प्रमुखा विकल्पसूचिः उद्घाट्यताम्

एवं विमलबुद्ध्यादियुतो यावत्स तिष्ठति ।
मृगाङ्कदत्तो भिल्लाधिपतेर्मायाबटोर्गृहे ।। १
तावत्तत्संनिधावेत्य तमात्मीयश्चमूपतिः ।
एकदा शबराधीशं ससंरम्भो व्यजिज्ञपत् ।। २
त्वदादेशाद्विचिन्वद्भिर्भगवत्याः कृते प्रभो ।
उपहाराय पुरुषः प्राप्तोऽस्माभिः स तादृशः ।। ३
येनास्मद्वीरयोधानां खण्डितं शतपञ्चकम् ।
आनीतश्च स भूयिष्ठप्रहारविवशीकृतः ।। ४
तच्छ्रुत्वा स पुलिन्देन्द्रः सेनापतिमुवाच तम् ।
प्रवेश्यतामिहैवाशु सोऽस्माकं दर्श्यतामिति ।। ५
ततः प्रवेशितस्तेन यावत्सर्वैः स दृश्यते ।
शस्त्रक्षतोद्यद्रक्ताक्तरणधूलीकलङ्कितः ।। ६
गण्डसिन्दूरसंपृक्तस्रवद्दानाम्बुपङ्किलः ।
पाशैर्विवेष्टितो घूर्णन्मत्तो बद्ध इव द्विपः ।। ७
तावत्तं प्रत्यभिज्ञाय मन्त्रिणं स्वं गुणाकरम् ।
मृगाङ्कदत्तो धावित्वा कण्ठे प्ररुदितोऽग्रहीत् ।। ८
बुद्ध्वाथ तत्सखिभ्यस्तं स भिल्लेन्द्रो गुणाकरम् ।
प्रह्वस्तमाश्वासितवान्पादलग्नं निजप्रभोः ।। ९
प्रवेश्य च गृहं स्नातं तं बद्धव्रणपट्टकम् ।
उपाचरद्भिषक्प्रोक्तैः स पथ्यैः पानभोजनैः ।। १०
ततो मृगाङ्कदत्तस्तं समाश्वस्तं स्वमन्त्रिणम् ।
सखे कथय वृत्तान्तः कस्तवेति स पृष्टवान् ।। ११
अथ सर्वेषु शृण्वत्सु स जगाद गुणाकरः ।
श्रूयतां देव वृत्तान्तमात्मीयं कथयामि वः ।। १२
ततो नागस्य शापेन भवद्भ्योऽहं वियोजितः ।
न किंचिदविदं मोहाद्दूरां तामटवीं भ्रमन् ।। १३
चिरात्संप्राप्तबुद्धिश्च दुःखितोऽहमचिन्तयम् ।
अहो दुःशिक्षितस्यैष विलासः कोऽपि वेधसः ।। १४
मृगाङ्कदत्तः खिद्येत स्थितो हर्म्यतलेऽपि यः ।
सोऽस्यामटव्यां संतप्तसिकतायां कथं भवेत् ।। १५
कथं च ते वयस्याः स्युरित्यन्तर्विमृशन्मुहुः ।
दैवात्संप्राप्तवानस्मि पर्यटन्विन्ध्यवासिनीम् ।। १६
तस्या उपाहृतानेकनानाजीवमहर्निशम् ।
प्राविशं भवनं देव्याः कृतान्तसदनोपमम् ।। १७
तत्र देवीं प्रणम्याहमपश्यं पुरुषं शवम् ।
कण्ठान्तर्गतनिस्त्रिंशहस्तमात्मोपहारिणम् ।। १८
तं दृष्ट्वैव पुनर्दुःखहेतोर्मे त्वद्वियोगिनः ।
अभूदात्मोपहारेण देवीं तोषयितुं मतिः ।। १९
तत्खड्गमेव धावित्वा यावदस्मि गृहीतवान् ।
तावन्निवारयन्तीव दूराद्वार्धककम्पिना ।। २०
शिरसा समुपेत्यैव सकृपा कापि तापसी ।
निवार्य मरणात्पृष्ट्वा वृत्तान्तं निजगाद माम् ।। २१
मैवं कृथाः पुनर्दृष्टो मृतानामपि संगमः ।
किं पुनर्जीवतां पुत्र तथा चैतां कथां शृणु ।। २२
अहिच्छत्त्रेति नाम्नास्ति विख्याता नगरी भुवि ।
तस्यामुदयतुङ्गाख्यः पुराभूद्राजकुञ्जरः ।। २३
तस्य क्षत्ता च कमलमतिर्नाम महानभूत् ।
विनीतमतिरित्यासीत्तस्याप्यसदृशः सुतः ।। २४
समाहृतगुणेनापि प्रापि यस्य न तुल्यता ।
सच्छिद्रेण मृणालेन चापेन कुटिलेन च ।। २५
स कदाचित्सुधाधौतप्रासादोपरि पञ्चके ।
स्थितो ददर्श शीतांशुमुद्गच्छन्तं निशामुखे ।। २६
कामकल्पद्रुमोत्थेन पल्लवेन विनिर्मितम् ।
रजन्या वासवदिशः कर्णपूरमिवोज्ज्वलम् ।। २७
क्रमात्तद्रश्मिजालैश्च जगद्वीक्ष्य विराजितम् ।
स विनीतमतिर्जातहृदुल्लासो व्यचिन्तयत् ।। २८
अहो चन्द्रिकया मार्गाः सुधयेवावभासिताः ।
दृश्यन्ते तदमीष्वेको गत्वा न विहरामि किम् ।। २९
इति ध्यात्वैव स धनुर्धरो निर्गत्य पर्यटन् ।
क्रोशमात्रं गतोऽकस्माच्छुश्राव रुदितध्वनिम् ।। ३०
गत्वा तदनुसारेण ददर्शैकां स कन्यकाम् ।
दिव्यरूपां प्ररुदतीं तरुमूलसमाश्रयाम् ।। ३१
पप्रच्छ च शुभे का त्वं किं चायं नीयते तुलाम् ।
मुखेन्दुः समलस्येन्दोस्त्वयाश्रुमलिनीकृतः ।। ३२
इत्युक्ता तेन सावोचत्सुता नागपतेरहम् ।
कन्या विजयवत्याख्या महात्मन्गन्धमालिनः ।। ३३
स मे पिता रणान्नष्टः शप्तो वासुकिनैकदा ।
यास्यसि त्वं रिपोः पाप जितः सन्दासतामिति ।। ३४
तच्छापात्स च यक्षेण कालजिह्वेन वैरिणा ।
जित्वा मनोनुगः पुष्पभारवाहीकृतः सदा ।। ३५
तद्दुःखात्तत्कृते गौरीं तपसाहमतोषयम् ।
प्रत्यक्षीभूय मे सा च भगवत्येवमब्रवीत् ।। ३६
वत्से शृण्वस्ति सरसो मानसस्यान्तरे महत् ।
सहस्रदलविस्तीर्णं स्फाटिकं दिव्यमम्बुजम् ।। ३७
यदर्ककरसंस्पर्शकीर्णतेजो विराजते ।
शेषस्येव शिरो भूरिफणं रत्नांशुपिञ्जरम् ।। ३८
तदेकदा वैश्रवणो दृष्ट्वा स्नात्वात्र मानसे ।
जातश्रद्धोऽम्बुजे तस्मिन्हरस्यारभतार्चनम् ।। ३९
तत्कालं चानुगास्तस्य यक्षास्तत्र सरोन्तरे ।
विजह्रुश्चक्रहंसादिरूपैर्वारिचरोचितैः ।। ४०
तत्र युष्मद्रिपोस्तस्य कालजिह्वस्य दैवतः ।
विद्युज्जिह्व इति ज्येष्ठो भ्राता यक्षः प्रियासखः ।। ४१
क्रीडंश्चक्राह्वरूपेण पक्षविक्षेपघट्टनात् ।
कुबेरस्य कराग्रस्थमर्घ्यपात्रमपातयत् ।। ४२
ततः स धनदः क्रुद्धः शापेनात्रैव मानसे ।
चक्राह्वमेव तं चक्रे विद्युज्जिह्वं सभार्यकम् ।। ४३
तथाकृतं च संप्रीत्या रात्रौ रात्रौ विनोदयन् ।
कृततत्प्रेयसीरूपो विरहातुरमग्रजम् ।। ४४
कालजिह्वोऽद्य तत्रास्ते स दिवा निजरूपभृत् ।
दासीकृतेन त्वत्पित्रा सहितो गन्धमालिना ।। ४५
तत्तत्र प्रेर्यतां पुत्रि प्रतीहारसुतस्त्वया ।
अहिच्छत्रो महावीरो विनीतमतिरुद्यमी ।। ४६
इममश्वं च खड्गं च गृहाणाभ्यां विजित्य तम् ।
यक्षं स हि प्रवीरस्ते जनकं मोचयिष्यति ।। ४७
खड्गरत्नस्य चैतस्य स्वामी भवति यः पुमान् ।
स जित्वा निखिलाञ्शत्रून्राजा भवति भूतले ।। ४८
एवमुक्त्वाश्वखड्गौ मे देवी दत्त्वा तिरोऽभवत् ।
अथ त्वत्प्रेरणायाद्य क्रमेणाहमिहागता ।। ४९
देवीप्रसादसहितं वीक्ष्य त्वां निर्गतं निशि ।
युक्त्या चानीतवत्यस्मि संश्राव्य रुदितध्वनिम् ।। ५०
तदेतत्साधयेष्टं मे सुभगेति तयार्थितः ।
स विनीतमतिस्तस्याः प्रतिपेदे तथेति तत् ।। ५१
ततो गत्वैव सा नागकन्या तत्क्षणमेव तम् ।
वाजिनं जवनं श्वेतं पिण्डीभूतमिवैन्दवम् ।। ५२
रश्मिजालं दिगन्तेषु तमो हन्तुं प्रधावितम् ।
तच्च वीरावलोकिन्या विप्रेक्षितमिव श्रिया ।। ५३
खड्गरत्नमुपानीय सतारगगनच्छवि ।
तस्मै विनीतमतये समर्पयत ते उभे ।। ५४
सोऽप्यात्तखड्गस्तुरगं तमारुह्य तया सह ।
प्रस्थितोऽश्वप्रभावेण तदैव प्राप मानसम् ।। ५५
वातोद्धृताम्बुजकरं चक्रवाकार्तकूजितैः ।
निषेधदिव मा मेति कालजिह्वानुकम्पया ।। ५६
दृष्ट्वा स तत्र यक्षाणां वशे तं गन्धमालिनम् ।
मुक्तये तस्य तान्क्षुद्रान्व्यद्रावयदसिक्षतान् ।। ५७
तद्दृष्ट्वा स सरोमध्यान्मुक्तचक्राङ्गनावपुः ।
कालजिह्वः समुत्तस्थौ प्रावृण्मेघ इवोन्नदन् ।। ५८
प्रवृत्ते चाहवे व्योम्नि कालजिह्वं तमुत्प्लुतम् ।
विनीतमतिरुत्प्लुत्य साश्वः केशेषु सोऽग्रहीत् ।। ५९
छेत्तुमिच्छति यावच्च शिरः खड्गेन तस्य सः ।
तावत्स कृपणं जल्पन्यक्षस्तं शरणं ययौ ।। ६०
ददौ च तस्मै मुक्तः सन्नीतिघ्नं स्वाङ्गुलीयकम् ।
प्रह्वो मुमोच दास्याच्च नागं तं गन्धमालिनम् ।। ६१
गन्धमाली च मुदितो विनीतमतये तदा ।
तस्मै सुतां तां विजयवतीं दत्त्वा गृहानगात् ।। ६२
ततः खड्गाङ्गुलीयाश्वकन्यारत्नयुतः कृती ।
स विनीतमतिर्जाते प्रभाते गृहमाययौ ।। ६३
तत्राभिनन्दितः पित्रा पृष्टवृत्तान्ततोषिणा ।
राज्ञा च स्वेन तां नागकन्यां स परिणीतवान् ।। ६४
अथ रत्नैश्चतुर्भिस्तैर्गुणैः स्वैश्चोपबृंहितम् ।
पिता कदाचित्कमलमतिः प्रोवाच तं रहः ।। ६५
इहास्योदयतुङ्गस्य सुतैषा यास्ति भूपते ।
पुत्रोदयवती नाम सर्वविद्यासु शिक्षिता ।। ६६
तस्यां पणः कृतोऽनेन यो विप्रः क्षत्त्रियोऽपि वा ।
वादे पराजयेतैतां तस्मै दद्यामिमामिति ।। ६७
पराजिताश्च वादेन वादिनोऽन्येऽनयाखिलाः ।
जगदाश्चर्यरूपेण रूपेणेवामराङ्गनाः ।। ६८
त्वं चैकवीरः स्वक्षत्रवादे तूष्णीं च तत्कथम् ।
स्थितोऽसि विजयस्वैनां वादे परिणयस्व च ।। ६९
इत्युक्तस्तेन पित्रा स विनीतमतिरब्रवीत् ।
पेशलाभिः सह स्त्रीभिर्वादः कस्तात मादृशाम् ।। ७०
तथाप्येतं त्वदादेशं करिष्यामीत्युदीरिते ।
प्रौढेन तेन स ययौ तत्पिता क्षितिपान्तिकम् ।। ७१
राजपुत्र्या समं वादः प्रातर्देव करिष्यते ।
विनीतमतिनेत्यत्र स तं भूपं व्यजिज्ञपत् ।। ७२
भूपेन प्रतिपन्नार्थो गृहमेत्य च सूनवे ।
विनीतमतये तस्मै तत्तथैव शशंस सः ।। ७३
ततः प्राप्तः स्वयं तेन राजहंसेन संश्रिताम् ।
विनीतमतिरागत्य वादी विद्वत्सभाब्जिनीम् ।। ७४
भास्वान्स भासयामास लोललोचनषट्पदैः ।
विलोक्यमानोऽभिमुखैर्गुणिवृन्दैस्तदाश्रितैः ।। ७५
क्षणान्तरे चाययौ सा तत्रोदयवती शनैः ।
राजपुत्री गुणाकृष्टा कामस्येव धनुर्लता ।। ७६
शोभिता गुणवद्भिः स्वैश्चारुशब्दैर्विभूषणैः ।
तत्पूर्वपक्षोपक्षेपमिव कुर्वद्भिरादितः ।। ७७
निर्दोषे निर्मला चेत्स्यादिन्दुलेखाम्बरे ततः ।
भजेत्साम्यं निषण्णायास्तस्या मरकतासने ।। ७८
चक्रेऽथ पूर्वपक्षं सा स्फुरद्दन्तांशुतन्तुषु ।
गुम्फयन्तीव सुश्लक्ष्णपदरत्नमयीं स्रजम् ।। ७९
तमवद्यार्थसिद्धान्तं स विनीतमतिर्व्यधात् ।
क्षणान्निरुत्तरीकृत्य सुमुखीं तां पदे पदे ।। ८०
ततः सभ्यैः स्तुते तस्मिन्सात्मनो राजपुत्रिका ।
पराजयेऽपि सद्भर्तृलाभाज्जयममन्यत ।। ८१
स चाप्युदयतुङ्गोऽथ राजा हृष्टोऽत्र तां सुताम् ।
तस्मै विनीतमतये ददौ वादपणार्जिताम् ।। ८२
तद्दत्तरत्नपूर्णोऽत्र स विनीतमतिस्ततः ।
ताभ्यां नागसुताराजसुताभ्यां सह तस्थिवान् ।। ८३
एकदा जीयमानोऽन्यैर्द्यूतस्यो व्याकुलाशयः ।
निर्बन्धाद्ब्राह्मणेनैत्य स भोजनमयाच्यत ।। ८४
ततः स कर्णे भृत्यस्य कथयित्वा क्रुधा वृतः ।
वस्त्रेणाच्छाद्य सिकतापात्रमस्मायदापयत् ।। ८५
स तद्विप्रो गृहीत्वैव गुरुत्वात्सहिरण्यकम् ।
मत्वा प्रहर्षादेकान्तमृजुर्गत्वोदघाटयत् ।। ८७
दृष्ट्वा च वालुकापूर्णमुत्सार्य धरणीतले ।
विप्रलब्धोऽस्मि तेनेति विषण्णः स्वगृहं ययौ ।। ८७
विनीतमतिरप्येतदविचिन्त्य विमुच्य तत् ।
द्यूतं तस्थौ यथाकामं स्वगृहेषु प्रियासखः ।। ८८
याति काले च जरसा विश्लिष्यत्संधिविग्रहः ।
सोऽभूदुदयतुङ्गोऽत्र राजा राज्यभराक्षमः ।। ८९
ततो जामातरं राज्ये विनीतमतिमेव तम् ।
सोऽभिषिच्य ययौ गङ्गामपुत्रो देहमुक्तये ।। ९०
प्राप्तराज्यश्च नचिरात्स विनीतमतिस्ततः ।
अश्वखड्गप्रभावेण जिगायापि दिशो दश ।। ९१
ईतिघ्नस्याङ्गुलीयस्य प्रभावादस्य चाभवत् ।
राष्ट्र नीरोगदुर्भिक्षं राज्ञो रघुपतेरिव ।। ९२
एकदाभ्याययौ तं च भिक्षुर्देशान्तरान्नृपम् ।
रत्नचन्द्रमतिर्नाम वादिद्विरदकेसरी। ।। ९३
स च भिक्षुः कृतातिथ्यो राजानं तं गुणिप्रियम् ।
प्रार्थयामास वादार्थमीदृशं च पणं जगौ ।। ९४
त्वया जितेन राजेन्द्र ग्राह्यं सुगतशासनम् ।
मया जितेन शुश्रूष्या विप्राः संत्यज्य चीवरम् ।। ९५
एतच्छ्रुत्वा तथेत्युक्त्वा वादं तेन सहाकरोत् ।
स विनीतमती राजा भिक्षुणा दिनसप्तकम् ।। ९६
अष्टमेऽहनि भिक्षुस्तं स जिगाय महीपतिम् ।
येनोदयवती वादिमुण्डमुद्गरिका जिता ।। ९७
ततस्तेनोपदिष्टं स भिक्षुणा सौगतं मतम् ।
सत्त्वोपकारपुण्याढ्यं जातश्रद्धोऽग्रहीन्नृपः ।। ९८
भिक्षूणां ब्राह्मणादीनां सर्वेषां च चकार सः ।
विहारसत्त्रवसतीर्जिनपूजापरायणः ।। ९९
तदभ्यासोपशान्तश्च भिक्षोस्तस्मादयाचत ।
स बोधिसत्त्वचर्यायामाज्ञां सत्त्वोपकारिणीम् ।। १००
सोऽथ भिक्षुस्तमाह स्म राजन्विगतकल्मषैः ।
बोधिसत्त्वमहाचर्या चरितव्येह नेतरैः ।। १०१
तव चास्मादृशैर्लक्ष्यं स्थूलं नास्त्येव किल्बिषम् ।
किं तु त्वं सूक्ष्ममनया युक्त्यान्विष्य शमं नय ।। १०२
इत्युक्त्वोपादिशत्तस्मै स भिक्षुः स्वप्नमाणवम् ।
सोऽपि तेन नृपः स्वप्नं दृष्ट्वास्मै प्रातरभ्यधात् ।। १०३
आचार्य जाने स्वप्नेऽद्य परलोकमहं गतः ।
तत्र क्षुधार्थितान्नं मां पुरुषा दण्डिनोऽब्रुवन् ।। १०४
भुङ्क्ष्वैता भूयसी राजन्नर्जितास्तप्तवालुकाः ।
या दत्ताः क्षुधिताय प्राग्ब्राह्मणायार्थिने त्वया ।। १०५
दत्त्वा दश स्वर्णकोटीः पापादस्माद्विमोक्ष्यसे ।
इत्युक्तो दण्डहस्तैस्तैः प्रबुद्धोऽहं निशाक्षये ।। १०६
एवमुक्त्वा तदाख्याय मूलं दत्त्वा च ता दश ।
स्वर्णकोटीः पुनश्चक्रे स राजा स्वप्नमाणवम् ।। १०७
दृष्ट्वा पुनश्च स स्वप्नमुत्थायोषस्यवर्णयत् ।
अद्यापि दत्तं स्वप्ने तैः क्षुधितस्य परत्र मे ।। १०८
वालुकाभोजनं पुंभिः पृष्टास्ते च ततो मया ।
दत्तेऽपि दाने भोक्ष्यामि किमिमाः सिकता इति।। १०९
ततस्ते मां रुदन्ति स्म तद्दानं तव निष्फलम् ।
तत्रैकं विप्रसंबन्धि सुवर्णमभवद्यतः ।। ११०
एतच्छ्रुत्वा प्रबुद्धोऽहमिति स्वप्नमुदीर्य सः ।
राजा प्रायच्छदर्थिभ्यः स्वर्णकोटीः पुनर्दश ।। १११
चक्रे ततश्च भूयोऽपि निशायां स्वप्नमाणवम् ।
दृष्ट्वा पुनश्च स स्वप्नमुत्थायोषस्यवर्णयत् ।। ११२
अद्याप्यहो तैः पुरुषैस्तदेव सिकताशनम् ।
दत्तं परत्र मे स्वप्ने पृष्टश्चोक्तोऽस्मि तैरिदम् ।। ११३
राजंस्तदपि ते दानं निष्फलं दस्युभिर्यतः ।
अटव्यां तव देशेऽद्य मुषित्वा निहतो द्विजः ।। ११४
न च रक्षा त्वदीयाभूदरक्षाविफलं ततः ।
तत्तवाद्यतनं दानं तद्देहि द्विगुणं पुनः ।। ११५
श्रुत्वैवेह प्रबुद्धोऽहमित्याख्याय स भिक्षवे ।
गुरवे नृपतिः स्वप्नं दानं तद्द्विगुणं ददौ ।। ११६
ततो जगाद तं भिक्षुमाचार्य कथमीदृशः ।
बहुच्छिद्रोऽनुपाल्यः स्याद्धर्मो जगति मादृशैः ।। ११७
तच्छ्रुत्वा सोब्रवीद्भिक्षुर्देव नैतावता बुधैः ।
धर्मस्य रक्षणविधौ कार्यानुत्साहिनी मतिः ।। ११८
धीरानुत्साहसंपन्नान्स्वधर्मानवमानिनः ।
देवता अभिरक्षन्ति पुष्णन्त्येषां च वाञ्छितम् ।। ११९
तथा चेदं भगवतो बोधिसत्त्वस्य जातकम् ।
वाराहं न श्रुतं राजन्यदि तच्छ्रूयतां त्वया ।। १२०
पुरा गुहायां विन्ध्याद्रावासीद्बुद्धांशसंभवः ।
वराहः कोऽपि सुहृदा मर्कटेन समं सुधीः ।। १२१
स सर्वस वहितकृत्सख्या तेन युतः सदा ।
अतिथीन्पूजयन्कालं निनाय स्वोचितैः क्रमैः ।। १२२
एकदा चोदभूत्तत्र दुर्दिनं पञ्च वासरान् ।
अच्छिन्नधाराविच्छिन्नप्राणिसंचारदारुणम् ।। १२३
पञ्चमेऽह्नि वराहस्य सुप्तस्य सकपेर्निशि ।
आगात्तस्य गुहाद्वारं सिंहो भार्यासुतान्वितः ।। १२४
स सिंहस्तत्र भार्यां तामवादीद्दुर्दिने ध्रुवम् ।
मरिष्यामोऽद्य दीर्घेऽस्मिन्नप्राप्तप्राणिनः क्षुधा ।। १२५
तच्छ्रुत्वा साब्रवीत्सिंही सर्वे तावत्क्षुधा वयम् ।
न भवामस्तदेकां मां भुक्त्वा द्वौ जीवतं युवाम् ।। १२६
त्वं हि प्रभुरयं पुत्रः प्राणसर्वस्वमावयोः ।
मादृशी भवितान्या ते तन्मयैवास्तु वां शिवम् ।। १२७
एवमन्योन्यसंलापो जायापत्योस्तयोस्तदा ।
दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ।। १२८
प्रीतश्चाचिन्तयद्दिष्ट्या क्व निशेयं क्व दुर्दिनम् ।
क्व चेदृगतिथिप्राप्तिरहो पुण्योदयोऽद्य मे ।। १२९
तद्विघ्नो न भवेद्यावत्तावत्क्षणविनाशना ।
किमनेन न देहेन तर्पयाम्यतिथीनमून् ।। १३०
इत्युत्थाय स निर्गत्य वराहः स्निग्धया गिरा ।
सिंहं जगाद तं भद्र मा गमस्त्वं विषादिताम् ।। १३१
अयं ससुतदारस्य भक्ष्यः प्राप्तोऽस्म्यहं तव ।
तद्भुङ्क्ष्व मामिति क्रोडेनोक्ते तेन स केसरी ।। १३२
हृष्टस्तामब्रवीद्भार्यां पूर्वं भुङ्क्तामयं शिशुः ।
अनन्तरमहं भोक्ष्ये भोक्ष्यसे त्वमत परम् ।। १३३
तथेत्युक्ते तया पूर्वं सिंहपोतेन भक्षित ।
क्रोडस्य तस्य मांसेऽथ सिंहो भोक्तुं प्रचक्रमे ।। १३४
भुञ्जानं च तमाह स्म महासत्त्वः स सूकरः ।
शीघ्रं पिबैतद्रक्तं मे यावद्भूमौ न लीयते ।। १३५
कुरु तृप्तिं च मन्मांसैः शेषमश्नातु ते प्रिया ।
इति जल्पन्क्रमात्तेन स सिंहेनास्थिशेषताम् ।। १३६
नीतोऽपि सूकरः प्राणैः सत्त्वस्थो न व्यमुच्यत ।
तत्र तद्धैर्यपर्यन्तमवेक्षितुमिव स्थितैः ।। १३७
तावच्च सा क्षुधाक्लान्ता सिंही तत्र व्यपद्यत ।
स सुतः क्वाप्यगात्सिंहः क्षीयते स्म च यामिनी ।।१३८
अत्रान्तरे प्रबुद्धः स सखा निर्गत्य मर्कटः ।
वराह तं तथाभूतं दृष्ट्वा पप्रच्छ संभ्रमात् ।। १३९
केनावस्था कृतेयं ते ब्रूहि शक्नोषि चेत्सखे ।
तच्छ्रुत्वा स यथावृत्तं धीरोऽस्मै सूकरोऽभ्यधात् ।। १४०
ततो रुदन्स तं नत्वा पादयोः कपिरब्रवीत् ।
त्वं देवतांशो येनात्मा तिर्यक्त्वान्मोचितोऽमुतः ।। १४१
तत्कंचिदभिलाषं मे ब्रूहि संसाधयामि ते ।
इत्युक्तस्तेन कपिना स वराहो जगाद तम् ।। १४२
यो वयस्याभिलाषो मे दुःसाध्यो विधिनापि सः ।
पश्यतो मे मृता येयं क्षुधा सिंही तपस्विनी ।। १४३
एषा संप्राप्तपूर्वाङ्गं पुनर्मां प्राप्तजीविता ।
भुक्त्वा तृप्यत्विति सखे चेतो हि मम वाञ्छति ।। १४४
इति तं वादिनं क्रोडं प्रत्यक्षीभूय पाणिना ।
परामृश्य व्यधाद्धर्मो मुनीन्द्रं दिव्यविग्रहम् ।। १४५
उवाच च मयैवेयं माया सिंहादिरूपिणा ।
कृताभूत्त्वां परार्थैकबद्धकक्ष्यं जिगीषता ।। १४६
त्वया त्वखण्डसत्त्वेन परार्थे प्राणदायिना ।
विजित्य मामिमं धर्मं प्राप्तैवाद्य मुनीन्द्रता ।। १४७
तच्छ्रुत्वा धर्ममालोक्य पुरःस्थं सोऽब्रवीन्मुनिः ।
सख्यावस्मिन्नसंत्यक्ततिर्यक्त्वे मर्कटेऽधुना ।। १४८
न मां प्रीणाति भगवन्प्राप्ताप्येषा मुनीन्द्रता ।
श्रुत्वैतत्स मुनिं चक्रे धर्मस्तमपि मर्कटम् ।। १४९
ध्रुवं फलाय महते महद्भिः सह संगमः ।
अथ धर्मस्तिरोऽभूत्स सिंही चान्तर्दधे मृता ।। १५०
एवं सत्त्वबलात्त्यक्तधर्मोत्साहैरदुर्लभाः ।
देवताकृतसाहाय्यै राजन्वाञ्छितसिद्धयः ।। १५१
इति भिक्षोर्वचः क्षुत्वा स विनीतमतिः पुनः ।
दानशूरो नृपश्चक्रे रात्रौ तं स्वप्नमाणवम् ।। १५२
दृष्ट्वा शशंस च स्वप्नं प्रातस्तस्मै स भिक्षवे ।
जाने स्वप्नेऽद्य मामेवं दिव्यः कोऽप्यवदन्मुनिः ।। १५३
पुत्र निष्कल्मषो बोधिसत्त्वचर्यां चराधुना ।
तच्छ्रुत्वैव च तद्वाक्यं प्रबुद्धोऽस्म्यद्य निवृतः ।। १५४
एवं निवेद्य गुरवे भिक्षवे स महीपतिः ।
जग्राह तां महाचर्यां शुभेऽह्नि तदनुज्ञया ।। १५५
तस्थौ च कामानर्थिभ्यो वर्षन्नविरतं ततः ।
धनं चास्याक्षयं जज्ञे धर्ममूला हि संपदः ।। १५६
अथैकदा तमभ्येत्य ब्राह्मणोऽर्थी व्यजिज्ञपत् ।
विप्रोऽहं देव वास्तव्यः पुरे पाटलिपुत्रके ।। १५७
तत्राग्निशालामावृत्य पुत्रोऽपि ब्रह्मरक्षसा ।
आवृतो मे न चैतस्मिन्नुपायः क्रमते मम ।। १५८
अतोऽर्थिकल्पवृक्षं त्वामागतोऽस्मीह याचितुम् ।
देह्येतत्सर्वदोषघ्नमङ्गुलीयं शिवाय मे ।। १५९
इत्यर्थितः स विप्रेण तेन राजाङ्गुलीयकम् ।
कालजिह्वादवाप्तं तत्तस्मै प्रादादविह्वलः ।। १६०
आदाय तद्गते तस्मिन्विप्रे तस्य च भूपतेः ।
बोधिसत्त्वव्रतयशो दिगन्तेष्वपि पप्रथे ।। १६१
ततः कदाचिदपरस्तस्यागादुत्तरापथात् ।
कोऽपीन्दुकलशो नाम राजपुत्रोऽतिथिः प्रभोः ।। १६२
स कृतप्रश्रयस्तेन राज्ञा ज्ञातोत्तमान्वयः ।
पृष्टकामश्च धीरेण राजपुत्रस्तमब्रवीत् ।। १६३
त्वं तावदर्थिसार्थस्य ख्यातश्चिन्तामणिर्भुवि ।
प्राणानामपि ते ह्यर्थी न प्रयाति पराङ्मुखः ।। १६४
अहं चास्कन्द्य कनककलशाख्येन राज्यतः ।
भ्रात्रा निर्वासितः पित्र्यादर्थित्वात्त्वमुपागतः ।। १६५
तदश्वखड्गरत्ने ते ये स्तस्ते वीर देहि मे ।
यत्प्रभावेण दायादं जित्वा राज्यमवाप्नुयाम् ।। १६ ६
तच्छ्रुत्वैवाश्वखड्गौ तौ राज्यरक्षामणी अपि ।
ददौ राजसुतायास्मै स विनीतमतिनृपः ।। १६७
न च तस्याभवत्कश्चिद्विकल्पो धीरचेतसः ।
अधोमुखेषु मुञ्चत्सु निःश्वासानपि मन्त्रिषु ।। १६८
सोऽथ प्राप्ताश्वखड्गः सन्गत्वा राजसुतस्ततः ।
तत्प्रभावेण जित्वा तं भ्रातरं राज्यमाप्तवान् ।। १६९
तद्भ्राता सोऽपि कनककलशो राज्यतश्च्युतः ।
तस्य तां नगरीमागाद्विनीतमतिभूपतेः ।। १७०
अग्निप्रवेशं कर्तुं च दुःखेनारभतात्र सः ।
तद्बुद्ध्वा स नृपोऽमात्यान्विनीतमतिरब्रवीत् ।। १७१
एष साधुरिमां प्राप्तो दशां मदपराधतः ।
तत्स्वराज्यप्रदानेन भवाम्यस्यानृणोऽधुना ।। १७२
परार्थानुपयुक्तेन किं राज्येनामुना च मे ।
एष एवानपत्यस्य पुत्रो मेऽस्तु च राज्यभृत् ।। १७३
इत्युक्त्वाहूय कनककलशाय स तद्ददौ ।
तस्मै स्वराज्यं सचिवेष्वनिच्छत्स्वपि भूपतिः ।। १७४
दत्तराज्यश्च निरगान्नगर्यास्तत्क्षणं ततः ।
भार्याभ्यां सहितो द्वाभ्यां निर्विकल्पेन चेतसा ।। १७५
हा हा धिग्जगदाप्यायी संपूर्णोऽमृतदीधितिः ।
जातश्चान्तरितश्चैत्य मेघेनाकाण्डपातिना ।। १७६
प्रवृत्तश्चैष सर्वाशापूरणे सर्वदेहिनाम् ।
नीतश्च विधिना क्वापि प्रजाकल्पद्रुमो नृपः ।। १७७
इत्याद्याक्रन्दमुखरास्तद्दृष्ट्वा विह्वलास्तदा ।
बाष्पाम्बुसिक्तवसुधाः पौरास्तमनु निर्ययुः ।। १७८
निवर्त्य च कथंचित्तान्सभार्योऽकम्पितस्ततः ।
स विनीतमतिः प्रायादरण्यं प्रत्यवाहनः ।। १७९
क्रमात्प्रापार्कसंतप्तसिकता निर्जलद्रुमाम् ।
मरुभूमिं स विधिना सृष्टां धैर्यमवेक्षितुम् ।। १८०
तदेकदेशे तृष्णार्तो दूराध्वक्लमविक्लवः ।
निषण्णः स क्षणं जह्रे सपत्नीकोऽपि निद्रया ।। १८१
प्रबुद्धो वीक्षते यावत्तावत्तत्र ददर्श सः ।
स्वसत्त्वोत्कर्षनिष्पन्नं महदुद्यानमद्भुतम् ।। १८२
फुल्लाब्जशीतलस्वच्छसलिलापूर्णवापिकम् ।
नीलशाद्वलसंछन्नं फलभारानतद्रुमम् ।। १८३
प्रच्छायगतसुश्लक्ष्णपृथुतुङ्गशिलातलम् ।
दानप्रभावेणाकृष्टं त्रिदिवादिव नन्दनम् ।। १८४
स्वप्नः किं नु भ्रमो वायं देवतानुग्रहोऽथ मे ।
इति तद्वीक्ष्य वीक्ष्यैषू यावच्चित्रीयते नृपः ।। १८५
तावद्दद्युचारिणा हंसद्वन्द्वरूपेण केनचित् ।
सिद्धद्वयेन गगनादीरितामशृणोद्गिरम् ।। १८६
राजन्स्वसत्त्वमाहात्म्ये तव कोऽत्रातिविस्मयः ।
तदस्मिन्कानने स्वेच्छं सदापुष्पफले वस ।। १८७
इति सिद्धवचः श्रुत्वा निर्वृतस्तत्र कानने ।
तपस्यन्सह पत्नीभ्यां विनीतमतिरास्त सः ।। १८८
एकदा च ददर्शाराच्छिलातलगतोऽत्र सः ।
उद्बन्धनेन पुरुषं कमप्यात्मवधोद्यतम् ।। १८९
द्रुतं गत्वा प्रियैर्वाक्यैरनुनीय निवार्य च ।
मरणात्कारणं तत्र पुरुषं तं स पृष्टवान् ।। १९०
ततः स पुरुषोऽवादीदामूलं शृणु वच्मि ते ।
नागशूरसुतो नाम्ना सोमशूरोऽस्मि सोमकः ।। १९१
सोऽहं जातकनिर्दिष्टचौर्यस्तच्छास्त्रवेदिभिः ।
तद्भीत्याध्यापितः पित्रा धर्मशास्त्रं प्रयत्नतः ।। १९२
तदधीत्यापि चौर्येऽहं प्रवृत्तो दुष्टसंगतेः ।
कस्य प्राक्कर्म केनेह शक्यते कर्तुमन्यथा ।। १९३
अथैकदा चौरमध्याद्गृहीत्वा पुररक्षिभिः ।
शूलाधिरोपणस्थानं वधाय प्रापितोऽभवम् ।। १९४
तत्क्षणं राजसंबन्धी भग्नालानो महाद्विपः ।
मत्तो व्यापादयञ्जन्तूंस्तदेव स्थानमागमत् ।। १९५
तत्त्रासन्मां परित्यज्य क्वापि ते वधका गताः ।
अहं च तुमुले तस्मिन्पलाय्यैव ततो गतः ।। १९६
वधाय नीयमानं मां श्रुत्वैवोत्क्रान्तजीवितम् ।
पितरं लोकतोऽश्रौषं मात्रा मेऽनुगतं ततः ।। १९७
अथ शोकातुरो भ्राम्यन्खिन्नो देहव्ययोन्मुखः ।
क्रमादिदमहं प्राप्तो विजनं काननं महत् ।। १९८
इह प्रविष्टमात्रं मामकस्माद्दत्तदर्शना ।
उपेत्य कापि दिव्या स्त्री कृताश्वासाभ्यभाषत ।। १९९
त्वं विनीतमतेः पुत्र राजर्षेरिममाश्रमम् ।
प्राप्तो गतं च ते पापं ज्ञानं तस्माच्च लप्स्यसे ।। २००
इदमुक्त्वा तिरोऽभूत्सा भ्राम्यंश्चाहमनाप्नुवन् ।
राजर्षिं तं शुचात्मानं त्यक्तुमिच्छंस्त्वयेक्षितः ।। २०१
इत्युक्तवन्तं नीत्वा तं सोमशूरं निजोटजम् ।
आवेद्यात्मानमतिथिं स राजर्षिरपूजयत् ।। २०२
कृताहारश्च तं प्रह्वं नानाधर्मकथान्तरे ।
निवारयिष्यन्नज्ञानात्स राजमुनिरब्रवीत् ।। २०३
अज्ञानं वत्स हातव्यं विपर्यस्तधियां हि तत् ।
लोकद्वयेऽपि दोषाय शृणु चात्रागमश्रुतिम् ।। २०४
पाञ्चालेषु पुरा देवभूतिनामाभवद्द्विजः ।
तस्याभूद्भोगवत्याख्या भार्या वेदवतः सती ।। २०५
सा स्नानाय गते तस्मिञ्शाकार्थं शाकवाटिकाम् ।
प्रविष्टा धावकखरं खादन्तं शाकमैक्षत ।। २०६
गृहीतलगुडा तं च साभ्यधावत्खरश्च सः ।
पलायमानः पतितः श्वभ्रे भग्नखुरोऽभवत् ।। २०७
तद्बुद्ध्वा सोऽत्र तत्स्वामी क्रोधादागत्य धावकः ।
लगुडैः पादघातैश्च ब्राह्मणीं तामताडयत् ।। २०८
तेन साकाण्डविभ्रष्टगर्भाभूद्गर्भिणी सती ।
ततः स खरमादाय धावकः स्वगृहं ययौ ।। २०९
स्नात्वागतोऽथ तद्भर्ता तद्बुद्ध्वा वीक्ष्य तां च सः ।
भार्यां विप्रः पुराध्यक्षं गत्वोद्विग्नो व्यजिज्ञपत् ।। २१०
स बलासुरनामानं तदैवानीय धावकम् ।
श्रुत्वा तयोर्द्वयोर्वादं मूर्खो विवृतवानिदम् ।। २११
खुरभङ्गात्खरस्यास्य धावकस्य वहत्वयम् ।
खरभारं द्विजो यावत्प्रकृतिस्थो भवेत्खरः ।। २१२
धावकोऽप्ययमेतस्य भार्यायामग्रजन्मनः ।
गर्भं प्रजनयत्यन्यं तस्यां तद्गर्भपातनात् ।। २१३
एषोऽनयोर्द्वयोर्दण्ड इत्युक्ते तेन स द्विजः ।
संतापाद्भक्षितविषः सभार्योऽपि जहावसून् ।। २१४
तदबुद्ध्वा तत्र निहतो राज्ञा दुरवधारकः ।
ब्रह्महा स पुराध्यक्षस्तिर्यग्योनिं गतश्चिरम् ।। २१५
इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः ।
अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितम् ।। २१६
एवमुक्त्वा स राजर्षिरुपदेशार्थिनं पुनः ।
सोमशूरं विनेतुं त विनीतमतिरभ्यधात् ।। २१७
वत्स पारमितार्थं ते वच्मि तावत्क्रमाच्छृणु ।
पूर्वं राजा कुरुक्षेत्रे मलयप्रभ इत्यभूत् ।। २१८
तं कदाचित्प्रजाभ्योऽर्थं दुर्भिक्षे ददतं नृपम् ।
मन्त्रिभिर्वारितं लोभाज्जगादेन्दुप्रभः सुतः ।। २१९
उपेक्षसे प्रजास्तात कथं दुर्मषिणा गिरा ।
त्वं हिं कल्पद्रुमस्तासां ताश्च ते कामधेनवः ।। २२०
निर्बन्धादिति जल्पन्तं पुत्रं मन्त्रिवशो नृपः ।
खेदात्तं सोऽब्रवीद्वत्स किं मेऽस्ति धनमक्षयम् ।। २२१
विना तेन प्रजाकल्पपादपश्चेद्भवाम्यहम् ।
तत्त्वमेव किमेतासां न धत्से कल्पवृक्षताम् ।। २२२
एतच्छ्रुत्वा पितुश्चक्रे प्रतिज्ञां स नृपात्मजः ।
मर्तव्यं कल्पवृक्षत्वं साध्यं वा तपसा मया ।। २२३
इति निश्चित्य स प्रायान्महासत्त्वस्तपोवनम् ।
आरूढ एव तस्मिंश्च स दुर्भिक्षो न्यवर्तत ।। २२४
ततोऽर्थितवरस्तीव्रतपस्तुष्टान्महेन्द्रतः ।
स्वस्मिन्नेव स संजज्ञे नगरे कल्पपादपः ।। २२५
आकर्षन्निव दूरस्थानाह्वयन्निव चार्थिनः ।
प्रसारिताभिः शाखाभिर्दिक्षु शब्दैश्च पक्षिणाम् ।। २२६
ददौ च कामानर्थिभ्यो दुष्प्रापानपि सोऽन्वहम् ।
चक्रे च ता निराकाङ्क्षाः प्रजाः स्वर्गस्थिता इव ।। २२७
कालेन च महेन्द्रस्तमागत्योवाच लोभयन् ।
पूर्णः परोपकारस्ते स्वर्गायागम्यतामिति ।। २२८
ततः कल्पद्रुमीभूतस्तं स राजसुतोऽभ्यधात् ।
यत्र पुष्पैः फलै रम्यैरप्यन्यतरवोऽप्यमी ।। २२९
पारार्थ्यमेव सततं भजन्ति स्वार्थनिःस्पृहाः ।
तत्र कल्पतरुर्भूत्वा स्वसुखाय कथं दिवम् ।। २३०
इयतोऽस्य जनस्याशाच्छेदं कृत्वा व्रजाम्यहम् ।
इत्युदारं वचस्तस्य श्रुत्वा शक्रोऽब्रवीत्पुनः ।। २३१
तर्हि प्रजापि ते कृत्स्ना स्वर्गमायात्वसाविति ।
ततस्तमवदद्राजसूनुः कल्पद्रुमोऽपि सः ।। २३२
तुष्टोऽसि चेन्नय स्वर्गं प्रजा नार्थोऽस्ति तेन मे ।
अहं परोपकारैकसिद्ध्यै तप्स्ये तपो महत् ।। २३३
इत्युक्तवन्तं स्तुत्वा तं सुगताशं तथेति सः ।
आदाय च प्रजास्तुष्टः सुरेन्द्रस्त्रिदिवं ययौ ।। २३४
सोऽपि तां तरुतां त्यक्त्वा राजपुत्रः स्वरूपभृत् ।
तपसेन्दुप्रभः प्राप वनस्थो बोधिसत्त्वताम् ।। २३५
एवं स्याद्दानसक्तानां सिद्धिरित्युदिता मया ।
दानपारमितैषा ते शीलपारमितां शृणु ।। २३६
पुरा शुकानां राजाभूद्विन्ध्याद्रौ सुगतांशजः ।
प्राग्जन्माभ्यस्तशीलाढ्यो नाम्ना हेमप्रभो वशी ।। २३७
तस्य जातिस्मरस्यासीदपि धर्मोपदेशिनः ।
रागिमूर्खः प्रतीहारो नाम्ना चारुमतिः शुकः ।। २३८
स जातु पाशिना भार्यां व्याधेन निहतां शुकीम् ।
शोचन्नवस्थां करुणां तद्वियोगातुरो ययौ ।। २३९
ततः स शुकराजस्तं युक्त्या शोकं निवारयन् ।
हेमप्रभो हितायैवमुवाच मतिमान्मृषा ।। २४०
न सा तव मृता भार्या पाशाच्छाकुनिकस्य सा ।
गता पलाय्य दृष्टा हि जीवन्त्येव मयाधुना ।। २४१
दर्शयाम्येहि तुभ्यं तामित्युक्त्वा स निनाय तम् ।
राजा चारुमतिं व्योममार्गेणैकं जलाशयम् ।। २४२
तत्र संदर्श्य तस्यैव प्रतिबिम्बं जलान्तरे ।
तमब्रवीदियं सा ते भार्यां पश्येह तिष्ठति ।। २४३
तच्छ्रुत्वा वीक्ष्य चात्रात्मप्रतिबिम्बं स मूढधीः ।
हृष्टः प्रविश्य तोये तामालिलिङ्ग चुचुम्ब च ।। २४४
अप्राप्नुवन्प्रियास्पर्शमशृण्वंस्तद्वचश्च सः ।
स्पर्शालापौ प्रिया किं मे न ददातीत्यचिन्तयत् ।। २४५
कोपाशङ्की ततो गत्वैवानीयामलकं ततः ।
चाट्वर्थं दयिताबुद्ध्या न्यधात्स्वे प्रतिबिम्बके ।। २४६
तन्मग्नोत्पतितं कान्ताप्रतिक्षिप्तमवेत्य च ।
गत्वा सखेदो राजानं तं हेमप्रभमभ्यधात् ।। २४७
देव भार्या न सा स्पर्शमालापं वा ददाति मे ।
किं चैतया प्रतिक्षिप्तं दत्तमामलकं मया ।। २४८
एतच्छ्रुत्वा स राजा तं शनैः कृच्छ्रादिवाब्रबीत् ।
न युक्तमेतद्वक्तुं मे वच्मि स्नेहात्तथापि ते ।। २४९
अन्यानुरक्ता ह्यद्यैषा त्वयि प्रीतिं कथं भजेत् ।
दर्शयामि च ते साक्षादेह्यत्रैव जलान्तरे ।। २५०
इत्युक्त्वा तत्र नीत्वा तं स्वं तदीयं च वारिणि ।
प्रतिबिम्बे उभे राजा तस्मै श्लिष्टे अदर्शयत् ।। २५१
ते दृष्ट्वैव स तां भार्यां मूर्खो मत्वान्यसंगताम् ।
संनिवृत्य विरक्तस्तं स्वं राजानं व्यजिज्ञपत् ।। २५२
देव त्वदुपदेशो यन्मया मूढेन न श्रुतः ।
तस्यैष पाकस्तन्मेऽत्र कर्तव्यमधुनादिश ।। २५३
इति तं कृतविज्ञप्तिं राजा हेमप्रभोऽथ सः ।
लब्धोपदेशावसरः प्रतीहारमभाषत ।। २५४
वरं हालाहलं भुक्तमहिर्बद्धो वरं गले ।
न पुनः स्त्रीषु विश्वासो मणिमन्त्राद्यगोचरः ।। २५५
कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलम् ।
वात्या इवातिचपलाः स्त्रियो भूरिरजोभृतः ।। २५६
तत्तासु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः ।
शीलमभ्यसनीयं तु वीतरागपदाप्तये ।। २५७
इति तेनानुशिष्टः स राज्ञा चारुमतिः स्त्रियः ।
परिहृत्य बभूवोर्ध्वरेता बुद्धसमः क्रमात् ।। २५८
इत्यन्यानपि शीलाढ्यास्तारयन्तीति ते मया ।
शीलपारमिता प्रोक्ता क्षमापारमितां शृणु ।। २५९
आसीच्छुभनयो नाम केदाराद्रौ महामुनिः ।
सदा मन्दाकिनीतोयस्नायी दान्तस्तपःकृशः ।। २६०
निशि तत्रैकदा पूर्वनिखातं भुवि काञ्चनम् ।
अन्वेष्टुमाययुश्चौरा न च प्रापुः कुतोऽपि तत् ।। २६१
ततोऽत्र विजने मत्वा तेन तन्मुनिना हृतम् ।
प्रविश्य मठिकां तस्य चौरास्ते ब्रुवते स्म तम् ।। २६२
अरे दम्भमुने मुञ्च नीतं नः काञ्चन क्षितेः ।
चौराणामप्यहो चौरस्त्वमस्माकमुपस्थितः ।। २६३
इत्याक्षिप्तः स तैः पापैरहृतार्थो मृषा मुनिः ।
न नीतं तन्मया किंचिन्न दृष्टं चेत्यभाषत ।। २६४
ततस्तैर्लगुडैर्दुष्टैस्ताडितोऽपि स दस्युभिः ।
यदा तदेव वक्ति स्म सत्यवाङ्मुनिसत्तमः ।। २६५
तदा ते चिच्छिदुस्तस्य क्रूरोऽयमिति तस्कराः ।
क्रमाद्धस्तौ च पादौ च नयने चोदपाटयन् ।। २६६
तथाप्यनन्यवचनं निर्विकारमवेत्य तम् ।
मत्वान्यलुप्तं स्वर्णं ते जग्मुश्चौरा यथागतम् ।। २६७
प्रातश्च शेखरज्योतिर्नाम राजात्र तं मुनिम् ।
पश्यति स्म तथाभूतं शिष्यस्तद्दर्शनागतः ।। २६८
ततः स गुरुशोकार्तस्तं दृष्ट्वा तदवेत्य च ।
अन्विष्यानाययच्चौरांस्तांस्तत्रैव तदा प्रभुः ।। २६९
तेषां वधे प्रवृत्तं च नृपं तं सोऽब्रवीन्मुनिः ।
राजन्यदि निहंस्येतांस्तदात्मानं निहन्म्यहम् ।। २७०
शस्त्रेणेदं कृतं चेन्मे तदेषां कापराधिता ।
तस्य वा प्रेरका ह्येते तर्ह्येतेषामपि क्रुधः ।। २७१
तासामपि स्वर्णनाशस्तस्य मत्पूर्वदुष्कृतम् ।
तस्यापि स्वं ममाज्ञानं तस्मात्तदपकारि मे ।। २७२
ततस्तदेव मे घात्यं कि च यद्यपकारतः ।
वध्या एते कथं नात्र रक्ष्याः स्युरुपकारतः ।। २७३
नैते कुर्युरिदं चेन्मे क्षमां मोक्षफलामहम् ।
कस्य कुर्यां तदेतैर्मे पूर्णैवोपकृतिः कृता ।। २७४
इत्यादिभिः स बहुभिर्वाक्यैः क्षान्तिपरो मुनिः ।
प्रबोध्य तं नृपं चौरान्निग्रहात्तानमोचयत् ।। २७५
तपसश्चास्य माहात्म्यात्तत्क्षणं प्राग्वदक्षतम् ।
शरीरमभवत्तस्य सिद्धिश्चाविरभूत्तदा ।। २७६
एवं तरन्ति क्षमिणः संसारमिति वर्णिता ।
क्षमापारमिता तुभ्यं धैर्यपारमितां शृणु ।। २७७
आसीन्मालाधरो नाम पूर्वं ब्राह्मणपुत्रकः ।
सोऽपश्यदेकदा सिद्धकुमारं व्योमगामिनम् ।। २७८
तत्स्पर्धया तृणमयान्पक्षानाबध्य पार्श्वयोः ।
उत्प्लुत्योत्प्लुत्य गगने गत्यभ्यासमशिक्षत ।। २७९
प्रत्यहं च तथा कुर्वन्परिश्रममपार्थकम् ।
ददृशे स कुमारेण कदाचिद्व्योमचारिणा ।। २८०
धैर्ययुक्तः परिश्राम्यन्दुष्प्रापेऽर्थेऽपि सोद्यमः ।
बालोऽयमनुकम्प्यो मे मम ह्येष परिग्रहः ।। २८१
इति संचिन्त्य तुष्टेन नीत्वा तेन स्वशक्तितः ।
स्कन्देन द्विजमुख्योऽसावात्मनोऽनुचरः कृतः ।। २८२
इत्थं धैर्येण तुष्यन्ति देवता अपि ते मया ।
धैर्यपारमिता प्रोक्ता ध्यानपारमितां शृणु ।। २८३
आसीद्विजयमालीति कर्णाटेषु पुरा वणिक् ।
अभून्मलयमालीति महर्द्धेस्तस्य चात्मजः ।। २८४
स तेन पित्रा सहितो जातु राजकुलं गतः ।
राज्ञस्तस्य युवापश्यदिन्दुकेसरिणा सुताम् ।। २८५
सा तस्येन्दुयशा नाम मारवल्लीव मोहिनी ।
वणिक्पुत्रस्य दृष्टैव विवेश हृदि कन्यका ।। २८६
ततः स गृहमागत्य विनिद्रो निशि पाण्डुरः ।
दिवा संकुचितस्तस्थावालम्ब्य कुमुदव्रतम् ।। २८७
तामेव चान्वहं ध्यायन्नाहारादिपराङ्मुखः ।
पृष्टोऽपि स्वजनैर्नैव मूकवत्किंचिदभ्यधात् ।। २८८
अथैकान्ते तथारूपं तमाप्तो विरहातुरम् ।
सुहृन्मन्थरको नाम राजचित्रकरोऽब्रवीत् ।। २८९
सखे किं भित्तिसक्तस्त्वं तिष्ठस्यालिखितो यथा ।
रूपैकसारोऽनाश्वासी न शृणोषि न पश्यसि ।। २९०
इति निर्बन्धतस्तस्मै पृच्छते स वणिक्सुतः ।
सख्ये मलयमाली स्वमभिप्रायं शशंस तम् ।। २९१
युक्ता न ते वणिक्पुत्र राजपुत्रीं प्रति स्पृहा ।
हंसो वाञ्छतु नामान्यसरोम्बुजसुखश्रियम् ।। २९२
हरिनाभीह्रदाम्भोजभोगलक्ष्म्याः स कः पुनः ।
इति ब्रुवन्स च यदा चित्रकृन्न शशाक तम् ।। २९३
प्रतिषेद्धुं तदा तस्मै तामुत्कण्ठाविनोदिनीम् ।
कालातिवाहायालिख्य राजपुत्री पटे ददौ ।। २९४
सोऽपि चित्रस्थितां प्राप्य पश्यन्ननुनयन्स्पृशन् ।
आसीन्मलयमाली तां भूषयंश्च वणिक्सुतः ।। २९५
सेयमिन्दुयशा राजपुत्रीत्येवं स भावयन् ।
क्रमात्तन्मयतां प्राप्य तया वृत्त्याकरोत्क्रियाः ।। २९६
शनैश्च तामालपन्तीं चुम्बनादि च कुर्वतीम् ।
तद्भावनाभावितः सन्नपश्यल्लिखितामपि ।। २९७
ततः स भावनासिद्धकान्तासंभोगसुस्थितः ।
तस्थौ चित्रपटस्यैककृत्स्नसंसारनिर्वृतः ।। २९८
एकदादाय तं चित्रपटं चन्द्रोदयेऽथ सः ।
निर्गत्योद्यानमगमद्विहर्तुं प्रियया सह ।। २९९
तत्रैकस्य तरोर्मूले तं निवेश्य पटं च सः ।
विप्रकृष्टं ययौ पुष्पाण्यवचेतुं प्रियाकृते ।। ३००
तत्कालं विनयज्योतिर्नामाम्बरतलान्मुनिः ।
दृष्ट्वा तं कृपया मोहादुद्धरिष्यन्नवातरत् ।। ३०१
सोऽत्र चित्रपटस्यैकदेशे तस्य स्वशक्तितः ।
सजीवं सर्पमालिख्य कृष्णं तस्थावलक्षितः ।। ३०२
तावन्मलयमाली च पुष्पाण्युच्चित्य तत्र सः ।
आगत्य कृष्णसर्पं तं पटे दृष्ट्वा व्यचिन्तयत् ।। ३०३
सर्पः कुतोऽधुनात्रैषो विधिना किं नु निर्मितः ।
निधानभूतां रूपस्य रक्षितुं सुन्दरीमिमाम् ।। ३०४
इति संचिन्त्य पुष्पैस्तामलंकृत्य प्रियां पटे ।
भावनोपनतां यावदालिङ्ग्यैतत्स पृच्छति ।। ३०५
तावद्ददर्श तस्यात्र मुनेर्मायाप्रभावतः ।
एतां कृष्णाहिना तेन दष्टा विगतजीविताम् ।। ३०६
ततः स विस्मृतपटो हाहेत्युक्त्वैव मोहितः ।
पपात पटसंसिद्धविद्याधर इव क्षितौ ।। ३०७
क्षणाच्च संज्ञां संप्राप्य विलपन्मरणोन्मुखः ।
उत्थायारुह्य वृक्षाग्रात्तुङ्गादात्मानमक्षिपत् ।। ३०८
पतन्तमेव तस्माच्च पाणिभ्यां स तमग्रहीत् ।
मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ।। ३०९
मूढ वेत्सि न किं यत्सा राजपुत्री स्वमन्दिरे ।
स्थिता चित्रपटे चैषा निर्जीवा चित्रपुत्रिका ।। ३१०
तदालिङ्गसि कां का वा तव दष्टा महाहिना ।
रागिणस्ते स्वसंकल्पभावनाभ्रम एष कः ।। ३११
एतावद्ध्यानदार्ढ्येन तत्त्वं जिज्ञाससे न किम् ।
येनेदृशानां दुःखानां न पुनर्यासि पात्रताम् ।। ३१२
इत्युक्तस्तेन मुनिना जातमोहनिशाक्षयः ।
प्रबुद्धः स वणिक्पुत्रः प्रणिपत्य जगाद तम् ।। ३१३
त्वत्प्रसादेन भगवन्नेतां तीर्णोऽहमापदम् ।
यथा तरेयं संसारं प्रसादं मे तथा कुरु ।। ३१४
एवं सोऽभ्यर्थितो बोधिसत्त्वो मलयमालिना ।
मुनिस्तस्मै स्वविज्ञानमुपदिश्य तिरोदधे ।। ३१५
ततो मलयमाली स वनं गत्वा तपोबलात् ।
सहेतुहेयोपादेयतत्त्वज्ञोऽर्हत्त्वमाप्तवान् ।। ३१६
आगत्य च कृपालुस्तमिन्दुकेसरिणं नृपम् ।
चक्रे ज्ञानोपदेशेन सपौरं मुक्तिभागिनम् ।। ३१७
इत्यसत्यमपि ध्यानबलिनामेति सत्यताम् ।
ध्यानपारमितैषोक्ता प्रज्ञापारमितां शृणु ।। ३१८
चौरः प्राक्सिंहलद्वीपे सिंहविक्रम इत्यभूत् ।
आजन्मपोषिततनुः परस्वैः सर्वतो हृतैः ।। ३१९
वृद्धीभूतः स कालेन विरम्यैतदचिन्तयत् ।
परत्र कोऽभ्युपायो मे कं तत्र शरणं श्रये ।। ३२०
यदि व्रजामि शरणं शंभुं शौरिमथात्र तम् ।
कोऽहं तयोर्ययोर्देवा मुनयोऽन्ये च सेवकाः ।। ३२१
तद्यो लिखति जन्तूनामेकः सुकृतदुष्कृते ।
तं चित्रगुप्तं सेवेऽहं स रक्षेन्मां स्वयुक्तितः ।। ३२२
कायस्थो हि करोत्येको व्यापारं ब्रह्मरुद्रयोः ।
लिखत्युत्पुंसयति च क्षणाद्विश्वं करस्थितम् ।। ३२३
इति संचिन्त्य तस्यैव भक्तिमारभते स्म सः ।
तमेवानर्च तत्प्रीत्यै विप्रान्नित्यमभोजयत् ।। ३२४
एवमाचरतस्तस्य चित्तं चौरस्य वीक्षितुम् ।
चित्रगुप्तो गृहानागादेकदातिथिरूपभृत् ।। ३२५
सोऽथ चौरस्तमभ्यर्च्य भोजितं दत्तदक्षिणम् ।
उवाच चित्रगुप्तस्ते प्रीतोऽस्त्वित्युच्यतामिति ।। ३२६
ततः स चित्रगुप्तस्तमवोचद्ब्राह्मणाकृतिः ।
मुक्त्वा हरिहरादींस्ते चित्रगुप्तेन किं वद ।। ३२७
तच्छ्रुत्वा सोऽप्यवादीत्तं तस्करः सिंहविक्रमः ।
किं तवानेन नार्थो मे तदन्यैर्दैवतैरिति ।। ३२८
अथ स द्विजरूपी तं चित्रगुप्तोऽब्रवीत्पुनः ।
तर्हि मे यदि भार्यां स्वां ददास्येवं वदामि तत् ।। ३२९
श्रुत्वैवैतत्स हृष्टस्तमवादीत्सिंहविक्रमः ।
अभीष्टदैवतप्रीत्यै भार्या दत्तैव ते मया ।। ३३०
चित्रगुप्तोऽथ तच्छ्रुत्वा प्रदर्श्यात्मानमब्रवीत् ।
सैष तुष्टोऽस्मि तत्किं ते करवै कथ्यतामिति ।। ३३१
ततो हृष्टोऽभ्यधात्तं स विशेषात्सिंहविक्रमः ।
भगवन्न यथा मृत्युर्भवेन्मम तथा कुरु ।। ३३२
ततोऽब्रवीच्चित्रगुप्तो मृत्युः शक्यो न रक्षितुम् ।
तथापि तावद्युक्तिं ते करिष्ये तां च मे शृणु ।। ३३३
ततः प्रभृति निर्दग्धः कालः श्वेतनिमित्ततः ।
कुपितेनेश्वरेणेह पुनः कार्याच्च निर्मितः ।। ३३४
ततः प्रभृति यत्रैव श्वेतो वसति तत्र सः ।
न जन्तून्बाधतेऽन्यानप्याज्ञया यन्त्रितः प्रभोः ।। ३३५
स चाधुना श्वेतमुनिः पारे पूर्वाम्बुधेः स्थितः ।
तरङ्गिणीं नाम नदीं समुत्तीर्य तपोवने ।। ३३६
तत्र मृत्योरनाक्रम्ये नीत्वा त्वां स्थापयाम्यहम् ।
तरङ्गिण्या इदं पारमागन्तव्यं च न त्वया ।। ३३७
आगतं वा प्रमादात्त्वां मृत्युर्बाधिष्यते यदि ।
तदुपायं करिष्यामि परलोकागतस्य ते ।। ३३८
इत्युक्त्वा चित्रगुप्तस्तं प्रहृष्टः सिंहविक्रमम् ।
नीत्वा श्वेताश्रमे तस्मिन्निधायादर्शनं ययौ ।। ३३९
ततः कालेन तत्रस्थं नेतुं तं सिंहविक्रमम् ।
कालस्तस्यास्तरङ्गिण्या इदं पारमुपाययौ ।। ३४०
तत्र स्थितो ददर्शान्यमुपायं न यदा तदा ।
स तस्मै प्राहिणोद्दिव्यां स्त्रियै निर्माय मायया ।। ३४१
सा गत्वोपेत्य तं युक्त्या वशीचक्रे विलासिनी ।
मोहयित्वा स्वलावण्यसंपदा सिंहविक्रमम् ।। ३४२
गतेष्वहःसु सा बन्धुदिदृक्षाव्यपदेशतः ।
सतरङ्गां तरीतुं तां प्रविवेश तरङ्गिणीम् ।। ३४३
वीक्षमाणेऽन्वगायाते तीरस्थे सिंहविक्रमे ।
मध्येनदि च सा चक्रे परिस्खलितमात्मनः ।। ३४४
ओघेन ह्रियमाणेव तारं चक्रन्द तत्र सा ।
वीक्षसे म्रियमाणो मामार्यपुत्र न रक्षसि ।। ३४५
सृगालविक्रमः किं त्वं न पुनः सिंहविक्रमः ।
तच्छ्रुत्वैवावतीर्णोऽभूत्स नद्यां सिंहविक्रमः ।। ३४६
सापि स्त्री वारिवेगेन नीयमानेव तत्र तम् ।
त्रातुं तमनुगच्छन्तं तत्पारमनयत्क्षणात् ।। ३४७
तत्र प्राप्तं गलक्षिप्तपाशः कालस्तमब्रवीत् ।
अपायो मस्तकस्थो हि विषयग्रस्तचेतसाम् ।। ३४८
ततो यमसभां नीतं कालेनैतं प्रमादिनम् ।
चित्रगुप्तोऽब्रवीद्दृष्ट्वा प्राक्प्रसन्नो जनान्तिकम् ।। ३४९
पूर्वं किं नरकं भुङ्क्षे किं वा स्वर्गमितीह चेत् ।
पृच्छ्यसे प्रार्थयेथास्तत्स्वर्गवासं त्वमग्रतः ।। ३५०
स्वर्गे वसंश्च कुर्वीथाः पुण्यं तद्दार्ढ्यसिद्धये ।
ततः कुर्यास्तपस्तत्र कृत्स्नपापापनुत्तये ।। ३५१
इत्युक्तश्चित्रगुप्तेन स स्वैरं सिंहविक्रमः ।
विलक्षोऽधोमुखो भीतः प्रतिपेदे तथेति तत् ।। ३५२
क्षणाच्च धर्मराजोऽत्र चित्रगुप्तमभाषत ।
कच्चित्कोऽप्यस्य पुण्यांशश्चौरस्यास्त्यत्र किं न वा ।। ३५३
चित्रगुप्तस्ततोऽवादीदस्त्यसावतिथिप्रियः ।
प्रादाद्दारानपि स्वेष्टदेवताप्रीतयेऽर्थिने ।। ३५४
ततोऽस्य दिवसं दिव्यमस्ति स्वर्गगतिः प्रभो ।
श्रुत्वैतद्धर्मराजस्तमपश्यत्सिंहविक्रमम् ।। ३५५
रे शुभाशुभयोः पूर्वं भुङ्क्षे किं कथ्यतामिति ।
ततः प्रार्थितवान्पूर्वं स शुभं सिंहविक्रमः ।। ३५६
तेनाज्ञया धर्मराजस्यागतं स विमानकम् ।
आरुह्य त्रिदिवं प्रायाच्चित्रगुप्तवचः स्मरन् ।। ३५७
तत्र व्योमसरित्स्नानजपव्रतपरायणः ।
द्वितीयं दिवसं प्राप स स्वर्गे भोगनिःस्पृहः ।। ३५८
एवं क्रमेण चासाद्य स्वर्गं तीव्रतपोबलात् ।
आराध्य शंकरं प्राप ज्ञानं निर्दग्धकिल्बिषः ।। ३५९
ततोऽस्य नारका दूता न शेकुर्मुखमीक्षितुम् ।
चित्रगुप्तो ममार्जाघं भूर्जे तूष्णीमभूद्यमः ।। ३६०
इत्थं चौरोऽपि सत्प्रज्ञाबलात्सिद्धिमवाप सः ।
सिंहविक्रम इत्येषा प्रज्ञापारमितोदिता ।। ३६१
एवं चारुह्य नौतुल्यां तरन्त्येव भवाम्बुधिम् ।
वत्स बुद्धोक्तदानादिषट्कपारमिता बुधाः ।। ३६२
इति तस्मिन्वने सोमशूरं तस्यानुशासतः ।
बोधिसत्त्वपदस्थस्य विनीतमतिभूपतेः ।। ३६३
भास्करस्ता निशम्यैव प्रशाम्यन्धर्मदेशनाः ।
संध्यारागात्तकाषायो विवेशास्ताद्रिकंदरम् ।। ३६४
ततः संध्यामुपस्याय यथावत्तत्र तां निशाम् ।
स विनीतमती राजा सोमशूरश्च निन्यतुः ।। ३६५
अन्येद्युश्च क्रमात्तस्मै सोमशूराय शासनम् ।
स विनीतमतिर्बौद्धं सरहस्यमुपादिशत् ।। ३६६
ततः स सोमशूरस्तमुपासीनो गुरुं वने ।
तस्थौ समाधिनिष्ठोऽत्र वृक्षमूले कृतोटजः ।। ३६७
क्रमाच्च तौ समं तत्र गुरुशिष्यावुभावपि ।
लब्धयोगमहासिद्धी परां बोधिमवापतुः ।। ३६८
अत्रान्तरे स कनककलशो मत्सरान्नृपः ।
तेनेन्दुकलशेनैत्य तत्खड्गाश्वप्रभावतः ।। ३६९
भ्रात्रा निर्वासितस्तस्मादप्यहिच्छत्त्रराज्यतः ।
यद्विनीतमतिस्तस्मै तदुत्खाताय दत्तवान् ।। ३७०
स राज्यविच्युतो भ्राम्यन्द्वित्रस्वसचिवान्वितः ।
तद्विनीतमतेः प्राप दैवादाश्रमकाननम् ।। ३७१
तत्र यावत्स दुर्वारक्षुत्तृष्णार्तोऽभिवाञ्छति ।
फलमूलाम्बु तावत्तन्माययेन्द्रेण काननम् ।। ३७२
दग्ध्वा मरूकृतं प्राग्वत्तं वञ्चयितुमिच्छता ।
विनीतमतिमेतादृगध्वगातिथ्यलोभतः ।। ३७३
सोऽप्यकस्मान्मरूभूतमात्माश्रममवेक्ष्य तम् ।
विनीतमतिरुद्भ्रान्तो बभ्रामेतस्ततः क्षणम् ।। ३७४
ददर्श तं च कनककलशं भ्रान्तमागतम् ।
क्षुधा कण्ठगतप्राणमतिथिं सानुगं ततः ।। ३७५
उपेत्य तादृशं तं च वृत्तान्तं परिपृच्छ्य च ।
आतिथेयः कृतप्रश्नो बोधिसत्त्वो जगाद सः ।। ३७६
अरण्येऽस्मिन्निरातिथ्ये मरुभूमित्वमागते ।
जीवितोपायमप्येतं क्षुधितानां वदामि वः ।। ३७७
इतोऽर्धक्रोशमात्रेऽत्र पतित्वा खातके मृतः ।
मृगस्तिष्ठति तन्मांसैः प्राणान्रक्षत गच्छत ।। ३७८
तथेत्यार्तेऽतिथौ तत्र सानुगे गन्तुमुद्यते ।
स विनीतमतिर्बोधिसत्त्वः पूर्वं ततो ययौ ।। ३७९
प्राप्य तत्खातकं कृत्वा मृगरूपं च योगतः ।
निक्षिप्य तत्र चात्मानं सोऽर्थिहेतोर्जहावसून् ।। ३८०
ततः शनैस्ते कनककलशाद्याः समाययुः ।
खातं तद्ददृशुश्चात्र तं विपन्नस्थितं मृगम् ।। ३८१
उद्धृत्य तमथोत्पाद्य ज्वलनं तृणकण्टकैः ।
भृष्ट्वा च तस्य मांसानि ते निःशेषाण्यभक्षयन् ।। ३८२
तावच्च तस्य भार्ये द्वे बोधिसत्त्वस्य विह्वले ।
पश्यन्त्यावाश्रमध्वंसमपश्यन्त्यौ च तं पतिम् ।। ३८३
गत्वा नागसुताराजसुते तस्मै तदूचतुः ।
सोमशूराय निबिडाच्चलिताय समाधितः ।। ३८४
सोऽपि तत्प्रणिधानेन विज्ञाय गुरुचेष्टितम् ।
शशंस गुरुपत्नीभ्यां ताभ्यां दुःखप्रदाय्यपि ।। ३८५,
ताभ्यामेव समं चाशु तत्खातनिकटं ययौ ।
यत्रातिथिभ्यस्तेनात्मा दत्तोऽस्य गुरुणा तथा ।। ३८६
तत्र ते नागतनयाराजपुत्र्यौ मृगाकृतिम् ।
शृङ्गास्थिमात्रशेषं तं पतिं दृष्ट्वान्वशोचताम् ।। ३८७
तच्छृङ्गास्थीनि चादाय स्वाश्रमाद्दारुसंचयम् ।
आनीयाग्निप्रवेशं ते कुरुतः स्म पतिव्रते ।। ३८८
ततस्तत्र स्थितः सोऽपि ज्ञातवृत्तान्तदुःखितः ।
अग्निप्रवेशं कनककलशः सानुगो व्यधात् ।। ३८९
एवंगते सोमशूरो गुरुदुःखासहोऽत्र सः ।
दर्भसंस्तरमध्यास्त प्राणोत्क्रान्तिविधित्सया ।। ३९०
तत्क्षणं च तमागत्य साक्षादिन्द्रोऽभ्यभाषत ।
मैवं कृथा मया ह्येष गुरुस्तव परीक्षितः ।। ३९१
अस्थिभस्मावशेषोऽपि जीवन्नुत्थापितो ह्यसौ ।
सिक्त्वैवामृतवर्षेण सभार्यः सातिथिर्मया ।। ३९२
इतीन्द्रवचनं श्रुत्वा तं प्रणम्योत्थितो मुदा ।
गत्वा स वीक्षते सोमशूरो यावत्स तद्गुरुः ।। ३९३
बोधिसत्त्वः पुनर्जीवन्विनीतमतिरुत्थितः ।
भार्याभ्यां तैश्च कनककलशप्रमुखैः सह ।। ३९४
ततः स तं सपत्नीकं परलोकागतं गुरुम् ।
मूर्ध्नावन्दत वाक्पुष्पैरार्चयच्चक्षुषा पपौ ।। ३९५
भक्तिप्रह्वेषु कनककलशादिषु तेषु च ।
ब्रह्मविष्णुमुखा देवाः सर्वे तत्राययुस्ततः ।। ३९६
सत्त्वात्तुष्टाश्च ते तस्मै विनीतमतये वरान् ।
दिव्यानुभावान्पारार्थ्यवृतान्दत्त्वा तिरोदधुः ।। ३९७
सोऽपि तैरुक्तवृत्तान्तैर्विनीतमतिरन्वितः ।
सोमशूरादिभिः प्रायाद्दिव्यमन्यत्तपोवनम् ।। ३९८
एवं मिलन्तीह पुनर्भस्मीभावं गता अपि ।
किं पुनस्तात जीवन्तः स्वच्छन्दगतयो नराः ।। ३९९
तदलं देहमुत्सृज्य वत्स वीरो ह्यसि व्रज ।
भावी मृगाङ्कदत्तेन तवावश्यं समागमः ।। ४००
इत्येतां वृद्धतापस्या मुखाच्छ्रुत्वा कथामहम् ।
जातास्थः खड्गहस्तस्तां नत्वा प्रस्थितवांस्ततः ।। ४०१
क्रमात्प्राप्तोऽटवीमेतामेभिर्लब्धोऽस्मि दैवतः ।
उपहारं विचिन्वद्भिः शबरैश्चण्डिकाकृते ।। ४०२
वष्टभ्य चैतैरानीतः प्रयुद्धेऽहं व्रणार्दितः ।
शबराधिपतेरस्य पार्श्वं मायाबटोरिह ।। ४०३
अत्र लब्धो मया द्वित्रमन्त्रियुक्तो भवान्प्रभो ।
त्वत्प्रसादाच्च जाता मे निर्वृतिः स्वगृहे यथा ।। ४०४
इति तेन गुणाकरेण सख्या निजवृत्तान्तमुदीरितं निशम्य ।
शबरेशगृहस्थितः स भेजे परितोषं परमं मृगाङ्कदत्तः ।। ४०५
समवेक्ष्य च तस्य संगरे तां व्रणितस्योचितपथ्यदेहचर्याम् ।
अहनि वलति सोऽपरैर्वयस्यैः सममुत्थाय निजाह्निकं चकार ।। ४०६
आसीच्च तत्राथ गुणाकरं तमुल्लाघयन्संप्रति तान्यहानि ।
शेषान्सखीन्प्राप्तुमसौ शशाङ्कवत्याप्तये चोज्जयिनीं यियासुः ।। ४०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चमस्तरङ्गः ।