कथासरित्सागरः/लम्बकः १२/तरङ्गः ०४
ततः श्रुतधियुक्तेन समं विमलबुद्धिना ।
स शशाङ्कवतीहेतोर्गच्छन्नुज्जयिनीं प्रति ।। १
मृगाङ्कदत्तः संप्रापदन्तरा नर्मदानदीम् ।
वीचिवेल्लद्भुजलतां विलसत्फेनपाण्डुराम् ।। २
दिष्टया मिलदमात्योऽयं संवृत्त इति वीक्ष्य तम् ।
हर्षादिव प्रनृत्यन्तीं हसन्तीं चपलाशयाम् ।। ३
तस्यां स्नानावतीर्णे च तस्मिन्कश्चिदुपाययौ ।
तत्र मायाबटुर्नाम स्नातुं शबरभूपतिः ।। ४
तं स्नान्तं सहसोत्थाय त्रयोऽत्र जलमानुषाः ।
युगपज्जगृहुर्भिल्लं भीतिनश्यत्परिच्छदम् ।। ५
तद्दृष्ट्वाकृष्टखड्गोऽन्तः प्रविश्य जलमानुषान् ।
हत्वा मृगाङ्कदत्तस्तान्भिल्लेन्द्रं तममोचयत् ।। ६
स तद्ग्राहभयान्मुक्तो भिल्लराजो जलोत्थितः ।
तं राजपुत्रं पप्रच्छ पतित्वा पादयोस्ततः ।। ७
धात्रा कस्त्वमिहानीतः प्राणत्राणाय मे वद ।
कस्य चालंकृतो वंशस्त्वया सुकृतिनः पितुः ।। ८
को वा कटाक्षितः पुण्यैर्देशो यत्र गमिष्यसि ।
इत्युक्त्वा श्रुतधेः श्रुत्वा तद्वृत्तान्तमशेषतः ।। ९
सुतरां प्रणतस्तं स शबरेन्द्रोऽब्रवीत्पुनः ।
तर्ह्यहं ते यथादिष्टे सहायोऽत्राभिवाञ्छिते ।। १०
सख्या दुर्गपिशाचेन मातङ्गपतिना सह ।
तत्प्रसादं कुरुष्वैहि गृहान्भृत्यस्य मे प्रभो ।। ११
इति सप्रणयैस्तैस्तैर्वचोभिः प्रार्थ्य तं ततः ।
मृगाङ्कदत्तं पल्लीं स्वां शबरेन्द्रो निनाय सः ।। १२
उपाचरच्च तं तत्र यथावत्स्वविभूतिभिः ।
राजपुत्रमशेषेण पल्लीलोकेन पूजितम् ।। १३
सोऽपि मातङ्गराजोऽत्र समेत्याभिननन्द तम् ।
दासीभूय सुहृत्प्राणप्रदं न्यस्तशिरा भुवि ।। १४
ततो मायाबटोस्तस्य भिल्लेन्द्रस्यानुरोधतः ।
मृगाङ्कदत्तस्तत्रैव तस्थौ कांश्चित्स वासरान् ।। १५
एकदा च स्थिते तस्मिन्द्यूतं स शबरेश्वरः ।
समं निजप्रतीहारेणारेभे चण्डकेतुना ।। १६
तावन्नभसि मेघेषु गर्जत्सु गृहबर्हिणः ।
प्रनृत्तान्द्रष्टुमुत्तस्थौ स मायाबटुभूपतिः ।। १७
ततः स द्यूतरसिकः प्रतीहारस्तमभ्यधात् ।
किमेभिः प्रेक्षितै राजन्नसुशिक्षितताण्डवैः ।। १८
स मयूरो गृहे मेऽस्ति नास्ति योऽन्यत्र भूतले ।
दर्शयिष्यामि तं प्रातस्तुभ्यं तद्रसिकोऽसि चेत् ।। १९
तच्छ्रुत्वा दर्शनीयो मे सर्वथा स त्वयेति च ।
उक्त्वा स तं प्रतीहारं दिनकृत्यं व्यधान्नृपः ।। २०
मृगाङ्कदत्तोऽप्याकर्ण्य सर्वं तत्तत्र सानुगः ।
तथैवोत्थाय विदधे स्नानाहारादिकाः क्रियाः ।। २१
ततो रात्रावुपेतायामन्धे तमसि जम्भिते ।
कस्तूरिकानुलिप्ताङ्गो वसानो नीलवाससी ।। २२
स राजपुत्रः स्वोद्देशाद्वीरचर्यार्थमेककः ।
सुप्तानुगाद्वासगृहात्खड्गपाणिर्विनिर्ययौ ।। २३
भ्रमंश्च तत्र केनापि पुंसा मार्गागतेन सः ।
अपश्यता ध्वान्तवशादंसेनांसेऽभ्यहन्यत ।। २४
ततः सोऽभ्यभवत्क्रुद्धो युद्धायाह्वयति स्म तम् ।
स चाहतः पुमान्प्रौढस्तत्कालोचितमभ्यधात् ।। २५
किं ताम्यस्यविचार्यैव विचारयसि चेत्ततः ।
वाच्यो निशापतिर्येन निशैषा न प्रकाशिता ।। २६
धाता वा येन पूर्णोऽस्य नाधिकारोऽत्र निर्मितः ।
येन वैराणि जायन्ते तमसीदृश्यकारणम् ।। २७
तच्छ्रुत्वा सत्यमित्युक्त्वा तुष्टो नागरिकोक्तितः ।
मृगाङ्कदत्तः कोऽसीति स तं पप्रच्छ पूरुषम् ।। २८
चौरोऽहमिति तेनोक्तः पुंसा सोऽप्यवदन्मृषा ।
हस्तमानय सब्रह्मचारी मम भवानिति ।। २९
कृत्या च सख्यं जिज्ञासुः स तेनैव सह व्रजन् ।
मृगाङ्कदत्तः संप्राप जीर्णकूपं तृणावृतम् ।। ३०
तत्र तेन प्रविष्टेन पुंसा सह सुरुङ्गया ।
गत्वा मायाबटोस्तस्य राज्ञोऽन्तःपुरमाप्तवान् ।। ३१
तत्र दीपेन दृष्ट्वा तं परिजज्ञे स पूरुषम् ।
यावत्सोऽत्र प्रतीहारश्चण्डकेतुर्न तस्करः ।। ३२
प्रतीहारस्तु न स तं मन्दालोकैककोणगम् ।
परिजज्ञेऽन्यवेषस्थं राजस्त्रीछन्नकामुकः ।। ३३
राजवध्वा च स तया प्राप्त एवानुरक्तया ।
उत्थाय कण्ठे जगृहे मञ्जुमत्यभिधानया ।। ३४
उपवेश्य च पर्यङ्के स पृष्टोऽभूत्तया तदा ।
अद्यैव भवता कोऽयमिहानीतः पुमानिति ।। ३५
सुहृन्ममायं विश्वस्ता भवेत्युक्ता च तेन सा ।
प्रतीहारेण सोद्वेगा मञ्जुमत्येवमव्रवीत् ।। ३६
कुतो मे मन्दभाग्याया विश्वासो यदसौ नृपः ।
मृत्योर्मृगाङ्कदत्तेन मुखं प्राप्तोऽपि रक्षितः ।। ३७
तच्छ्रुत्वा स प्रतीहारस्तामवादीदलं शुचा ।
नृपं मृगाङ्कदत्तं च हनिष्याम्यचिरात्प्रिये ।। ३८
इत्युक्तवन्तं तं दैवात्साब्रवीत्किं विकत्थसे ।
आक्रान्तोऽभूद्यदा ग्राहैर्नृपोऽसौ नर्मदाम्भसि ।। ३९
मृगाङ्कदत्त एवैकस्तदा तद्रक्षणोद्यतः ।
त्वया किं न हतस्तत्र भीतो हि त्वं पलायितः ।। ४०
तत्तूष्णीं भव मा कश्चिदेतच्छ्रोष्यति ते वचः ।
ततो मृगाङ्कदत्तात्त्वं शूरादशिवमाप्स्यसि ।। ४१
एवमुक्तवतीं तां च जारः क्षत्ता न चक्षमे ।
पापे मृगाङ्कदत्ते त्वं बद्धभावाधुना ध्रुवम् ।। ४२
तदस्यानुभवेदानीमधिक्षेपस्य मे फलम् ।
इत्युक्त्वा च स हन्तुं तामुत्तस्थौ सासिधेनुकः ।। ४३
ततो रहस्यधारिण्या तत्र चेटिकयैकया ।
धावित्वा छुरिका तस्यावष्टब्धाभूत्करेण सा ।। ४४
तावद्ययौ मञ्जुमती ततो निर्गत्य सान्यतः ।
क्षत्ता च तस्याश्चेट्यास्तां निकृत्ताङ्गुलितः करात् ।। ४५
आक्षिप्य छुरिकां प्रायात्स्वगृहं स यथागतम् ।
मृगाङ्कदत्तेन सममाकुलो विस्मितात्मना ।। ४६
गच्छाम्यहं भवान्प्राप्तो गृहानिति च तत्र तम् ।
मृगाङ्कदत्तः क्षत्तारं तमस्यप्रकटोऽब्रवीत् ।। ४७
इह निद्रां भज क्षिप्रं परिश्रान्तो भृशं ह्यसि ।
इति सोऽपि प्रतीहारो राजपुत्रं तमभ्यधात् ।। ४८
ततस्तथेति तेनोक्ते तच्चेष्टालोकनैषिणा ।
क्षत्ता स्वभृत्यमत्रैकं समाहूय जगाद सः ।। ४९
स मयूरः स्थितो यत्र तत्रैनं नय वासकम् ।
पुरुषं विश्रमायास्मै शयनीयं प्रयच्छ च ।। ५०
तथेति च स तद्भृत्यस्तस्मिन्प्रावेशयद्गृहे ।
नीत्वा मृगाङ्कदत्तं तं दत्तशय्यं सदीपके ।। ५१
गते तस्मिन्बहिर्द्वारं बद्ध्वा शृङ्खलयात्र सः ।
मृगाङ्कदत्तोऽपश्यत्तं मयूरं पञ्जरस्थितम् ।। ५२
सोऽयमुक्तोऽमुना क्षत्त्रा शिखीत्यालोच्य कौतुकात् ।
तस्य चोद्घाटयामास मयूरस्य स पञ्जरम् ।। ५३
मयूरः स च निर्गत्य निपुणं वीक्ष्य पादयोः ।
मृगाङ्कदत्तस्य मुहुर्निपपात लुलोठ च ।। ५४
लुठतस्तस्य दृष्ट्वा च कण्ठबद्धं स सूत्रकम् ।
राजपुत्रो मुमोचाशु मत्वा तं तेन पीडितम् ।। ५५
स मुक्तकण्ठसूत्रश्च मयूरस्तस्य पश्यतः ।
संपन्नोऽभूत्तदा तस्य मन्त्री भीमपराक्रमः ।। ५६
ततो मृगाङ्कदत्तस्तमाश्लिष्योत्सुकमानतम् ।
सखे कथय किं न्वेतदिति पप्रच्छ विस्मयात् ।। ५७
अवोचदथ संहृष्टः स तं भीमपराक्रमः ।
शृणु देव स्ववृत्तान्तमा मूलात्कथयामि ते ।। ५८
तदाहं नागशापेन विभ्रष्टो भवदन्तिकात् ।
भ्रमन्नटव्यां संप्रापमेकं शाल्मलिपादपम् ।। ५९
तस्मिन्निखातरूपां च गणेशप्रतिमामहम् ।
दृष्ट्वा प्रणम्य तन्मूले परिश्रान्त उपाविशम् ।। ६०
अचिन्तयं च धिक्सर्वमिदं पापं मया कृतम् ।
रात्रिवेतालवृत्तान्तमावेद्य स्वामिने तदा ।। ६१
तदिहैव त्यजाम्येतमात्मानमपराधिनम् ।
इत्यालोच्यात्र देवाग्रे स्थितोऽभूवमभोजनः ।। ६२
गते कतिपयाहे च कोऽपि तेनागतः पथा ।
वृद्धपान्थस्तरोस्तस्य च्छायायां समुपाविशत् ।। ६३
एवं म्लानमुखः पुत्र कि स्थितोऽसीह निर्जने ।
इति दृष्ट्वा च सोऽपृच्छत्साधुर्मामनुबन्धतः ।। ६४
ततो मया स्ववृत्तान्ते यथावद्विनिवेदिते ।
स वृद्धपथिकः प्रीत्या धीरयन्मामभाषत ।। ६५
आत्मानं हंसि वीरोऽपि कथं स्त्रीवत्स्त्रियोऽपि वा ।
धैर्यमापदि नोज्झन्ति तथा चेमां कथां शृणु ।। ६६
नगर्यां कोशलाख्यायां विमलाकर इत्यभूत् ।
राजा तस्य च पुत्रोऽभूत्कमलाकरसंज्ञकः ।। ६७
यस्तेजोरूपदातृत्वगुणैः श्लाघ्यो विनिर्ममे ।
धात्रेव स्कन्दकंदर्पकल्पद्रुमजिगीषया ।। ६८
तस्यैकदा कुमारस्य दिक्षु स्तुत्यस्य बन्दिभिः ।
गाथामेकां पपाठैको बन्दी परिचितः पुरः ।। ६९
पद्मासादनसोत्सवनानामुखरद्विजालिपरिगीतम् ।
कमलाकरमप्राप्ता क्व रतिं हंसावली लभताम् ।। ७०
एवं मुहुः पठन्पृष्टस्तेन बन्दी जगाद तम् ।
स मनोरथसिद्ध्याख्यः कुमारं कमलाकरम् ।। ७१
देव भ्राम्यन्गतोऽभूवं राज्ञोऽहं मेघमालिनः ।
नगरीं विदिशां नाम लीलोद्यानभुवं श्रियः ।। ७२
तत्र दर्दुरकाख्यस्य गीताचार्यस्य वेश्मनि ।
अहमासं स चैवं मां प्रसङ्गेनैकदाब्रवीत् ।। ७३
इह हंसावली नाम दुहिता नृपतेः पुरः ।
नवीनशिक्षितं प्रातः स्वनृत्तं दर्शयिष्यति ।। ७४
तच्छ्रुत्वा कौतुकाद्युक्त्या समं तेनापरेऽहनि ।
अहं राजकुलं गत्वा प्राविशं रङ्गमण्डपम् ।। ७५
तत्राहतमहातोद्ये तामपश्यं सुमध्यमाम् ।
हंसावलीं राजकन्यां नृत्यन्तीं पितुरग्रतः ।। ७६
आलोलपुष्पाभरणां पाणिप्रेङ्खितपल्लवाम् ।
वल्लीमिव स्मरतरोर्यौवनानिलघूर्णिताम् ।। ७७
ततश्चाचिन्तयमहं नैवास्या हरिणीदृशः ।
भर्तास्ति कश्चिद्योग्योऽन्यः कुमारात्कमलाकरात् ।। ७८
तेन चेत्तादृशेनेयं युज्यते नेदृशी ततः ।
कामस्य किं कृते पुष्पकार्मुकारोपणग्रहः ।। ७९
तदुपायं करोम्यत्र तावदित्यनुचिन्तयन् ।
प्रेक्षणान्ते ततो राजकुलद्वारमगामहम् ।। ८०
चित्रं लिखतु योऽत्रास्ति चित्रकृत्सदृशो मया ।
अभिलिख्येति तत्राहं चीरिकामुदलम्बयम् ।। ८१
अपाटितायामन्येन तस्यां बुद्ध्वा नृपोऽत्र तत् ।
आहूय स्वसुतावासे चित्रकृत्ये न्ययुङ्क्त माम् ।। ८२
ततो वासगृहे तस्या हंसावल्याः सभृत्यकः ।
भित्तौ मयाभिलिखितस्त्वं देव कमलाकर ।। ८३
स्पष्टं चेत्ख्यापयाम्येतत्तद्धूर्तं वेत्ति मामियम् ।
तदेतां राजतनयां युक्त्यैतद्बोधयाम्यहम् ।। ८४
इति संचिन्त्य सुहृदं विश्वस्तं कृतसंविदम् ।
तत्रैकमहमुन्मत्तरूपं रम्यमकारयम् ।। ८५
स उन्मत्तो भ्रमन्गायन्नृत्यंश्चालोक्य दूरतः ।
आनाय्यत क्रीडनको राजपुत्रैर्निजान्तिकम् ।। ८६
ततः क्रीडावशाद्दृष्ट्वा हंसावल्या स्ववासकम् ।
प्रवेशितश्च संपश्यन्स चित्रं त्वत्स्तुतिं व्यधात् ।। ८७
दिष्ट्या दृष्टोऽब्जशङ्खाङ्कपाणिर्लक्ष्मीविलासभूः ।
सोऽयं हरिरिवानन्तगुणौघः कमलाकरः ।। ८८
इत्यादि नृत्यतस्तस्माद्राजकन्या निशम्य सा ।
मामपृच्छत्किमाहायं कश्चैष लिखितस्त्वया ।। ८९
इति तामनुबन्धेन पृच्छन्तीमहमुक्तवान् ।
दृष्टपूर्वोऽमुना नूनमुन्मत्तेनैष सुन्दरि ।। ९०
राजपुत्रो मया योऽयं लिखितो रूपगौरवात् ।
इत्युक्त्वा त्वं मया तस्यै गुणैर्नाम्ना च वर्णितः ।। ९१
ततः स्फूर्जद्भवत्प्रेमरसासेकाप्लुते हृदि ।
संभूतोऽभिनवस्तस्या हंसावल्याः स्मरद्रुमः ।। ९२
अथागतेन राज्ञात्र पित्रा तस्या विलोक्य सः ।
नृत्यन्नुन्मत्तकोऽहं च क्रोधान्निष्कालितौ ततः ।। ९३
ततः प्रभृति चोत्का सा क्षीयमाणा दिने दिने ।
कृष्णपक्षेन्दुलेखेव याता लावण्यशेषताम् ।। ९४
मान्द्यव्याजाच्च पापघ्नमाश्रित्यायतनं हरेः ।
विजनासेविनी युक्त्या जाता सानुज्ञया पितुः ।। ९५
भवच्चिन्ताविनिद्रा च चन्द्रचन्द्रातपासहा ।
स्थिता निशावासरयोरत्र भेदमजानती ।। ९६
तत्र चायतनोद्देशात्प्रविष्टं मां विलोक्य सा ।
आद्वय वस्त्राभरणैः सगौरवमपूजयत् ।। ९७
पूजितो निर्गतश्चाहं तद्दत्तवसनाञ्चले ।
गाथामपश्यं लिखितां त्वत्कृते शृणु तां पुनः ।। ९८
पद्मासादनसोत्सवनानामुखरद्विजालिपरिगीतम् ।
कमलाकरमप्राप्ता क्व रतिं हंसावली लभताम् ।। ९९
वाचयित्वाहमेतां च लब्धतश्चित्तनिश्चयः ।
त्वद्बोधनार्थमागत्य तवैनां पुरतोऽपठम् ।। १००
इदं वस्त्रं च तद्यत्र गाथैषा लिखिता तया ।
इति बन्दिवचः श्रुत्वा गाथां तां प्रविलोक्य च ।। १०१
स श्रोत्रेणोत नेत्रेण प्रविष्टामिव तां हृदि ।
तदा हंसावलीं ध्यायञ्जहर्ष कमलाकरः ।। १०२
तत्प्राप्त्युपायं यावच्च स चिन्तयति सूत्सुकः ।
तावत्पिता तमाहूय राजा दैवादभाषत ।। १०३
अलसाः पुत्र राजानो मन्त्रबद्धा इवोरगाः ।
नश्यन्त्यन्ये तु नष्टा अप्युदयन्ते कथं पुनः ।। १०४
त्वया च दृष्टा नाद्यापि जिगीषा सुखसङ्गिना ।
तदुद्युक्तो भवालस्यमुत्सृज्य मयि तिष्ठति ।। १०५
विजयस्वाग्रतो गत्वा त्वमङ्गाधिपतिं रिपुम् ।
अस्मान्प्रति कृतारम्भं निजदेशाद्विनिर्गतम् ।। १०६
एतत्पितृवचो हृष्टः प्रतिपेदे तथेति सः ।
शूरः प्रियां प्रति च तां यियासुः कमलाकरः ।। १०७
ततः पित्रा समादिष्टैः प्रतस्थे स बलैः सह ।
आकम्पयन्महीपृष्ठं हृदयानि च विद्विषाम् ।। १०८
अथ प्रयाणकैः कैश्चित्प्राप्याङ्गाधिपतेश्चमूम् ।
प्रत्यवस्कन्दभग्नेन सहायुध्यत तेन सः ।। १०९
अब्धेर्जलमिवागस्त्यस्तेजस्वी तस्य च द्विषः ।
बलं पपौ स जग्राह जीवग्राहं च तं जयी ।। ११०
प्रजिघाय च संयम्य पितुः पार्श्वममुं रिपुम् ।
प्रतीहारस्य धुर्यस्य हस्ते दत्त्वानुयात्रिकान् ।। १११
अहमन्यान्रिपूञ्जेतुमितस्तात गतोऽधुना ।
इति क्षत्तुर्मुखेनास्मै पित्रे संदिशति स्म सः ।। ११२
ततो जयन्क्रमेणान्यान्नृपानुपचितो बलैः ।
स प्राप विदिशापुर्या निकटं कमलाकरः ।। ११३
तत्र स्थितश्च व्यसृजत्स दूतं मेघमालिने ।
राज्ञे हंसावलीपित्रे याचितुं तां तदात्मजाम् ।। ११४
सोऽपि दूताददुष्टं तं बुद्ध्वा कन्यार्थमागतम् ।
मेघमाली नृपः प्रीत्या तत्पार्श्वं स्वयमाययौ ।। ११५
कृतातिथ्योऽब्रवीच्चैनं राजपुत्रं कृतादरम् ।
स्वयं परिश्रमो दूतसाध्येऽर्थे किं कृतस्त्वया ।। ११६
ममाभिवाच्छितं ह्येतत्कारणं शृणु चात्र यत् ।
एतां हंसावलीं बाल्येऽप्यच्युतार्चनतत्पराम् ।। ११७
शिरीषसुकुमाराङ्गीं दृष्ट्वा चिन्ता ममोदभूत् ।
ईदृग्गुणायाः सदृशो वरः कोऽस्या भवेदिति ।। ११८
अपश्यतश्च सदृशं वरमस्यास्ततो मम ।
तच्चिन्तया विनिद्रस्य ह्युदपादि महाञ्ज्वरः ।। ११९
तत्प्रशान्त्यै च संपूज्य कृतविज्ञप्तिमार्तितः ।
रात्रावीषत्सनिद्रं मां हरिः स्वप्ने समादिशत् ।। १२०
यत्कृते पुत्र जातोऽयं ज्वरस्ते सैव पाणिना ।
हंसावली त्वां स्पृशतु ततः शाम्यति ते ज्वरः ।। १२१
मत्पूजापावनेनैषा यं यं हस्तेन संस्पृशेत् ।
तस्य तस्य ह्यसाध्योऽपि ज्वरो नश्येदसंशयम् ।। १२२
एतद्विवाहचिन्ता च न कार्या भवता पुनः ।
राजपुत्रः पतिर्भावी यतोऽस्याः कमलाकरः ।। १२३
कालं तु कंचिदेतस्या मनाक् क्लेशो भविष्यति ।
इति शार्ङ्गभृतादिष्टः प्रबुद्धोऽस्मि निशाक्षये ।। १२४
ततो हंसावलीहस्तस्पर्शाज्जातोऽस्मि विज्वरः ।
तदैवं युवयोरेष संयोगो देवनिर्मितः ।। १२५
तत्ते हंसावली दत्ता मयेत्युक्त्वा प्रकल्प्य च ।
लग्नं स राजधानीं स्वां मेघमाली नृपो ययौ ।। १२६
तत्रोक्तं तेन तत्सर्वं श्रुत्वा हंसावली रहः ।
सखीमाह रहस्यज्ञां नाम्ना कनकमञ्जरीम् ।। १२७
त्वयासौ दृश्यतां गत्वा राजपुत्रः स एव किम् ।
चित्रकृल्लिखितेनेह येन मे हृदयं हृतम् ।। १२८
तातः कदाचिदन्यस्मै सबलायागताय माम् ।
दद्यात्तन्नामधेयाय भयाद्धि प्राभृतीकृताम् ।। १२९
इत्युक्त्वा प्रेषिता स्वैरं तया कनकमञ्जरी ।
साक्षसूत्राजिनजटं तापसीवेषडम्बरम् ।। १३०
विधाय गत्वा कटकं राजपुत्रस्य तस्य सा ।
आवेदिता परिजनैः प्रविश्यैव विलोक्य तम् ।। १३१
कामस्येव जगज्जैत्रमोहनास्त्राधिदैवतम् ।
तद्रूपहृतचित्ताभूत्समाधिस्येव तत्क्षणम् ।। १३२
सोत्का चाचिन्तयत्स्यान्मे संगमो नेदृशेन चेत् ।
धिग्जन्म तर्हि युक्तं तत्करिष्येऽत्र यदस्त्विति ।। १३३
अथोपसृत्य दत्ताशीस्तस्मै मणिमुपानयत् ।
उवाच चोपविष्टा तमात्तरत्नं कृतादरम् ।। १३४
मयायमसकृद्दृष्टप्रत्ययो मणिरुत्तमः ।
धारितेनामुना शत्रोः स्तम्भ्यते शस्त्रमुत्तमम् ।। १३५
गुणानुरागाच्च मया तुभ्यमेव समर्पितः ।
यथा तवोपयुक्तोऽयं राजपुत्र न मे तथा ।। १३६
एवमुक्तवती तेन व्याहृता राजसूनुना ।
एकभिक्षाव्रतव्याजात्सा निषिध्य ययौ ततः ।। १३७
विमुच्य तापसीवेषं कृत्वोद्विग्नमिवाननम् ।
हंसावलीमुपागात्सा पृष्टा तां च मृषाब्रवीत् ।। १३८
अवाच्यमपि ते राजरहस्यं वच्मि भक्तितः ।
इतो मां तापसीवेषां राजपुत्रस्य तस्य तम् ।। १३९
गतां कटकमभ्येत्य स्वैरमेकोऽभ्यधात्पुमान् ।
भगवत्यपि जानासि भूततन्त्रविधिक्रमम् ।। १४०
तच्छ्रुत्वा तं प्रतीहारमिव दृष्ट्वाहमब्रवम् ।
सुष्ठु जानामि किं नाम ममैतत्किल वस्त्विति ।। १४६
ततोऽहं तेन तस्यैव सकाशं देवि तत्क्षणम् ।
राजपुत्रस्य कमलाकरस्यात्र प्रवेशिता ।। १४२
स च दृष्टो मया रुग्णो भूताविष्टो विषण्णया ।
संयम्यमानः पार्श्वस्थैराबद्धौषधिसन्मणिः ।। १४३
रचितालीकरक्षा च निर्गताहं ततः क्षणात् ।
प्रातरेत्यापनेष्यामि दोषमस्येतिवादिनी ।। १४४
ततोऽशङ्कितदृष्टेदृगनिष्टात्यर्थदुःखिता ।
आगतास्मि तवाख्यातुं प्रमाणं त्वमतः परम् ।। १४५
श्रुत्वैतद्रचितं तस्या वचो निर्घातदारुणम् ।
ऋज्वी हंसावली क्षिप्रं संमुह्यैव जगाद ताम् ।। १४६
गुणवत्यां स्वसृष्टावप्यहो धिङ्मत्सरो विधेः ।
इन्दोः कलङ्को दोषश्च तस्य येनैष निर्मितः ।। १४७
वृतश्च स मया भर्ता न शक्यश्चोपलक्षितुम् ।
तस्मान्मे मरणं श्रेयो वने वा गमनं क्वचित् ।। १४८
तदत्र वद किं कार्यमित्युक्ता मुग्धया तया ।
मायिनी तामवादीत्सा पुनः कनकमञ्जरी ।। १४९
विवाहे विनिधायैकां त्वद्वेषामिह चेटिकाम् ।
निर्गत्य क्वापि यास्यावस्तत्कालं व्याकुले जने ।। १५०
तच्छ्रुत्वा राजपुत्री सा कुसखीं तामभाषत ।
त्वमेव तर्हि मद्वेषं कृत्वात्मानं विवाहय ।। १५१
तेन राजसुतेनान्या का ममाप्ता भवादृशी ।
इत्युक्ता सा तया पापावोचत्कनकमञ्जरी ।। १५२
एवं करिष्ये युक्त्याहं भवाश्वस्ता यदस्तु मे ।
तत्कालं तु यथा वक्ष्ये कुर्वीथास्त्वं तथैव तत् ।। १५३
इत्याश्वास्यैव तां गत्वाशोककर्यै शशंस सा ।
विश्वासभूमये सख्यै स्वरहस्य चिकीर्षितम् ।। १५४
तयैव सहिता तां च तान्यहान्यन्वसेवत ।
हंसावलीं विमनसं कृतकर्तव्यसंविदम् ।। १५५
प्राप्ते चोद्वाहदिवसे वरे सायमुपागते ।
तस्मिन्गजाश्वपादातसहिते कमलाकरे ।। १५६
सर्वस्मिन्नुत्सवव्यग्रे जने युक्त्यान्यचेटिकाः ।
निवार्य वासकं गुप्तं प्रसाधननिभाद्द्रुतम् ।। १५७
हंसावलीं प्रवेश्यैव कृत्वा तद्वेषमात्मनः ।
चक्रेऽशोककरीवेषां तां सा कनकमञ्जरी ।। १५८
अशोककर्याः स्वं वेषं सहचर्या विधाय च ।
प्राप्ते निशागमे हंसावलीमेतामुवाच सा ।। १५९
पश्चिमेन विनिर्गत्य द्वारेणास्याः पुरो बहिः ।
क्रोशमात्रे पुराणोऽस्ति सुषिरः शाल्मलिद्रुमः ।। १६०
गत्वा तस्यान्तरे स्थित्वा प्रतीक्षस्व मदागमम् ।
कृते कार्ये च तत्राहं त्वामुपैष्यामि निश्चितम् ।। १६१
इत्युक्ता सा तया व्याजसख्या हंसावली तदा ।
निरगात्तत्सखीवेषा तथेत्यन्तःपुरान्निशि ।। १६२
प्रायाच्च जन्याकीर्णेन पुरीद्वारेण तेन सा ।
निर्गत्यालक्षिता तस्य मूलं शाल्मलिशाखिनः ।। १६३
दृष्ट्वान्धकारगहनं तद्गर्भं नाविशच्च सा ।
बिभ्यती तत्समीपस्थं त्वारुरोह वटद्रुमम् ।। १६४
तत्रासीत्पल्लवच्छन्ना कुसखी मार्गदर्शिनी ।
बुबुधे न तु तस्यास्तां कुसृतिं सरलाशया ।। १६५
तावद्राजकुले तत्र लग्नकालेऽभ्युपस्थिते ।
धृतहंसावलीवेषां स्थितां कनकमञ्जरीम् ।। १६६
आनाय्यारोपितां वेदीं राज्ञा तां कमलाकरः ।
उपयेमे सनीरङ्गीं निशि केनाप्यलक्षिताम् ।। १६७
कृतोद्वाहो गृहीत्वा च व्याजहंसावलीं द्रुतम् ।
मायाकनकमञ्जर्याशोककर्या युतां स ताम् ।। १६८
अद्यैव शुभनक्षत्रवशात्स्वकटकं प्रति ।
तेन प्रत्यक्पुरीद्वारमार्गेण प्रययौ ततः ।। १६९
गच्छंश्च शाल्मलितरोर्निकटं प्राप तस्य सः ।
यस्यान्तिके विप्रलब्धा स्थिता हंसावली वटे ।। १७०
प्राप्तं चात्र तमालिङ्ग्य त्रस्तेव कमलाकरम् ।
कूटहंसावली साशु तदारूढेभपृष्ठगा ।। १७१
संभ्रमात्तेन पृष्टा च कैतवात्साश्रुरब्रवीत् ।
आर्यपुत्राद्य जानेऽहं स्वप्नेऽस्माच्छाल्मलिद्रुमात् ।। १७२
निर्गत्य राक्षसीव स्त्री मां भक्षयितुमग्रहीत् ।
ततः प्रधाव्य केनापि ब्राह्मणेनास्मि मोचिता ।। १७३
तेनैवाश्वास्य चोक्ताहं पुत्र्यमुं दाहयेस्तरुम् ।
एतस्मान्निरियात्स्त्री चेत्क्षेप्तव्यात्रैव सा पुनः ।। १७४
एवं शिवं स्यादित्युक्त्वा द्विजे तस्मिंस्तिरोहिते ।
प्रबुद्धाहं स्मृतं चैतद्दृष्ट्वा तरुममुं मया ।। १७५
तेन भीताहमित्युक्तस्तया स कमलाकरः ।
आदिदेशाशु भृत्यान्स्वांस्तयोर्दाहे तरुस्त्रियोः ।। १७६
अधाक्षुस्ते च तं वृक्षं कूटहंसावली च सा ।
दग्धां हंसावलीमत्र मेनै तस्मादनिर्गताम् ।। १७७
ततस्तया स कमलाकरो निर्वृतया सह ।
सत्यहंसावलीलाभं मन्वानः कटकं ययौ ।। १७८
ततोऽपि त्वरितं यातः प्रातः स्वां कोशला पुरीम् ।
कृतकार्यत्वतुष्टेन पित्रा राज्येऽभ्यषिच्यत ।। १७९
वनं पितरि याते च सोऽनुशास्ति स्म मेदिनीम् ।
व्याजहंसावलीं भार्यां बिभ्रत्कनकमञ्जरीम् ।। १८०
स मनोरथसिद्धिस्तु दूरे राजकुलादभूत् ।
बन्दी तया परिज्ञानाच्छरीरभयशङ्कया ।। १८१
सापि हंसावली तस्यां रात्रौ तत्र वटे स्थिता ।
श्रुत्वा दृष्ट्वा च तत्सर्वं वञ्चितास्मीत्यबुध्यत ।। १८२
अचिन्तयत्तु तत्कालं प्रयाते कमलाकरे ।
अहो ममैतया कान्तः कुसख्या छद्मना हृतः ।। १८३
अहो दग्ध्वैव मामस्मान्निर्वृतिं प्राप्तुमीप्सति ।
अश्रेयसे न वा कस्य विश्वासो दुर्जने जने ।। १८४
तदस्य मत्कृते दग्धस्याङ्गारार्चिषि शाल्मलेः ।
क्षिपाम्यभव्यमात्मानं भवस्याभ्यानृणा तरोः ।। १८५
इत्यालोच्यावरुह्याथ वटात्प्राणव्ययोन्मुखी ।
जातबुद्धिर्विधेर्योगादित्यन्तर्विममर्श सा ।। १८६
किं त्यजामि वृथात्मानं जीवन्ती नचिरादहम् ।
मन्युप्रतिक्रिया तस्याः करिष्यामि सखीद्रुहः ।। १८७
तातस्य हि तदा स्वप्ने ज्वराक्रान्तस्य शौरिणा ।
तच्छान्तिं मत्करस्पर्शादादिश्योक्तमभूदिदम् ।। १८८
हंसावली पतिं प्राप्स्यत्युचितं कमलाकरम् ।
कालं कमपि तु क्लेशो भवितास्या मनागिति ।। १८९
तद्गत्वा क्वापि पश्यामि तावदित्यवधार्य सा ।
हंसावली ततः प्रायान्निर्जनामटवीं प्रति ।। १९०
दूरं गतायास्तस्याश्च क्लान्तायाः प्रस्खलद्गतेः ।
मार्गप्रकटनायेव दयया सा ययौ क्षपा ।। १९१
तद्दर्शनसमुद्भूतकृपावेशवशादिव ।
मुमोच द्यौरवश्यायबाष्पवारिकणोत्करम् ।। १९२
तदश्रुमार्जनायेव प्रसारितकरो रविः ।
दर्शिताशाकृताश्वासमुदगाद्गुणिबान्धवः ।। १९३
ततः सा किंचिदुच्छ्वस्ता निरस्तजनदर्शना ।
उत्पथैः क्रमशो यान्ती कुशकण्टकविक्षता ।। १९४
राजपुत्री चिरात्प्राप वनमेकं विहंगमैः ।
गुञ्जद्भिरित एहीति वदद्भिरिव राजितम् ।। १९५
तत्र सा प्राविशच्छ्रान्ता वीज्यमानेव सादरम् ।
वातवेल्लल्लताजालतालवृन्तैरनोकहैः ।। १९६
ददर्श च वनं सा तन्मधुस्फीतं प्रियोत्सुका ।
प्रफुल्लसहकारस्थकलकूजितकोकिलम् ।। १९७
विग्ना च चिन्तयामास मां दहत्यत्र यद्यपि ।
पुष्परेणुपिशङ्गोऽयं मलयानिलपावकः ।। १९८
तरुभ्यो निपतन्तश्च कुसुमप्रकरा इमे ।
नदत्स्वलिषु निघ्नन्ति कामबाणोत्करा इव ।। १९९
तथापि कुसुमैरेभिः पूजयन्ती रमापतिम् ।
इहैव तावत्तिष्ठामि क्षपयन्ती स्वदुष्कृतम् ।। २००
इति संचिन्त्य वापीषु स्नान्ती तस्थौ फलाशना ।
तत्र पूजापरा शौरेः प्रेप्सुः सा कमलाकरम् ।। २०१
अत्रान्तरे कोशलायां विधियोगाज्ज्वरेण सः ।
चातुर्थिकेन दीर्घेण जगृहे कमलाकरः ।। २०२
तद्दृष्ट्वा तत्र सा पापा कूटहंसावलो तदा ।
भीता व्यचिन्तयच्चेतस्येवं कनकमञ्जरी ।। २०३
एकं तावद्भयं मेऽन्तः सदाशोककरीकृतम् ।
मन्त्रभेदात्तदुपरि द्वितीयमिदमागतम् ।। २०४
यदस्य मत्प्रभोः पूर्वं कथितो ज्वरनाशनः ।
हंसावलीकरस्पर्शस्तत्पित्रा जनसंनिधौ ।। २०५
तच्चाधुना ज्वराक्रान्तो यदैवैष स्मरिष्यति ।
अतत्प्रभावा नङ्क्ष्यामि तदैवोद्घाटिता सती ।। २०६
तन्मे कयापि योगिन्या यः पूर्वं ज्वरचेटकः ।
प्रोक्तो विधिवदस्यार्थे ज्वरघ्नं साधयामि तम् ।। २०७
तस्यैवाग्रे च हन्म्येतां युक्त्याशोककरीं यतः ।
मानुषाङ्गैः कृतार्घादिः स सिद्धोऽभीष्टकृद्भवेत् ।। २०८
एवं राज्ञो ज्वरे नष्टेऽशोककर्यानया सह ।
उभे भये मे शाम्येतां न पश्याम्यन्यथा शिवम् ।। २०९
इत्यालोच्याविरुद्धं यत्तत्तस्यै स्वमनीषितम् ।
शशंसाशोककर्यै सा मानुषाघातवर्जितम् ।। २१०
ततो दत्तानुमतया संभारे ढौकिते तया ।
तद्द्वितीया स्वया युक्त्या बहिः कृत्वा परिच्छदम् ।। २११
द्वारान्तरेण निर्गत्य गुप्तमन्तःपुरान्निशि ।
ययौ शून्यैकलिङ्गं सा खड्गहस्ता शिवालयम् ।। २१२
तत्र खड्गहतच्छागशोणितस्नातरञ्जितम् ।
तदस्रकल्पितार्घं च तदन्त्रस्रग्विवेष्टितम् ।। २१३
आनर्च शिवलिङ्गं सा तद्धृत्पद्मेन मूर्धनि ।
धूपं दत्त्वा तदक्षिभ्यां तच्छिरोऽस्मै बलिं ददौ ।। २१४
ततस्तदग्रवेद्यां च लिप्तायां रक्तचन्दनैः ।
लिलेख गोरोचनया कमलं साष्टपल्लवम् ।। २१५
तत्कर्णिकायां सास्रेण पिष्टेन रचितं ज्वरम् ।
भस्ममुष्टिप्रहरणं त्रिपादं त्रिमुखं न्यधात् ।। २१६
पल्लवेषु निवेश्यात्र परिवारं यथाविधि ।
ज्वरस्य निजमन्त्रेण तस्याह्वानं व्यधत्त सा ।। २१७
ततः पूर्वोक्तवत्सास्य स्नानार्घ्याद्यौपहारिकम् ।
चिकीर्षुर्मानुषाङ्गास्रैः प्राहाशोककरीं स्म ताम् ।। २१८
भूतले न्यस्तसर्वाङ्गं देवस्य सखि सांप्रतम् ।
कुरु प्रणाममेवं हि श्रेयस्तव भविष्यति ।। २१९
ततस्तथेति धरणौ प्रणताया दुराशया ।
तस्याः खड्गप्रहारं सा ददौ कनकमञ्जरी ।। २२०
तेन दैवान्मनाक्स्कन्धे क्षता सत्रासमुत्थिता ।
विद्रुता सानुयान्तीं तां दृष्ट्वा कनकमञ्जरीम् ।। २२१
त्रायध्वमिति चक्रन्द यदाशोककरी मुहुः ।
तेनाभ्यधावन्नगरीरक्षिणोऽत्राभितो जनाः ।। २२२
ते दृष्ट्वाकृष्टखङ्गां तां भीमां कनकमञ्जरीम् ।
मृतकल्पां व्यधुः शस्त्रप्रहारै राक्षसीधिया ।। २२३
बुद्ध्वाशोककरीवक्त्राद्यथातत्त्वं ततश्च ते ।
द्वे ते राजकुलं निन्युः पुरस्कृत्य पुराधिपम् ।। २२४
विज्ञप्तस्तत्र तै राजा संभ्रान्तः कमलाकरः ।
आनाययत्कुभार्यां तां स्वान्तिकं तां च तत्सखीम् ।। २२५
तयोश्चानीतयोर्भीत्या प्रहारव्यथया च सा ।
तीव्रयोत्क्रान्तजीवाभूत्सद्यः कनकमञ्जरी ।। २२६
ततोऽशोककरीं राजा व्रणितां तां स तत्सखीम् ।
किमिदं निर्भया ब्रूहीत्यपृच्छदतिदुर्मनाः ।। २२७
सा च तस्मै तदा मूलात्तथा सर्वमवर्णयत् ।
यथा कनकमञ्जर्या कृतं तद्व्याजसाहसम् ।। २२८
ततोऽधिगततत्त्वार्थः स राजा कमलाकरः ।
एवं शुशोच तत्कालमात्मानं भृशदुःखितः ।। २२९
विप्रलब्धोऽस्म्यहं कूटहंसावल्या बतैतया ।
मूढेन यत्स्वहस्तेन दग्धा हंसावली मया ।। २३०
स्वदुष्कृतफलं तावत्पापया लब्धमेतया ।
यद्राजमहिषी भूत्वा प्राप्तैषा वधमीदृशम् ।। २३१
कथं तु रूपमात्रेण संमोह्याहं शिशुर्यथा ।
हृतरत्नेन मुषितो दत्त्वा काचं कुवेधसा ।। २३२
ज्वरशान्त्यै मया सोऽपि ज्ञप्तिकृद्वत न स्मृतः ।
हंसावलीकरस्पर्शस्तत्पितुर्विष्णुनोदितः ।। २३३
एवं स विलपन्स्मृत्वा व्यमृशत्कमलाकरः ।
हंसावली पतिं प्राप्स्यत्येषा क्लेशो मनाक्पुनः ।। २३४
भवितास्या इति वचो वैष्णवं मेघमालिना ।
तत्पित्रोक्तं हि मे तच्च प्रसिद्धं न भवेन्मृषा ।। २३५
तत्सा कथंचिदन्यत्र गता जीवेत्कदाचन ।
स्त्रीचित्तस्येव दैवस्य को वेत्ति गहनां गतिम् ।। २३६
तन्मनोरथसिद्धिः स बन्दी मेऽत्र गतिः पुनः ।
इत्यालोच्य स तं बन्दिवरमानाययन्नृपः ।। २३७
अब्रवीच्च कथं भद्र भवान्नैवेह दृश्यते ।
क्व मनोरथसिद्धिर्वा तेषां ये धूर्तवञ्चिताः ।। २३८
तच्छ्रुत्वा सोऽवदद्बन्दी मन्त्रभेदभयाहता ।
एषैवाशोककर्यत्र महाराज ममोत्तरम् ।। २३९
न च हंसावलीहेतोः कार्या तेऽत्र विषादिता ।
आदिष्टा हरिणैवास्याः कंचित्कालं हि दुःस्थितिः ।। २४०
तन्नित्याराधनोद्योगान्निश्चितं तां स रक्षति ।
प्रभवत्येव धर्मो हि नेह दृष्टं तथा च किम् ।। २४१
तदहं देव यास्यामि तत्प्रवृत्त्युपलब्धये ।
इति तेन स विज्ञप्तो बन्दिना क्षितिपोऽब्रवीत् ।। २४२
आत्मनाहं प्रयास्यामि तामन्वेष्टुं त्वया सह ।
अन्यथा नैव मे चेतः क्षणमप्यवतिष्ठते ।। २४३
एवमुक्त्वा विनिश्चित्य प्रज्ञाढ्याख्यस्य मन्त्रिणः ।
हस्तेऽन्येद्युर्निचिक्षेप राज्यं स कमलाकरः ।। २४४
वार्यमाणोऽप्यलं तेन नगर्या प्रययौ ततः ।
निर्गत्यालक्षितः साकं स मनोरथसिद्धिना ।। २४५
बभ्राम च विचिन्वानः क्षेत्राश्रमवनानि सः ।
अनपेक्षितदेहार्तिर्गुर्वी ह्याज्ञा मनोभुवः ।। २४६
क्रमेण प्राप दैवात्तत्काननं यत्र सा स्थिता ।
हंसावली तपस्यन्ती स मनोरथसिद्धिकः ।। २४७
तत्रापश्यच्च तां मूले रक्ताशोकस्य भास्वतः ।
अन्त्यामिव कलामिन्दोः क्षामां पाण्डुमनोरमाम् ।। २४८
उवाच बन्दिनं तं स केयं निःशब्दनिश्चला ।
ध्यानस्था देवता किं स्याद्रूपमस्या ह्यमानुषम् ।। २४९
तच्छ्रुत्वा वीक्ष्य सोऽवादीद्बन्दी दिष्ट्याभिवर्धसे ।
देव हंसवलीप्राप्त्या सैव ह्येषात्र तिष्ठति ।। २५०
श्रुत्वा तत्प्रेक्ष्य तौ तं च प्रत्यभिज्ञाय बन्दिनम् ।
चक्रन्द सा नवीभूतदुःखा हंसावली तदा ।। २५१
हा तात हा हतास्म्यार्यपुत्र हा कमलाकर ।
हा मनोरथसिद्धे हा विपरीतविधे विधे ।। २५२
इत्येवं विलपन्ती सा मुमूर्च्छ भुवि सोऽपि ताम् ।
श्रुत्वा दृष्ट्वापतद्भूमौ दुःखार्तः कमलाकरः ।। २५३
आश्वासिता ततस्तेन तौ मनोरथसिद्धिना ।
उभौ निश्चितविज्ञातपरस्परसुनिर्वृतौ ।। २५४
विषयोगार्णवोत्तीर्णौ कांचिन्मुदमवापतुः ।
अन्योन्यं च क्रमात्सर्वं स्वं स्वं वृत्तान्तमूचतुः ।। २५५
ततो हंसावलीं तां स गृहीत्वा कमलाकरः ।
बन्दिना सहितस्तेन ययौ स्वां कोशलां पुरीम् ।। २५६
तत्रामयहरं तस्याः पाणिं विधिवदग्रहीत् ।
आनायिते तत्पितरि प्रतीते मेघमालिनि ।। २५७
तदा तया समं युक्तो विशुद्धोभयपक्षया ।
हंसावल्यातिविमलः शुशुभे कमलाकरः ।। २५८
अरंस्त च तया साकं कृती फलितधैर्यया ।
शासन्महीमवियुतः स मनोरथसिद्धिना ।। २५९
एवमापद्यसंत्यक्तधैर्यैः सर्वमवाप्यते ।
तद्वत्स मा तनुं त्याक्षीर्जीवन्प्राप्स्यसि तं प्रभुम् ।। २६०
इत्थं स वृद्धपथिकः कथामाख्याय देव मे ।
निवार्य मरणान्मां च यथाकामं ययौ ततः ।। २६१
इत्युक्त्वा तत्र रात्रौ स चण्डकेतुगृहे सदा ।
मृगाङ्कदत्तमवदत्पुनर्भीमपराक्रमः ।। २६२
अथ लब्धोपदेशः संस्ततोऽटव्यास्त्वदाप्तये ।
गन्तुं तवाभिलषितामगामुज्जयिनीमहम् ।। २६३
तत्र युष्मानसंप्राप्य श्रान्तः कस्याश्चन स्त्रियः ।
दत्तभोजनमूल्योऽहं वासाय प्राविशं गृहम् ।। २६४
तत्र तद्दत्तशयनः क्षणं सुप्तः श्रमादहम् ।
प्रबुध्य यावत्पश्यामि कौतुकान्निभृतस्थितः ।। २६५
तावत्सा स्त्री गृहीत्वैव यवमुष्टिं गृहान्तरे ।
समन्तादावपत्तत्र मन्त्रेण स्फुरिताधरा ।। २६६
तैर्यवैस्तत्क्षणं जातैः फलितैः पक्वतां गतैः ।
लूनैर्भृष्टैश्च पिष्टैश्च सक्तवो विहितास्तया ।। २६७
तान्सक्तून्कांस्यपात्र्या सा निधायाद्भिः समुक्षितान् ।
पूर्वावस्थं गृहं कृत्वा स्नानाय निरगाद्द्रुतम् ।। २६८
ततस्तां शाकिनीं मत्वा स्वैरमुत्थाय सत्वरम् ।
अन्यत्र सक्तुभाण्डे तान्पात्र्यां सक्तून्न्याधमहम् ।। २६९
सक्तुभाण्डात्ततश्चान्यान्सक्तूनुद्धृत्य तावतः ।
तस्यां स्थापितवानस्मि पात्र्यां रक्षितसंकरः ।। २७०
ततो मय्याश्रिते भूयः शयनं स्त्री प्रविश्य सा ।
उत्थाप्य मामदात्पात्र्यास्तान्सक्तून्भोजनाय मे ।। २७१
स्वयं च बुभुजे तस्माद्ग्रहीत्वा सक्तुभाण्डतः ।
तान्सिद्धसक्तूनज्ञातमत्कृतव्यत्यया सती ।। २७२
भुक्तैस्तैः सक्तुभिश्छागी समपद्यत सा तदा ।
ततो नीत्वा मयामर्षाद्विक्रीता सौनिकस्य सा ।। २७३
ततः सौनिकभार्या मामुपेत्यावोचत क्रुधा ।
मत्सखी विप्रलब्धेयं त्वया तल्लप्स्यसे फलम् ।। २७४
इति तत्तर्जितो गत्वा ततो गुप्तं बहिः पुरः ।
श्रान्तः शयितवानस्मि मूले न्यग्रोधशाखिनः ।। २७५
तथाभूतस्य मे तत्र तया सौनिकभार्यया ।
आगत्य दुष्टयोगिन्या गलेऽबध्यत सूत्रकम् ।। २७६
तस्यां गतायां पापायां प्रबुद्धोऽहं च तत्क्षणम् ।
पश्यामि यावत्प्राप्तोऽस्मि मयूरत्वं स्थितस्मृतिः ।। २७७
ततो दिनानि कतिचिद्विग्नो भ्राम्यन्नितस्ततः ।
जीवञ्शाकुनिकेनाहं गृहीतोऽभूवमेकदा ।। २७८
स चानीय ददाति स्म मामस्मै चण्डकेतवे ।
भिल्लराजप्रतीहारमुख्याय प्राभृतीकृतम् ।। २७९
प्रतीहारोऽप्ययं प्रादात्स्वभार्यायै तदैव ताम् ।
तयाहं स्थापितश्चास्मि मण्डपे क्रीडनीयकः ।। २८०
अद्येह दैवानीतेन त्वया मे कण्ठसूत्रके ।
मुक्ते प्राप्तोऽस्मि तां देव पुनः स्वां मानुषाकृतिम् ।। २८१
तदितो मङ्क्षु गच्छावः प्रतीहारो हि हन्त्यसौ ।
रात्रिचर्यासखीन्पापः प्रतिभेदभयात्सदा ।। २८२
त्वं चानीतोऽमुना रात्रिचर्याद्रष्टाद्य तत्प्रभो ।
योगिनीनिर्मितं बद्ध्वा कण्ठे सूत्रमिदं भवान् ।। २८३
मयूरीभूय निर्यातु गवाक्षेणामुना बहिः ।
ततः प्रसारितभुजः सूत्रं कण्ठात्तवोच्छ्रितात् ।। २८४
मुक्त्वा बद्ध्वात्मनः कण्ठे तद्वन्निर्याम्यहं द्रुतम् ।
त्वयाथ मुक्ते मे सूत्रे भवावः प्रकृतिस्थितौ ।। २८५
बहिरर्गलितेनास्ति द्वारेण न विनिर्गमः ।
एवमुक्तवति प्राज्ञे तस्मिन्भीमपराक्रमे ।। २८६
मृगाङ्कदत्तस्तद्युक्तस्तथेति निरगात्ततः ।
जगाम च स्वनिलयं स्थितान्यसचिवद्वयम् ।। २८७
तत्र सर्वेऽपि तेऽन्योन्यकृत्स्नवृत्तान्तवर्णनैः ।
निन्युर्मृगाङ्कदत्ताद्याः प्रहृष्टास्तां विभावरीम् ।। २८८
प्रातर्मृगाङ्कदत्तस्य पार्श्वं तस्याजगाम सः ।
मायाबटुर्भिल्लराजस्तस्यां पल्ल्यामधीश्वरः ।। २८९
स पृष्टरात्रिसौख्यस्तं राजपुत्रं विनोदयन् ।
अक्षैः क्रीडाम एहीति मायाबटुरभाषत ।। २९०
ततस्तं सप्रतीहारं वीक्ष्य भिल्लं समागतम् ।
सखा मृगाङ्कदत्तस्य सोऽथ श्रुतधिरभ्यधात् ।। २९१
किमक्षैर्विस्मृतं किं वा दृश्यमद्य हि वर्तते ।
प्रतीहारमयूरस्य नृत्यमुक्तं ह्य एव यत् ।। २९२
श्रुत्वैतच्छ्रुतधेः स्मृत्वा कौतुकाच्छबरेश्वरः ।
प्राहिणोत्स प्रतीहारं मयूरानयनाय तम् ।। २९३
कथं प्रमादाद्विस्मृत्य न स चौरो मया हतः ।
साक्षी रात्रिरहस्यस्य क्षिप्तोऽपि शिखिवेश्मनि ।। २९४
तद्यामि शीघ्रमुभयं करोमीति विचिन्तयन् ।
स्मृत्वोद्घातात्प्रतीहारः सोऽप्यगात्सत्वरं गृहम् ।। २९५
तत्र यावत्प्रविश्यैव वीक्षते शिखिवेश्मनि ।
तावन्न चौरं नाप्यत्र स मयूरं ददर्श तम् ।। २९६
अथ भीतविषण्णः स गत्वा स्वं नृपमब्रवीत् ।
निशि चौरेण मे नीतः स मयूरः प्रभो इति ।। २९७
प्रसिद्धः स महाचौरो येन बर्ही हृतः स ते ।
इति तत्र स्मितमुखेनोक्ते श्रुतधिना ततः ।। २९८
दृष्ट्वा मृगाङ्कदत्तादीन्हसतोऽन्योन्यदर्शिनः ।
मायाबटुस्तान्निर्बन्धात्किमेतदिति पृष्टवान् ।। २९९
ततः क्षत्त्रा यथा तेन रात्रौ मेलो यथा च सः ।
राजपत्न्या गृहं कामी गत्वा शस्त्रकलिं व्यधात् ।। ३००
यथा क्षत्तृगृहप्राप्तिर्यथा भीमपराक्रमः ।
मोचितोऽत्र मयूरत्वान्निर्गमश्च यथा ततः ।। ३०१
तथा मृगाङ्कदत्तः स्वं क्षत्तुः संबन्धिनं च तम् ।
वृत्तान्तं शबरेन्द्राय तस्मै सर्वं शशंस सः ।। ३०२
तद्बुद्ध्वाछुरिकापरिक्षतकरामन्तःपुरे चेटिकां
दृष्ट्वा तामथ वीक्ष्य कण्ठरचिते तस्मिन्क्षणं सूत्रके ।
भूयो भीमपराक्रमस्य शिखितां शुद्धान्तविध्वंसिनं
क्षत्तारं शबरेश्वरः सपदि तं मायाबटुं सोऽवधीत् ।। ३०३
तां त्वविनीतां राज्ञीं मृगाङ्कदत्तेन रक्षितां वधतः ।
दूरस्थितां चकार स मञ्जुमतीं परिहृतस्पर्शाम् ।। ३०४
तत्पूजितः स च ततोऽत्र पुलिन्दपल्ल्यामासीद्दिनानि किल तानि मृगाङ्कदत्तः ।
बद्धोद्यमोऽप्यधिगमाय शशाङ्कवत्याः संप्राप्तशेषसखिसंगमसव्यपेक्षः ।। ३०५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुर्थस्तरङ्गः ।