प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ रूढव्रणे स्वस्थे जाते तस्मिन्गुणाकरे ।
शुभेऽहनि तमापृच्छ्य सुहृदं शबराधिपम् ।। १
सुदूरमन्वगायातं कार्याय कृतसंविदम् ।
सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ।। २
मायाबटुं सानुचरं स शशाङ्कवतीकृते ।
मृगाङ्कदत्तस्तत्पल्ल्याः प्रायादुज्जयिनीं प्रति ।। ३
गच्छंश्च स श्रुतधिना तदा विमलबुद्धिना ।
गुणाकरेण च समं सहभीमपराक्रमः ।। ४
चिन्वन्नन्यान्सखींस्तस्यां विन्ध्याटव्यामथैकदा ।
सामात्यः पथि सुष्वाप रात्रौ क्वापि तरोस्तले ।। ५
अकस्माच्च प्रबुद्धः सन्यावदुत्थाय वीक्षते ।
तावत्तत्र ददर्शैकं सुप्तस्थं मानुषं परम् ।। ६
विवृणोति मुखं यावत्तस्य तावत्स्वमन्त्रिणम् ।
प्रत्यभिज्ञातवान्प्राप्तं विचित्रकथसंज्ञकम् ।। ७
सोऽपि प्रबुद्धो दृष्ट्वैव तं विचित्रकथः प्रभुम् ।
मृगाङ्कदत्तं सानन्दं साधुर्जग्राह पादयोः ।। ८
तेनाप्यालिङ्गितोऽकाण्डदर्शनोत्फुल्लचक्षुषा ।
तन्मन्त्रिभिश्च तैः सर्वैः प्रबुद्धैरभ्यनन्द्यत ।। ९
अथोक्तस्वस्ववृत्तान्तैः पृष्टस्तैरखिलैः क्रमात् ।
स विचित्रकथो वक्तुं स्ववृत्तान्तं प्रचक्रमे ।। १०
तदा पारावताख्यस्य शापाद्युष्मास्वितस्ततः ।
विभ्रष्टेष्वहमेकाकी मोहात्तत्राभ्रमं चिरम् ।। ११
दूरभ्रान्तोऽपरेद्युश्च नष्टसंज्ञोऽहमाप्तवान् ।
अकस्मादटवीप्रान्ते क्लान्तो दिव्यं महत्पुरम् ।। १२
तत्र दिव्यः पुमानेको दिव्यनारीद्वयान्वितः ।
मामाश्वासितवान्दृष्ट्वा स्नपितं शीतलैर्जलैः ।। १३
प्रवेश्य चान्तः प्रादान्मे यत्नाद्दिव्यं स भोजनम् ।
ततोऽभुङ्क्त स्वयं नार्यावभुञ्जातां ततोऽपि ते ।। १४
भुक्तोत्तरं च तमहं विश्रान्तोऽत्र व्यजिज्ञपम् ।
को भवान्किं च मामेवं मुमूर्षुं त्रातवानसि ।। १५
मया ह्यवश्यं त्यक्तव्यं शरीरं स्वप्रभुं विना ।
इत्युक्त्वा वर्णितस्तस्मै स्ववृत्तान्तोऽखिलो मया ।। १६
ततश्च स महात्मा मां प्रीतिमानेवमब्रवीत् ।
यक्षोऽहमेते मद्भार्ये त्वं च प्राप्तोऽद्य मेऽतिथिः ।। १७
यथाशक्त्यतिथेः पूजा धर्मो हि गृहमेधिनाम् ।
मयार्चितोऽस्यतः किं च प्राणान्कस्मान्मुमुक्षसि ।। १८
वियोगो नागशापेन कंचित्कालमयं हि वः ।
अवश्यं क्षीणशापानां युष्माकं स्यात्समागमः ।। १९
निर्दुःखो नाम कश्चात्र संसारे भद्र जायते ।
यक्षेणापि मया दुःखं यद्दृष्टं वच्मि तच्छृणु ।। २०
अस्त्यस्या वसुधावध्वा मौलिमण्डनमालिका ।
त्रिगर्ता नाम नगरी सुमनोगुणगुम्फिता ।। २१
तस्यां द्विजयुवा कोऽपि पवित्रधर इत्यभूत् ।
धनैर्दरिद्रः स्वजनैरदरिद्रः कुलादिभिः ।। २२
स वसञ्श्रीमता मध्ये द्विजो मानी व्यचिन्तयत् ।
एषामर्थवतां मध्ये वृत्तस्थोऽपि न भाम्यहम् ।। २३
एकः सत्काव्यशब्दानामिव शब्दो निरर्थकः ।
मनस्वी च न शक्नोमि सेवां नापि प्रतिग्रहम् ।। २४
तद्गत्वा क्वचिदेकान्ते यक्षिणीं साधयाम्यहम् ।
अस्ति मन्त्रोपदेशो हि तत्र मे गुरुवक्त्रतः ।। २५
इति संकल्प्य विधिवद्गत्वारण्याय यक्षिणीम् ।
भार्यात्वे साधयामास स पवित्रधरो द्विजः ।। २६
सिद्धया च तया युक्तः सौदामिन्यभिधानया ।
तस्थौ घोरहिमोत्तीर्णो विटपीव मधुश्रिया ।। २७
एकदा तं सुतोत्पत्तिं विना दुःखितचेतसम् ।
दृष्ट्वा सा यक्षिणी भार्या पवित्रधरमब्रवीत् ।। २८
मार्यपुत्र कृथाश्चिन्तां सूनुरुत्पद्यते हि नौ ।
इमं च शृणु वृत्तान्तमत्राहं कथयामि ते ।। २९
अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव ।
पिहितार्का घनश्यामा तमालवनवीथिका ।। ३०
तस्यां पृथूदरो नाम यक्षो वसति विश्रुतः ।
तस्याहमियमेकैव नाम्ना सौदामिनी सुता ।। ३१
सा स्नेहात्तेन पित्राहं नीयमाना कुलाद्रिषु ।
तेषु तेषु सदाक्रीडं दिव्योपवनभूमिषु ।। ३२
एकदा च समं सख्या क्रीडन्ती कपिशभ्रुवा ।
अद्राक्षमट्टहासाख्यं कैलासे यक्षपुत्रकम् ।। ३३
सोऽपि मां सखिमध्यस्थो दृष्टवानथ तत्क्षणम् ।
जातावावां किलान्योन्यरूपाकृष्टविलोचनौ ।। ३४
तद्दृष्ट्वा तुल्यसंयोगमवेत्याहूय चात्र तम् ।
सद्योऽट्टहासं तातेन विवाहो नौ विनिश्चितः ।। ३५
स्थापिते लग्नदिवसे ताते मामनयद्गृहम् ।
अट्टहासोऽपि मुदितः समित्रः स्वगृहानगात् ।। ३६
अन्येद्युश्च विषण्णेव कपिशभ्रूः सखी मम ।
आगात्समीपं पृष्टा च कृच्छ्रादेवमभाषत ।। ३७
अनाख्येयमपीदं ते कथयाम्यप्रियं सखि ।
अद्यायान्त्या मया दृष्टः सोऽट्टहासो वरस्तव ।। ३८
चित्रस्थलाख्ये हिमवत्सानूद्याने त्वदुत्सुकः ।
विनोदयद्भिः सखिभिः क्रीडया यक्षराट् कृतः ।। ३९
भ्राता दीप्तशिखस्तस्य तत्पुत्रो नडकूबरः ।
कल्पितस्तैः स्वयं ते च तस्य साचिव्यमाश्रयन् ।। ४०
एवं कृतविनोदं तं वयस्यैस्त्वत्प्रियं तदा ।
व्योम्ना यदृच्छया गच्छन्नपश्यन्नडकूबरः ।। ४१
स तमाहूय संक्रुद्धो धनाधिपसुतोऽशपत् ।
भृत्यो भूत्वा प्रभोर्लीलामभिवाञ्छसि यत्ततः ।। ४२
दुर्मते भव मर्त्यस्त्वमूर्ध्वमिच्छन्नधो व्रज ।
इत्युक्तस्तेन विग्नस्तं सोऽट्टहासो व्यजिज्ञपत् ।। ४३
औत्सुक्यं नुदता देव मूर्खेणेदं मया कृतम् ।
नाधिकाराभिमानेन तत्क्षमां कुरु मे प्रभो ।। ४४
इत्यार्तं तद्वचः श्रुत्वा प्रणिधानात्तथैव तत् ।
बुद्ध्वा शापान्तहेतोस्तं सोऽब्रवीन्नडकूबरः ।। ४५
यस्यां त्वमुत्सुकस्तस्यां यक्षिण्यां मानुषो भवन् ।
जनयित्वानुजं दीप्तशिखमेवैतमात्मजम् ।। ४६
शापाद्विमुक्तः स्वपदं तया पत्न्या सहाप्स्यसि ।
भ्राता तु ते सुतो भूत्वा कृत्वा राज्यमसौ भुवि ।। ४७
शापान्मोक्ष्यत इत्युक्ते तेन वित्तेशसूनुना ।
सोऽट्टहासस्तिरोभूतः क्वापि शापप्रभावतः ।। ४८
तद्दृष्ट्वाहमिहायाता पार्श्वं ते सखि दुःखिता।
इत्युक्ताहं तया सख्या दुःखात्कामप्यगां दशाम् ।। ४९
आत्मानमनुशोच्याथ गत्वा पित्रोर्निवेद्य तत् ।
अनैषं तमहं कालं पुनः संगमवाञ्छया ।। ५०
सोऽट्टहासस्त्वमुत्पन्नः सा चाहं मिलितावुभौ ।
अद्येहावां तदेवं नौ जनितैवाचिरात्सुतः ।। ५१
एवं तयोक्ते ज्ञानिन्या सौदामिन्या प्रहर्षवान् ।
अभूदुत्पन्नपुत्रास्थः स पवित्रधरो द्विजः ।। ५२
कालेन तस्य यक्षिण्या तस्यां सूनुरजायत ।
गृहं चित्तं च जातेन तयोर्येन प्रकाशितम् ।। ५३
दृष्ट्वा च तस्य पुत्रस्य स पवित्रधरो मुखम् ।
संपेदे सोऽट्टहासोऽत्र यक्षो दिव्याकृतिः क्षणात् ।। ५४
उवाच यक्षिणीं चैतां प्रिये शापो गतः स नौ ।
जातः सैषोऽट्टहासोऽहमेहि यावो निजां गतिम् ।। ५५
इत्युक्तवन्तं तं भार्या सावादीच्छिशुरेव ते ।
भ्राता शापात्सुतीभूता कथं स्यादिति चिन्त्यताम् ।। ५६
तच्छ्रुत्वा ध्यानतोऽवेक्ष्य सोऽट्टहासो जगाद ताम् ।
देवदर्शन इत्यस्ति ब्राह्मणोऽस्यां पुरि प्रिये ।। ५७
पञ्चाग्नेस्तस्य चान्यौ द्वावधिकं ज्वलतः क्षुधा ।
जठराग्नी सभार्यस्य दरिद्रस्य प्रजाधनैः ।। ५८
धनपुत्रार्थिनं तं च तपसि स्थितमेकदा ।
आराधयन्तं भगवानग्निः स्वप्ने समादिशत् ।। ५९
औरसो नास्ति पुत्रस्ते कृत्रिमस्तु भविष्यति ।
तद्वशादेव च ब्रह्मन्दारिद्र्यं ते निवर्त्स्यति ।। ६०
इत्यग्न्यादेशतो विप्रस्तत्प्रतीक्षोऽद्य संस्थितः ।
तस्मै शिशुरयं देयो भवितव्यमिदं हि तत् ।। ६१
इत्युक्त्वा तां प्रियां स्वर्णपूर्णकुम्भोपरि स्थितम् ।
कृत्वा च तं गलाबद्धदिव्यरत्नस्रजं शिशुम् ।। ६२
क्षिप्त्वा तस्य गृहे रात्रौ प्रसुप्तस्य द्विजन्मनः ।
सभार्यस्य सभार्यः स्वां सोऽट्टहासो ययौ गतिम ।। ६३
सोऽपि प्रबुध्य विप्रोऽत्र विस्फुरद्रत्नतारकम् ।
अपश्यद्बालचन्द्रं तं सभार्यो देवदर्शनः ।। ६४
किमेतदिति विस्मित्य हेमकुम्भं विलोक्य तम् ।
स स्वप्नादेशमाग्नेयं सस्मार च ननन्द च ।। ६५
जग्राह बालकं तं च पुत्रं विधिसमर्पितम ।
धनं च तत्प्रभाते च विदधे स महोत्सवम् ।। ६६
एकादशे च दिवसे तस्य पुत्रस्य तत्र सः ।
बालस्य स्वोचितं नाम श्रीदर्शन इति व्यधात् ।। ६७
ततो महाधनो भूत्वा तस्थौ क्रत्वादिकाः क्रियाः ।
कुर्वन्भोगांश्च भुञ्जानः स विप्रो देवदर्शनः ।। ६८
सोऽपि श्रीदर्शनस्तत्र वृद्धिं प्राप्तः पितुर्गृहे ।
प्रकर्षं वेदविद्यासु प्रापास्त्रेषु च वीर्यवान् ।। ६९
कालेन यौवनस्थस्य स पिता देवदर्शनः ।
तीर्थयात्रागतस्तस्य प्रयागे प्रशमं ययौ ।। ७०
तद्बुद्ध्वा तस्य मातापि प्रविष्टाग्निं ततश्च सः ।
व्यधाच्छ्रीदर्शनः शोचंस्तयोः शास्त्रोदिताः क्रियाः ।। ७१
शनैश्च स तनूभूतशोकोऽकृतपरिग्रहः ।
द्यूतक्रीडाप्रसक्तोऽभूद्दैवात्प्राज्ञोऽप्यबान्धवः ।। ७२
अचिरेण च कालेन तस्य क्षीणार्थसंपदः ।
तेन दुर्व्यसनेनासीद्भोजनेऽपि कदर्थना ।। ७३
एकदा द्यूतशालायां निराहारस्थितं त्र्यहम् ।
अशक्नुवन्तं निर्गन्तुं लज्जयानुचिताम्बरम् ।। ७४
अन्यैर्दत्तमभुञ्जानं दुःखितं कितवः सखा ।
कश्चिन्मुखरको नाम तं श्रीदर्शनमभ्यधात् ।। ७५
किं मुह्यसीदृगेवेदं द्यूतव्यसनपातकम् ।
अश्रीकटाक्षपाताः किमक्षा न विदितास्तव ।। ७६
बाहू प्रावरणं शय्या पांसवश्चत्वरं गृहम् ।
भार्या विध्वस्तता धात्रा कितवस्य हि निर्मितम् ।। ७७
किं तन्न भुङ्क्षे विद्वानप्यात्मानं किमुपेक्षसे ।
जीवन्हि धीरोऽभिमतं किं नाम न यदाप्नुयात् ।। ७८
तथा च चित्रामत्रैतां भूनन्दनकथां शृणु ।
अस्तीहाभरणं भूमेः कश्मीरा इति मण्डलम् ।। ७९
दृश्यभोगं विधायैकं त्रिदिवं सुकृतां कृते ।
भोग्यभोगं विधाता यद्द्वितीयमिव निर्ममे ।। ८०
अहमत्राधिका नाहमित्यन्योन्यमिवेर्ष्यया ।
प्रविष्टाभ्यां श्रितं द्वाभ्यां सरस्वत्या श्रिया च यत् ।। ८१
धर्मद्रुहः प्रवेशोऽत्र कलेर्मा भूदितीव यत् ।
स्वदेहपरिवेषेण रक्ष्यते तुहिनाद्रिणा ।। ८२
देवतीर्थमयाद्दूरमितो याहीति कल्मषम् ।
वीचिहस्तैर्नुदन्त्येव भूषितं यद्वितस्तया ।। ८३
यस्मिन्सितसुधाधौतास्तुङ्गाः प्रासादपङ्क्तयः ।
कुर्वन्त्यासन्नहिमवत्पादशैलावलीभ्रमम् ।। ८४
तस्मिन्वर्णाश्रमगुरुः प्रजानन्दनचन्द्रमाः ।
अभूद्विद्यागमबुधो नाम्ना भूनन्दनो नृपः ।। ८५
नखराजिनियुक्तेषु विरेजे यस्य विक्रमः ।
कामिनीकुचयुग्मेषु मण्डलेषु च विद्विषाम् ।। ८६
यस्य नीतिमतोऽप्यासन्प्रजाः शश्वदनीतयः ।
कृष्णैकासक्तचित्तस्याप्यकृष्णतरमानसाः ।। ८७
स जातु राजा द्वादश्यां विधिवत्पूजिताच्युतः ।
स्वप्ने कामप्युपायातामपश्यद्दैत्यकन्यकाम् ।। ८८
तया संप्राप्य संयोगं प्रबुद्धो न ददर्श ताम् ।
व्यक्तं ददर्श संभोगचिह्नमङ्गे तु विस्मितः ।। ८९
नायं स्वप्नः स्फुटो ह्येष संभोगस्तर्कयाम्यहम् ।
विप्रलब्धस्तया नूनं नार्या किमपि दिव्यया ।। ९०
इत्यवेत्य च तच्चित्तस्तथाभूद्विरहातुरः ।
यथा स राजकार्याणि जहौ सर्वाण्यपि क्रमात् ।। ९१
अपश्यन्प्रात्युपायं च तस्याः सोऽचिन्तयन्नृपः ।
हरेः प्रसादात्सोऽभून्मे तथा तत्संगमक्षणः ।। ९२
आराधयामि तत्प्रात्यै गत्वैकान्ते तमेव तत् ।
राज्यपाशं विमुच्येमं हा तद्विरहनीरसम् ।। ९३
इति संकल्प्य संबोध्य सचिवाननुजाय सः ।
सुनन्दनाभिधानाय राज्यं भूनन्दनो ददौ ।। ९४
त्यक्तराज्यश्च स ययौ पादन्यासोद्भवं हरेः ।
तीर्थं क्रमसरो नाम त्रिविक्रमकृतं पुरा ।। ९५
यदध्यासितमभ्यर्णपर्वताग्रनिवेशिभिः ।
शृङ्गाकारैस्त्रिभिर्देवैर्ब्रह्मविष्णुमहेश्वरैः ।। ९६
येन विष्णुपदेनान्या काश्मीरेषु सुरापगा ।
सृष्टा विषुवती नाम वितस्ता मत्सरादिव ।। ९७
तत्रासीत्स तपः कुर्वन्राजान्यरसनिःस्पृहः ।
क्लाम्यन्नव्यरसाकाङ्क्षी निदाघ इव चातकः ।। ९८
व्यतीतद्वादशाब्दे च तस्मिंस्तत्र तपःस्थिते ।
आगात्तेन पथा कोऽपि तपस्वी ज्ञानिनां वरः ।। ९९
पिङ्गलाग्रजटश्चीरवासाः शिष्यगणान्वितः ।
तत्तीर्थशैलशिखरादवतीर्ण इवेश्वरः ।। १००
स तं दृष्ट्वैव राजानं जातप्रीतिरुपेत्य च ।
प्रह्वः पृष्ट्वा च वृत्तान्तं ध्यात्वा क्षणमिवाब्रवीत् ।। १०१
राजन्सा दैत्यकन्या ते प्रिया पातालवासिनी ।
तदाश्वसिहि तस्यास्त्वामन्तिकं प्रापयाम्यहम् ।। १०२
अहं हि दाक्षिणात्यस्य यज्ञसंज्ञस्य यज्वनः ।
पुत्रो भूतिवसुर्नाम ब्राह्मणो योगिनां गुरुः ।। १०३
सोऽहं संक्रमितज्ञानः पित्रा पातालशास्त्रतः ।
शिक्षित्वा हाटकेशानमन्त्रतन्त्रविधिक्रमम् ।। १०४
गत्वा श्रीपर्वतेऽकार्षं त्र्यम्बकाराधनं तपः ।
तेन तुष्टोऽथ मां तत्र साक्षादित्यादिशच्छिवः ।। १०५
गच्छ दैत्याङ्गनायुक्तो भुक्त्वा भोगान्रसातले ।
मामुपैष्यस्युपायं च तत्प्राप्तौ शृणु वच्मि ते ।। १०६
सन्ति भूयांसि पातालविवराण्यत्र भूतले ।
प्रकाशं त्वस्ति कश्मीरेष्वेकं मयकृतं महत् ।। १०७
येन प्रवेश्य गुप्तासु दानवोद्यानभूमिषु ।
उषा बाणसुता कान्तमनिरुद्धं व्यनोदयत् ।। १०८
प्रद्युम्नश्च तदा पुत्रं रक्षितुं तं व्यधत्त यत् ।
प्रकटं गिरिशृङ्गेण प्रकल्प्य द्वारमेकतः ।। १०९
तद्द्वाररक्षाहेतोश्च यत्र दुर्गां न्यवेशयत् ।
आराध्य स स्तुतिशतैः शारिकानामधारिणीम् ।। ११०
येन प्रद्युम्नशिखरं शारिकाकूटमित्यपि ।
नामद्वयेन तत्तत्र स्थानमद्याभिधीयते ।। १११
गच्छ तेन बिलाग्रेण प्रविश्यानुचरैः सह ।
पातालं मत्प्रसादाच्च सिद्धिस्तेऽत्र भविष्यति ।। ११२
इत्युक्त्वान्तर्हिते देवे तत्प्रसादप्रभावतः ।
उत्पन्नाखिलविज्ञानः कश्मीरानागतोऽस्म्यमून् ।। ११३
तदस्माभिः समं राजञ्शारिकाकूटमेहि तत् ।
यावदिष्टाङ्गनापार्श्वं पातालं त्वां नयाम्यहम् ।। ११४
एवमुक्तवता तेन तथेति स तपस्विना ।
समं तच्छारिकाकूटं ययौ भूनन्दनो नृपः ।। ११५
तत्र स्नात्वा वितस्तायामर्चयित्वा विनायकम् ।
संपूज्य शारिकां देवीं दिग्बन्धादिपुरःसरम् ।। ११६
विधिवत्सर्षपक्षेपाद्धरानुग्रहशालिना ।
महातपस्विना तेन विवरे प्रकटीकृते ।। ११७
प्रविश्य तेनैव समं सशिष्येण स भूपतिः ।
जगाम पातालपथं पञ्चाहानि दिवानिशम् ।। ११८
षष्ठेऽह्नि सर्वेऽप्युत्तीर्य गङ्गां पातालवाहिनीम् ।
भूमौ रजतमय्यां ते दिव्यमैक्षन्त काननम् ।। ११९
स्थलप्रफुल्लसौवर्णकमलामोदवासितम् ।
उद्यत्प्रवालकर्पूरचन्दनागुरुपादपम् ।। १२०
तन्मध्ये सुमाहभोगं रत्नसोपानसुन्दरम् ।
सौवर्णभित्ति माणिक्यस्तम्भसंभारभासुरम् ।। १२१
चन्द्रकान्तशिलाबद्धविशालामलसारकम् ।
प्रहृष्टा ददृशुः प्रांशु शैवमायतनं च ते ।। १२२
ततश्च स तपस्वी तान्स्वशिष्यांस्तं च भूपतिम् ।
भूनन्दनं ज्ञानिवरो जाताश्चर्यानभाषत ।। १२३
अयं स देवः पातालनिलयो हाटकेश्वरः ।
गीयते त्रिषु लोकेषु तदसौ पूज्यतामिति ।। १२४
ततः सर्वेऽपि ते तैस्तैः पुष्पैः पातालसंभवैः ।
तद्गङ्गाम्भःप्लुताः शंभुं पूजयामासुरत्र तम् ।। १२५
तत्पूजाक्षणविश्रान्ता गत्वा प्रापुस्ततश्च ते ।
पतत्पक्वफलं दिव्यमेकं जम्बुमहाद्रुमम् ।। १२६
तं प्रेक्ष्य स तपस्वी तानवोचन्न फलानि वः ।
भक्ष्याण्येतस्य विघ्नं हि भुक्तान्येतानि कुर्वते ।। १२७
तच्छ्रुत्वापि चखादैकस्तच्छिष्यस्तत्फलं क्षुधा ।
खादित्वैव च संपेदे निश्चेष्टः स्थावराकृतिः ।। १२८
ततस्तद्दर्शनत्रासपरित्यक्तफलस्पृहैः ।
स तपस्वी सहान्यैस्तैः शिष्यैर्भूनन्दनान्वितः ।। १२९
क्रोशमात्रमतिक्रम्य हेमप्राकारमुच्छ्रितम् ।
सद्रत्नरचितद्वारमत्रावस्थितमैक्षत ।। १३०
तद्द्वारपार्श्वयोर्लोहमयाङ्गावुभयोरुभौ ।
प्रवेशरोधिनौ मेषौ दृष्ट्वा शृङ्गप्रहारिणौ ।। १३१
हत्वा सपदि दण्डेन न्यस्तमन्त्रेण मूर्धनि ।
विद्रावयामास स तौ क्वापि वज्रहताविव ।। १३२
ततः स तेन द्वारेण तच्छिष्याश्च नृपश्च सः ।
प्रविश्य ददृशुर्दिव्यान्हेमरत्नमयान्गृहान् ।। १३३
द्वारि द्वारि च तेषां ते दन्तदष्टाधरोत्कटान् ।
गृहीतलोहमुसलानपश्यन्द्वाररक्षिणः ।। १३४
ततश्चोपाविशन्सर्वे तत्रैकस्य तरोस्तले ।
स तपस्वी तु दुष्टघ्नीमबघ्नाद्योगधारणाम् ।। १३५
तद्धारणाप्रभावेण रौद्रास्ते द्वाररक्षकाः ।
सर्वेऽपि सर्वद्वारेभ्यः पलाय्यादर्शनं ययुः ।। १३६
क्षणाच्च तेभ्यो द्वारेभ्यो दिव्याभरणवाससः ।
दैत्यकन्यापरीवारवारनार्यो विनिर्ययुः ।। १३७
ताः पृथक्पृथगभ्येत्य तान्सर्वाना तपस्विनः ।
प्रवेशायार्थयामासुर्यथास्वं स्वामिनीगिरा ।। १३८
अन्तःप्रविष्टैर्युष्माभिर्नोल्लङ्घ्यं स्वप्रियावचः ।
इति तानपरानुक्त्वा स तपस्वी कृती ततः ।। १३९
कतिभिश्च समं ताभिः प्रविश्य वरमन्दिरम् ।
एकां प्रापोत्तमां दैत्यकन्यां भोगांश्च वाञ्छितान् ।। १४०
अन्येऽप्येकैकशोऽन्याभिस्ताभिस्ते दिव्यवेश्मसु ।
प्रवेशिता ययुर्दैत्यसुतासंभोगपात्रताम् ।। १४१
राजा भूनन्दनः सोऽपि नीतोऽभूदेकया तदा ।
प्रश्रयानतया तत्र बहिर्मणिमयं गृहम् ।। १४२
परीवारवरस्त्रीणां प्रतिबिम्बैः समन्ततः ।
सजीवचित्रविन्यासमिव यद्रत्नभित्तिषु ।। १४३
यत्सुश्लक्ष्णमहानीलमयभूभागनिर्मितम् ।
दिवः पृष्ठमिवारूढं विमानविजिगीषया ।। १४४
मदाकुललसद्रामं हृद्यप्रद्युम्नविभ्रमम् ।
यदच्युतप्रभावाढ्यं वृष्णीनामिव केतनम् ।। १४५
बालातपसहं पुष्पमपि यत्र न योषिताम् ।
वपुषः सुकुमारत्वे प्राप्नुयादुपमानताम् ।। १४६
तत्र प्रविष्टः सोऽपश्यद्दिव्यसंगीतनादिनि ।
राजा प्राक्स्वमदृष्टां तां कान्तामसुरकन्यकाम् ।। १४७
यस्याः प्रकाशिते कान्त्या पातालेऽर्कादिवर्जिते ।
रत्नाद्यालोकनिर्माणं पुनरुक्तं प्रजापतेः ।। १४८
तां स पश्यन्ननिर्वाच्यरूपां हर्षाश्रुणा नृपः ।
अन्यावलोकनमलं चक्षुषोर्धौतवानिव ।। १४९
सापि तं वीक्ष्य राजेन्द्रं ख्याप्यमानालिगीतिभिः ।
बाला कुमुदिनी नाम कमपि प्रमदं दधौ ।। १५०
उत्थाय पाणावादाय क्लेशितोऽसि मयेति च ।
ब्रुवती सादरा सा तमुपावेशयदासने ।। १५१
क्षणमात्रं च विश्रान्तं स्नातं वस्त्राद्यलंकृतम् ।
सा निनाय तमुद्यानमापानायासुराङ्गना ।। १५२
तत्र तीरतरूल्लम्बिशवरक्तवसासवैः ।
पूर्णायाः सा तटे वाप्यास्तेन साकमुपाविशत् ।। १५३
तद्वसासवपूर्णं च पात्रं तस्मै नृपाय सा ।
ददौ पानाय स च तन्न जग्राह जुगुप्सितम् ।। १५४
न ते क्षेमं भवेदेतदस्मत्पानं निषेधतः ।
इति निर्बन्धतस्तां च ब्रुवाणां सोऽब्रवीन्नृपः ।। १५५
अपेयं निश्चितं नैव पास्याम्येतद्यदस्त्विति ।
ततः सा तस्य तन्मूर्ध्नि पात्रं क्षिप्त्वान्यतो ययौ ।। १५६
स च कूणितनेत्रास्यो राजान्यस्यां जलान्तरे ।
तच्चेटिकाभिरादाय दीर्घिकायां निचिक्षिपे ।। १५७
क्षिप्त एव च तत्कालं तस्मिन्पूर्वतपोवने ।
तीर्थे क्रमसरस्येव प्राप्तमात्मानमैक्षत ।। १५८
पश्यंश्च स हिमं तत्र हसन्तमिव तं नगम् ।
विषण्णविस्मितोद्भ्रान्तो वञ्चितः स व्यचिन्तयत् ।। १५९
क्व तद्दैत्यसुतोद्यानं क्वायं क्रमसरो गिरिः ।
अहो किमिदमाश्चर्यं किं माया किं मतिभ्रमः ।। १६०
किमन्यद्वा ध्रुवं तस्या यन्मयोल्लङ्घितं वचः ।
तपस्विवाक्यं श्रुत्वापि तस्येदं मे विजृम्भितम् ।। १६१
न च तन्निन्दितं पानं सा ममैव परीक्षिणी ।
मूर्ध्नि च्युतेन यत्तेन दिव्यमायाति सौरभम् ।। १६२
तत्सर्वथा ह्यभव्यानां कृतः क्लेशो महानपि ।
न फलाय विधिस्तेषु तथा वामो हि वर्तते ।। १६३
इत्येवं चिन्तयन्नेत्य भृङ्गैर्भूनन्दनोऽत्र सः ।
अवेक्षतासुरसुतापानसिक्ताङ्गगन्धतः ।। १६४
कष्टमिष्टफलो मा भूज्जातोऽनिष्टफलस्तु मे ।
परिक्लेशोऽल्पसत्त्वस्य वेतालोत्थापनं यथा ।। १६५
इति तैर्दश्यमानश्च भृङ्गैः स विमृशंस्तदा ।
जातोद्वेगो मतिं चक्रे देहत्यागाय भूपतिः ।। १६६
तावच्च तेन मार्गेण कोऽपि दैवात्समागतः ।
मुनिपुत्रः क्षितिपतिं तथाभूतं ददर्श तम् ।। १६७
सोऽभ्युपेत्य निवार्याशु भ्रमरान्करुणार्द्रधीः ।
ऋषिः पृष्ट्वा च वृत्तान्तं नृपमेतमभाषत ।। १६८
राजन्यावदयं देहस्तावद्दुःखक्षयः कुतः ।
तदनुद्वेगतः साध्यः पुरुषार्थः सदा बुधैः ।। १६९
यावच्च नाच्युतेशानविरिञ्चिष्वेकतामतिः ।
भेदोपासनजास्तावद्भङ्गुरा एव सिद्धयः ।। १७०
तदभेदधिया ध्यायन्ब्रह्मविष्णुमहेश्वरान् ।
धैर्येण द्वादशान्यानि वर्षाणीह तपः कुरु ।। १७१
ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शाश्वतीम् ।
देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौरभः ।। १७२
समन्त्रं च गृहाणेदं मम कृष्णमृगाजिनम् ।
कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ।। १७३
इत्युक्त्वाजिनमन्त्रौ स तस्मै दत्त्वा मुनिर्ययौ ।
तथेत्यात्तधृतिः सोऽपि तीर्थे तत्रावसन्नृपः ।। १७४
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् ।
भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ।। १७५
तया साकं स पातालं गत्वा दयितया चिरम् ।
राजा भूनन्दनो भोगान्भुञ्जानः सिद्धिमाप्तवान् ।। १७६
इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बिनः ।
दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ।। १७७
त्वं चेह भाविकल्याणः श्रीदर्शन सुलक्षणः ।
तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ।। १७८
इत्युक्तो द्यूतशालान्तः सख्या मुखरकेण सः ।
तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ।। १७९
यथात्थ त्वं कुलीनः सन्किंत्वस्यां पुरि लज्जया ।
निर्गन्तुं न बहिः शक्नोमीदृशो द्यूतदुर्गतः ।। १८०
तदस्यामेव चेद्रात्रौ विदेशे गमनं क्वचित् ।
न निषेधसि मे मित्र तदाहारं करोम्यहम् ।। १८१
तच्छ्रुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः ।
आनीय भोजनं प्रादात्सोऽपि तद्बुभुजे तदा ।। १८२
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः ।
प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ।। १८३
गच्छन्तं चात्र तं मार्गे यक्षौ दैवादपश्यताम् ।
यदृच्छयागतौ व्योम्ना जननीजनकौ निशि ।। १८४
सौदामिन्यट्टहासौ तौ याभ्यां विप्रस्य वेश्मनि ।
स देवदर्शनस्यात्र जातमात्रो न्यधीयत ।। १८५
तौ विज्ञाय तमापन्नं द्यूतव्यसननिर्धनम् ।
विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ।। १८६
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया ।
भूमावाभरणान्यन्तः स्थापितानि स्ववासके ।। १८७
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं मालवं व्रज ।
ऊर्जितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ।। १८८
स च द्यूतविपत्क्लिष्टः कुमारत्वे भृशं यतः ।
अतस्तेन कृतः स्फीतः कितवानां महामठः ।। १८९
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् ।
तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ।। १९०
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् ।
भुवः खातात्समित्त्रस्तान्यादत्ताभरणानि सः ।। १९१
ततो हृष्टः समं तेन सख्या मुखरकेण सः ।
देवतानुग्रहं मत्वा प्रतस्थे मालवं प्रति ।। १९२
गत्वा सुदूरमध्वानं तया रात्र्या दिनेन च ।
सायं स बहुसस्याख्यं ग्रामं तेन सहाप्तवान् ।। १९३
श्रान्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः ।
उपाविशत्तडागस्य तीरे विमलपाथसः ।। १९४
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते ।
काप्यनन्यसमा रूपे कन्या तोयार्थमाययौ ।। १९५
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका ।
हरदग्धस्य कामस्य धूमेन श्यामलीकृता ।। १९६
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा ।
उपेत्य दर्शनप्रीतं सवयस्यमभाषत ।। १९७
कुत्रागतौ महाभागौ युवामिह विपत्तये ।
किमज्ञानाज्ज्वलत्यग्नौ पतितौ स्थः पतङ्गवत् ।। १९८
एतच्छ्रुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् ।
पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यतामिति ।। १९९
ततोऽब्रवीत्सा संक्षेपाद्वच्म्येतच्छृणुतं युवाम् ।
अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ।। २००
तत्राभूत्पद्मगर्भाख्यो ब्राह्मणो वेदवित्तमः ।
तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ।। २०१
तस्यां च तस्यापत्ये द्वे जाते आस्तां सुजन्मनः ।
सुतो मुखरको नाम पद्मिष्ठेति सुताप्यहम् ।। २०२
स मे मुखरको भ्राता द्यूतव्यसनविद्रुतः ।
बाल्येऽपि निर्गत्य गृहात्क्वापि देशान्तरं गतः ।। २०३
तेन शोकेन पञ्चत्वं गतायां मम मातरि ।
मत्पितोभयदुःखार्तस्त्यक्तवान्स गृहस्थितिम् ।। २.०४
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम् ।
भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ।। २०५
इह चास्ति महान्ग्रामे चौरश्चौरचमूपतिः ।
वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः ।। २०६
तेनेह प्राप्य पापेन सभृत्येन पितुर्मम ।
तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ।। २०७
अहं च तेन नीत्वैव गृहं बन्दीकृता सती ।
सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ।। २०८
स चास्य पुत्रो मुषितं सार्थं क्वापि गतः स्थितः ।
नायात्यद्यापि मत्पुण्यैः प्रमाणं मेऽधुना विधिः ।। २०९
तदेष चौरो दृष्ट्वा वां कुर्यादत्याहितं भुवम् ।
विमुच्येथे यथैतस्मादुपायं कुरुत तथा ।। २१०
एवमुक्तवतीं जातप्रत्यभिज्ञस्तदैव ताम् ।
कन्यां कण्ठे समालम्ब्य रुदन्मुखरकोऽब्रवीत् ।। २११
हा पद्मिष्ठे स एषोऽहं भ्राता मुखरकस्तव ।
बन्धुद्रोही भगिनिके मन्दभाग्यो हतोऽस्मि हा ।। २१२
तच्छ्रुत्वा सापि पद्मिष्ठा विग्ना दृष्टेऽग्रजे तथा ।
कृपयेवाखिलैर्दुखैः परिवव्रे जवाद्यथा ।। २१३
ततस्तौ पितरावार्त्या शोचन्तौ भ्रातरावुभौ ।
श्रीदर्शनः समाश्वास्य कालोचितमभाषत ।। २१४
शोकस्यावसरो नायं रक्ष्यो ह्यात्मैव सांप्रतम् ।
त्यक्त्वाप्यर्थं ततः कार्या चौरस्यास्य प्रतिक्रिया ।। २१५
एवं श्रीदर्शनेनोक्ते दुःखं संहृत्य धैर्यतः ।
कर्तव्यसंविदं चक्रुस्ते त्रयोऽपि परस्परम् ।। २१६
ततः श्रीदर्शनो मान्द्यं विधायासीन्निपत्य सः ।
तीरे तस्य तडागस्य कृशः पूर्वैरभोजनैः ।। २१७
पादौ तस्य गृहीत्वा च तस्थौ मुखरको रुदन् ।
पद्मिष्ठा च ययौ तस्य पार्श्वं चोरपतेर्द्रुतम् ।। २१८
अब्रवीच्च तडागान्ते मन्दः कोऽप्यागतः स्थितः ।
पान्थस्तस्य द्वितीयश्च तत्रास्ते परिचारकः ।। २१९
तच्छ्रुत्वैव स चौरोऽत्र भृत्यांश्चौरान्विसृष्टवान् ।
ते गत्वा तौ तथारूपौ दृष्ट्वा मुखरकं तयोः ।। २२०
अपृच्छन्नस्य किं भद्र कृते रोदिषि यद्भृशम् ।
एतच्छ्रुत्वा कृतार्तिस्तांश्चौरान्मुखरकोऽब्रवीत् ।। २२१
अग्रजो ब्राह्मणोऽयं मे तीर्थयात्राप्रवासतः ।
रोगाक्रान्तः शनैर्भ्राम्यन्निह प्राप्तोऽद्य मत्सखः ।। २२२
प्राप्त एव च निश्चेष्टीभूतो मामयमुक्तवान् ।
उत्तिष्ठ वत्स मे दर्भसंस्तरं कुरु सत्वरम् ।। २२३
ब्राह्मणं कंचिदस्माच्च ग्रामाद्गुणिनमानय ।
तस्मै ददामि सर्वस्वं नाद्य जीवाम्यहं निशि ।। २२४
इत्युक्तोऽहमनेनेह विदेशेऽस्तं गते रवौ ।
कर्तव्यमूढो दुःखार्तो रोदनं शरणं श्रितः ।। २२५
तद्यूयं ब्राह्मणं कंचिदस्यानयत जीवतः ।
यावद्ददात्ययं तस्मै स्वहस्तेन यदस्ति नौ ।। २२६
एष ह्यद्य ध्रुवं रात्रौ नभविष्यत्यहं च तत् ।
दुःखं सोढं न शक्नोमि श्वः प्रवेक्ष्यामि पावकम् ।। २२७
तदस्मदर्थनामेतां कुरुध्वं यत्कृपालवः ।
मिलिता यूयमस्माकमिहाकारणबान्धवाः ।। २२८
तच्छ्रुत्वा जातकरुणाश्चौरा गत्वा तथैव तत् ।
उक्त्वा तं वसुभूतिं ते स्वामिनं पुनरब्रुवन् ।। २२९
तदागच्छ गृहाण त्वं स्वयं तस्मात्प्रयच्छतः ।
प्रतिग्रहेण विप्रात्तद्धनं ग्राह्यं निपात्य यत् ।। २३०
इत्युक्तो वसुभूतिस्तैरवादीदेष कः क्रमः ।
अनिपात्य धनादानमस्माकमनयः परः ।। २३१
कुर्वीत निश्चयं दोषं हृतस्वो ह्यनिपातितः ।
इत्युक्तवन्तं तं पापं भृत्याः प्रत्यूचुरत्र ते ।। २३२
केयं शङ्का क्व हरणं क्व मुमूर्षोः प्रतिग्रहः ।
प्रातर्वा तौ हनिष्यामो द्विजौ जीविष्यतो यदि ।। २३३
अन्यथा तु वृथा ब्रह्महत्यापापेन किं फलम् ।
श्रुत्वैतत्प्रतिपेदे स वसुभूतिस्तथेति तत् ।। २३४
आगात्प्रतिग्रहार्थं च नक्तं श्रीदर्शनान्तिकम् ।
श्रीदर्शनोऽप्यवच्छाद्य किंचित्किंचिद्ददौ श्वसन् ।। २३५
मात्राभरणमस्मै तत्कृत्वा ग्रस्ताक्षरां गिरम् ।
ततः कृतार्थश्चौरोऽसौ सानुगोऽपि गृहान्ययौ ।। २३६
अथ सुप्तेषु चौरेषु रात्रौ श्रीदर्शनस्य सा ।
पद्मिष्ठोपाययौ तस्य पार्श्वं मुखरकस्य च ।। २३७
ततस्त्रयोऽपि ते तूर्णं मन्त्रयित्वा ययुस्ततः ।
पथा चौरविहीनेन मालवं प्रति तं पुनः ।। २३८
तया रात्र्या च दूरं ते गत्वा प्रापुर्महाटवीम् ।
नित्यं कण्टकितां भ्राम्यत्कृष्णसारमृगेक्षणाम् ।। २३९
शुष्यत्तनुलतां तारचीरचीत्काररोदिनीम् ।
उन्नदद्व्याघ्रसिंहादिप्राणिभ्यो बिभ्यतीमिव ।। २४०
तस्यां च गच्छतां तेषां क्लेशं दृष्ट्वाखिलं दिनम् ।
कृपयेवोपसंहृत्य भासमस्तं ययौ रविः ।। २४१
ततः श्रान्ताः क्षुधार्तास्ते वृक्षमूलमुपाश्रिताः ।
प्रदोषेऽग्नेरिव ज्वालां ददृशुस्तत्र दूरतः ।। २४२
ग्रामोऽयमत्र जातु स्यात्तद्गत्वालोकयाम्यहम् ।
इत्युक्त्वानुसरञ्ज्वालां सोऽथ श्रीदर्शनो ययौ ।। २४३
प्राप्तोऽत्र वीक्षते यावत्तावद्रत्नमयं गृहम् ।
स ददर्श महत्तां च तस्य ज्वालामिव प्रभाम् ।। २४४
तदन्तर्दिव्यरूपां च यक्षिणीं बहुभिर्वृताम् ।
विपरीताङ्घ्रिभिर्यक्षैराकेकरविलोचनैः ।। २४५
विविधं चान्नपानं तैराहृतं तत्र वीक्ष्य सः ।
उपेत्यातिथिभागं तां वीरोऽयाचत यक्षिणीम् ।। २४६
सत्त्वतुष्टा च सा तस्मै यथार्थितमदापयत् ।
अन्नमात्मतृतीयस्य संतृप्त्यै तस्य वारि च ।। २४७
तद्गृहीत्वा तदादिष्टयक्षस्कन्धाधिरोपितम् ।
आययौ स तयोः पार्श्वं पद्मिष्ठास्ववयस्ययोः ।। २४८
विसृज्य यक्षं बुभुजे ताभ्यां सह च तत्र सः ।
तदन्नं विविधं दिव्यं पपौ शीताच्छमम्बु च ।। २४९
ततः सत्त्वप्रभां देवांशं तमवेत्य सः ।
आत्मनो धन्यतां वाञ्छंस्तुष्टो मुखरकोऽब्रवीत् ।। 12.6.२५०
त्वं तावत्कोऽपि देवांशः पद्मिष्ठेयं च मत्स्वसा ।
लोकैकसुन्दरी तत्ते दत्तैषाद्य मयोचिता ।। २५१
तच्छ्रुत्वा सुहृदं तं सानन्दः श्रीदर्शनोऽभ्यधात् ।
मयाभिनन्दितमिदं त्वद्वाक्यं पूर्वकाङ्क्षितम् ।। २५२
एतां तु परिणेष्यामि स्थानं प्राप्य यथाविधि ।
इत्यूचिवान्स तौ चोभौ हृष्टास्तामनयन्निशाम् ।। २५३
प्रातश्च प्रस्थिताः सर्वे ततः प्रापुः क्रमेण ते ।
नगरं मालवेन्द्रस्य तस्य श्रीसेनभूपतेः ।। २५४
तत्र प्रविविशुस्तेऽथ सद्यः श्रान्तागता गृहम् ।
विश्रान्तिहेतोः कस्याश्चिद्वृद्धाया द्विजयोषितः ।। २५५
तत्र तैश्च प्रसङ्गोक्तनिजवृत्तान्तनामभिः ।
विग्नेव दृष्टा पृष्टा सा वृद्धयोषिदुवाच तान् ।। २५६
अहं यशस्वती नाम राजसेवोपजीविनः ।
भार्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ।। २५७
मृते भर्तर्यपुत्रायास्तस्या मे वृत्तयेऽमुना ।
तज्जीवनचतुर्भागो दत्तो राज्ञा दयालुना ।। २५८
अद्य चैष ममापुण्यैर्विश्वाप्यायकरोऽपि सन् ।
गृहीतो राजशशभृद्वैद्यासाध्येन यक्ष्मणा ।। २५९
मन्त्राश्चौषधयश्चास्मिन्क्रमन्ते नैव तद्विदाम् ।
एकेन तु प्रतिज्ञातमस्याग्रे मन्त्रवादिना ।। 12.6.२६०
यदि वीरः सहायो मे तादृग्भवति कोऽपि तत् ।
वेतालसाधनेनाहं रुजं हन्यामिमामिति ।। २६१
ततो हतेऽपि पटहे यदा प्राप्तो न तादृशः ।
वीरः कोऽपि तदा राजा सचिवानेवमादिशत् ।। २६२
कितवानां कृते योऽयमिह ख्यातो महामठः ।
आगन्तुकोऽत्र कितवो वीरश्चिन्त्यः स कश्चन ।। २६३
कितवा निरपेक्षा हि दारबन्धुधनोज्झिताः ।
निर्भया वृक्षमूलादिशायिनो योगिनो यथा ।। २६४
इति राज्ञा समादिष्टैर्मन्त्रिभिस्तन्मठाधिपः ।
तथैवोक्तो विचिनुते वीरमागन्तुकं सदा ।। २६५
यूयं च कितवास्त्वं च तस्मिन्कर्मणि चेत्क्षमः ।
तन्नयाम्यहमेवाद्य त्वां श्रीदर्शन तं मठम् ।। २६६
सत्कारं प्राप्नुयास्त्वं च राजतो मम च त्वया ।
कृता भवेदुपकृतिर्दुःखं प्राणान्तकृद्धि मे ।। २६७
एवमुक्तवतीं तां च वृद्धां श्रीदर्शनोऽब्रवीत् ।
बाढं शक्तोऽस्मि तत्कार्यं कर्तुं तन्नय मां मठम् ।। २६८
एतच्छ्रुत्वा सपद्मिष्ठं सा तं मुखरकान्वितम् ।
नीत्वा वृद्धा मठे तत्र मठाधिपतिमभ्यधात् ।। २६९
ब्राह्मणो द्यूतकारोऽयं राजार्थे मन्त्रवादिनः ।
तस्य साहायके शक्तो वीरो देशान्तरागतः ।। 12.6.२७०
तच्छ्रुत्वा मठपः पृष्ट्वा तं तथेत्येव वादिनम् ।
श्रीदर्शनं स सत्कृत्य निनायाशु नृपान्तिकम् ।। २७१
तत्र चावेदितस्तेन राजानं स ददर्श तम् ।
श्रीदर्शनः पाण्डुकृशं शशाङ्कमिव पार्वणम् ।। २७२
राजापि प्रणतं भव्यमुपविष्टं विलोक्य तम् ।
आकारतुष्टः श्रीसेनो जाताश्वासो जगाद सः ।। २७३
त्वद्यत्नादेष मे रोगो नाशमेष्ययसंशयम् ।
एतत्त्वद्दर्शनध्वस्तपीडा वक्ति हि मे तनुः ।। २७४
तत्कुरुष्वार्य साहाय्यमित्युक्ते तेन भूभृता ।
देय किं नाम वस्त्वेतदिति श्रीदर्शनोऽब्रवीत् ।। २७५
अथानाय्य स राजा तं मन्त्रवादिनमभ्यधात् ।
अयं वीरः सहायस्ते यत्त्वयोक्तं कुरुष्व तत् ।। २७६
तच्छ्रुत्वा मन्त्रवादी तं श्रीदर्शनमुवाच सः ।
वेतालाह्वानसाहाय्ये समर्थो भद्र चेदसि ।। २७७
तत्त्व कृष्णचतुर्दश्यामद्यैवास्यां निशागमे ।
इह श्मशानमागच्छेरन्तिकं मम सिद्धयै ।। २७८
इत्युक्त्वा स ततोऽयासीत्तपस्वी मन्त्रसाधकः ।
श्रीदर्शनोऽप्यगच्छत्तं मठमामन्त्र्य भूपतिम् ।। २७९
तत्र पद्मिष्ठया साकं भुक्त्वा मुखरकेण च ।
एकः कृपाणभृद्रात्रौ श्मशानं तज्जगाम सः ।। 12.6.२८०
भूरिभूताकुलं शून्यमशिवं निनदच्छिवम् ।
गाढान्धकारमालोकं कमप्युपचितं दधत् ।। २८१
तत्रास्पदे विरुद्धानां वीरो भ्रान्त्वा ददर्श सः ।
श्रीदर्शनो मध्यभागस्थितं तं मन्त्रसाधकम् ।। २८२
भस्मानुलिप्तसर्वाङ्गं धृतकेशोपवीतकम् ।
प्रेतवस्त्रकृतोष्णीषं संवीतासितवाससम् ।। २८३
उपेत्यावेदितात्मा च स तं श्रीदर्शनस्ततः ।
आबद्धकक्ष्यः पप्रच्छ ब्रूहि किं करवाणि ते ।। २८४
गच्छार्धक्रोशमात्रेऽस्ति पश्चिमायामितो दिशि ।
चिताग्नितापनिर्दग्धपल्लपः शिंशपातरुः ।। २८५
तस्य स्थितः शवो मूले तमक्षतमिहानय ।
इति सोऽपि तमाह स्म साधको हृष्टमानसः ।। २८६
ततस्तथेति स गतस्तत्र श्रीदर्शनो द्रुतम् ।
अन्येन नीयमानं तं केनापि शवमैक्षत ।। २८७
धावित्वा तस्य च स्कन्धाच्चकर्ष तममुञ्चतः ।
मुञ्च दाह्यं क्व मे मित्त्रं नयस्येतमिति ब्रुवन् ।। २८८
ततः सोऽपि द्वितीयोऽत्र तं श्रीदर्शनमब्रवीत् ।
न मोक्ष्यामि मम ह्येष मित्रं कोऽस्य भवानिति ।। २८९
एवं तयोरुभयतः स्कन्धयोः कर्षतोः शवः ।
वेतालानुप्रविष्टः सन्नमुञ्चद्भैरवं रवम् ।। 12.6.२९०
तेन त्रस्तो द्वितीयः स हृत्स्फोटेन व्यपद्यत ।
श्रीदर्शनश्चचालाथ स गृहीत्वैव तं शवम् ।। २९१
तावच्चात्र द्वितीयः स मृतोऽप्युत्थाय पूरुषः ।
वेतालाधिष्ठितो रुन्धंस्तं श्रीदर्शनमुक्तवान् ।। २९२
तिष्ठ स्कन्धार्पितं कृत्वा मित्त्रं मे मा स्म गा इति ।
ततः स भूताविष्टं तं मत्वा श्रीदर्शनोऽभ्यधात् ।। २९३
किं प्रमाणं तवैतस्य मित्रत्वे मित्रमेव मे ।
तच्छ्रुत्वा सोऽपरोऽवादीत्प्रमाणमयमेव नौ ।। २९४
श्रीदर्शनस्ततोऽवोचन्मित्त्रं स्वं तर्हि वक्त्यसौ ।
ततस्तत्स्कन्धवर्ती स सवेतालः शवोऽब्रवीत् ।। २९५
अहमेवं ब्रुवे मह्यमाहारं यः प्रयच्छति ।
क्षुधिताय स मे मित्त्रं स्वेच्छं नयतु मां च सः ।। २९६
एतच्छ्रुत्वा स वेतालो द्वितीयः सोऽवदच्छवः ।
मम नास्त्यस्य चेदस्ति तदाहारं ददातु ते ।। २९७
तच्छ्रुत्वाहं ददामीति वदन्यावत्तमेव सः ।
श्रीदर्शनो निजांसस्थवेतालाहारसिद्धये ।। २९८
हन्ति खड्गेन तावत्स हन्यमानः स्वसिद्धितः ।
अन्तर्दधे द्वितीयोऽत्र सवेतालः शवस्तदा ।। २९९
अथ श्रीदर्शनं तं स वेतालोंऽसस्थितोऽब्रवीत् ।
प्रतिपन्नमिदानीं मे भोजनं दीयतामिति ।। 12.6.३००
ततो यदा न लेभेऽन्यन्मांसं श्रीदर्शनोऽत्र सः ।
भोजनाय ततस्तस्मै स्वमुत्कृत्यासिना ददौ ।। ३०१
तेन तुष्टः स वेतालस्तमेवमवदत्तदा ।
प्रीतोऽस्मि ते महासत्त्व देहस्तेऽस्त्वयमक्षतः ।। ३०२
नय मामधुना कार्यं तवैवेदं हि सेत्स्यति ।
स साधकस्तपस्वी तु स्वल्पसत्त्वो विनङ्क्ष्यति ।। ३०३
इत्युक्तस्तेन भूत्वैव स स्वस्याङ्गस्तदैव तम् ।
नीत्वा श्रीदर्शनस्तस्मै साधकाय समर्पयत् ।। ३०४
स चाभिनन्द्य संपूज्य रक्तमाल्यानुलेपनैः ।
नरास्थिचूर्णलिखिते कोणन्यस्तास्रकुम्भके ।। ३०५
महातैलज्वलद्दीपे मण्डले विपुलान्तरे ।
वेतालं तं तदोत्तानमात्तप्रेततनुं व्यधात् ।। ३०६
वक्षस्थलोपविष्टश्च तस्यास्यकुहरेऽथ सः ।
नरास्थिस्रुक्स्रुवकरो होमं कर्तुं प्रचक्रमे ।। ३०७
क्षणाच्च तस्य वेतालस्यास्याज्ज्वालोदभूत्तदा ।
यथा स साधकस्त्रासादुत्थायापासरत्ततः ।। ३०८
सत्त्वच्युतं च तं स्रस्तस्रुक्स्रुवं परिधाव्य सः ।
वेतालो व्यात्तवदनः साङ्गोपाङ्गं निगीर्णवान् ।। ३०९
तद्दृष्ट्वा खड्गमुद्यम्य यावच्छ्रीदर्शनः स तम् ।
अभिधावति तावत्स वेतालस्तमभाषत ।। 12.6.३१०
भोः श्रीदर्शन धैर्येण तुष्टोऽस्म्येवंविधेन ते ।
तत्सर्षपान्गृहाण त्वमिमान्मन्मुखसंभवान् ।। ३११
एभिः शिरोनिबद्धैश्च पाणिस्थैश्चैष भूपतिः ।
निवृत्तयक्ष्मदोषार्तिः सद्य एव भविष्यति ।। ३१२
त्वं चाचिरेण सर्वस्याः पृथ्व्या राजा भविष्यसि ।
इति तद्वचनं श्रुत्वा तं स श्रीदर्शनोऽभ्यधात् ।। ३१३
साधकेन विनैतेन तत्र यास्याम्यहं कथम् ।
अनेन स हतः स्वार्थलोभादिति वदेन्नृपः ।। ३१४
एवं श्रीदर्शनेनोक्ते वेतालः स जगाद तम् ।
वच्मि ते प्रत्ययं येन शुद्धिस्तव भविष्यति ।। ३१५
इमं मृतं मन्निगीर्णमिहास्यैव शवस्य हि ।
उदरं पाटयित्वा त्वमन्तस्थं दर्शयिष्यसि ।। ३१६
इत्युक्त्वा स ययौ क्वापि वेतालोऽर्पितसर्षपः ।
निर्गत्यैव शवात्तस्माच्छवः सोऽप्यपतद्भुवि ।। ३१७
स्वीकृत्य सर्षपान्सोऽपि गत्वा श्रीदर्शनस्ततः ।
सहायाध्युषिते तस्मिन्मठे रात्रिं निनाय ताम् ।। ३१८
प्रगे राज्ञोऽन्तिकं गत्वा रात्रिवृत्तं निवेद्य तत् ।
मन्त्रिभ्योऽदर्शयन्नीत्वा साधकं तं शवोदरात् ।। ३१९
ततो बबन्ध राज्ञस्तान्पाणौ मूर्ध्नि च सर्षपान् ।
तेन सोऽभून्नृपो नष्टनिःशेषव्याधिनिर्वृतः ।। 12.6.३२०
अथ तुष्टः स नृपतिः श्रीसेनः प्राणदायिनम् ।
अनपत्यः सुतत्वेन तं श्रीदर्शनमग्रहीत् ।। ३२१
अभ्यषिञ्चच्च तं वीरं यौवराज्ये तदैव सः ।
उप्तं सुकृतबीजं हि सुक्षेत्रेषु महाफलम् ।। ३२२
ततः श्रीदर्शनः श्रीमानुपयेमे स तत्र ताम् ।
पद्मिष्ठां पूर्वसेवार्थं लक्ष्मीमिव सहागताम् ।। ३२३
तया समं स भुञ्जानो भोगान्मुखरकेण च ।
तद्भ्रात्रा सोऽथ तत्रासीत्पृथ्वीं वीरोऽनुपालयन् ।। ३२४
एकदा जलधेस्तीरात्प्राप्य रत्नविनायकम् ।
उपेन्द्रशक्तिरानीय ददौ तस्मै महावणिक् ।। ३२५
तमनर्घं समालोक्य युवराजः स भक्तितः ।
तत्र प्रतिष्ठापितवान्विभवेनातिभूयसा ।। ३२६
ददौ ग्रामसहस्रं च नित्यभोगाय तत्र सः ।
यात्रोत्सवं च विदधे मिलिताखिलमानवम् ।। ३२७
नृत्तवादित्रगीतैश्च तत्र सातिशयैर्निशि ।
परितुष्टो गणानेवमादिदेश गणाधिपः ।। ३२८
मत्प्रसादादयं भावी सम्राट् श्रीदर्शनो भुवि ।
तदिहास्त्यपराम्भोधौ हंसद्वीपमिति श्रुतम् ।। ३२९
द्वीपं तत्रास्ति च क्ष्माभृदनङ्गोदयसंज्ञकः ।
अनङ्गमञ्जरीत्यस्ति स्त्रीरत्नं तस्य चात्मजा ।। ३३०
मद्भक्ता सा च कन्या मामर्चित्वा याचते सदा ।
सर्वपृथ्वीश्वरं देहि पतिं मे भगवन्निति ।। ३३१
अतः श्रीदर्शनेनैतां पत्या संयोजयाम्यहम् ।
उभयोरेतयोरेवं दत्तं भक्तिफलं भवेत् ।। ३३२
तस्माच्छ्रीदर्शनस्तत्र नीत्वा युष्माभिरेतयोः ।
अन्योन्यदर्शनं युक्त्या संपाद्यानीयतां द्रुतम् ।। ३३३
संयोगस्तु शनैः सम्यक्क्रमेण भवितानयोः ।
अद्यैव तु स नास्त्येव भवितव्यं हि तत्तथा ।। ३३४
किं चैवं वणिजोऽप्यस्य प्रतिमाप्रापकस्य मे ।
उपेन्द्रशक्तेरस्त्येव विहिता काप्युपक्रिया ।। ३३५
एवं गणेशेनादिष्टा गणा रात्रौ तदैव तम् ।
सुप्तं श्रीदर्शनं निन्युर्हंसद्वीपं स्वसिद्धितः ।। ३३६
तत्र चानङ्गमञ्जर्यास्तं प्रवेश्यैव वासके ।
सुप्तायाः शयने तस्या राजपुत्र्या न्यवेशयन् ।। ३३७
प्रबुद्धः स क्षणात्तत्र ज्वलद्रत्नप्रदीपके ।
द्योतमानवितानादिनानानर्घमहामणौ ।। ३३८
राजावर्तोपलश्यामतले सद्वासवेश्मनि ।
पर्यङ्कशयने धौतसितपट्टोत्तरच्छदे ।। ३३९
शयानाममृतस्यन्दसुन्दरप्रसरद्द्युतिम् ।
सर्वतः प्रस्फुरत्तारतारावलिमनोरमे ।। ३४०
गगने धवलाम्भोदशकलोत्सङ्गवर्तिनीम् ।
शरच्छशभृतो मूर्तिमिवानन्दकरीं दृशोः ।। ३४१
श्रीदर्शनस्तां सहसा ददर्शानङ्गमञ्जरीम् ।
हृष्टविस्मितविभ्रान्तश्चिन्तयामास च क्षणम् ।। ३४२
क्व सुप्तः क्व प्रबुद्धोऽस्मि किमिदं केयमङ्गना ।
स्वप्नो ध्रुवमसौ सोऽपि वरमस्त्वयमीदृशः ।। ३४३
प्रबोध्य तदिमां तावत्पश्यामीति विविच्य सः ।
नुदति स्म शनैरंसे पाणिनानङ्गमञ्जरीम् ।। ३४४
सापि तस्य करस्पर्शादिन्दोरिव कुमुद्वती ।
व्यालोलनेत्रभ्रमरा प्रबोधं प्राप तत्क्षणम् ।। ३४५
दृष्ट्वा च तं क्षणं दध्यौ कोऽयं दिव्याकृतिर्भवेत् ।
दुष्प्रवेशे प्रविष्टोऽत्र देवो नूनमसाविति ।। ३४६
उत्थाय चैतं पप्रच्छ संभ्रमप्रश्रयाकुला ।
कस्त्वं कस्मात्कथं चेह प्रविष्टोऽस्युच्यतामिति ।। ३४७
ततः श्रीदर्शनेनोक्ते स्वोदन्ते साप्यवोचत ।
तत्पृष्टा सुन्दरी चास्मै देशनामान्वयान्निजान् ।। ३४८
सोत्कावन्योन्यसंत्यक्तस्वप्नभ्रान्ती ततश्च तौ ।
भूषणानां विनिमयं चक्रतुर्निश्चयाप्तये ।। ३४९
अथोभावपि गान्धर्वविवाहोत्सुकमानसौ ।
ते गणा मोहयित्वा तौ निन्युर्निद्रावशं तदा ।। ३५०
जातिनिद्रं गृहीत्वा च तं तु श्रीदर्शनं ततः ।
स्वगृहं प्रापयामासुस्तदैवाप्राप्तवाञ्छितम् ।। ३५१
तत्रापगतनिद्रश्च धाम्नि श्रीदर्शनो निजे ।
स्थितः स्त्र्याभरणैर्युक्तं दृष्ट्वात्मानं व्यचिन्तयत् ।। ३५२
अहो किमेतत्क्व नु सा हंसद्वीपेश्वरात्मजा ।
क्व तद्वासगृहं दिव्यं क्वाहं पुनरिहैव च ।। ३५३
न च स्वप्नः स यत्तानि तदीयाभरणानि मे ।
तिष्ठन्त्येतानि तन्नूनं विलासः कोऽप्ययं विधेः ।। ३५४
इत्यादि चिन्तयन्पत्न्या पृष्टः सुप्तप्रबुद्धया ।
पद्मिष्ठया धीर्यमाणः साध्व्या तां सोऽनयन्निशाम् ।। ३५५
प्रातश्च सर्वं राज्ञेऽपि श्रीसेनाय तदब्रवीत् ।
अनङ्गमञ्जरीनामचिह्निताभरणान्वितः ।। ३५६
राजापि तत्प्रियैषी स हंसद्वीपं गवेषयन् ।
मार्गं दत्त्वापि पटहं नोपलेभे कुतश्चन ।। ३५७
ततः श्रीदर्शनस्तत्र स विनानङ्गमञ्जरीम् ।
आसीत्स्मरज्वराक्रान्तः सर्वभोगपराङ्मुखः ।। ३५८
नाहारं श्रद्दधे पश्यन्ना हारं तदलंकृतीः ।
स्वापं जहावपश्यंस्तु स्वापं तन्मुखपङ्कजम् ।। ३५९
अत्रान्तरे च सा तत्र हंसद्वीपे नृपात्मजा ।
तूर्यशब्दैः प्रबुबुधे प्रभातेऽनङ्गमञ्जरी ।। ३६०
स्मृत्वा तद्रात्रिवृत्तं सा दृष्ट्वा चालंकृता तनुम् ।
श्रीदर्शनालंकरणैश्चिन्तामौत्सुक्यतो ययौ ।। ३६१
स्वप्नभ्रान्तिहरैर्दत्तप्रेमभिर्दुर्लभे जने ।
एभिराभरणैर्नीतास्म्यहं जीवितसंशयम् ।। ३६२
इत्यादि चिन्तयन्तीं तां पुरुषाभरणैर्युताम् ।
पितानङ्गोदयोऽकस्मात्प्रविश्यात्र व्यलोकयत् ।। ३६२
वाससाच्छादिताङ्गीं च लज्जयावनतां ततः ।
पप्रच्छोत्सङ्गमारोप्य स तां राजातिवत्सलः ।। ३६४
किमयं पुत्रि पुंवेषः किं त्रपा चेदृशी वद ।
मा कृथा मय्यविश्वासं बद्धाः प्राणा हि मे त्वयि ।। ३६५
इत्यादिभिः प्रियालापैस्तेन मन्दीकृतज्ञपा ।
पित्रा शनैस्तं वृत्तान्तं कृत्स्नं तस्मै शशंस सा ।। ३६६
395
तरङ्गः ६ ।] शशाङ्कवतीलम्बकः १२ । ३९५
ततः सोऽस्याः पिता राजा तदमानुषगोचरम् ।
इन्द्रजालमिवावैत्य ययौ कर्तव्यसंशयम् ।। ३६७
गत्वैव तच्च पप्रच्छ सुप्रीतं सिद्धयोगिनम् ।
महाव्रतधरं ब्रह्मसोमं नाम स्वदेशकम् ।। ३६८
स वीक्ष्य प्रणिधानेन नृपं तं तापसोऽभ्यधात् ।
मालवात्सत्यमानिन्ये गणै श्रीदर्शनो नृपः ।। ३६९
गणेश्वरः प्रसन्नो हि त्वत्पुत्र्यास्तस्य चोभयोः ।
तत्प्रसादाच्च राजा स सार्वभौमो भविष्यति ।। ३७०
तच्छ्लाघनीयो दुहितुस्तव भर्ता स तादृशः ।
इत्युक्ते ज्ञानिना तेन प्रह्वो राजा जगाद तम् ।। ३७१
क्व मालवः क्व भगवन्हंसद्वीपो महानयम् ।
पन्था दुर्गश्च कार्यं च नेदं कालान्तरक्षमम् ।। ३७२
तत्प्रसादपरो नित्यं त्वमेवात्र गतिर्मम ।
इति राज्ञा स विज्ञप्तस्तपस्वी भक्तवत्सलः ।। ३७३
एषोऽहं साधयाम्येतदित्युक्त्वान्तर्दधे ततः ।
क्षणाच्च मालवं प्राप पुरं श्रीसेनभूभृतः ।। ३७४
तत्र तस्मिन्प्रविश्यैव श्रीदर्शनविनिर्मिते ।
देवागारे गणाधीशं प्रणम्योपविवेश सः ।। ३७५
नमोऽस्तु तुभ्यं नक्षत्रमालामण्डितमूर्धने ।
सुमेरुशिखराभाय कल्याणमयमूर्तये ।। ३७६
नौमि नृत्तोत्सवोत्क्षिप्तसरलाभ्रंलिहं तव ।
करं त्रिभुवनागारधारणस्तम्भसंनिभम् ।। ३७७
निधानं सर्वसिद्धीनां विघ्नान्तक नमाम्यहम् ।
पृथुलोदरकुम्भं ते पन्नगाभरणं वपुः ।। ३७८
इति तत्र स यावच्च गणेशं स्तौति तापसः ।
तावत्तत्प्रतिमानेतुः पुत्रस्तस्य वणिक्पतेः ।। ३७९
उपेन्द्रशक्तेरुद्दामचिरोन्मादविशृङ्खलः ।
भ्राम्यन्महेन्द्रशक्त्याख्यो विवेशात्रैव दैवतः ।। ३८०
अभ्यधावद्ग्रहीतुं च तमेव स तपस्विनम् ।
ततः स पाणिना तत्र तपस्वी तमताडयत् ।। ३८१
स तेन न्यस्तमन्त्रेण पाणिना तस्य ताडितः ।
शान्तोन्मादस्तथैवाभूत्स्वस्थबुद्धिर्वणिक्सुतः ।। ३८२
जातलज्जश्च स ततो निर्गत्यैव दिगम्बरः ।
हस्ताच्छादितकौपीनो जगाम स्वगृहं प्रति ।। ३८३
तत्कालं लोकतो बुद्ध्वा समेत्यानन्दनिर्भरः ।
उपेन्द्रशक्तिः स्वपिता तमनैषीन्निजं गृहम् ।। ३८४
तत्र तं स्नपयित्वा च कृत्वा वस्त्राद्यलंकृतम् ।
तद्युक्तस्तापसं तं स ब्रह्मसोममुपाययौ ।। ३८५
उपानयच्च बह्वस्मै धनं पुत्रप्रदायिने ।
स तु तन्नैव जग्राह तापसो दिव्यसिद्धिभृत् ।। ३८६
अत्रान्तरे च तद्बुद्ध्वा तमुपागात्तपस्विनम् ।
श्रीदर्शनान्वितो भक्त्या श्रीसेननृपतिः स्वयम् ।। ३८७
प्रणिपत्य स्तुतिं कृत्वा तं स राजा व्यजिज्ञपत् ।
संपन्ना वणिजस्तावत्पुत्रस्वास्थ्यादुपक्रिया ।। ३८८
युष्मदागमनादस्य तन्ममापि तथा कुरु ।
यथा श्रीदर्शनस्यास्य मत्सूनोः कुशलं भवेत् ।। ३८९
इति तेनार्थितो राज्ञा तापसः सोऽब्रवीद्धसन् ।
राजन्किमस्य चौरस्य करोम्यहमभीप्सितम् ।। ३९०
यो राजपुत्र्या हृदयं मुषित्वाभरणानि च ।
रात्रावनङ्गमञ्जर्या हंसद्वीपादिहागतः ।। ३९१
तथापि त्वद्वचः कार्यं मयेत्युक्त्वा प्रकोष्ठतः ।
श्रीदर्शनं तमादाय तापसोऽन्तर्दधेऽथ सः ।। ३९२
स प्राप्य हंसद्वीपं च राज्ञोऽनङ्गोदयस्य तम् ।
प्रावेशयद्राजधानीं तत्सुताभरणैर्युतम् ।। ३९३
सोऽप्यभ्यनन्दत्तं राजा प्राप्तं श्रीदर्शनं तदा ।
हृष्टः पूर्वं तमभ्यर्च्य पादनम्रस्तपस्विनम् ।। ३९४
ददौ च तां सुतां तस्मै पुण्याहेऽनङ्गमञ्जरीम् ।
श्रीदर्शनाय रत्नौघमालिनीं वसुधामिव ।। ३९५
तया बद्ध्वा समेतं च तं स जामातरं पुनः ।
मालवं प्रापयामास शक्त्या तस्य तपस्विनः ।। ३९६
तत्र प्राप्तश्च स ततः कान्ताद्वितयसंगतः ।
श्रीदर्शनः सुखं तस्थौ हृष्टराजाभिनन्दितः ।। ३९७
कालेन तस्मिञ्श्रीसेने राज्ञि लोकान्तरं गते ।
तद्राज्यं प्राप्य पृथिवीं कृत्स्नां वीरो जिगाय सः ।। ३९८
समासादितसाम्राज्यः स तयोर्भार्ययोर्द्वयोः ।
पद्मिष्ठानङ्गमञ्जर्योस्तनयौ द्वावजीजनत् ।। ३९९
एकं तयोः पद्मसेनं नाम्ना स कृतवान्नृपः ।
अनङ्गसेनमपरं वृद्धिं तौ चात्र नीतवान् ।। ४००
याति काले च देवीभ्यां सह सोऽभ्यन्तरे स्थितः ।
श्रीदर्शनोऽशृणोद्राजा विप्रस्याक्रन्दितं बहिः ।। ४०१
प्रवेश्य तं च पप्रच्छ विप्रमाक्रन्दकारणम् ।
ततः स दर्शितोद्वेगो विप्रस्तमिदमब्रवीत् ।। ४०२
योऽभूद्दीप्तशिखोऽग्निर्मे सोऽट्टहासमुचाधुना ।
सज्योतिर्धूमलेखोऽपि कालमेघेन नाशितः ।। ४०३
इत्युक्त्वा दृष्टनष्टोऽभूद्ब्राह्मणः सोऽत्र तत्क्षणम् ।
किमेतदुक्तमेतेन क्व गतश्चेति विस्मयात् ।। ४०४
यावत्स राजा ब्रूते च तावद्देव्यावशङ्कितम् ।
धाराश्रुणा रुदन्त्यौ ते तस्य पञ्चत्वमापतुः ।। ४०५
तद्दृष्ट्वाशनिपातोग्रं सहसा स महीपतिः ।
हा हा किमिदमित्यार्तो विलपन्नपतद्भुवि ।। ४०६
पतितं च तमादाय पार्श्वगा निन्युरन्यतः ।
देव्योश्च वह्निसंस्कारं नीत्वा मुखरको व्यधात् ।। ४०७
लब्धसंज्ञोऽनुशोच्याथ भार्ये ते सुचिरं नृपः ।
तयोर्निर्वर्तयामास स स्नेहादौर्ध्वदैहिकम् ।। ४०८
बाष्पदुर्दिनबद्धान्धकारं नीत्वा च वत्सरम् ।
द्वाभ्यां विभज्य पुत्राभ्यां पृथ्वीराज्यं ददौ द्विधा ।। ४०९
ततो निर्गत्य नगरात्प्रकृतीरनुयायिनीः ।
निवर्त्य जातवैराग्यः शिश्रिये तपसे वनम् ।। ४१०
फलमूलाशनस्तत्र वसञ्जातु यदृच्छया ।
भ्रमन्सोऽन्तिकमेकस्य प्राप न्यग्रोधशाखिनः ।। ४११
तत्र प्राप्तमकस्मात्तं निर्गत्यैव तरोस्ततः ।
ऊचतुर्दिव्यरूपे द्वे फलमूलकरे स्त्रियौ ।। ४१२
राजन्नेहि गृहाणैतान्यद्य मूलफलानि नौ ।
तच्छ्रुत्वा सोऽब्रवीद्ब्रूतं तावन्मे के युवामिति ।। ४१३
ततस्ते दिव्यनार्यौ तमूचतुस्तर्हि नौ गृहम् ।
एहि प्रविश्य तत्रैतद्वक्ष्यामस्ते यथातथम् ।। ४१४
तच्छ्रुत्वा स तथेत्युक्त्वा ताभ्यां श्रीदर्शनः सह ।
प्रविष्टोऽत्र ददर्शान्तर्दिव्यं हेममयं पुरम् ।। ४१५
विश्रान्तस्तत्र दिव्यानि भुक्तवांश्च फलानि सः ।
नारीभ्यां जगदे ताभ्यामिदानीं नृपते शृणु ।। ४१६
आसीत्कमलगर्भाख्यः प्रतिष्ठाने पुरा द्विजः ।
तस्याभूता च भार्ये द्वे एका पथ्या बलापरा ।। ४१७
जराक्रान्ताश्च कालेन ते भार्यापतयस्त्रयः ।
पर्यन्ते विविशुर्वह्निं सहान्योन्यानुरागिणः ।। ४१८
भार्यापतित्वं सर्वस्मिन्भूयाज्जन्मनि नः प्रभो ।
इति प्रार्थ्यत तस्मिंश्च काले तैरनलाद्वरः ।। ४१९
ततः कमलगर्भोऽसौ यक्षयोनावजायत ।
प्रदीप्ताक्षस्य यक्षस्य पुत्रो दीप्तशिखाभिधः ।। ४२०
कनीयानट्टहासस्य भ्राता तीव्रतपोबलात् ।
तद्भार्ये अपि ते पथ्याबले यक्षपतेः सुते ।। ४२१
धूमकेत्वभिधानस्य जज्ञाते यक्षकन्यके ।
ज्योतिर्लेखाभिधानैका धूमलेखेति चापरा ।। ४२२
कालेन च भगिन्यौ ते कन्यके प्राप्तयौवने ।
भर्त्रर्थं तपसा गत्वारण्येऽतोषयतां हरम् ।। ४२३
स तुष्टो दर्शनं दत्त्वा देवस्ते द्वे समादिशत् ।
सममेव प्रविश्याग्निं युवाभ्यां पूर्वजन्मनि ।। ४२४
येन साकं वृतं भार्यापतित्वं सर्वजन्मसु ।
स वां यक्षोऽट्टहासस्य भ्राता दीप्तशिखाभिधः ।। ४२५
जातः स स्वामिशापेन पुनर्मर्त्यत्वमागतः ।
जातः श्रीदर्शनो नाम तद्युवामपि गच्छतम् ।। ४२६
भवेतां मर्त्यलोकेऽस्य भार्ये शापक्षये पुनः ।
यूयं च भार्यापतयो यक्षाः सर्वे भविष्यथ ।। ४२७
इति गौरीपतेर्वाक्यादुभे ते यक्षकन्यके ।
पद्मिष्ठानङ्गमञ्जर्यावजायेतां भुवस्तले ।। ४२८
श्रीदर्शनस्य भार्यात्वं प्राप्ते सत्यौ च तेऽचिरात् ।
एत्य तेनाट्टहासेन युक्त्या ब्राह्मणरूपिणा ।। ४२९
श्लिष्टोक्त्या स्मारिते दैवाज्जातिं नामान्युदीर्य यत् ।
तेन ते तां तनुं त्यक्त्वा यक्षिणीत्वमुपागते ।। ४३०
ते चावां त्वमिमे विद्धि भवान्दीप्तशिखश्च सः ।
इत्युक्त एव ताभ्यां तां जातिं श्रीदर्शनोऽस्मरत् ।। ४३१
संपन्नश्च ततः सद्यो यक्षो दीप्तशिखोऽत्र सः ।
प्राप्तश्च ताभ्यां भार्याभ्यां संयोगं विधिवत्पुनः ।। ४३२
तमिमं विद्धि मां यक्षं विचित्रकथ ते इमे ।
ज्योतिर्लेखा तथा धूमलेखा जानीहि मे प्रिये ।। ४३३
तदेवं मादृशां देववंशजानामपीदृशम् ।
सुखदुःखं भवेत्कामं मानुषाणां कथैव का ।। ४३४
युष्माकं चाचिराद्वत्स भविष्यति समागमः ।
भर्त्रा मृगाङ्कदत्तेन मा विषादमतः कृथाः ।। ४३५
अहं चेह तवातिथ्यहेतोरास्थामिदं हि मे ।
भौमं धाम तदास्स्वेह करिष्येऽभिमतं तव ।। ४३६
ततो यास्यामि कैलासं स्वं धामेति निजां कथाम् ।
उक्त्वा स यक्षो मां तत्र कंचित्कालमुपाचरत् ।। ४३७
अद्य युष्मानिह प्राप्ताञ्ज्ञात्वा रात्रौ स सन्मतिः ।
सुप्तानां भवतां मध्ये सुप्तमानीय मां न्यधात् ।। ४३८
ततो दृष्टोऽस्मि युष्माभिर्यूय दृष्टा मयापि च ।
इत्येष युष्मद्विश्लेषे वृत्तान्तो देव मामकः ।। ४३९
इति निजसचिवान्निशम्य तस्मांन्निशि स विचित्रकथाद्यथार्थनाम्नः ।
सुखमभजदतीव राजपुत्रः सममपरैः सचिवैर्मृगाङ्कदत्तः ।। ४४०
नीत्वात्र रात्रिमटवीभुवि नागशापविश्लेषितान्मिलितशेषसखीन्विचिन्वन् ।
अभ्युज्जयिन्युदचलच्च शशाङ्कवत्या लाभाय सोऽर्पितमतिः सह तैर्वयस्यैः ।। ४४१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके षष्ठस्तरङ्गः ।