कथासरित्सागरः/लम्बकः १२/तरङ्गः ३५
पञ्चत्रिंशस्तरङ्गः ।
ततः प्राप्तः समुत्थाय तस्माद्वरसरस्तटात् ।
मृगाङ्कदत्तः सचिवैरशेषैर्मिलितैः सह ।। १
युक्तः श्रुतधिना तेन प्रायादुज्जयिनीं प्रति ।
स शशाङ्कवतीं प्रेप्सुर्नत्वा तं विघ्नजिद्द्रुमम् ।। २
ततस्तास्ता वनभुवो भूयोऽनेकशतह्रदाः ।
तमालश्यामलाभोगा घनागमनिशा इव ।। ३
अन्याश्च विचरद्भीममत्तेभाभग्नकीचकाः ।
विपरीतार्जुनाकारा विराटनगरीनिभाः ।। ४
गिरीन्द्रकंदराश्चैव शुद्धाः पुष्पवतीरपि ।
क्रूरसत्त्वाश्रिताः शान्तैर्मुनिभिः संश्रिता अपि ।। ५
अतिक्रम्य क्रमाद्वीरः स सर्वसचिवान्वितः ।
प्रापदुज्जयिनीपुर्याः संनिकर्षं नृपात्मजः ।। ६
ततो गन्धवतीं प्राप्य नदीं स्नानहृतक्लमः ।
तीर्त्वा च तां महाकालश्मशानं प्राप सानुगः ।। ७
ददर्श तच्च नानास्थिकपालशकलाकुलम् ।
धृतमानुषकङ्कालकरालं वीरसेवितम् ।। ८
बहुभूतगणाकीर्णमाक्रीडड्डाकिनीप्रियम् ।
महाभैरवमासन्नचिताधूममलीमसम् ।। ९
तदतिक्रम्य चापश्यत्स तां युगपुरातनीम् ।
पुरीमुज्जयिनीं गुप्तां कर्मसेनेन भूभुजा ।। 12.35.१०
अधिष्ठितप्रतोलीकां रक्षिभिर्विविधायुधैः ।
प्रवीरकुलजानेकराजपुत्राभिरक्षितैः ।। ११
गिरीन्द्रशिखराकारैः प्राकारैः परिवेष्टिताम् ।
दुष्प्रवेशामविज्ञातैर्हस्त्यश्वरथसंकुलाम् ।। १२
विलोक्य तादृशीं तां च सर्वतोऽप्यतिदुर्गमाम् ।
मृगाङ्कदत्तो विमनाः सचिवान्स्वानुवाच सः ।। १३
कष्टं क्लेशशतैरेवमभव्यस्यागतस्य मे ।
प्रवेश एव नास्तीह प्रियाप्राप्तौ तु का गतिः ।। १४
तच्छ्रुत्वा तेऽप्यवोचस्तं किमेषा प्रतिभाति ते ।
अस्माकमियतां देव बलसाध्या महापुरी ।। १५
उपायोऽत्र विचेतव्यः स चावश्यं भविष्यति ।
दैवतैर्बहुशो ह्येतदादिष्टं विस्मृतं कथम् ।। १६
इत्युक्तः सचिवैस्तस्या नगर्या बहिरेव सः ।
मृगाङ्कदत्तो दिवसान्कांश्चित्तस्थौ परिभ्रमन् ।। १७
प्राक्सिद्धमथ वेतालं दध्यौ विक्रमकेसरी ।
तन्मन्त्री वासभवनात्तत्प्रियाकर्षणेच्छया ।। १८
सोऽपि कृष्णच्छविः प्रांशुरुष्ट्रग्रीवो गजाननः ।
महिषाङ्घ्रिरुलूकाक्षो वेतालः खरकर्णकः ।। १९
एत्य तत्र प्रवेष्टुं यन्न शशाक जगाम तत् ।
शंभोर्वरात्तां नगरीं नाक्रामन्ति तथाविधाः ।। 12.35.२०
अथामात्यैर्वृतं खिन्नं प्रवेशोन्मुखचेतसम् ।
मृगाङ्कदत्तं श्रुतधिर्नीतिज्ञः सोऽब्रवीद्द्विजः ।। २१
किं देव नीतितत्त्वज्ञोऽप्यजानन्निव मुह्यसि ।
स्वपरान्तरमप्रेक्ष्य मतः कस्येह विक्रमः ।। २२
एकैकस्मिन्नगर्यां हि द्वारेष्वस्यां चतुर्ष्वपि ।
कुञ्जराणां सहस्रे द्वे वाजिनां पञ्चविंशतिः ।। २३
रथानां दशलक्षं च पदातीनां दिवानिशम् ।
संनद्धमास्ते रक्षार्थं वीराधिष्ठानदुर्जयम् ।। २४
तन्नः कतिपयानां यत्सहसात्र प्रवेशनम् ।
परं पतङ्गवृत्तिः सा नार्थसिद्धिस्तु काचन ।। २५
सैन्येनापि च नाल्पेन युक्ता क्षेप्तुमियं पुरी ।
हस्तिपादातयुद्धं तद्विरोधोऽधिबलेन यत् ।। २६
तन्मायाबटुना तेन पुलिन्दपृथिवीभृता ।
सुहृदा नर्मदाग्राहभयात्त्रातेन दारुणात् ।। २७
तन्मित्रेण च मातङ्गराजेनातिबलीयसा ।
तेन दुर्गपिशाचेन तत्संबन्धानुरागिणा ।। २८
किरातराजेन यथा बालसब्रह्मचारिणा ।
शक्तिरक्षितसंज्ञेन तेन विक्रमशालिना ।। २९
समेत्य सबलैः सर्वैः सैन्यपूरितदिङ्मुखः ।
सम्यक्सहायसंपन्नः साधयैतत्समीहितम् ।। 12.35.३०
किरातराजश्च स ते दूतागमनसंविदम् ।
प्रतीक्षमाणः स्थित इत्येतत्ते विस्मृतं कथम् ।। ३१
मायाबटुश्च मातङ्गराजादेशागतो भुवम् ।
सज्जस्तेन सदैवास्ते संवित्तस्य कृता ह्यसौ ।। ३२
तत्तस्य मातङ्गपतेर्विन्ध्यदक्षिणपार्श्वगम् ।
निवासकोट्ट गच्छामः करभग्रीवनामकम् ।। ३३
तत्रैवाहूयते राजा कैरातः शक्तिरक्षितः ।
ततः संभूय सर्वैस्तैरुद्योगः सिद्धये शुभः ।। ३४
श्रुत्वैतच्छ्रुतधेर्वाक्यमर्थवत्प्राज्ञसंमतम् ।
मृगाङ्कदत्तः सामात्यस्तथेति श्रद्दधेतराम् ।। ३५
अन्येद्युश्च नमस्कृत्य गुणिबन्धुं धृतोदयम् ।
प्रदर्शिताशं विश्वस्य नभोनित्याध्वगं रविम् ।। ३६
उच्चचाल ततो विन्ध्यपार्श्वं तं दक्षिणं प्रति ।
तस्य दुर्गपिशाचस्य मातङ्गेन्द्रस्य केतनम् ।। ३७
तन्मन्त्रिणश्च स व्याघ्रसेनो भीमपराक्रमः ।
गुणाकरो मेघबलः समं विमलबुद्धिना ।। ३८
स विचित्रकथः स्थूलबाहुर्विक्रमकेसरी ।
प्रचण्डशक्तिः श्रुतधिर्दृढमुष्टिस्तमन्वगुः ।। ३९
तैः समं सोऽतिविस्तीर्णा निजचेष्टा इवाटवीः ।
गहनांश्च वनोद्देशान्स्वाभिप्रायानिव क्रमात् ।। 12.35.४०
अतिक्रामन्सरस्तीरतरुमूलनिशाश्रयः ।
प्राप्यारुरोह विन्ध्याद्रिमात्मचित्तमिवोन्नतम् ।। ४१
तस्याग्राद्दक्षिणं पार्श्वमवरुह्म च दूरतः ।
दन्तिदत्ताजिनचिता भिल्लपल्लीर्विलोकयन् ।। ४२
कुत्र स्यादास्पदं तस्य मातङ्गाधिपतेरिह ।
कुतो ज्ञास्याम इत्यन्तर्दध्यौ राजसुतोऽत्र सः ।। ४३
तावच्च संमुखायातमेकं मुनिकुमारकम् ।
स ददर्श सहामात्यैः पप्रच्छ च कृतानतिः ।। ४४
अपि जानासि कुत्रेह गृह मातङ्गभूपतेः ।
सौम्य दुर्गपिशाचस्य द्रष्टव्यो वर्तते हि नः ।। ४५
तच्छ्रुत्वा स जगादैवं साधुस्तापसपुत्रकः ।
इतः पञ्चवटीत्यस्ति प्रदेशः क्रोशमात्रके ।। ४६
नातिदूरे च तस्याभूदगस्त्यस्याश्रमो मुनेः ।
नाकतः पातितोत्सिक्तनहुषेन्द्रस्य हेलया ।। ४७
यत्र पित्राज्ञयोपात्तवनवासः सलक्ष्मणः ।
सीतयानुगतो रामो मुनिमन्वास्त तं चिरम् ।। ४८
रक्षोविनाशपिशुनौ चन्द्रार्काविव यत्र सः ।
आस्कन्दितुं प्रवृत्तोऽभूत्कबन्धो रामलक्ष्मणौ ।। ४९
यत्र योजनबाहोश्च रामो भुजमपातयत् ।
अगस्त्यप्रार्थनायातनहुषाजगरोपमम् ।। 12.35.५०
यत्र मेघागमेऽद्यापि श्रुत्वा जलधरध्वनिम् ।
स्मरन्तो रामकोदण्डरवस्याम्बररोधिनः ।। ५१
वीक्ष्य विष्वग्दिशः शून्या गृह्णन्त्युद्बाष्पलोचनाः ।
जानकीवर्धिताः शष्पकवलं न जरन्मृगाः ।। ५२
हतशेषानिव त्रातुं हरिणान्यत्र राघवम् ।
जहार हेमहरिणो वैदेहीविरहप्रदः ।। ५३
कावेरीवारिबहले यत्रानेकमहाह्रदे ।
पीत्वोद्गीर्णमिवागस्त्येनाब्धिपाथः पदे पदे ।। ५४
तस्याश्रमस्य नात्यन्तदूरे विन्ध्यस्य सानुनि ।
करभग्रीवनामास्ति कोट्टः कुटिलदुर्गमः ।। ५५
तत्र प्रतिवसत्यन्तर्भूपालानिर्जितो बली ।
स मातङ्गपतिर्दुर्गपिशाचश्चण्डविक्रमः ।। ५६
धनुर्धराणां लक्षस्य तेषामधिपतिश्च सः ।
योधपञ्चशती येषामेकैकमनुधावति ।। ५७
तैर्दस्युभिः स मुष्णाति सार्थान्दलयति द्विषः ।
भुङ्क्ते महाटवीं चैतां तांस्तानगणयन्नृपान् ।। ५८
एतन्मुनिसुताच्छ्रुवा तमामन्त्र्य स सानुगः ।
मृगाङ्कदत्तस्तेनैव मार्गेण त्वरितं ययौ ।। ५९
प्राप? तस्य करभग्रीवस्य निकटं क्रमात् ।
मातङ्गराजकोट्टस्य भिल्लपल्लीसमाकुलम् ।। 12.35.६०
ददर्शादूरतश्चात्र शबरौघानितस्ततः ।
बर्हिबर्हेभदशनव्याघ्रचर्ममृगामिषान् ।। ६१
तिर्यञ्च इव जीवन्ति पश्यतारण्यवृत्तयः ।
चित्रं तदप्यमी दुर्गपिशाचं ब्रुवते प्रभुम् ।। ६२
नास्त्येवाराजकं किंचिद्बत कोऽपि प्रजास्वहो ।
राजशब्दः सुरैः सृष्टो मात्स्यन्यायभयादयम् ।। ६३
एवं मृगाङ्कदत्तस्तान्भिल्लान्वीक्ष्य सखीन्ब्रुवन् ।
यावत्स करभग्रीवकोट्टमार्गं विवित्सति ।। ६४
तावन्मायाबटोस्तस्य तत्रादावभ्युपेयुषः ।
तं पूर्वदृष्टं ददृशुश्चाराः शवरभूभृतः ।। ६५
ते मायाबटवे तस्मै गत्वा सद्यो न्यवेदयन् ।
तदागमं ससैन्यश्च सोऽपि प्रत्युज्जगाम तम् ।। ६६
निकटीभूय दृष्ट्वा च मुक्तबाहः प्रधाव्य सः ।
पपात पादयोस्तस्य राजसूनोः पुलिन्दराट् ।। ६७
कृतकण्ठग्रहं राजा स पृष्टकुशलश्च तम् ।
सामात्यं वाहनारूढमनैषीत्कटकं निजम् ।। ६८
प्राहिणोच्च प्रतीहारं तदागमनशंसिनम् ।
तस्मै मातङ्गराजाय निजं स शबराधिपः ।। ६९
आजगाम च मातङ्गराजः सोऽपि स्वदेशतः ।
द्रुतं दुर्गपिशाचोऽत्र नाम्नो बिभ्रद्यथार्थताम् ।। 12.35.७०
शिलाकूटकठोराङ्गस्तमालमलिनच्छविः ।
पुलिन्दाश्रितपापश्च विन्ध्याचल इवापरः ।। ७१
भ्रुकुट्या भीषणमुखः प्रकृत्यैव त्रिशाखया ।
स्वीकर्तुं विन्ध्यवासिन्या त्रिशूलेनेव चिह्नितः ।। ७२
तरुणः क्षपिताशेषवया अप्यसुदर्शनः ।
कृष्णोऽप्यनन्यसेवी च भूभृत्पादोपजीव्यपि ।। ७३
नवाभ्र इव मायूरपिच्छचित्रधनुर्धरः ।
हिरण्याक्ष इवोद्दामवराहक्षतविग्रहः ।। ७४
घटोत्कच इवोत्सिक्तभीमरूपधरो बली ।
कलिकाल इवाधर्मनिरतोच्छृङ्खलप्रजः ।। ७५
आययौ च बलाभोगस्तस्यापूरितभूतलः ।
मुक्तोऽर्जुनभुजासङ्गात्प्रवाह इव नार्मदः ।। ७६
शिलाकलापो लुठितः किमञ्जनगिरेरयम् ।
किमुताकालकल्पान्तमेघौघः पतितो भुवि ।। ७७
इति शङ्कां स विदधच्चण्डालानीकिनीचयः ।
प्रससर्पासितच्छायामलिनीकृतदिङ्मुखः ।। ७८
उपगम्य च तत्स्वामी दूरान्न्यस्तशिराः क्षितौ ।
मृगाङ्कदत्तं तं दुर्गपिशाचः प्रणनाम सः ।। ७९
उवास चाद्य देवी मे प्रसन्ना विन्ध्यवासिनी ।
उचितोचितवंशो यद्गृहान्प्राप्तो भवान्मम ।। ८०
तद्धन्योऽस्मि कृतार्थोऽस्मीत्युक्त्वा तस्मादुपायनम् ।
मातङ्गराजः स ददौ मुक्ताकस्तूरिकादिकम् ।। ८१
सोऽप्यभ्यनन्दत्प्रीत्या तं राजपुत्रो यथोचितम् ।
ततस्तत्रैव सर्वे ते चक्रुः सेनानिवेशनम् ।। ८२
आलानबद्धैर्द्विरदैस्तुरगैर्मन्दुराश्रितैः ।
कृतास्पदैश्च पादातैः स्थगिता सा महाटवी ।। ८३
आजन्मापूर्वनगरीभावसंप्राप्तसंपदा ।
घूर्णमानेव तत्कालं नैव स्वात्मन्यवर्तत ।। ८४
ततोऽत्र काननोद्याने विहितस्नानमङ्गलम् ।
कृताहारं सुखासीनमेकान्ते सचिवान्वितम् ।। ८५
मायाबटौ स्थिते दुर्गपिशाचः स कथान्तरे ।
मृगाङ्कदत्तमवदत्प्रीतिप्रश्रयपेशलम् ।। ८६
मायाबटुरयं राजा बहुकालमिहागतः ।
त्वन्निदेशप्रतीक्षः सन्स्वामिन्साकं मया स्थितः ।। ८७
तद्राजपुत्र युष्माभिः कुत्र स्थितमियच्चिरम् ।
किं कृतं चेति कार्यं स्वमस्मान्बोधयताधुना ।। ८८
एतत्तद्वचनं श्रुत्वा राजपुत्रो जगाद सः ।
तदा मायाबटोरस्य गृहाद्विमलबुद्धिना ।। ८९
गुणाकरेण च समं प्राप्य भीमपराक्रमम् ।
गत्वा श्रुतधिया साकं चिन्वतान्यान्सखीन्मया ।। ९०
प्राप्तः प्रचण्डशक्तिश्च विचित्रकथ एष च ।
मार्गक्रमेण चैषोऽपि ततो विक्रमकेसरी ।। ९१
ततो वरसरस्तीरे प्राप्य विघ्नेशपादपम् ।
फलार्थमधिरुह्यैते तच्छापात्फलतां गताः ।। ९२
आराध्याथ गणेशं तं कथंचिन्मोचिता मया ।
शेषाश्चादौ तथाभूतास्तत्र मुक्तास्तथैव मे ।। ९३
दृढमुष्टिरयं व्याघ्रसेनमेघबलाविमौ ।
स्थूलवाहुरसौ चेति चत्वारः सचिवा इमे ।। ९४
एतैः प्राप्तैः समं सर्वैरहमुज्जयिनीमगाम् ।
तस्यां च गुप्तद्वारायां प्रवेशोऽप्यभवन्न नः ।। ९५
कुतः शशाङ्कवत्यास्तु हरणोपायचिन्तनम् ।
सैन्यहीनस्य चाभून्मे न दूतप्रेषणार्हता ।। ९६
ततः संमन्त्र्य युष्माकमागता निकटं वयम् ।
इदानीं सिद्धये भूयं प्रमाणमिह नः सखे ।। ९७
एवं मृगाङ्कदत्तेन स्ववृत्तान्तेऽभ्युदीरिते ।
सोऽथ दुर्गपिशाचस्तं समायाबटुरब्रवीत् ।। ९८
धीरो भव कियत्कार्यमेतदस्माभिरञ्जसा ।
प्राणाः प्रथममेवैते त्वदर्थमुपकल्पिताः ।। ९९
आनयामोऽत्र तं बद्ध्वा कर्मसेनं महीभृतम् ।
प्रसह्य च हरामोऽस्य तां शशाङ्कवतीं सुताम् ।। १००
इति मातङ्गराजेन समायाबटुनोदिते ।
मृगाङ्कदत्तः सप्रीतिबहुमानमभाषत ।। १०१
किं न संभाव्यते युष्मास्वियमेव हि वक्ति वः ।
प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता ।। १०२
दार्ढ्यं विन्ध्याद्रितः शौर्यं व्याघ्रेभ्यो मित्त्ररागिताम् ।
वनाब्जिनीभ्यश्चादाय यूयं धात्रेह निर्मिताः १०३
तद्विचार्य यथायुक्तं कुरुध्वमिति वादिनि ।
मृगाङ्कदत्ते दिनकृद्विशश्रामास्तमस्तके ।। १०४
ततस्तत्र त्रियामां तां स्कन्धावारे विशश्रमुः ।
ते कर्मान्तिकक्लृप्तेषु निवेशेषु यथोचितम् ।। १०५
प्रातर्मृगाङ्कदत्तश्च विससर्ज गुणाकरम् ।
किरातराजमानेतुं सुहृदं शक्तिरक्षितम् ।। १०६
तेन गत्वोक्तवृत्तान्तः स्वल्पैरेव दिनैश्च सः ।
तद्युक्तोऽतिमहासैन्यः किरातपतिराययौ ।। १०७
पदातिलक्षदशकं द्वे लक्षे वाजिनामपि ।
महावीराधिरूढानामयुतं मत्तदन्तिनाम् ।। १०८
अष्टाशीतिसहस्राणि रथानां च महीपतिम् ।
अन्वाययुर्ध्वजच्छत्रसंछादितनभांसि तम् ।। १०९
मूगाङ्कदत्तश्च मुदा प्रत्युद्गम्याभिपूज्य तम् ।
प्रावेशयत्सकटकं ससुहृत्सचिवो नृपम् ।। ११०
तावन्मातङ्गराजस्य येऽप्यन्ये मित्त्रबान्धवाः ।
मायाबटोश्च तद्दत्तदूताः सर्वेऽप्युपाययुः ।। १११
ववृधे च लसन्नादः संमिलद्वाहिनीशतः ।
मृगाङ्कदत्तहृदयानन्दः शिविरवारिधिः ।। ११२
मुक्तामृगमदैर्वस्त्रैर्मांसभारैः फलासवैः ।
तान्स दुर्गपिशाचोऽत्र नृपतीन्सममानयत् ।। ११३
स्नानानुलेपनाहारपानशय्याद्यनुत्तमम् ।
सर्वेभ्यः शबराधीशो मायाबटुरुपाहरत् ।। ११४
मृगाङ्कदत्तश्चैकत्र बुभुजे निखिलैः सह ।
तैर्यथोचितभूभागेपूपविष्टैर्नरेश्वरैः ।। ११५
अपि मातङ्गराजं तं सोऽग्रे दूरादभोजयत् ।
कार्यं देशश्च कालश्च गरीयान्न पुनः पुमान् ।। ११६
विश्रान्ते च नवायाते किरातादिबले ततः ।
मृगाङ्कदत्तः सोऽन्येद्युर्दन्तिदन्तासनस्थितः ।। ११७
अस्थाने राजलोकस्य यथार्हकृतसत्क्रियः ।
विजनीकृत्य मातङ्गराजादीन्सुहृदोऽब्रवीत् ।। ११८
इदानीं कालहारः कि क्रियते किं न गम्यते ।
अनेन सर्वसैन्येन शीघ्रमुज्जयिनीं प्रति ।। ११९
तच्छ्रुत्वा श्रुतधीर्विप्रो राजपुत्रं जगाद तम् ।
शृणु देव वदाम्यत्र यथा नीतिविदां मतम् ।। १२०
कार्याकार्यविभागः प्राग्बोद्धव्यो विजिगीषुणा ।
असाध्यं यदुपायेन तदकार्यं परित्यजेत् ।। १२१
तत्कार्यं यदुपायेन साध्यं तत्र चतुर्विधः ।
उपायः साम दानं च भेदो दण्ड इति स्मृतः ।। १२२
पूर्वः पूर्वो वरस्तेषां निकृष्टश्च परः परः ।
तस्मात्सामप्रयोगस्ते पूर्वं देवेह युज्यते ।। १२३
निर्लोभे कर्मसेने हि राज्ञि दानं न सिद्धये ।
न भेदो नहि सन्त्यस्य क्रुद्धलुब्धावमानिताः ।। १२४
दण्डश्च दुर्गदेशस्ये तस्मिन्नतिबलाधिके ।
नृपैरजितपूर्वेऽन्यैः प्रयुक्तः संशयावहः ।। १२५
अविश्वास्या च युद्धेषु जयश्रीर्बलिनामपि ।
न च कन्यार्थिनो युक्तः कर्तुं तद्वान्धवक्षयः ।। १२६
तत्तस्य राज्ञः साम्नैव दूतस्तावद्विसृज्यताम् ।
तदसिद्धौ हठायातो दण्ड एव प्रयोक्ष्यते ।। १२७
इत्येतच्छ्रुतधेर्वाक्यं सर्वे तत्र तथेति ते ।
श्रद्दधुः प्रशशंसुश्च तस्य मन्त्रक्रमज्ञताम् ।। १२८
ततः संमन्त्र्य तैरेव समं दूतगुणान्वितम् ।
किरातराजानुचरं तदाख्यातं द्विजोत्तमम् ।। १२९
दूतं सुविग्रहं नाम कर्मसेनाय भूभृते ।
मृगाङ्कदत्तो व्यसृजल्लेखसंदेशहारिणम् ।। १३०
स गत्वोज्जयिनीं दूतः प्रतीहारनिवेदितः ।
वल्लभाश्वद्विपाकीर्णकक्ष्यान्तरमनोरमम् ।। १३१
प्रविश्य राजभवनं सिंहासनगतं नृपम् ।
ददर्श कर्मसेनं तं मन्त्रिभिः परिवारितम् ।। १३२
प्रणम्य चासनासीनः स पृष्टकुशलः क्रमात् ।
राज्ञाभिनन्दितस्तेन लेखं तस्मै समर्पयत् ।। १३३
आदाय तं च तन्मन्त्री मुद्राक्षेपप्रसारितम् ।
प्रज्ञाकोषाभिधानोऽत्र स्पष्टमेवमवाचयत् ।। १३४
स्वस्ति श्रीकरभग्रीवकोट्टमूलाटवीतटात् ।
महाराजाधिराजस्य पुत्रोऽयोध्यापुरीपतेः ।। १३५
श्रीमतोऽमरदत्तस्य महीमण्डलमण्डनम् ।
श्रीमान्मृगाङ्कदत्तोऽत्र प्रह्वोपनतराजकः ।। १३६
उज्जयिन्यां महाराजकर्मसेनस्य सादरम् ।
निजवंशपयोधीन्दोरिदं संदिशति स्फुटम् ।। १३७
कन्या तवास्ति सावश्यं देयान्यस्मै प्रयच्छ तत् ।
मह्यं तां सदृशी सा मे भार्यादिष्टा हि दैवतैः ।। १३८
एवं नौ बन्धुभावः स्यान्नश्येत्पूर्वा च वैरिता ।
नो चेन्निजभुजावेव प्रार्थयिष्येऽत्र वस्तुनि ।। १३९
इत्यत्र वाचिते लेखे प्रज्ञाकोषेण मन्त्रिणा ।
राजा सकोपः सचिवान्कर्मसेनो जगाद सः ।। १४०
विपक्षास्ते सदास्माकमनात्मज्ञेन तेन च ।
एतत्तथैव संदिष्टं पश्यताद्यासमञ्जसम् ।। १४१
आत्माभिलिखितः पूर्वं वयं पश्चादवज्ञया ।
दर्पाध्मातेन पर्यन्ते बाहुवीर्यमुदीरितम् ।। १४२
तन्न मे प्रतिसंदेशो योग्यः कन्याकथैव का ।
गच्छ दूत भवत्स्वामी यत्स वेत्ति करोतु तत् ।। १४३
इत्युक्तः कर्मसेनेन राज्ञा दूतोऽत्र स द्विजः ।
सुविग्रहस्तमोजस्वी क्रमायातमभाषत ।। १४४
अदृष्ट्वा राजपुत्रं तं संप्रत्योजायसे जड ।
सज्जो भवागते तस्मिन्वेत्स्यसि स्वपरान्तरम् ।। १४५
इति तेनोदिते राजसभा क्षोभमियाय सा ।
गच्छावध्योऽसि किं कुर्म इति क्रुद्धोऽभ्यधान्नृपः ।। १४६
अन्येऽत्र दन्तदष्टौष्ठा मृद्नन्तः स्वान्करान्करैः ।
किं नाधुनैव गत्वा तं हन्म इत्यब्रुवन्मिथः ।। १४७
यात्वयं वटुवाचाटस्यास्य किं कुप्यते गिरा ।
द्रक्ष्यते यत्करिष्याम इत्यूचुर्धैर्यतः परे ।। १४८
भ्रूभङ्गैः केचिदासन्नचापरोपणसूचनम् ।
कुर्वन्त इव निःशब्दं तस्थुः कोपारुणैर्मुखैः ।। १४९
एवं सभायां क्रुद्धायां स निर्गत्य सुविग्रहः ।
दूतो मृगाङ्कदत्तस्य पार्श्वं स्वकटकं ययौ ।। १५०
तस्मै स कर्मसेनोक्तं समित्त्राय शशंस तत् ।
सोऽप्यादिदेश तच्छ्रुत्वा यात्रां सैन्ये नृपात्मजः ।। १५१
ततः स्वाम्यादेशप्रबलपवनापातविधुतो बलाम्भोधिर्धावन्नरतुरगमातङ्गमकरः ।
सपक्षाणां तन्वन्मनसि परितोषं क्षितिभृतां स संप्राप क्षोभं प्रतिभयकरं कातरनृणाम् ।। १५२
क्षितिमथ विदधद्बलाश्वलालागजमदकर्दमितां मृगाङ्कदत्तः ।
बधिरितभुवनः स तूर्यनादैरुदचलदुज्जयिनीं शनैर्जयाय ।। १५३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चत्रिंशस्तरङ्गः ।