प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततस्तैः सचिवैर्युक्तः क्रमाच्छ्रुतधिपञ्चमैः ।
मृगाङ्कदत्तस्तस्यां स गच्छन्विन्ध्याटवीभुवि ।। १
संप्राप सफलस्निग्धतरुच्छायमनोरमम् ।
एकं काननमच्छाच्छस्वादुशीतजलाशयम् ।। २
तत्र स्नातः ससचिवो भुक्तनानाफलश्च सः ।
एकदेशे लताच्छन्ने समालापमिवाशृणोत् ।। ३
गत्वा ददाति यावच्च दृष्टिं तत्र लतान्तरे ।
तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ।। ४
आश्वासयन्तं पुरुषं पथि श्रान्तमचक्षुषम् ।
करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस्तथा ।। ५
कच्चित्किंचित्समाश्वस्तो भवानिति च तं मुहुः ।
साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ।। ६
तं दृष्ट्वा स सखीनाह राजपुत्रः सविस्मयः ।
पश्यत क्व गजो वन्यः क्वाचारो मानुषोचितः ।। ७
अवश्यं कोऽप्ययं हेतोः कुतोऽप्येवमिह स्थितः ।
अयं प्रचण्डशक्तेश्च सख्युः सुसदृशः पुमान् ।। ८
किं त्वन्ध एष तत्क्षिप्रं पश्याम इति तान्सखीन् ।
उक्त्वा मृगाङ्कदत्तोऽत्र तस्थौ शृण्वन्नलक्षितः ।। ९
तावत्स तं समाश्वस्तमन्धं पप्रच्छ वारणः ।
कस्त्वं कथमिहायातोऽस्यन्धः सन्कथ्यतामिति ।। १०
ततः सोऽपि जगादैतं पुमानन्धो गजोत्तमम् ।
अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ।। ११
मृगाङ्कदत्त इत्यस्ति तस्योत्तमगुणः सुतः ।
तस्य प्रचण्डशक्त्याख्यो भृत्योऽहं शुभजन्मनः ।। १२
स राजपुत्रः केनापि कारणेन स्वदेशतः ।
पित्रा निर्वासितोऽस्माभिः सहायैर्दशभिर्वृतः ।। १३
ते शशाङ्कवतीहेतोर्वयमुज्जयिनीं ततः ।
प्रस्थिता नागशापेन सर्वेऽटव्यां वियोजिताः ।। १४
अहं चान्धत्वमायातस्तच्छापेन परिभ्रमन् ।
इह प्राप्तो यथालब्धफलमूलजलाशनः ।। १५
श्वभ्रादिपातानशनैर्मृत्युरिष्टतमोऽपि मे ।
अनुभावयता क्लेशं न दत्तो बत वेधसा ।। १६
जाने त्वद्य यथा शान्तं क्षुद्दुःखं त्वत्प्रसादतः ।
तथान्ध्यमपि मे शाम्येत्किमपि त्वं हि दैवतम् ।। १७
इत्युक्ते तेन संजातनिश्चयो हर्षशोकयोः ।
मृगाङ्कदत्तो मध्यस्थः सचिवांस्तानभाषत ।। १८
प्रचण्डशक्तिरेवायं कष्टमेतां दशां गतः ।
न चैष संभावयितुं युक्तो नस्त्वरयाधुना ।। १९
नेत्रोपकारमस्यैष द्विपः कुर्वीत जातुचित् ।
अस्मान्दृष्ट्वा त्वसौ नश्येद्द्रष्टव्योऽन्तस्तदत्र नः ।। २०
इत्युक्त्वा सानुगः शृण्वंस्तस्थौ राजसुतोऽत्र सः ।
प्रचण्डशक्तिश्च ततस्तं स पप्रच्छ वारणम् ।। २१
इदानीं ब्रूहि वृत्तान्तं महात्मन्मम को भवान् ।
कैषा ते गजता वाक्च समदस्यापि निर्मदा ।। २२
तदाकर्ण्य स निःश्वस्य गजेन्द्रस्तमभाषत ।
शृण्विमं निजवृत्तान्तमामूलात्कथयामि ते ।। २३
नगर्यामेकलव्यायां पुरा श्रुतधराभिधः ।
राजाभूत्तस्य चाभूतां सुतौ द्वौ भार्ययोर्द्वयोः ।। २४
तयोः शीलधरं नाम ज्येष्ठं तस्मिन्दिवं गते ।
राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ।। २५
सोऽथ शीलधरो गत्वा तेनामर्षेण शंकरम् ।
आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ।। २६
भूयासं देव गन्धर्वो येनाम्बरचरो भवन् ।
तं सत्यधरदायादं हन्यामेवावहेलया ।। २७
तच्छ्रुत्वा भगवानेवं शंभुरादिशति स्म तम् ।
एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ।। २८
जनिष्यते च राढायां पुनरुग्रभटस्य सः ।
नृपस्य पुत्रः समरभटो नाम पितृप्रियः ।। २९
त्वं च भीमभटो नाम तस्य द्वैमातुरोऽग्रजः ।
भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ।। ३०
सामर्षेण त्वया चैतद्यतस्तप्तं तपस्ततः ।
मुनिशापात्पदभ्रष्टो वन्यो हस्ती भविष्यसि ।। ३१
जातिस्मरो व्यक्तवाक्च भवानाश्वासयिष्यति ।
यदावसन्नमतिथिं स्ववृत्तान्तं च वक्ष्यति ।। ३२
तदा गजत्वान्निर्मुक्तो गन्धर्वस्त्वं भविष्यसि ।
उपकारश्च तस्यापि भविष्यत्यतिथेस्तदा ।। ३३
इत्यादिश्य तिरोभूते भर्गे शीलधरोऽत्र सः ।
दृष्ट्वा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ।। ३४
अत्रान्तरे कथासंधौ पूर्वोद्दिष्टस्य भूपतेः ।
तस्योग्रभटसंज्ञस्य राढायां पुरि तुल्यया ।। ३५
मनोरमाख्यया देव्या समं निवसतः सुखम् ।
पार्श्वं देशान्तरादागाल्लासको नाम नर्तकः ।। ३६
स च नाट्यप्रयोगं तं राज्ञे तस्मायदर्शयत् ।
दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ।।
सत्यामृताया इव तद्राजा कामवशं ययौ ।। ३९
नृत्तान्ते च धनं भूरि तत्पित्रे प्रवितीर्य सः ।
प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ।। ४०
ततस्तया स नर्तक्या विहितोद्वाहया सह ।
लास्यवत्या नृपस्तस्थौ तन्मुखासक्तलोचनः ।। ४१
एकदा स यजुःस्वामिसंज्ञं प्राह पुरोहितम् ।
पुत्रो नास्तीह मे तत्त्वं पुत्रेष्टिं मम कुर्विति ।। ४२
ततस्तथेति विधिवत्तामिष्टिं तस्य भूपतेः ।
पुरोहितः स विदधे विद्वद्भिर्ब्राह्मणैः सह ।। ४३
प्राशयन्मन्त्रपूतं च तद्देवीं तां मनोरमाम् ।
भागमग्र्यं चरोर्ज्येष्ठां स पूर्वाराधितस्तया ।। ४४
शेषं तस्यै द्वितीयस्यै लास्यवत्यै ददौ च सः ।
ततश्च तौ तयोः शीलधरसत्यधरावुभौ ।। ४५
उभयोरुदरे राज्ञ्योः पूर्वोक्तौ संबभूवतुः ।
प्राप्ते च समये चात्र देवी तस्य महीपतेः ।। ४६
मनोरमा प्रसूते स्म पुत्रं कल्याणलक्षणम् ।
एष भीमभटो नाम जातः ख्यातयशा नृपः ।। ४७
इत्युच्चचार तत्कालं सुस्पष्टा भारती दिवः ।
ततोऽन्येद्युः प्रसुषुवे सापि लास्यवती सुतम् ।। ४८
पिता च तं स समरभटं नाम्नाकरोन्नृपः ।
अथ तौ कृतसंस्काराववर्धेतां शनैः शिशू ।। ४९
ज्येष्ठो भीमभटस्तं तु कनिष्ठमजयद्गुणैः ।
तत्संघर्षेण चान्योन्यं तयोर्वैरमवर्धत ।। ५०
एकदा बाहुना बाहुयुद्धकेलौ समत्सरः ।
हन्ति स्म कण्ठे समरभटो भीमभटं हठात् ।। ५१
ततो भीमभटः क्रोधाद्भुजाभ्यां परिवेष्ट्य तम् ।
न्यधादुत्क्षिप्य समरभटं चटदिति क्षितौ ।। ५२
स तेनाभिहतो गाढं सर्वद्वारैरसृग्वमन् ।
समुत्थाप्यान्तिकं मातुर्नीतोऽभून्निजसेवकैः ।। ५३
सा तं दृष्ट्वा च बुद्ध्वा च वृत्तान्तं स्नेहकातरा ।
तस्य मूर्धनि मूर्धानमासज्य प्रारुदद्भृशम् ।। ५४
तावद्राज्ञा प्रविष्टेन तद्दृष्ट्वाकुलचेतसा ।
किमेतदिति पृष्टा सा लास्यवत्येवमब्रवीत् ।। ५५
इयं भीमभटेनास्य कृतावस्था सुतस्य मे ।
सदा चाभिभवत्येनं न चाहं देव वच्मि ते ।। ५६
इदं दृष्ट्वा तु जानेऽहं तवैव स्याच्छिवं कथम् ।
तस्मिन्नेवंविधे पुत्रे विचारयतु वा भवान् ।। ५७
एवं तयोक्तः प्रियया स तमुग्रभटो नृपः ।
क्रुद्धो भीमभटं स्वात्मसंनिकर्षान्न्यवारयत् ।। ५८
हृतवृत्तिं च कृत्वैनं राजपुत्रशतं व्यधात् ।
रक्षार्थं तस्य समरभटस्य सपरिच्छदम् ।। ५९
स्वाधीनं चाकरोत्तस्य भाण्डागारं कनीयसः ।
तं तु भीमभटं ज्येष्ठं सर्वाकारमपाकरोत् ।। ६०
ततो माता तमाहूय सा वक्ति स्म मनोरमा ।
नर्तकीरागिणा तावत्पित्रा त्वं परिवर्जितः ।। ६१
तन्मातामहशालां त्वं गच्छ पाटलिपुत्रकम् ।
तत्र मातामहः स्वं ते राज्यं दास्यत्यपुत्रकः ।। ६२
इह त्वां चैष समरभटो हन्याद्रिपुर्बली ।
इति मातुर्वचः श्रुत्वा तां स भीमभटोऽब्रवीत् ।। ६३
क्षत्रियः सन्न देशं स्वं त्यक्ष्यामि क्लीबवद्भयात् ।
धीरा भवाम्ब कः शक्तो वराको मां प्रबाधितुम् ।।६ ४
इत्युक्तवन्तं तं माता साब्रवीत्तर्हि भूयसः ।
सहायान्कुरु रक्षार्थं मदीयैस्त्वं धनैरिति ।। ६५
ततो भीमभटोऽवादीदेतदम्ब न शोभते ।
एवं हि सत्यं तातस्य प्रातिपक्ष्यं कृतं भवेत् ।। ६६
तन्मे त्वदाशिषैव स्यात्कल्याणं निर्वृता भव ।
इत्याश्वास्य स तां भीमभटो निरगमत्ततः ।। ६७
तावच्च तत्र बुद्ध्वा तत्पौराः सर्वे व्यचिन्तयन् ।
अनौचित्यं परं राज्ञा कृतं भीमभटस्य तु ।। ६८
नैवास्य राज्यं समरभटो हर्तुं प्रगल्भते ।
तदेष पूर्वसेवायाः कालो भीमभटस्य नः ।। ६९
इति निश्चित्य गुप्तं ते पौरा मीमभटं धनैः ।
तथापुष्यन्यथा सोऽत्र तस्थौ भृत्यैः समं सुखम् ।। ७०
कनिष्ठः स तु तस्यासीद्वधमेव निरूपयन् ।
पितुः परिच्छदकृतः परिकल्प्य तदाशयम् ।। ७१
तावच्च शङ्खदत्ताख्यो विप्रः शूरो युवा धनी ।
द्वयोर्वयस्यः समरभटमेत्य तमब्रवीत् ।। ७२
भ्रात्रा वैरं न युक्तं ते नैष धर्मो न च त्वया ।
ज्यायान्स बाधितुं शक्यः स्यादकीर्तिः परं तव ।। ७३
इति ब्रुवन्नधिक्षिप्य स तेन निरभर्त्स्यत ।
हितोपदेशो मूर्खस्य कोपायैव न शान्तये ।। ७४
ततस्तत्कोपतो गत्वा धीरस्तद्विजिगीषया ।
शङ्खदत्तो व्यधादेकसख्यं भीमभटेन सः ।। ७५
अथात्र मणिदत्ताख्यः कोऽपि देशान्तरागतः ।
आनीतवानश्वरत्नमेकमत्युत्तमं वणिक् ।। ७६
शशाङ्कधवलं शुद्धशङ्खादिश्रव्यनिःस्वनम् ।
दुग्धाब्धेरिव कल्लोलजालमुच्छ्रितमुत्थितम् ।। ७७
रोचमानैः समायुक्तचूडामण्यङ्गदादिभिः ।
गन्धर्वकुलसंभूतिसंसिद्धैरिव भूषितम् ।। ७८
आख्यातं शङ्खदत्तेन तं च गत्वा हयोत्तमम् ।
क्रीणाति स्म धनैर्भीमभटस्तस्माद्वणिग्वरात् ।। ७९
तत्क्षणं चात्र समरभटो बुद्ध्वा तदैत्य सः ।
मूल्येन द्विगुणेनाश्वं वणिजो मार्गति स्म तम् ।। ८०
परतन्त्रीकृतं तं च तस्मै नादाद्वणिग्यदा ।
तदा सोऽश्वं बलान्नेतुं तं प्रावर्तत मत्सरात् ।। ८१
तेनोभयोस्तयो राजपुत्रयोः शस्त्रपाणिषु ।
भृत्येषु धावितेष्वत्र समभूद्युद्धमुद्धतम् ।। ८२
तत्र भौमभटोच्चण्डदोर्दण्डनिहतानुगः ।
त्यक्त्वा हयं स समरभटोऽभज्यत तद्भयात् ।। ८३
भज्यमानं च धावित्वा केशेष्वाकृष्य पृष्ठतः ।
निहन्ति शङ्खदत्तस्तं यावन्मन्युभराकुलः ।। ८४
तावद्भीमभटः पश्चादुपेत्यैनं न्यवारयत् ।
आस्तां संप्रति तातस्य दुःखमेव भवेदिति ।। ८५
ततः स शङ्खदत्तेन मुक्तो रक्त व्रणैर्वमन् ।
त्रस्तः पलाय्य समरभटः पार्श्वमगात्पितुः ।। ८६
ततोऽत्र स्वीकृताश्वं त वीरं भीमभटं क्षणात् ।
उपेत्य ब्राह्मणः कश्चिन्नीत्वा विजनमब्रवीत् ।। ८७
माता मनोरमा देवी यजुःस्वामी पुरोहितः ।
पितृमन्त्री स सुमतिस्त्वामिदं ब्रुवतेऽधुना ।। ८८
जानासि यादृशो वत्स राजा त्वयि विशेषतः ।
अस्मिन्व्यतिकरे वृत्ते शत्रुतामेव ते गतः ।। ८९
तदात्मानं च धर्मं च यशश्च यदि रक्षसि ।
आयतिं यदि जानासि यद्यस्मान्मन्यसे हितान् ।। ९०
तदर्कोऽस्तं गतो यावदितस्तावदलक्षितः ।
निर्गत्य सांप्रतं सिद्ध्यै मातामहगृहं व्रज ।। ९१
इति संदिष्टवद्भिश्च सद्रत्नस्वर्णपूरितम् ।
तैरिदं प्रेषितं भाण्डं मद्धस्तेन च गृह्यताम् ।। ९२
एतत्तस्माद्द्विजाच्छ्रुत्वा स तथेत्यभिनन्द्य च ।
सुधीस्तत्स्वर्णसद्रत्नभाण्डं भीमभटोऽग्रहीत् ।। ९३
दत्त्वा च प्रतिसंदेशमनुरूपं विसृज्य तम् ।
द्विजं कृपाणपाणिस्तमारूढोऽभूत्तुरङ्गमम् ।। ९४
गृहीतहेमरत्नेन द्वितीयाश्वाधिरोहिणा ।
सहितः शङ्खदत्तेन सोऽथ प्रस्थितवांस्ततः ।। ९३
दूरं व्यतीत्य चाध्वानं निशीथे स नृपात्मजः ।
प्रापद्भीमभटो मार्गमध्ये शरवणं महत् ।। ९६
तत्रानवरतं तस्य सवयस्यस्य गच्छतः ।
पतद्वाजिखुरक्षुण्णशरशब्दप्रबोधितम् ।। ९७
उत्थाय सिंहमिथुनमुद्गर्जत्पोतकैः सह ।
अपाटयत्तौ तुरगौ नखैरुदरयोरधः ।। ९८
सद्वितीयश्च तान्सर्वान्सिंहान्वीरः स तत्क्षणम् ।
खड्गप्रहारलूनाङ्गानकरोद्गतजीवितान् ।। ९९
समित्त्रोऽप्यवरुह्याथ तुरगौ यावदीक्षते ।
तावद्विगलितान्त्रौ तौ भूमावपततामुभौ ।। १००
तद्दृष्ट्वा स विषण्णस्तं शङ्खदत्तमभाषत ।
सखे विरुद्धात्स्वजनाद्वयं यत्नात्पलायिताः ।। १०१
ब्रूहि यत्नशतेनापि क्व पलायामहे विधेः ।
येनेहापि हताः स्मोऽद्य वाहमात्रासहिष्णुना ।। १०२
यत्कृते विहितो देशत्यागः सोऽपि हयो मृतः ।
तदस्माभिः कथं पद्भ्यां गम्येयमटवी निशि ।। १०३
इत्युक्तस्तेन स सुहृच्छङ्खदत्तस्तमब्रवीत् ।
नैतन्नवं जयति यत्पौरुषं विधुरो विधिः ।। १०४
निसर्ग एव तस्यायं धैर्येण तु स जीयते ।
वातोऽद्रेरिव किं कुर्याद्धीरस्याकम्पितस्य सः ।। १०५
तदेह्यारूढधैर्याश्वौ व्रजावोऽत्रेति वादिना ।
शङ्खदत्तेन स समं प्रायाद्भीमभटस्ततः ।। ६०६
व्यतिक्रान्तस्य शनकैः कान्तारमथ तस्य तत् ।
शरपाटितपादस्य शर्वरी पर्यहीयत ।। १०७
उदितेऽथ जगद्दीपे भानौ नैशतमोमुषि ।
मार्गाब्जिनीसरोजेषु मधुरक्वणितालिषु ।। १०८
दिष्ट्या सिंहादिसंकीर्णा तीर्णोऽयमटवीमिमाम् ।
जल्पत्स्विवोत्फुल्लमुखेष्वन्योन्यमवलोक्य तम् ।। १०९
क्रमेण गच्छन्नुटजैः समकीर्णं तपस्विनाम् ।
पुलिनं जह्नुकन्यायाः प्रापत्स सवयस्यकः ।। ११०
तत्र शार्वशिरोवासलग्नचन्द्रामृतैरिव ।
तज्जलैः स्वादुभिः शीतैः स्नातो विश्राम्यति स्म सः ।। १११
व्याधान्मार्गागतात्क्रीतैर्भृष्टैश्च हरिणामिषैः ।
शङ्खदत्तोपनीतैश्च देहवृत्तिं व्यधत्त सः ।। ११२
उत्तरीतुमशक्यां च पूर्णामालोक्य जाह्नवीम् ।
तरङ्गहस्तैरसकृद्वारयन्तीमिवोच्छ्रितैः ।। ११३
तस्याः कूलेन स ततो गत्वा ब्राह्मणपुत्रकम् ।
स्वाध्यायासक्तमद्राक्षीद्विजनस्थोटजाङ्गणे ।। ११४
उपेत्य तमपृच्छच्च कस्त्वं किमिह निर्जने ।
एकाक्येव करोषीति ततः सोऽप्येनमभ्यधात् ।। ११५
अहं वाराणसीवासी श्रीकण्ठाख्यद्विजात्मजः ।
नीलकण्ठाभिधः पित्रा कृतसंस्कारपद्धतिः ।। ११६
सोऽहं गुरुकुलाधीतविद्यो बाल्ये निजं गृहम् ।
उपैमि यावत्तावन्मे विनष्टाः सर्वबान्धवाः ।। ११७
तेनानाथोऽर्थहीनश्च गार्हस्थ्यासिद्धिदुःस्थितः ।
निर्विण्णोऽहमिहागत्य तपस्तीव्रमशिश्रियम् ।। ११८
ततः स्वप्नेऽब्रवाद्देवी गङ्गा दत्त्वा फलानि मे ।
एतानि खादंस्तिष्ठेह यावत्प्राप्स्यसि वाञ्छितम् ।। ११९
एतच्छ्रुत्वा प्रबुद्ध्यैव गत्वा स्नात्वा निशाक्षये ।
प्रापं फलानि गङ्गायामागतानि जलान्तरे ।। १२०
तान्यानीयामृतस्वादून्युटजेऽहं च भुक्तवान् ।
एवं तान्यन्वहं प्राप्तान्यश्नन्नहमिह स्थितः ।। १२१
इति तेनोदिते शङ्खदत्तं भीमभटोऽब्रवीत् ।
अस्मै गार्हस्थ्यपर्याप्तं ददामि गुणिने धनम् ।। १२२
तच्छ्रुत्वा श्रद्धितवचास्तेन राजसुतोऽथ सः ।
मात्रा निसृष्टं तद्द्रव्यमदात्तस्मै द्विजन्मने ।। १२३
अलुप्तसत्त्वकोषाणां महत्त्वं महतां हि किम् ।
आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणम् ।। १२४
कृतार्थीकृत्य तं विप्रं ततो गत्वा स सर्वतः ।
चिन्वन्नुत्तरणोपायं गङ्गायां नाप्तवान्यदा ।। १२५
तदा भीमभटो मूर्धनिबद्धासिविभूषणः ।
शङ्खदत्तयुतो दोर्भ्यां तरीतुं तामवातरत् ।। १२६
मध्यभागे च वार्योघदूरीकृतवयस्यकः ।
कथंचित्तीर्णवान्पारं ह्रियमाणः स वीचिभिः ।। १२७
पारं प्राप्तस्य मित्त्रं तं शङ्कदत्तमपश्यतः ।
अन्विष्यतश्चानुतटं तस्यास्तमगमद्रविः ।। १२८
ततो निराशो हा मित्त्रेत्याक्रन्दन्नतिदुःखितः ।
गङ्गायां क्षेप्तुमात्मानमुद्यतोऽभून्निशागमे ।। १२९
जीवितं मे सखा देवि जाह्नव्यपहृतस्त्वया ।
तच्छून्यं देहमप्येतं त्वं गृहाणाधुना मम ।। १३०
इत्युक्त्वा यावदात्मानं क्षेप्तुमिच्छति तत्र सः ।
तावदाविरभूत्साक्षाद्गङ्गा तस्याम्बुमध्यतः ।। १३१
अब्रवीत्तीव्रसंवेगतुष्टा सा तं च तत्क्षणम् ।
मा पुत्र साहसं कार्षीः स ते जीवन्सखा स्थितः ।। १३२
अचिरेण च संयोगस्तव तेन भविष्यति ।
प्रतिलोमानुलोमाख्यां विद्यां चैतां गृहाण मे ।। १३३
अदृश्यः स्यात्परस्यैतामनुलोमां पठन्नरः ।
प्रतिलोमां पठन्कुर्यादिष्टरूपप्रकाशनम् ।। १३४
एतत्प्रभावा विद्येयं यत्सा सप्ताक्षरोम्भिता ।
एतत्प्रभावात्त्वं चास्यां पृथ्व्यां राजा भविष्यसि ।। १३५
इत्युक्त्वा दत्तविद्या सा तिरोऽभूत्तस्य जाह्नवी ।
जातास्थः सखिलाभादौ मरणात्सोऽप्युपारमत् ।। १३६
मित्त्रप्राप्त्युत्सुको नीत्वा कृच्छ्रात्पद्म इव क्षपाम् ।
प्रातर्भीमभटस्तं स चिन्वन्प्रस्थितवांस्ततः ।। १३७
अथान्वेष्टुं क्रमादेतं शङ्खदत्तं परिभ्रमन् ।
देशं स लाटविषयं कदाचित्प्रापदेककः ।। १३८
यत्रासंकीर्णवर्णोऽपि जनश्चित्रोज्ज्वलस्थितिः ।
निलयोऽपि कलानां यो न दोषाकरशब्दभाक् ।। १३९
तत्रान्तर्नगरे देवकुलावासान्विलोकयन् ।
भ्रान्त्वा स द्यूतकाराणामेका शालामवाप्तवान् ।। १४०
तत्र प्रविश्य चापश्यत्कितवानक्षदेविनः ।
कटिकर्पटमात्रैकवसनानपि पेशलैः ।। १४१
विभक्तैः पीवरैश्चाङ्गैर्भोगव्यायामसूचकैः ।
शंसतो गूढमैश्वर्यमर्थार्थाश्रितत्कलम् ।। १४२
कृतालापैश्च तैः साकं द्यूतमारभते स्म सः ।
अयं साभरणोऽस्माकं भक्ष्य इत्यात्तबुद्धिभिः ।। १४३
ततस्तेन हृतं तेषां जित्वाक्षैरखिलं धनम् ।
धूर्तैर्यद्वञ्चयित्वान्यांस्तैरभूत्समुपार्जितम् ।। १४४
हारितार्थांश्च कितवान्स्वगृहान्गन्तुमुद्यतान् ।
द्वारार्पितभुजो रुद्ध्वा स तान्भीमभटोऽब्रवीत् ।। १४५
क्व गच्छथेदं गृह्णीत धनं किममुना मम ।
मयैतद्देयमिष्टेभ्यो यूयं चेष्टा न किं मम ।। १४६
भवद्भिः सदृशानिष्टान्सखीन्प्राप्नोम्यहं कुतः ।
इति तस्मिन्वदत्येव तेष्वगृह्णत्सु च ह्रिया ।। १४७
अक्षक्षपणको नाम तत्रैकः कितवोऽब्रवीत् ।
तद्द्यूतपरिभाषैषा हारितं यन्न दीयते ।। १४८
तथाप्येष सुहृद्भूत्वा यद्यस्मभ्यं प्रयच्छति ।
स्वेच्छया जितमप्यर्थं तद्गृह्णीमो वयं न किम् ।। १४९
तच्छ्रुत्वा तेऽब्रुवन्नन्ये सख्यं चेदेष शाश्वतम् ।
तादृशं कुरुतेऽस्माभिस्तदैतदुपपद्यते ।। १५०
एवमुक्तवतस्तान्स मत्वा वीरांस्तथेति तैः ।
व्यधाद्भीमभटः सख्यमदात्तेभ्यश्च तद्धनम् ।। १५१
तदर्थितश्च तैः साकमुद्याने सकुटुम्बकैः ।
गत्वा भोजनपानाद्यैर्व्यहरत्तदुपाहृतैः ।। ३५
ततोऽक्षक्षपणाद्यैस्तैः पृष्टस्तेभ्योऽब्रवीन्निजम् ।
स वंशनामवृत्तान्तमपृच्छच्च तथैव तान् ।। १५३
अथैवमक्षक्षपणस्तस्मै स्वोदन्तमभ्यधात् ।
शिवदत्ताभिधानोऽभूद्ब्राह्मणो हस्तिनापुरे ।। १५४
तस्याहं वसुदत्ताख्यो महाधनवतः सुतः ।
बाल्ये मया शस्त्रविद्या वेदविद्याश्च शिक्षिताः ।। १५५
ततो विवाहः पित्रा मे विहितः सदृशात्कुलात् ।
माता तु मे महारौद्रा दुराराध्यातिकोपना ।। १५६
तया चोद्वेजितोऽत्यर्थं दृष्ट्वा मां सपरिग्रहम् ।
पिता मे स्वगृहं त्यक्त्वा स गतः क्वाप्यतर्कितः ।। १५७
तद्दृष्ट्वा सभयोऽम्बायाश्चित्तग्रहविधावहम् ।
यत्नान्नियुक्तवान्भार्यां सापि भीता तथाकरोत् ।। १५८
अम्बा तु तस्या नातुष्यत्कथंचित्कलहोद्यता ।
तूष्णींस्थानमवज्ञानं दैन्यालापं च कैतवम् ।। १५९
प्रत्यायनं विवादं च मन्यमाना दुराशया ।
को हि त्याजयितुं शक्तो वह्नेः स्वां दहनात्मताम् ।। १६०
ततस्तस्या विरुद्धैस्तैश्चेष्टितैः सा ममाचिरात् ।
खिन्ना भार्यापि निर्गत्य न जाने क्व गता गृहात् ।। १६१
अथोद्विग्नो गृहं त्यक्तुमना अपि बलादहम् ।
मिलित्वा बन्धुभिः पापैर्विवाहं कारितोऽपरम् ।। १६२
सापि भार्या मम तया तथा संतापिताम्भया ।
उद्बध्य पाशेनात्मानं व्यापादितवती यथा ।। १६३
ततोऽहं नितरां खिन्नो विदेशं गन्तुमुद्यतः ।
निवारयद्भ्यो बन्धुभ्योऽवर्णयं मातृदुष्टताम् ।। १६४
पितृप्रवासनादौ मे कारणान्तरवादिनाम् ।
तेषां यत्प्रत्ययो नाभूत्तद्युक्त्या दारुपुत्रिका ।। १६५
कारयित्वा मयैकान्ते परिणीता मृषा पुनः ।
आनीय स्थापिता चान्तर्गृहेऽन्यत्रार्पितार्गले ।। १६६
रक्षिकैका कृता चास्या नारी कर्मकरीनिभा ।
मयैषा नूतना भार्या स्थापितैव पृथग्गृहे ।। १६७
त्वं चाहं चाधुनात्रैव स्वगृहे पृथगास्वहे ।
न गन्तव्यं त्वया तत्र नागन्तव्यमितस्तया ।। १६८
आराधनं तवाप्रौढा न सा वेत्ति हि संप्रति ।
इत्यम्बामब्रवं चाहमन्वमन्यत सापि तत् ।। १६९
ततो दिनेषु यातेषु यदा तां कपटस्नुषाम् ।
न कथंचिदपि प्रापत्सार्गलेऽन्तर्गृहे स्थिताम् ।। १७०
तदाश्मना सा मूर्धानमाहत्य स्वयमेकदा ।
तारमाक्रन्दति स्माम्बा रक्ताक्ता स्वगृहाङ्गणे ।। १७१
श्रुत्वाक्रन्दं प्रविष्टेन मया सर्वैश्च बान्धवैः ।
दृष्ट्वा किमेतद्ब्रूहीति पृष्टा सासूयमभ्यधात् ।। १७२
ईदृशी स्नुषयागत्य विनाहेतुः कृता मम ।
अवस्था तदिदानीं मे मरणेनैव निष्कृतिः ।। १७३
तच्छ्रुत्वैव सकोपास्ते तां सहादाय बान्धवाः ।
तत्रागच्छन्मया साकं यत्र सा दारुपुत्रिका ।। १७४
अपास्यार्गलमुद्धाट्य द्वारं यावद्दिशन्ति ते ।
तावत्काष्ठमयीं नारीमपश्यंस्तत्र केवलाम् ।। १७५
ततो विडम्बितात्मानं हसन्तोऽम्बां विलक्षिताम् ।
उत्पन्नप्रत्यया याता बान्धवास्ते यथागतम् ।। १७६
अहं च त्यक्ततद्देशो भ्राम्यन्निममवाप्तवान् ।
प्रदेशमिह च द्यूतशालां दैवात्किलाविशम् ।। १७७
अत्रैतानहमद्राक्षं पञ्चाक्षैर्दीव्यतो जनान् ।
इमं चण्डभुजंगाख्यमेतं पांसुपटं तथा ।। १७८
अमुं श्मशानवेतालमिमं कालवराटकम् ।
शारिप्रस्तरमेतं च शूरांस्तुल्यपराक्रमान् ।। १७९
एतैः समं च द्यूतेन तत्र क्रीडितवानहम् ।
दासः स्याद्विजितो जेतुरिति बद्ध्वा मिथः पणम् ।। १८०
ततो द्यूतेन विजिता मम दास्यमिमे गताः ।
अहं गुणैर्जितस्त्वेषां दासतामागतः स्वयम् ।। १८१
एभिः समं च वसतः स्वदुःखं विस्मृतं मम ।
नाम्नावस्थोचितेनात्र विद्ध्यक्षक्षपणं च माम् ।। १८२
इत्यहं सत्कुलोत्पन्नैरिहैवं गूहितात्मभिः ।
एतैः सह स्थितः पुण्यैस्त्वं चाद्य मिलितोऽत्र नः ।। १८३
तदिदानीं त्वमस्माकं प्रभुः प्रागेव चैतया ।
बुद्ध्या तवात्तमस्माभिस्तद्धनं गुणरागिभिः ।। १८४
इत्यक्षक्षपणेनोक्ते स्ववृत्तान्ते क्रमेण ते ।
सर्वे भीमभटायान्येऽप्युदन्तान्स्वानवर्णयन् ।। १७
ततोऽर्थार्थमुपात्ताभिः कलाभिश्छादितात्मनः ।
प्रवीरांस्तान्सखीन्मत्वा कृत्वान्या विविधाः कथाः ।। १८६
नीत्वा विहारेण दिनं दृष्ट्वा पौरंदरीं दिशम् ।
उद्भासमानशीतांशुतिलकालंकृताननाम् ।। १८७
अगाद्भीमभटस्तस्मादुद्यानात्स नृपात्मजः ।
अक्षक्षपणकाद्यैस्तैः षड्भिः सह तदास्पदम् ।। १८८
तैः समं तिष्ठतश्चात्र तस्य प्रावृडुपागमत् ।
शंसन्तीव सुहृत्प्राप्तिं प्रवृष्टघनगर्जितैः ।। १८९
तदा चात्र विपाशाख्या नदी मत्ता समुद्रगा ।
प्रतीपवाहिनी जाता सागरौघेण पूरिता ।। १९०
समापूर्य महावारिपूरेण पुलिनं च सा ।
ओघप्रशान्तावम्भोधिसंमुखीव जगाम सा ।। १११
तस्मिन्कालेऽत्र चानीय क्षिप्तस्तेनौघवारिणा ।
महामत्स्यो गरीयस्त्वाद्व्यासक्तोऽभून्नदीतटे ।। १९२
दृष्ट्वा च तं प्रधाव्यैव निहन्तुं विविधायुधैः ।
तत्रत्याः पाटयामासुर्जनास्तस्योदरं तिमे ।। १९३
पाटितान्निरगाच्चात्र तस्माज्जीवन्युवा द्विजः ।
तद्दर्शनाद्भुतात्तत्र लोकः कोलाहलं व्यधात् ।। १९४
तच्छ्रुत्वा सह मित्त्रैस्तैर्गतो भीमभटोऽत्र सः ।
अपश्यच्छङ्खदत्तं तं मित्त्रं मत्स्याद्विनिर्गतम् ।। १९५
समाश्लिषच्च धावित्वा सिञ्चन्धाराश्रुभिः स तम् ।
मीनोदरदरीवासविस्रं प्रक्षालयन्निव ।। १९६
सोऽपि तद्विपदुत्तीर्णः प्राप्य तं परिरभ्य च ।
सुहृदं शङ्खदत्तोऽगादुत्सवादुत्सवं तदा ।। १९७
ततो भीमभटेनात्र तेन पृष्टः स कौतुकात् ।
शङ्खदत्तः स्ववृत्तान्तं संक्षेपादेवमब्रवीत् ।। १९८
तदा गङ्गोर्मिवेगेन हृतस्त्वद्दृष्टिगोचरात् ।
अशङ्कितं निगीर्णोऽस्मि मत्स्येनातिमहीयसा ।। १९९
तस्योदरमहावेश्मप्रविष्टोऽहं ततश्चिरम् ।
अतिष्ठं छुरिकोत्कृत्तं तन्मांसं भक्षयन्क्षुधा ।। २००
अद्य सोऽयमिहानीय धात्रा क्षिप्तः कथंचन ।
मत्स्यो हतो जनैरेभिः कृष्टश्चास्योदरादहम् ।। २०१
दृष्टो मया त्वमर्कश्च प्रकाशं मे गता दिशः ।
एष मे मित्र वृत्तान्तो वेद्मि नाहमतः परम् ।। २०२
इत्युक्तः शङ्खदत्तेन तेन भीमभटश्च सः ।
अन्ये च सर्वे तत्रस्था विस्मयादेवमब्रुवन् ।। २०३
क्व गङ्गायां निगरणं मत्स्येनाब्धौ क्व तद्गतिः ।
क्व च तद्वर्त्मना तस्य विपाशायां निवेशनम् ।। २०४
क्व वधस्तस्य तस्माच्च जीवतः क्वास्य निर्गमः ।
अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणः ।। २०५
इत्यादि तैः सह वदन्नक्षक्षपणकादिभिः ।
अनयच्छङ्खदत्तं स धाम भीमभटो निजम् ।। २०६
तत्र चोपाचरत्स्नानवस्त्राद्यैस्तं स सोत्सवः ।
तेनैव वपुषा जातमिव मत्स्योदरात्पुनः ।। २०७
ततस्तेन समं देशे तस्मिन्भीमभटे स्थिते ।
आगाद्यात्रोत्सवस्तत्र नागराजस्य वासुकेः ।। २०८
तद्दर्शनाय स प्रायाद्राजपुत्रः सुहृद्वृतः ।
मिलन्महाजनं तस्य नागमुख्यस्य केतनम् ।। २०९
तत्र प्रणम्य तन्मूर्तिं प्रासादे माल्यदामभिः ।
भृते भोगिगणाकारैः पातालोदकसंनिभे ।। २१०
गत्वा दक्षिणतोऽपश्यन्महान्तं तस्य स ह्रदम् ।
फणारत्नप्रभापुञ्जैरिव रक्ताम्बुजैश्चितम् ।। २११
विषाग्निधूमपटलैरिव नीलोत्पलैर्भृतम् ।
वृतं वातपतत्पुष्पैरर्चद्भिरिव पादपैः ।। २१२
स्वल्पः समुद्रोऽमुद्रस्य पुरोऽस्य प्रतिभाति मे ।
अनन्यहारिश्रीकस्य हृतश्रीकः स शौरिणा ।। २१३
इति यावच्च तं दृष्ट्वा स चिन्तयति विस्मितः ।
तावत्स्नानार्थमायातामद्राक्षीत्तत्र कन्यकाम् ।। २१४
राज्ञो लाटेश्वरस्यात्र चन्द्रादित्यस्य पुत्रिकाम् ।
जातां कुवलयावल्यां नाम्ना हंसावलीं शुभाम् ।। २१५
अङ्गैरपह्रुतोऽप्यन्यैर्यस्या दिव्यानुकारिभिः ।
चक्षुषा चपलेनोक्तो मर्त्यभावो निमेषतः ।। २१६
सा पुष्पपेलववपुष्कोटिप्राप्तस्फुरद्गुणा ।
मुष्टिग्राह्येण मध्येन मान्मथीव धनुर्लता ।। २१७
दृष्ट्वैव तिर्यग्वलितैरपि लोचनसायकैः ।
अमोहयद्भीमभटं हृदि निर्भिद्य तं तदा ।। २१८
सोऽपि तस्याः प्रविश्यैव तिर्यङ् नयनवर्त्मना ।
हृत्कोषमहरद्धैर्यं जगत्सौन्दर्यतस्करः ।। २१९
ततो गुप्तविसृष्टाप्तदक्षचेटीमुखेन सा ।
अन्विष्यति स्म मित्त्रेभ्यस्तस्य नामास्पदादिकम् ।। २२०
अथागात्सा परिजनैर्नीयमाना स्वमन्दिरम् ।
स्नाता विवर्तितमुखी मुहुस्तद्गतया दृशा ।। २२१
ततो भीमभटः सोऽपि स्वावासं सखिभिः सह ।
प्रत्यागात्तत्प्रियाप्रेमपाशबन्धस्खलद्गतिः ।। २२२
तत्र तस्मै क्षणाद्दूतीं तां चेटीं राजकन्यका ।
हंसावली सा व्यसृजद्दत्त्वा संदेशमीप्सितम् ।। २२३
साभ्युपेत्य तमाह स्म चेटी भीमभटं रहः ।
देव हंसावली राजसुता त्वामनुनाथति ।। २२४
ह्रियमाणं स्मरौघेण दृष्ट्वा प्रणयिनं जनम् ।
इमं द्रुतमनादृत्य न युक्ता ते तटस्थता ।। २२५
इति संप्राप्य दूतीतो दयितावचनामृतम् ।
लब्धजीवितहृष्टस्तां सोऽथ भीमभटोऽब्रवीत् ।। २२६
ओघस्थो न तटस्थोऽहमिति वेत्ति न किं प्रिया ।
तद्वचस्तु करिष्यामि कामं लब्धावलम्बनः ।। २२७
एत्य सभावयिष्यामि नक्तमन्तःपुरेऽद्य ताम् ।
विद्याच्छन्नं विशन्तं च नहि द्रक्ष्यति कोऽपि माम् ।।२२८
इत्युक्ता तेन चेटी सा तुष्टा गत्वा शशंस तत् ।
हंसावल्यै ततः सापि तस्थौ तत्संगमोन्मुखी ।। २२९
सोऽपि प्रदोषसमये दिव्याभरणभूषितः ।
गङ्गावितीर्णविद्याया आनुलोम्येन पाठतः ।। २३०
अदृश्यीभूय गत्वा तत्तस्या अन्तःपुरोत्तमम् ।
समाविशद्भीमभटः प्राग्विविक्तीकृतं तया ।। २३१
रतिप्रीतिकरे तत्र कालागुरुसुगन्धिनि ।
दशार्धवर्णविन्यस्तपुष्पप्रकरशोभिते ।। २३२
कामोद्याननिभे कान्तां तां वहद्दिव्यसौरभाम् ।
सोऽपश्यद्गाङ्गसद्विद्यावल्लीप्रसवसंनिभाम् ।। २३३
प्रातिलोम्येन विद्यां च तां पठित्वा स दृश्यताम् ।
सहसा सुभगस्तस्या राजपुत्र्या गतोऽभवत् ।। २३४
सा तं दृष्ट्वैव सानन्दपुलकोत्कम्पसाध्वसा ।
रणत्स्वाभरणातोद्येष्वनृत्यदिव तत्क्षणम् ।। २३५
आसीच्च कन्यकाभावलज्जया विनतानना ।
कर्तव्यमिव पृच्छन्ती हृदयं तत्प्रवृत्तिकृत् ।। २३६
मुग्धे प्रकाशितस्यापि ह्रिया किं चेतसोऽधुना ।
निगूहते न तद्वस्तु कथमेष तु गूह्यते ।। २३७
पुलकोऽङ्गेषु किं चैतद्विदलत्संधि कञ्चुकम् ।
इत्यादिभिर्वचोभिस्तामन्यैश्च प्रणयक्रमैः ।। २३८
विधाय सुमुखीं मुक्तलज्जां भीमभटोऽथ ताम् ।
गान्धर्वोद्वाहविधिना भार्यां हंसावलीं व्यधात् ।। २३९
नीत्वा तया समं रात्रिं तन्मुखाब्जालिलीलया ।
कृच्छ्रात्तां नक्तमेष्यामीत्यामन्त्र्यागात्स्वमास्पदम् ।।२४०
तां च हंसावलीं तत्र प्रविष्टाः स्वमहत्तराः ।
प्रातरन्तःपुरेऽद्राक्षुर्युक्तां संभोगलक्षणैः ।। २४१
लुलितालककेशान्तामार्द्रदन्तनखक्षताम् ।
साक्षात्स्मरशरश्रेणिव्रणव्याकुलितामिव ।। २४२
गत्वा च राज्ञे तत्पित्रे ते शशंसुस्तथैव तत् ।
सोऽपि तत्र व्यधाद्गुप्तं नक्तं चारानवेक्षितुम् ।। २४३
सोऽथ भीमभटो मित्रैः सहितश्च सुखं दिनम् ।
नीत्वा प्रदोषे भूयस्तत्प्रियान्तःपुरमागमत् ।। २४४
अलक्षितप्रविष्टं तं तत्र विद्याप्रभावतः ।
दृष्ट्वा संभाव्य सिद्धं च चारास्ते निर्ययुस्ततः ।। २४५
गत्वा च राज्ञे जगदुः सोऽपि तानेवमादिशत् ।
अदृश्यो यः प्रविष्टोऽत्र सुगुप्ते न स मानुषः ।। २४६
तत्तमानयतेहैव यावत्पश्यामि किं त्विदम् ।
ब्रूत चापरुषं यूयमेव मद्वचनेन तम् ।। २४७
प्रकटं प्रार्थिता मत्तः किं न मत्तनया त्वया ।
रहस्यं किं कृतं त्वादृग्गुणवान्हि वरः कुतः ।। २४८
इत्युक्त्वा प्रेषिता राज्ञा गत्वा चारास्तथैव ते ।
द्वारस्था एव तद्वाक्यमाहुर्भीमभटाय तत् ।। २४९
सोऽपि ज्ञातोऽस्मि राज्ञेति बुद्ध्वाप्यभ्यन्तरस्थितः ।
सुधीरो राजपुत्रस्तान्प्रसह्य प्रत्यभाषत ।। २५०
मद्वाक्याद्ब्रूत राजानं प्रातरास्थानमेत्य ते ।
तत्त्वमावेदयिष्यामि रात्रिरन्धा हि संप्रति ।। २५१
तच्छ्रुत्वा तैर्गतैस्तद्वदुक्तस्तूष्णीमभून्नृपः ।
प्रातर्भीमभटः सोऽथ ततोऽयासीत्सखीन्प्रति ।। २५२
तैश्च साकं कृतोद्दामवेषो वीरैः स सप्तभिः ।
आस्थानमगमत्तस्य चन्द्रादित्यस्य भूपतेः ।। २५३
तत्तेजोवैर्यसौन्दर्यदर्शिना तेन सत्कृते ।
निजोचितासनासीने तस्मिन्भीमभटे द्विजः ।। २५४
स तत्सखा शङ्खदत्तो राजानं तमभाषत ।
राजन्नुग्रभटस्यायं राज्ञो राढापतेः सुतः ।। २५५
अतर्क्यविद्यामाहात्म्याद्दुरतिक्रमविक्रमः ।
नाम्ना भीमभटो युष्मत्सुताहेतोरिहागतः ।। २५६
तच्छ्रुत्वा रात्रिवृत्तान्तं स्मरन्योग्यमवेक्ष्य तम् ।
हन्त धन्याः स्म इत्युक्त्वा राजा श्रद्धितवांस्ततः ।।२ ५७
प्रादाच्च रचितोद्वाहविभवप्रक्रियोऽथ ताम् ।
सुतां हंसावलीं भीमभटाय विभवोत्तरम् ।। २५८
ततो भीमभटो भूरिहस्त्यश्वग्रामलाभवान् ।
हंसावल्या च लक्ष्म्या च सहासीत्तत्र निर्वृतः ।। २५९
दिनैश्च तस्मै श्वशुरो लाटराव्यं समर्प्य तत् ।
चन्द्रादित्यः स वृद्धः सन्नपुत्रः प्राव्रजद्वनम् ।। २६०
अथ भीमभटः प्राप्य तद्राज्यमशिषत्कृती ।
सम्यक्तैः सप्तभिर्वीरैः शङ्खदत्तादिभिः सह ।। २६१
गतेष्वथ दिनेष्वत्र चारेभ्यो जातु सोऽशृणोत् ।
प्रयागमेत्य पितरं मृतमुग्रभटं नृपम् ।। २६२
अभिषिक्तं च तेन स्वे राढाराज्ये मुमूर्षता ।
पुत्रं कनिष्ठं समरभटं तं नर्तकीसुतम् ।। २६३
ततोऽनुशोच्य पितरं कृत्वा तस्यौर्ध्वदैहिकम् ।
तस्मै स दूतं समरभटाय प्राहिणोन्नृपः ।। २६४
तातसिंहासने मूर्ख नर्तकीपुत्र का तव ।
योग्यता मम तत्स्वं हि लाटराज्येऽत्र सत्यपि ।। २६५
अतस्त्वयाधिरोढव्यं न तस्मिन्निति तस्य च ।
संदिष्टवान्स लेखेन दायादस्यापकारिणः ।। २६६
स च दूतो द्रुतं गत्वा लेखं तस्मै समर्पयत् ।
आवेदितात्मा समरभटायास्थानवर्तिने ।। २६७
सोऽपि तं तादृशं भीमभटनामाङ्कमुद्धतम् ।
वाचयित्वैव समरभटः क्रुद्धोऽभ्यभाषत ।। २६८
अयोग्य इति पित्रा यो देशान्निर्वासितः पुरा ।
तस्यैषा दुर्विनीतस्य युक्ता मिथ्याभिमानिता ।। २६९
सिंहायते सृगालोऽपि स्वगुहागृहसंस्थितः ।
सिंहस्य दर्शनं प्राप्तो ज्ञायते स तु तादृशः ।। २७०
इत्याद्युद्गर्ज्य लेखेन संदिश्य च तथैव तत् ।
सोऽपि भीमभटाय स्वं प्रतिदूतं विसृष्टवान् ।। २७१
प्रतिदूतोऽपि गत्वा स लाटदेशेश्वराय तम् ।
तस्मै भीमभटायादाल्लेखं क्षत्तृनिवेदितः ।। २७२
सोऽथ भीमभटस्तस्मिंल्लेखे तत्रानुवाचिते ।
मुक्ताट्टहासो दायादप्रतिदूतं तमभ्यधात् ।। २७३
गच्छ रे दूत मद्वाक्याद्ब्रूहि तं नर्तकीसुतम् ।
अश्वग्रहे शङ्खदत्ताद्रक्षितोऽसि मया तदा ।। २७४
बालस्तातप्रियश्चेति क्षमिष्ये न पुनः पुनः ।
निश्चितं त्वां प्रहेष्यामि वत्सलस्यान्तिकं पितुः ।। २७५
सज्जो भव दिनैरेव जानीहि प्राप्तमत्र माम् ।
इत्युक्त्वा प्रेष्य दूतं तं यात्रां भीमभटो व्यधात् ।। २७६
तस्मिन्गजाद्रिमारूढे राजेन्दावुदयोज्ज्वले ।
क्षुभ्यन्नुदचलद्बद्धनादः सैन्यमहाम्बुधिः ।। २७७
समापूर्यन्त चासख्यैरुपसंख्यामुपस्थितैः ।
सामन्तै राजपुत्रैश्च प्रस्थितैः सबलैर्दिशः ।। २७८
साकम्पा संपतद्भूरिगजवाजिजवाकुला ।
भराद्विदलनत्रासादिव रौति स्म मेदिनी ।। २७९
एवं भीमभटो गत्वा स राढाभ्यर्णमाप्तवान् ।
कुर्वन्सेनारजोराजिमुषितार्कप्रभं नभः ।। २८०
तावच्च सोऽपि समरभटो बुद्ध्वा नृपोऽक्षमी ।
संनह्य सेनया तस्य निरगाद्योद्धुमग्रतः ।। २८१
मिलतः स्म च तौ सैन्यजलधी पूर्वपश्चिमौ ।
प्रावर्तत च शूराणामाहवप्रलयो महान् ।। २८२
सशब्दखड्गसंपातजन्मा तत्रानलो नभः ।
कुप्यत्कृतान्तदन्ताग्रदलनोत्थ इवावृणोत् ।। २८३
वहन्ति स्म च नाराचास्तीक्ष्णाग्रायतपक्ष्मलाः ।
वीरावलोकिनाकस्त्रीलोचनापातविभ्रमाः ।। २८४
ततो रेणुविताना सा सैन्यनिर्घोषवादिता ।
नृत्यत्कबन्धा व्यरुचत्सङ्ग्रामाङ्गणरङ्गभूः ।। २८५
करङ्कवाहिनी चात्र प्रमत्ता मुण्डमालिनी ।
अहरत्कालरात्रीव जन्तुचक्रमसृङ्नदी ।। २८६
क्षणाच्च शङ्खदत्तेन तेनाक्षक्षपणेन च ।
तैश्च चण्डभुजंगाद्यैर्बाहुयुद्धविशारदैः ।। २८७
समं महाबलैः शूरैर्दुर्मदैर्द्विरदैरिव ।
स तद्भीमभटोऽभाङ्क्षीत्परसैन्यं धनुर्धरः ।। २८८
भग्ने च सैन्ये समरभटः सोऽथ रथस्थितः ।
प्रधाव्यारभत क्रुद्धो रणाब्धौ मन्दरायितम् ।। २८९
ततो भीमभटस्तस्य वारणस्थोऽभिपत्य सः ।
धनुश्छित्त्वावधीद्बाणैश्चतुरोऽपि रथे हयान् ।। २९०
विरथोऽप्यथ धावित्वा तोमरेण गजोत्तमम् ।
हन्ति स्म कुम्भे समरभटो भीमभटस्य सः ।। २९१
स च तत्तोमरहतो गजस्तस्यापतद्भुवि ।
ततस्तौ विरथौ द्वावप्यभूतां पादचारिणौ ।। २९२
गृहीतचर्मखड्गौ च पदाती एव तौ तदा ।
द्वन्द्वयुद्धेन नृपती अयुध्येताममर्षणौ ।। २९३
विद्यावशाददृश्यत्वं कृत्वा शक्तोऽपि तद्वधे ।
धर्मापेक्षी न तं शत्रुं तथा भीमभटोऽवधीत् ।। २९४
प्रसह्य युध्यमानस्तु तस्य मूर्धानमच्छिनत् ।
खड्गेन खड्गयुद्धज्ञो नर्तकीतनयस्य सः ।। २९५
हते च तस्मिन्समरभटे सम्यक्ससैनिके ।
प्रदत्ते साधुवादे च गगनात्सिद्धचारणैः ।। २९६
गते समाप्तिं सङ्ग्रामे बन्दिमागधसंस्तुतः ।
राढापुरीं भीमभटः प्राविशत्सखिभिः सह ।। २९७
चिरप्रवासोपयातो हतारिस्तत्र मातरम् ।
स राम इव कौशल्यां दर्शनोत्कामनन्दयत् ।। २९८
पोयाभिनन्दितश्चाथ कृती सिंहासने पितुः ।
उपाविशत्तत्सचिवैः पूज्यमानो गुणप्रियैः ।। २९९
संमान्य प्रकृतीः कृत्स्नास्ततश्च विहितोत्सवः ।
शुभेऽह्नि शङ्खदत्ताय लाटराज्यं स दत्तवान् ।। ३००
तं प्रेष्य लाटविषयं तद्देशजबलान्वितम् ।
तेभ्योऽक्षक्षपणादिभ्यो ददौ ग्रामान्वसूनि च ।। ३०१
तैर्युक्तोऽथ स तत्रासीत्प्रशासन्पैतृकं पदम् ।
लाटेन्द्रसुतया देव्या हंसावल्या तया सह ।। ३०२
क्रमाच्च जित्वा पृथिवीमाहृत्य नृपकन्यकाः ।
तत्संभोगैकसक्तोऽभूत्सोऽथ भीमभटो नृपः ।। ३०३
मन्त्रिषु न्यस्तभारश्च क्रीडन्नन्तःपुरैः सह ।
अभ्यन्तरान्न निरगात्पानादिव्यसनेन सः ।। ३०४
अथैकदा मुनिर्द्रष्टुं तमुत्तङ्को यदृच्छया ।
पूर्वशर्वसमादेशपाककाल इवागमत् ।। ३०५
द्वारं प्राप्ते मुनौ चास्मिन्द्वाःस्थेष्वावेदयत्सु च ।
राजा रागमदैश्वर्यदर्पान्धो न किलाशृणोत् ।। ३०६
ततः क्रुद्धो मुनिः सोऽस्मै राज्ञे शापमदादिमम् ।
मदान्ध राज्याद्भ्रष्टस्त्वं वन्यो हस्ती भविष्यसि ।। ३०७
तच्छ्रुत्वा स भयाद्भष्टमदो निर्गत्य भूपतिः ।
दीनैः प्रासादयद्वाक्यैर्मुनिं तं चरणानतः ।। ३०८
ततः स शान्तकोपः सन्महर्षिस्तमभाषत ।
भविष्यसि द्विपस्तावद्राजन्न स्यात्तदन्यथा ।। ३०९
किं तु प्रचण्डशक्त्याख्यं नागशापावसादितम् ।
मृगाङ्कदत्तसचिवं चक्षुर्वैकल्यमागतम् ।। ३१०
समाश्वास्यातिथीभूतं यदा तस्मै प्रवक्ष्यसि ।
स्ववृत्तान्तं तदैतस्मान्मोक्षं प्राप्स्यसि शापतः ।। ३११
तच्च प्राग्गिरिशादिष्टं गन्धर्वत्वमवाप्स्यसि ।
स चातिथिस्ते चक्षुष्मानेव संपद्यते तदा ।। ३१२
इत्युक्त्वैव मुनिः प्रायादुत्तङ्कः स यथागतम् ।
सोऽपि भीमभटो हस्ती संपन्नो राज्यविच्युतः ।। ३१३
तमिमं मां गजीभूतं विद्धि भीमभटं सखे ।
स च प्रचण्डशक्तिस्त्वं जाने शापान्त एष मे ।। ३१४
एवमुक्त्वा गजाकारं त्यक्त्वा भीमभटोऽत्र सः ।
तत्क्षणं दिव्यविभवो गन्धर्वः समपद्यत ।। ३१५
प्रचण्डशक्तिश्चोत्पन्नलोचनालोकनोत्सवः ।
तत्कालमेव संजज्ञे पश्यन्गन्धर्वमत्र तम् ।। ३१६
तावच्च वल्लीजालान्तः स्थितः श्रुत्वा तयोः कथाम् ।
सहितोऽन्यैः स सचिवैः सुदृढोत्पन्ननिश्चयः ।। ३१७
मृगाङ्कदत्तः कालज्ञः प्रधाव्य रभसाद्द्रुतम् ।
प्रचण्डशक्तिं जग्राह कण्ठे तं निजमन्त्रिणम् ।। ३१८
सोऽप्यकाण्डसुधावर्षसिक्ताङ्ग इव वीक्ष्य तम् ।
प्रचण्डशक्तिः सहसा पादयोरग्रहीत्प्रभुम् ।। ३१९
ततस्तौ चिरविश्लिष्टसंश्लिष्टौ भृशदुःखितौ ।
स भीमभटगन्धर्वो रुदन्तौ पर्यसान्त्वयत् ।। ३२०
मृगाङ्कदत्तोऽपि स तं गन्धर्वं प्रणतोऽब्रवीत् ।
यदस्माभिरयं लब्धः सखा यच्चामुना पुनः ।। ३२१
चक्षुष्मत्त्वमवाप्तं तत्त्वन्माहात्म्यान्नमोऽस्तु ते ।
श्रुत्वैतत्सोऽपि गन्धर्वो राजपुत्रमुवाच तम् ।। ३२२
अचिरात्सचिवाञ्शेषांल्लब्ध्वा कृत्स्नानवाप्स्यसि ।
तां शशाङ्कवतीं भार्यां साम्राज्यं च महीतले ।। ३२३
तदधैर्यं न कार्यं ते कल्याणिन्साधयाम्यहम् ।
तदा च संनिधास्ये ते यदा त्वं मां स्मरिष्यसि ।। ३२४
इति स विगतशापः प्राप्तकल्याणतोषः प्रकटितसखिभावो राजपुत्रं तमुक्त्वा ।
प्रसभमुदपतद्द्यां चारुकेयूरहारक्वणितमुखरिताशोऽनन्यगन्धर्वधुर्यः ।। ३२५
सोऽपि प्रचण्डशक्तिं प्राप्य वने तत्र मन्त्रिभिः सहितः ।
अनयन्मृगाङ्कदत्तो जातवृतिर्नृपसुतस्तदहः ।। ३२६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तमस्तरङ्गः ।