कथासरित्सागरः/लम्बकः १२/तरङ्गः ३३
नमो विघ्नजिते यस्य जानुदेशे विवर्तते ।
कुम्भस्रस्तेव नक्षत्रमाला रात्रिषु नृत्यतः ।। १
ततः कथावसाने स मार्गमध्यात्समुत्थितः ।
मृगाङ्कदत्तो मुदितः प्राप्तविक्रमकेसरी ।। २
गुणाकरेण सहितस्तथा विमलबुद्धिना ।
सविचित्रकथो भीमपराक्रमसमन्वितः ।। ३
प्रचण्डशक्तियुक्तश्च श्रुतधिद्विजसंगतः ।
प्राप्तशेषान्विचिन्वानः शापविश्लेषितान्सखीन् ।। ४
शशाङ्कवत्याः संप्राप्त्यै प्रागेवोज्जयिनीं प्रति ।
गन्तुं प्रवृत्तः पुनरप्युच्चचालात्मनाष्टमः ।।
क्रमात्प्राप च स ग्रीष्मशुष्कतोयामपादपाम् ।
अटवीं चण्डमार्तण्डतापसंतप्तवालुकाम् ।। ६
तस्यां व्रजन्स सचिवान्राजपुत्रो जगाद तान् ।
पश्यतैषाटवी कीदृग्दुर्गमायतभैरवा ।। ७
एषा हि विभ्रष्टपथा जनत्यक्ता निराश्रया ।
उद्यद्दुःखानलज्वालेवाभिर्मरुमरीचिभिः ।। ८
विकीर्णरूक्षकेशेव तृणैरुच्छुष्कमर्मरैः ।
सिंहव्याघ्रादिवित्राससरोमाञ्चेव कण्टकैः ।। ९
रुदतीवातपक्लान्तजलाकाङ्क्षिमृगारवैः ।
तदेषा त्वरयास्माभिर्लङ्घनीया विशङ्कटा ।। १०
इत्यूचिवान्स तैः सार्धं सचिवैः क्षुत्तृषार्दितैः ।
द्रुतं मृगाङ्कदत्तस्तामटवीमुदलङ्घयत् ।। ११
ददर्श चाग्रे सुमहत्स्वच्छशीतजलैर्भृतम् ।
सरोऽर्कतापगलितस्यामृतांशोरिव द्रवैः ।। १२
दिगन्तव्यापिविस्तारं प्रतिबिम्बमिवात्मनः ।
द्रष्टुं त्रैलोक्यलक्ष्म्येव विहितं मणिदर्पणम् ।। १३
धार्तराष्ट्रकृतक्षोभं विचित्रार्जुनविभ्रमम् ।
विश्रान्तिकृत्स्वादुरसं भारतानुकृतिं दधत् ।। १४
उपकण्ठमिलन्नीलकण्ठपीतविषोत्तमम् ।
अच्युताश्रितलक्ष्मीकं मन्थकालाब्धिसंनिभम् ।। १५
सूर्यरश्मिभिरप्राप्तगम्भीरशिशिरान्तरम् ।
अनन्तपद्मनिलयं पातालमिव भूमिगम् ।। १६
तस्य तीरे च सरसः पश्चिमे स व्यलोकयत् ।
राजपुत्रः ससचिवो महान्तं दिव्यपादपम् ।। १७
वातान्दोलितविस्तारिशाखाभुजकदम्बकम् ।
मूर्धलग्नाभ्रसरितं नृत्यन्तमिव शंकरम् ।। १८
अत्युन्नतेन शिरसा व्योमपृष्ठावगाहिना ।
कौतुकान्नन्दनोद्यानशोभां द्रष्टुमिवोद्यतम् ।। १९
शोभमानं फलैर्दिव्यरसैः शाखावलम्बिभिः ।
कल्पद्रुमं सुरानद्धैः पीयूषकलशैरिव ।। २०
मा मां यथा तथा कश्चित्स्प्राक्षीदिति खगारवैः ।
व्याहरन्तमिव प्रेङ्खत्पल्लवाग्रकरं मुहुः ।। २१
यावन्मृगाङ्कदत्तस्तं स निर्वर्णयति प्रभुः ।
तावत्तन्मन्त्रिणस्तस्मिन्प्रधाव्य क्षुत्तृषार्दिताः ।। २२
फलानि भोक्तुमारूढास्तस्य दृष्ट्वैव तानि ते ।
फलत्वं षडपि प्राप्ता मानुषा अप्यशङ्कितम् ।। २३
ततो मृगाङ्कदत्तस्तानपश्यन्विह्वलः सखीन् ।
एकैकं स तरौ तत्र नामग्राहमशब्दयत् ।। २४
यदा ददुर्न वचनं न चादृश्यन्त ते क्वचित् ।
तदा हा हा हतोऽस्मीति नैराश्यविधुरं वदन् ।। २५
स राजपुत्रो न्यपतन्मूर्च्छितोऽत्र महीतले ।
द्रुमानारूढपार्श्वस्थकेवलश्रुतधिद्विजः ।। २६
श्रुतधिः स च विप्रस्तमुवाचाश्वास्य तत्क्षणम् ।
कृतप्रज्ञोऽपि किं देव त्यक्तधैर्योऽवसीदसि ।। २७
अश्नुते हि स कल्याणं व्यसने यो न मुह्यति ।
नागशापवियुक्तान्किं नैतान्संप्राप्तवानसि ।। २८
तथैव पुनरप्येतान्मन्त्रिणोऽन्यांश्च लप्स्यसे ।
शशाङ्कवत्या संयोगोऽप्यचिरात्ते भविष्यति ।। २९
एवं श्रुतधिनोक्तः सन्राजपुत्रो जगाद सः ।
कुत एतदिदं धात्रा नाशायासूत्रितं हि नः ।। ३०
क्वान्यथा निशि वेतालः क्व च भीमपराक्रमः ।
क्व शशाङ्कवतीज्ञानं तत्संवादप्रसङ्गतः ।। ३१
तां च प्राप्तुमयोध्यायाः क्व चास्माकं विनिर्गमः ।
विन्ध्याटव्यां क्व चान्योन्यवियोगो नागशापतः ।। ३२
ततः कतिपयानां नः क्रमशः क्व च संगमः ।
क्व चाधुना वियोगोऽयमिष्टत्यागः पुनः सखे ।। ३३
ते हि वृक्षेऽत्र भूतेन ग्रस्तास्तैश्च विना मम ।
का शशाङ्कवती किं च जीवितं तदलं भ्रमैः ।। ३४
इत्यूचिवाञ्शुचा सोऽत्र सरस्यात्मानमुज्झितुम् ।
मृगाङ्कदत्त उत्तस्थौ श्रुतधौ वारयत्यपि ।। ३५
तावद्वागत्र गगनादुच्चचाराशरीरिणी ।
मा पुत्र साहसं कार्षीः सर्वं स्वन्तं हि भावि ते ।। ३६
अस्मिन्गणपतिर्देवः स्वयं वसति पादपे ।
स च त्वत्सचिवैरेतैरद्याज्ञानाद्विमानितः ।। ३७
ते ह्यशुद्धा अनाचान्ता अक्षालितकराङ्घ्रयः ।
क्षुधार्तास्तन्निवासेऽस्मिन्नारूढाः फललिप्सवः ।। ३८
ततः स्पृष्टेषु तेष्वत्र फलतामेव ते गताः ।
यच्चित्तास्तद्गतिं गच्छन्त्विति विघ्नेशशापतः ।। ३९
अन्येऽपि ये त्वत्सचिवाश्चत्वारस्ते पथामुना ।
आगता एवमेवास्मिन्नारूढाः फलतां गताः ।। ४०
तस्मादाराधयैतं त्वं तपोभिर्गणनायकम् ।
एतत्प्रसादात्सर्वेष्टसिद्धिस्तव भविष्यति ।। ४१
इत्युक्तः स सुधासारसृजेवाकाशतो गिरा ।
मृगाङ्कदत्तो जातास्थो देहत्यागान्न्यवर्तत ।। ४२
कृत्वा च सरसि स्नानं तरौ तस्मिन्गणाधिपम् ।
अर्चयित्वोज्झिताहारस्तमस्तौषीत्कृताञ्जलिः ।। ४३
जय निजताण्डवडम्बरमर्दभरन्यञ्चितेन भुवनेन ।
समहीशैलवनेन प्रणम्यमानेश गजवदन ।। ४४
जय ससुरासुरमानुषभुवनत्रयपूजिताङ्घ्रिकमलयुग ।
वरविविधसिद्धिनिर्भरनिधान कुम्भोपमाकार ।। ४५
जय युगपदुदितचण्डद्वादशदिनकृत्प्रदीप्ततेजस्क ।
हरहरिसुरपतिदुर्जयदितिजकुलाकालकल्पान्त ।। ४६
जय भक्तवृजिनवारण लीलानीराजनोल्मुकेनेव ।
परशुवरेण विराजितकरतलकलितानलज्वाल ।। ४७
अभिमतसिद्ध्यै भर्तुस्त्रिपुरावजये गणेश गौर्यापि ।
यः पूजितोऽसि तं त्वां श्रितोऽस्मि शरणं नमस्तेऽस्तु ।। ४८
इति संस्तुतविघ्नेशो निराहारः कुशास्तरे ।
मृगाङ्कदत्तोऽनैषीत्तां रात्रिं तस्य तरोस्तले ।। ४९
तथैवैकादशाहानि श्रुतधौ परिचारके ।
विघ्नेशाराधनपरो राजपुत्रो निनाय सः ।। ५०
द्वादशेऽह्नि निशि स्वप्ने तं जगाद गणेश्वरः ।
वत्स तुष्टोऽस्मि ते मुक्तशापान्प्राप्स्यसि मन्त्रिणः ।। ५१
गत्वा च तैः समं प्राप्य तां शशाङ्कवतीं क्रमात् ।
प्रत्यावृत्य स्वनगरीं पृथ्वीराज्यं करिष्यसि ।। ५२
एवं गणेश्वरादिष्टः प्रबुद्धः स निशाक्षये ।
मृगाङ्कदत्तः स्वप्नं तं दृष्टं श्रुतधयेऽभ्यधात् ।। ५३
तेनाभिनन्दितः प्रातः स्नात्वाभ्यर्च्य विनायकम् ।
तद्वासवृक्षं तं यावत्कुरुते स प्रदक्षिणम् ।। ५४
तावत्समं तरोस्तस्मादवतीर्य दशापि ते ।
फलत्वमुक्ताः सचिवा निपेतुस्तस्य पादयोः ।। ५५
व्याघ्रसेनस्तथा स्थूलबाहुर्मेघबलोऽपि च ।
दृढमुष्टिश्चतुर्थश्च षट् चादौ येऽत्र वर्णिताः ।। ५६
ततः स सकलान्समं सपदि मन्त्रिणः प्राप्य तान् दृशाकुलितया गिरा प्रमदमन्थरारम्भया ।
नरेश्वरसुतोऽधिकप्रणयमेकमेकं मुहुर्ददर्श परिषस्वजे तदनु संबभाषे कृती ।। ५७
तेऽपि नवेन्दुक्षामं कृततपसं वीक्ष्य तं प्रभुं सास्राः ।
श्रुतधिनिगदितयथार्थाः प्रशशंसुर्नाथवन्तमात्मानम् ।। ५८
अथ तत्र स तैर्मृगाङ्कदत्तः सरसि कृताप्लवनादिभिः सहैव ।
सचिवैः सुखपारणं सहर्षो विदधे लब्धधृतिः स्वकार्यसिद्ध्यै ।। ५९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके त्रयस्त्रिंशस्तरङ्गः ।