(वेतालपञ्चविंशतिका ।)
जितं विघ्नजिता यस्य पुष्पवृष्टिरिवाम्बरात् ।
तारावली कराघातच्युता पतति नृत्यतः ।। १
ततोऽतिवाह्य रात्रिं तां प्रभाते काननात्ततः ।
प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ।। १
स शशाङ्कवतीहेतोः पुनरुज्जयिनीं प्रति ।
मृगाङ्कदत्तः प्रययौ चिन्वञ्शेषान्स्वमन्त्रिणः ।। ३
गच्छता ददृशे तेन मार्गे विक्रमकेसरी ।
मन्त्री पुंसातिविकृतेनोह्यमानो नभस्तले ।। ४
दर्श्यते चान्यमन्त्रिभ्यो यावत्तेन स संभ्रमात् ।
तावत्स मन्त्री गगनात्तत्समीपेऽवतीर्णवान् ।। ५
अवरुह्य च तस्याशु पुंसः स्कन्धादुपेत्य सः ।
मृगाङ्कदत्तं जग्राह पादयोः साश्रुलोचनः ।। ६
तेनाश्लिष्टश्च हृष्टेन तथा तन्मन्त्रिभिः क्रमात् ।
विससर्ज पुमांसं तं स्मृतोऽभ्येष्यसि मामिति ।। ७
ततो मृगाङ्कदत्तेन कौतुकादुपविश्य सः ।
पृष्टः स्वोदन्तमाचख्यौ वने विक्रमकेसरी ।। ८
तदा भवद्भ्यो विभ्रष्टो नागशापात्परिभ्रमन् ।
बहून्यहानि चिन्वानो युष्मानहमचिन्तयम् ।। ९
गच्छाम्युज्जयिनीं तत्र गन्तव्यं तैर्ध्रुवं यतः ।
एवं निश्चित्य च प्रायामहं तां नगरीं प्रति ।। १०
क्रमात्तन्निकटं प्राप्य ग्रामं ब्रह्मस्थलाभिधम् ।
वापीतटेऽहमेकस्मिन्वृक्षमूल उपाविशम् ।। ११
तत्रैत्य सर्पदंशार्तो वृद्धो मां ब्राह्मणोऽब्रवीत् ।
इत उत्तिष्ठ मा पुत्र मदीयां गतिमाप्स्यसि ।। १२
इहास्ति हि महासर्पो येन दष्टो रुजार्दितः ।
उद्यतोऽस्यां महावाप्यामेषोऽहं देहमुज्झितुम् ।। १३
इत्युक्तवन्तं कृपया देहत्यागान्निवार्य तम् ।
तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ।। १४
ततः स विप्रः साकूतमुदन्तं कृत्स्नमादरात् ।
पृष्ट्वा मां प्रीतिमानेवं विदितार्थोऽभ्यभाषत ।। १५
प्राणास्त्वया मम प्रत्ता तत्प्रवीर गृहाण मे ।
वेतालसाधनं मन्त्रमिमं प्राप्तं मया पितुः ।। १६
त्वादृशामुपयुक्तोऽयं सिद्धिकृत्सत्त्वशालिनाम् ।
मादृशाः पुनरेतेन क्लीबाः किं नाम कुर्वते ।। १७
इत्युक्तस्तेन तमहं प्रत्यवोचं द्विजोत्तमम् ।
मृगाङ्कदत्तवियुतो वेतालैः किं करोम्यहम् ।। १८
तच्छ्रुत्वा स विहस्यैवं विप्रो मां पुनरब्रवीत् ।
किं न जानास्यभीष्टं यद्वेतालात्सर्वमाप्यते ।। १९
अपि विद्याधरैश्वर्यं वेतालस्य प्रसादतः ।
किं त्रिविक्रमसेनेन न प्राप्तं भूभुजा पुरा ।। २०
तथा च कथयाम्येतां तदीया ते कथां शृणु ।
प्रतिष्ठानाभिधानोऽस्ति देशो गोदावरीतटे ।। २१
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ।
प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः ।। २२
तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः ।
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ।। २३
सोऽपि राजा तदादाय फलमासन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ।। २४
इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा ।
दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतो गते ।। २५
स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ।। २६
स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः ।
विभिन्नमध्यान्निरगादनर्घं रत्नमुत्तमम् ।। २७
तदृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ।। २८
हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ।। २९
क्षिप्तानि तान्यनुद्घाट्य मया गञ्जे गवाक्षतः ।
यद्यादिशसि तद्देव तमुद्घाट्य गवेषये ।। ३०
इत्यूचिवाननुमतो राज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः ।। ३१
शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् ।
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ।। ३२
तच्छ्रुत्वा तान्मणीन्दत्त्वा तुष्टोऽस्मै कोषरक्षिणे ।
राजान्येद्युरपृच्छत्स भिक्षुं तं प्राग्वदागतम् ।। ३३
भिक्षो धनव्ययेनैवं सेवसे मां किमन्वहम् ।
नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि ।। ३४
इत्युक्तवन्तं राजानं भिक्षुस्तं विजनेऽब्रवीत् ।
वीरसाचिव्यसापेक्षं मन्त्रसाधनमस्ति मे ।। ३५
तत्र वीरेन्द्र साहाय्यं क्रियमाणं त्वयार्थये ।
तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ।। ३६
ततः स श्रमणस्तुष्टो नृपं पुनरुवाच तम् ।
तर्हि कृष्णचतुर्दश्यामागामिन्यां निशागमे ।। ३७
इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे ।
आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकम् ।। ३८
बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा ।
स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ।। ३९
अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् ।। ४०
प्रदोषे नीलवसनस्तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिरलक्षितः ।। ४१
ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलोग्रनयनव्यालादारुणदर्शनम् ।। ४२
असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ।। ४३
भैरवस्यापरं रूपमिव गम्भीरभीषणम् ।
स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः ।। ४४
विचित्य चात्र तं प्राप्य भिक्षुं वटतरोरधः ।
कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ।। ४५
एषोऽहमागतो भिक्षो ब्रूहि किं करवाणि ते ।
तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम् ।। ४६
राजन्कृतः प्रसादश्चेत्तदितो दक्षिणामुखम् ।
गत्वा विदूरमेकाकी विद्यते शिंशपातरुः ।। ४७
तस्मिन्नुल्लम्बितमृतः कोऽप्येकः पुरुषः स्थितः ।
तमिहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ।। ४८
तच्छ्रुत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः ।
दक्षिणां दिशमालम्ब्य प्रवीरः प्रययौ ततः ।। ४९
आत्तदीप्तचितालातलक्षितेन पथात्र सः ।
गत्वा तमसि तं प्राप कथंचिच्छिंशपातरुम् ।। ५०
तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।
सोऽपश्यल्लम्बमानं तं भूतस्येव शवं तरोः ।। ५१
आरुह्य चात्र भूमौ तं च्छिन्नरज्जुमपातयत् ।
पतितश्चात्र सोऽकस्माच्चक्रन्द व्यथितो यथा ।। ५२
ततोऽवरुह्य कृपया जीवाशङ्की स तस्य यत् ।
राजाङ्गं प्रामृशत्तेन सोऽट्टहासं व्यधाच्छवः ।। ५३
ततः स राजा मत्त्वा तं वेतालाधिष्ठितं तदा ।
किं हसस्येहि गच्छाव इति यावदकम्पितः ।। ५४
वक्ति तावन्न भूमौ सवेतालं शवमैक्षत ।
ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ।। ५५
ततोऽधिरुह्य भूयोऽपि तमवातारयत्ततः ।
वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् ।। ५६
आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् ।
स त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे ।। ५७
यान्तं च तं शवान्तःस्थो वेतालोंऽसस्थितोऽब्रवीत् ।
राजन्नध्वविनोदाय कथामाख्यामि ते शृणु ।। ५८
( प्रथमो वेतालः ।)
अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थलीव कैलासगिरेर्या पुण्यजनसेविता ।। ५९
भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी ।
हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी ।। 12.8.६०
प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ।। ६१
तस्याभूद्वज्रमुकुटस्तनयो रूपशौर्ययोः ।
कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ।। ६२
राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।
आसीद्बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ।। ६३
तेन सख्या सह क्रीडन्स कदाचिन्नृपात्मजः ।
जगाम दूरमध्वानं मृगयातिप्रसङ्गतः ।। ६४
शौर्यश्रीचामराणीव सिंहानां मस्तकानि सः ।
छिन्दञ्शरैः सटालानि विवेशैकं महावनम् ।। ६९
तत्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि ।
दत्तोपकारे तरुभिर्मञ्जरीचलचामरैः ।। ६६
सोऽन्वितो मन्त्रिपुत्रेण तेनापश्यत्सरोवरम् ।
विचित्रकमलोत्पत्तिधामाम्बुधिमिवापरम् ।। ६७
तस्मिंस्तदैव सरसि स्नानार्थं काचिदागता ।
तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ।। ६८
पूरयन्तीव लावण्यनिर्झरेण सरोवरम् ।
दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ।। ६९
प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना ।
सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ।। 12.8.७०
सोऽप्यहार्षीत्तथा तस्या युवा दृष्ट्वा विलोचने ।
यथा नैक्षत सा कन्या लज्जां स्वामप्यलंकृतिम् ।। ७१
यूनि पश्यति तस्मिन्सा केयं स्यादिति सानुगे ।
संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ।। ७२
करोति स्मोत्पलं कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरं च दन्तरचनां चकारादाय च व्यधात् ।। ७३
पद्यं शिरसि साकूतं हृदये चादधे करम् ।
राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा ।। ७४
मन्त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् ।
क्षणाच्च सा ययौ कन्या नीयमानानुगैस्ततः ।। ७५
प्राप्य च स्वगृहं तस्थौ पर्यङ्केऽङ्गं निधाय सा ।
चित्तं तु निजसंज्ञार्थमास्थात्तस्मिन्नृपात्मजे ।। ७६
सोऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।
गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ।। ७७
सख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः ।
शंसता तामदुष्प्रापां त्यक्तधैर्यो जगाद सः ।। ७८
यस्या न नाम न ग्रामो नान्वयो वावबुध्यते ।
सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ।। ७९
इत्युक्तो राजपुत्रेण मन्त्रिपुत्रस्तमभ्यधात् ।
किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया ।।12.8.८०
न्यस्तं यदुत्पलं कर्णे तेनैतत्ते तयोदितम् ।
कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः ।। ८१
कृता यद्दन्तरचना तेनैतत्कथितं तया ।
तत्र जानीहि मां दन्तघाटकस्य सुतामिति ।। ८२
पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।
त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ।। ८३
कलिङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णोत्पलो नृपः ।
तस्य प्रसादवित्तोऽस्ति महान्यो दन्तघाटकः ।। ८४
सङ्गामवर्धनाख्यस्य तस्याप्यस्ति जगत्त्रये ।
रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ।। ८५
एतच्च लोकतो देव यथावद्विदितं मम ।
अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ।। ८६
इत्युक्तो मन्त्रिपुत्रेण तेन राजसुतोऽथ सः ।
तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ।। ८७
संमत्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् ।
प्रियार्थी मृगयाव्याजात्पुनस्तामगमद्दिशम् ।। ८८
अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ।। ८९
तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ।। 12.8.९०
तददूरे च वासार्थमेकस्या वृद्धयोषितः ।
गृहं प्राविशतां मन्त्रिपुत्रराजसुतावुभौ ।। ९१
दत्ताम्बुयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः ।
राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ।। ९२
कच्चिद्वेत्स्यम्ब सङ्ग्रामवर्धनं दन्तघाटकम् ।
तच्छ्रुत्वा सा जरद्योषित्सश्रद्धा तमभाषत ।। ९३
वेद्म्येव धात्री तस्यास्मि स्थापिता तेन चाधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्यहम् ।। ९४
किं त्वहं न सदा तत्र गच्छाम्युपहताम्बरा ।
कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ।। ९५
एवमुक्तवतीं प्रीतः स्वोत्तरीयादिदानतः ।
संतोष्य सोऽत्र वृद्धां तां मन्त्रिपुत्रोऽब्रवीत्पुनः ।। ९६
माता त्वं तद्वदामस्ते गुप्तं यत्तत्कुरुष्व नः ।
दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ।। ९७
सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया ।
तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् ।। ९८
तच्छ्रुत्वा सा तथेत्युक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ।। ९९
पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ।। 12.8.१००
तया श्रुत्वा च निर्भर्त्स्य पाणिभ्यामहमाहता ।
द्वाभ्यां कर्पूरलिप्ताभ्यामुभयोर्गण्डयोर्मुखे ।। १०१
ततः परिभवोद्विग्ना रुदत्यहमिहागता ।
एतास्तदङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ।। १०२
एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् ।
जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ।। १०३
मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत्तया ।
कर्पूरशुभ्रा वक्त्रेऽस्याः स्वाङ्गुल्यो दश पातिताः ।। १०४
तदेतदुक्तं पक्षेऽस्मिञ्शुक्ले चन्द्रवतीरिमाः ।
रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति ।। १०५
इत्याश्वास्य स तं राजसुतं मन्त्रिसुतस्ततः ।
विक्रीय गुप्तं हस्तस्थं काञ्चनं किंचिदापणे ।। १०६
वृद्धया साधयामास महार्हं भोजनं तया ।
ततस्तौ बुभुजाते द्वौ तत्तया सह वृद्धया ।। १०७
एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् ।
पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ।। १०८
सापि मृष्टान्नपानादिलुब्धा तदनुरोधतः ।
गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ ।। १०९
इतो गत्वाद्य तूष्णीमप्यहं तत्र स्थिता तया ।
युष्मत्कथापराधं तमुद्गिरन्त्या स्वयं पुनः ।। 12.8.११०
सालक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता ।
उरस्यस्मिन्नथैषाहमिहायाता तदन्तिकात् ।। १११
तच्छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतोऽब्रवीत् ।
मा कार्षीरन्यथा शङ्कामस्या हि हृदये तया ।। ११२
सालक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।
रजस्वला निशास्तिस्रः स्थिताहमिति सूचितम् ।। ११३
एवमुक्त्वा नृपसुतं मन्त्रिपुत्रस्त्र्यहे गते ।
पद्मावत्यै पुनस्तस्मै वृद्धां तां प्रजिघाय सः ।। ११४
सा गता मन्दिरं तस्यास्तया संमान्य भोजिता ।
प्रीत्या पानादिलीलाभिर्दिनं चात्र विनोदिता ।। ११५
सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति ।
उदभूद्भयकृत्तावत्तत्र कोलाहलो बहिः ।। ११६
हा हा भ्रष्टोऽयमालानाज्जनान्मथ्नन्प्रधावति ।
मत्तहस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ।। ११७
ततः पद्मावती सा तां वृद्धामेवमभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ।। ११८
तत्पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् ।
बृहद्गवाक्षेणानेन त्वामत्र प्रक्षिपामहे ।। ११९
गृहोद्याने ततो वृक्षमारुह्यामुं विलङ्घ्य च ।
प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ।। 12.8.१२०
इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धां चेटीभिरुद्याने रज्जुपीठिकया ततः ।। १२१
साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् ।
यथावद्राजपुत्राय तस्मै मन्त्रिसुताय च ।। १२२
ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत ।
सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया ।। १२३
तद्गच्छाद्यैव तत्र त्वं प्रदोषेऽस्मिन्नृपागते ।
एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ।। १२४
इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तत् ।
उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ।। १२५
तत्रापश्यच्च रज्जुं तां लम्बमानां सपीठिकाम् ।
मार्गोन्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठिताम् ।। १२६
आरूढस्तां च दृष्ट्वैव दासीभिस्ताभिराशु सः ।
रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ।। १२७
तस्मिन्प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् ।
राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ।। १२८
पूर्णामृतांशुवदनां प्रसरत्कान्तिचन्द्रिकाम् ।
कृष्णपक्षभयाद्गुप्तस्थितां राकानिशामिव ।। १२९
सापि दृष्ट्वा तमुत्थाय चिरौत्सुक्योचितैस्ततः ।
कण्ठग्रहादिभिस्तैस्तैरुपचारैरमानयत् ।। 12.8.१३०
ततस्तया स गान्धर्वविधिनोद्गूढया सह ।
गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया ।। १३१
स्थित्वा चाहानि कतिचिद्रात्रौ तामवदत्प्रियाम् ।
सखा मम सहायातो मन्त्रिपुत्र इह स्थितः ।। १३२
स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे ।
गत्वा संभाव्य तं तन्वि पुनरेष्यामि तेऽन्तिकम् ।। १३३
तच्छ्रुत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् ।
हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास्त्वया ।। १३४
ज्ञाता किं किमु वा तेन सख्या मन्त्रिसुतेन ते ।
एवमुक्तवतीमेतां राजपुत्रो जगाद सः ।। १३५
न ज्ञातं तन्मया किंचिज्ज्ञात्वा सर्वं च तेन मे ।
आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ।। १३६
एतच्छ्रुत्वा विचिन्त्यैव भामिनी सा जगाद तम् ।
तर्ह्ययुक्तं कृतं यन्मे चिरात्स कथितस्त्वया ।। १३७
स मे भ्राता सखा यस्ते तस्य च प्रथम मया ।
ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ।। १३८
इत्युक्तवत्यानुमतस्तया पूर्वपथेन सः ।
राजपुत्रोऽन्तिकं तस्य सख्युरागात्ततो निशि ।। १३९
शशंस च कथामध्ये तत्तस्मै यत्तदाश्रयम् ।
संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ।। 12.8.१४०
मन्त्रिपुत्रस्तु सोऽयुक्तमिति न श्रद्दधेऽस्य तत् ।
तावच्च सा तयोस्तत्र विभाताभूद्विभावरी ।। १४१
अथैतयोर्विधौ सांध्ये निवृत्ते कुर्वतो: कथाः ।
आगात्पक्वान्नताम्बूलहस्ता पद्मावतीसखी ।। १४२
सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका ।
निषेद्धुं राजपुत्रस्य भोजनं तत्र युक्तितः ।। १४३
कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् ।
प्रतीक्षमाणामावेद्य क्षणाद्गुप्तं ततो ययौ ।। १४४
ततस्तं मन्त्रिपुत्रः स राजपुत्रमभाषत ।
कौतुकं पश्य देवैकं दर्शयाम्यधुना तव ।। ३४५५
इत्युक्त्वा भक्ष्यमेकं स पक्वान्नं दत्तवांस्ततः ।
सारमेयाय स च तत्खादित्वैव व्यपद्यत ।। १४६
तद्दृष्ट्वा किमिदं चित्रमिति राजसुतोऽत्र सः ।
पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत ।। १४७
संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।
तया विषान्नं प्रहितं मम त्वदनुरक्तया ।। १४८
नास्मिन्सति मदेकाग्रो राजपुत्रो भवेदयम् ।
एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति ।। १४९
तन्मुञ्च मन्युमेतस्यां बन्धुत्यागान्महात्मनः ।
कुर्यास्त्वं हरणे युक्तिं वक्ष्याम्यालोच्य यामहम् ।। 12.8.१५०
इत्युक्तवन्तं तं मन्त्रिसुतं राजसुतोऽत्र सः ।
सत्यं बुद्धिशरीरस्त्वमिति यावत्प्रशंसति ।। १५१
अशङ्कितं बहिस्तावद्दुःखाकुलजनारवः ।
हा धिग्राज्ञः सुतो बालो विपन्न इति शुश्रुवे ।। १५२
तदाकर्णनहृष्टोऽथ मन्त्रिपुत्रो नृपात्मजम् ।
जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ।। १५३
तत्र तां पाययेस्तावद्यावत्पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ।। १५४
ततस्तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।
दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ।। १५५
आगच्छेस्त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परं यथा भद्रं भवेज्ज्ञास्याम्यहं तथा ।। १५६
इत्युक्त्वा कारयित्वा च क्रोडबालनिभाश्रिकम् ।
मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ।। १५७
राजपुत्रः स हस्ते तत्कृत्वा कुटिलकर्कशम् ।
कालायसदृढं चित्तमिव कान्तावयस्ययोः ।। १५८
तथेति पूर्ववद्रात्रावगात्पद्मावतीगृहम् ।
अविचार्यं प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः ।। १५९
तत्र तां मद्यनिश्चेष्टा शूलेन जघनेऽङ्किताम् ।
हृतालंकरणां कृत्वा तस्यागात्सख्युरन्तिकम् ।। 12.8.१६०
दर्शिताभरणस्तस्मै शशंस च यथाकृतम् ।
ततः स मन्त्रिपुत्रोऽपि सिद्धं मेने मनीषितम् ।। १६१
प्रातर्गत्वा श्मशानं च सोऽभूत्तापसवेषभृत् ।
स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ।। १६२
अब्रवीत्तं च गच्छैकमितोऽलंकरणादिमाम् ।
मुक्तावलीं समादाय त्वं विकेतुमिवापणे ।। १६३
बहुमूल्यं वदेश्चास्या येनैतां नैव कश्चन ।
गृहीयाद्भ्राभ्यमाणां च सर्वः कोऽपि विलोकयेत् ।। १६४
गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः ।
ब्रूयाश्च यदि गृह्णीयुरत्र त्वां पुररक्षिणः ।। १६५
इति स प्रेषितस्तेन गत्वा राजसुतस्तदा ।
अतिष्ठदापणे भ्राम्यन्व्यक्तं मुक्तावलीं दधत् ।। १६६
तथाभूतश्च जगृहे स दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेश्चौरगवेषिभिः ।। १६७
निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् ।
स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ।। १६८
कुतो मुक्तावलीयं ते भगवन्निह हारिता ।
दन्तघाटककन्याया हृतं ह्याभरणं निशि ।। १६९
तच्छ्रुत्वा राजपुत्रस्तं सोऽवादीत्तापसाकृतिः ।
गुरुणा मम दत्तेयमेत्यासौ पृच्छयतामिति ।। 12.8.१७०
ततश्चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।
मुक्तावलीयं भगवन्कुतस्ते शिष्यहस्तगा ।। १७१
श्रुत्वैतद्विजनं कृत्वा स धूर्तस्तमभाषत ।
अहं तपस्वी भ्राम्यामि सदारण्येष्वितस्ततः ।। १७२
सोऽहं दैवादिह प्राप्तः श्मशानेऽत्र स्थितो निशि ।
अपश्यं योगिनीचक्रं समागतमितस्ततः ।। १७३
तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।
उद्घाटितहृदम्भोजो भैरवाय निवेदितः ।। १७४
पानमत्ता च सा हर्तुं जपतो मेऽक्षमालिकाम् ।
प्रावर्तत महामाया विकारान्कुर्वती मुखे ।। १७५
अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ।। १७६
हृता मुक्तावली चेयं तस्याः कण्ठान्मया तदा ।
सैषाद्य तापसानर्हा विक्रेया मम वर्तते ।। १७७
एतच्छ्रुत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।
भूपोऽप्याकर्ण्य तत्तां च बुद्ध्वा तन्मौक्तिकावलीम् ।। १७८
प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यमेव ताम् ।। १७९
ग्रस्तः सुतो मे डाकिन्या तयेत्युत्पन्ननिश्चयः ।
स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ।। 12.8.१८०
पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा ।
पितृभ्यां शोच्यमानायाः पुरान्निर्वासनं व्यधात् ।। १८१
निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् ।
उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ।। १८२
दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ।। १८३
आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश्च ताम् ।
तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ।। १८४
दन्तघाटस्त्वरण्ये तां क्रव्यादैर्भक्षितां सुताम् ।
मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ।। १८५
इत्याख्याय स भूयस्तं वेतालो नृपमब्रवीत् ।
तन्मेऽत्र संशयं छिन्द्धि दंपत्योरेतयोर्वधात् ।। १८६
मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।
पद्मावत्याः किमथवा त्वं हि बुद्धिमतां वरः ।। १८७
जानानश्च न चेद्राजन्मम तत्त्वं वदिष्यसि ।
तदेष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ।। १८८
इत्युक्तवन्तं वेतालं विजानञ्शापभीतितः ।
स त्रिविक्रमसेनस्तमेवं प्रत्यब्रवीन्नृपः ।। १८९
योगेश्वर किमज्ञेयमेतन्नैषां हि पातकम् ।
त्रयाणामपि राज्ञस्तु पापं कर्णोत्पलस्य तत् ।। 12.8.१९०
वेतालोऽप्याह राज्ञः किं ते हि तत्कारिणस्त्रयः ।
काकाः किमपराध्यन्ति हंसैर्जग्धेषु शालिषु ।। १९१
राजा ततोऽब्रवीच्चैनं न दुष्यन्ति त्रयोऽपि ते ।
मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यमपातकम् ।। १९२
पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
संतप्तावविचारार्हावदोषौ स्वार्थमुद्यतौ ।। १९३
कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः ।
चारैः प्रजास्वनन्विष्यंस्तत्त्वशुद्धिं निजास्वपि ।। १९४
अजानन्धूर्तचरितानीङ्गिताद्यविचक्षणः ।
तथा तन्निर्विचारं यच्चक्रे तेन स पापभाक् ।। ११५
इत्याकर्ण्य विमुक्तमौनमुदिते सम्यङ् नृपेणोत्तरे
स्कन्धात्तस्य स दार्ढ्यमाकलयितुं मायाबलात्तत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः क्वाप्यप्रतर्क्यो ययौ
निष्कम्पः स च भूपतिः पुनरमुं प्राप्तुं व्यधान्निश्चयम् ।। १९६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बकेऽष्टमस्तरङ्गः ।