीरूपया तया क्षिप्तास्तथैवोत्थाय ते पुनः ।। ११२
तुल्यासु पतिताः श्वेतकृष्णास्वाकृतिषु द्विधा ।
पुत्रादिजालपाशेषु सुखदुःखानुबन्धिषु ।। ११३
ततः कृष्णा निजैर्जालैर्बद्धा दुःखविषार्दिताः ।
प्रवृत्ताः क्रन्दितुं विग्नाः शरणं परमेश्वरम् ।। ११४
तद्दृष्ट्वा जातवैराग्यास्ते श्वेता अपि जन्तवः ।
प्रारब्धा निजजालस्थास्तमेवाक्रन्दितुं प्रभुम् ।। ११५
ततः प्रबुध्य देवेन तेन तापसरूपिणा ।
ज्ञानाग्निज्वालया दग्धपाशाः सर्वेऽपि ते कृताः ।। ११६
तेन विद्रुमसद्दण्डरूपमादित्यमण्डलम् ।
प्रविश्य तत्तदूर्ध्वस्थं परमं धाम ते श्रिताः ।। ११७
नष्टा च चक्राकारेण संसारेण सहैव सा ।
माया वृषस्वराकारधर्माधर्मसमन्विताः ।। ११८
एवं भ्रमन्ति संसारे शुक्लकृष्णाः स्वकर्मभिः ।
ईश्वराराधनादेव विमुच्यन्ते च जन्तवः ।। ११९
इति ते मोहशान्त्यर्थमीश्वरेण प्रदर्शितम् ।
वापीजले च यद्दृष्टं भवता तदिदं शृणु ।। 12.3.१२०
मृगाङ्कदत्तभाव्यर्थप्रदर्शनमिदं जले ।
प्रतिबिम्बमिवोत्पाद्य कृतं भगवता तव ।। १२१
स हि बालमृगारातिपोततुल्यो भुजोपमैः ।
सचिवैर्दशभिर्युक्तो वर्धितो वनसंनिभात् ।। १२२
देशाल्लुब्धकतुल्येन पित्रा कोपात्प्रवासितः ।
अवन्तिदेशादुद्भूता ख्यातिमन्यवनोपमात् ।। १२३
शशाङ्कवत्यास्तत्सिंह्या इव श्रुत्वा प्रधावितः ।
नागशापेन वातेन भ्रष्टमन्त्रिभुजः कृतः ।। १२४
ततो विनायकेनात्र स लम्बोदररूपिणा ।
संघाटितामात्यभुजः प्रकृतिस्थः पुनः कृतः ।। १२५
ततो गत्वानुभूयातिक्लेशं प्राप्तां ततोऽन्यतः ।
तां शशाङ्कवतीं सिंहीमादायात्रागतश्च सः ।। १२६
ततश्च निकटं प्राप्तं विद्युतारातिवारणम् ।
मृगाङ्कदत्तसिंहं तं दृष्ट्वा भार्यासमन्वितम् ।। १२७
तत्स्वदेशवनं तस्मै समर्प्य सकलं स्वतः ।
तत्पिता लुब्धकनिभः स प्रयातस्तपोवनम् ।। १२८
इति संपन्नवद्भावि दर्शितं विभुना तव ।
तद्युष्मान्मन्त्रिणो भार्यां राज्यं चाप्स्यति वः प्रभुः ।। १२९
इत्यहं मुनिवरेण बोधितस्तेन लब्धधृतिराश्रमात्ततः ।
निर्गतोऽथ शनकैरुपाव्रजन्नद्य देव मिलितस्त्वया सह ।। 12.3.१३०
तस्मादभिमतमाप्स्यसि सचिवांल्लब्ध्वा प्रचण्डशक्तिमुखान् ।
 प्रस्थानकालपूजाप्रसन्नविघ्नेश्वरो नियतम् ।। १३१
इति स्वसचिवात्क्षणं विमलबुद्धितः सोऽद्भुतं
निशम्य परितोषवानपि मृगाङ्कदत्तः पुनः ।
विचार्य सह तेन तामपरमन्त्र्यवाप्त्यै क्रमादवन्तिनगरीं प्रति व्रजितवान्स्वकार्याय च ।। १३२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके तृतीयस्तरङ्गः ।