इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविमलब्धर्द्धयो
धुरं दधति वैधुधीं भुवि भवप्रसादेन ते ।।
मदघूणितवक्त्रोत्थैः सिन्दूरैश्छुरयन्महीम् ।
हेरम्बः पातु वो विघ्नान्स्वतेजोभिर्दहन्निव ।। १
एवं स देवीसहितस्तस्थौ वत्सेश्वरस्तदा ।
नरवाहनदत्तं तमेकपुत्रं विवर्धयन् ।। २
तद्रक्षाकातरं तं च दृष्ट्वा राजानमेकदा ।
यौगन्धरायणो मन्त्री विजनस्थितमब्रवीत् ।। ३
राजन्न राजपुत्रस्य कृते चिन्ताधुना त्वया ।
नरवाहनदत्तस्य विधातव्या कदाचन ।। ४
असौ भगवता भावी भर्गेण हि भवद्गृहे ।
सर्वविद्याधराधीशचक्रवर्ती विनिर्मितः ।। ७
विद्याप्रभावादेतच्च बुद्ध्वा विद्याधराधिपाः ।
गताः पापेच्छवः क्षोभं हृदयैरसहिष्णवः ।। ६
तद्विदित्वा च देवेन रक्षार्थं शशिमौलिना ।
एतस्य स्तम्भको नाम गणेशः स्थापितो निजः ।। ७
स च तिष्ठत्यलक्ष्यः सन्रक्षन्नेतं सुतं तव ।
एतच्च क्षिप्रमभ्येत्य नारदो मे न्यवेदयत् ।। ८
इति तस्मिन्वदत्येव मन्त्रिणि व्योममध्यतः ।
किरीटी कुण्डली दिव्यः खड्गी चावातरत्पुमान् ।। ९
प्रणतं कल्पितातिथ्यं क्षणाद्वत्सेश्वरोऽथ तम् ।
कस्त्वं किमिह ते कार्यमित्यपृच्छत्सकौतुकम् ।। १०
सोऽप्यवादीदहं मर्त्यो भूत्वा विद्याधराधिपः ।
संपन्नः शक्तिवेगाख्यः प्रभूताश्च ममारयः ।। ११
सोऽहं प्रभावाद्विज्ञाय भाव्यस्मच्चक्रवर्तिनम् ।
भवतस्तनयं द्रष्टुमागतोऽस्म्यवनीपते ।। १२
इत्युक्तवन्तं तं दृष्टभविष्यच्चक्रवर्तिनम् ।
प्रीतं वत्सेश्वरो हृष्टः पुनः पप्रच्छ विस्मयात् ।। १३
विद्याधरत्वं प्राप्येत कथं कीदृग्विधं च तत् ।
त्वया च तत्कथं प्राप्तमेतत्कथय नः सखे ।। १४
तच्छ्रुत्वा वचनं राज्ञः स तदा विनयानतः ।
विद्याधरः शक्तिवेगस्तमेवं प्रत्यवोचत ।। १५
राजन्निहैव पूर्वे वा जन्मन्याराध्य शंकरम् ।
विद्याधरपदं धीरा लभन्ते तदनुग्रहात् ।। १६
तच्चानेकविधं विद्याखड्गमालादिसाधनम् ।
मया च तद्यथा प्राप्तं कथयामि तथा शृणु ।। १७
एवमुक्त्वा स्वसंबद्धां शक्तिवेगः स संनिधौ ।
देव्या वासवदत्तायाः कथामाख्यातवानिमाम् ।। १८
अभवद्वर्धमानाख्ये पुरे भूतलभूषणे ।
नाम्ना परोपकारीति पुरा राजा परंतपः ।। १९
तस्योन्नतिमतश्चाभून्महिषी कनकप्रभा ।
विद्युद्धाराधरस्येव सा तु निर्मुक्तचापला ।। २०
तस्यां तस्य च कालेन देव्यामजनि कन्यका ।
रूपदर्पोपशान्त्यै या लक्ष्म्या धात्रेव निर्मिता ।। २१
अवर्धत शनैः सा च लोकलोचनचन्द्रिका ।
पित्रा कनकरेखेति मातृनाम्ना कृतात्मजा ।। २२
एकदा यौवनस्थायां तस्यां राजा स तत्पिता ।
विजनोपस्थितां देवीं जगाद कनकप्रभाम् ।। २३
वर्धमाना सहैवैतत्समानोद्वाहचिन्तया ।
एषा कनकरेखा मे हृदयं देवि बाधते ।। २४
स्थानप्राप्तिविहीना हि गीतिवत्कुलकन्यका ।
उद्वेजिनी परस्यापि श्रूयमाणैव कर्णयोः ।। २५
विद्येव कन्यका मोहादपात्रे प्रतिपादिता ।
यशसे न न धर्माय जायेतानुशयाय तु ।। २६
तत्कस्मै दीयते ह्येषा मया नृपतये सुता ।
कोऽस्याः समः स्यादिति मे देवि चिन्ता गरीयसी ।। २७
तच्छ्रुत्वा सा विहस्यैवं बभाषे कनकप्रभा ।
त्वमेवमात्थ कन्या तु नेच्छत्युद्वाहमेव सा ।। २८
अद्यैव नर्मणा सा हि कृतकृत्रिमपुत्रका ।
वत्से कदा विवाहं ते द्रक्ष्यामीत्युदिता मया ।। २९
सा तच्छ्रुत्वैव साक्षेपमेवं मां प्रत्यवोचत ।
मा मैवमम्ब दातव्या नैव कस्मैचिदप्यहम् ।। ३०
मद्वियोगो न चादिष्टः कन्यैवास्मि सुशोभना ।
अन्यथा मां मृतां विद्धि किंचिदस्त्यत्र कारणम् ।। ३१
एवं तयोक्ता त्वत्पार्श्वं राजन्विग्नाहमागता ।
तन्निषिद्धविवाहायाः का वरस्य विचारणा ।। ३२
इति राज्ञीमुखाच्छ्रुत्वा समुद्भ्रान्तः स भूपतिः ।
कन्यकान्तःपुरं गत्वा तामवादीत्तदा सुताम् ।। ३३
प्रार्थयन्तेऽपि तपसा यं सुरासुरकन्यकाः ।
भर्तृलाभः कथं वत्से स निषिद्धः किल त्वया ।। ३४
एतत्पितुर्वचः श्रुत्वा भूतलन्यस्तलोचना ।
तदा कनकरेखा सा निजगाद नृपात्मजा ।। ३५
तात नैवेप्सितस्तावद्विवाहो मम सांप्रतम् ।
तत्तातस्यापि किं तेन कार्यं कश्चात्र वो ग्रहः ।। ३६
इत्युक्तः स तया राजा दुहित्रा धीमतां वरः ।
परोपकारी स पुनरेवमेतामभाषत ।। ३७
कन्यादानादृते पुत्रि किं स्यात्किल्बिषशान्तये ।
न च बन्धुपराधीना कन्या स्वातन्त्र्यमर्हति ।। ३८
जातैव हि परस्यार्थे कन्यका नाम रक्ष्यते ।
बाल्यादृते विना भर्तुः कीदृक्तस्याः पितुर्गृहम् ।। ३९
ऋतुमत्यां हि कन्यायां बान्धवा यान्त्यधोगतिम् ।
वृषली सा वरश्चास्या वृषलीपतिरुच्यते ।। ४०
इति तेनोदिता पित्रा राजपुत्री मनोगताम् ।
वाचं कनकरेखा सा तत्क्षणं समुदैरयत् ।। ४१
यद्येवं तात तद्येन विप्रेण क्षत्रियेण वा ।
दृष्टा कनकपुर्याख्या नगरी कृतिना किल ।। ४२
तस्मै त्वयाहं दातव्या स मे भर्ता भविष्यति ।
नान्यथा तात मिथ्यैव कर्तव्या मे कदर्थना ।। ४३
एवं तथोक्ते सुतया स राजा समचिन्तयत् ।
दिष्ट्योद्वाहस्य तत्तावत्प्रसङ्गोऽङ्गीकृतोऽनया ।। ४४
नूनं च कारणोत्पन्ना देवीयं कापि मद्गृहे ।
इयत्कथं विजानाति बाला भूत्वान्यथा ह्यसौ ।। ०५५
इति संचिन्त्य तत्कालं तथेत्युक्त्वा च तां सुताम् ।
उत्थाय दिनकर्तव्यं स चकार महीपतिः ।। ४६
अन्येद्युरास्थानगतो जगाद स च पार्श्वगान् ।
दृष्टा कनकपुर्याख्या पुरी युष्मासु केनचित् ।। ४७
येन दृष्टा च सा तस्मै विप्राय क्षत्रियाय वा ।
मया कनकरेखा च यौवराज्यं च दीयते ।। ४८
श्रुतापि नैव सास्माभिर्दर्शने देव का कथा ।
इति ते चावदन्सर्वे अन्योन्याननदर्शिनः ।। ४९
ततो राजा प्रतीहारमानीयादिशति स्म सः ।
गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ।। ५०
जानीहि यदि केनापि दृष्टा सा नगरी न वा ।
इत्यादिष्टः प्रतीहारः स तथेति विनिर्ययौ ।। ५१
निर्गत्य च समादिश्य तत्क्षणं राजपूरुषान् ।
भ्रामयामास पटहं कृतश्रवणकौतुकम् ।। ५२
विप्रः क्षत्रयुवा वा कनकपुरीं योऽत्र दृष्टवान्नगरीम् ।
वदतु स तस्मै राजा ददाति तनयां च यौवराज्यं च ।। ५३
इति चेतस्ततस्तत्र नगरे दत्तविस्मयम् ।
तदघोष्यत सर्वत्र पटहानन्तरं वचः ।। ५४
केयं पुरेऽस्मिन्कनकपुरीनामाद्य घोष्यते ।
या वृद्धैरपि नास्माभिर्दृष्टा जातु न च श्रुता ।। ५५
इत्येवं चावदन्पौराः श्रुत्वा तां तत्र घोषणाम् ।
न पुनः कश्चिदेकोऽपि मया दृष्टेत्यभाषत ।। ५६
तावच्च तन्निवास्येकः शक्तिदेव इति द्विजः ।
बलदेवतनूजस्तामशृणोत्तत्र घोषणाम् ।। ५७
स युवा व्यसनी सद्यो द्यूतेन विधनीकृतः ।
अचिन्तयद्राजसुताप्रदानाकर्णनोन्मनाः ।। ५८
द्यूतहारितनिःशेषवित्तस्य मम नाधुना ।
प्रवेशोऽस्ति पितुर्गेहे नापि पण्याङ्गनागृहे ।। ५९
तस्मादगतिकस्तावद्वरं मिथ्या ब्रवीम्यहम् ।
मया सा नगरी दृष्टेत्येवं पटहघोषकान् ।। ६०
को मां प्रत्येत्यविज्ञानं केन दृष्टा कदा हि सा ।
स्यादेवं च कदाचिन्मे राजपुत्र्या समागमः ।। ६१
इति संचिन्त्य गत्वा तान्स राजपुरुषांस्तदा ।
शक्तिदेवो मया दृष्टा सा पुरीत्यवदन्मृषा ।। ६२
दिष्ट्या तर्हि प्रतीहारपार्श्वमेहीहि तत्क्षणम् ।
उक्तवद्भिश्च तैः साकं स प्रतीहारमभ्यगात् ।। ६३
तस्मै तथैव चाशंसत्तत्पुरीदर्शनं मृषा ।
तेनापि सत्कृत्य ततो राजान्तिकमनीयत ।। ६४
राजाग्रेऽप्यविकल्पः संस्तथैव च तदब्रवीत् ।
द्यूततान्तस्य किं नाम कितवस्य हि दुष्करम् ।। ६५
राजापि निश्चयं ज्ञातुं ब्राह्मणं तं विसृष्टवान् ।
तस्याः कनकरेखाया दुहितुर्निकटं तदा ।। ६६
तया च स प्रतीहारमुखाज्ज्ञात्वान्तिकागतः ।
कच्चित्त्वया सा कनकपुरी दृष्टेत्यपृच्छ्यत ।। ६७
बाढं मया सा नगरी दृष्टा विद्यार्थिना सता ।
भ्रमता भुवमित्येवं सोऽपि तां प्रत्यभाषत ।। ६८
केन मार्गेण तत्र त्वं गतवान्कीदृशी च सा ।
इति भूयस्तया पृष्टः स विप्रोऽप्येवमब्रवीत् ।। ६९
इतो हरपुरं नाम नगरं गतवानहम् ।
ततोऽपि प्राप्तवानस्मि पुरीं वाराणसीं क्रमात् ।। ७०
वाराणस्याश्च दिवसैर्नगरं पौण्ड्रवर्धनम् ।
तस्मात्कनकपुर्याख्यां नगरीं तां गतोऽभवम् ।। ७१
दृष्टा मया च सा भोगभूमिः सुकृतकर्मणाम् ।
अनिमेषेक्षणास्वाद्यशोभा शक्रपुरी यथा ।। ७२
तत्राधिगतविद्यश्च कालेनाहमिहागमम् ।
इति तेनास्मि गतवान्पथा सापि पुरीदृशी ।। ७३
एवं विरचितोक्तौ च धूर्ते तस्मिन्द्विजन्मनि ।
शक्तिदेवे सहासं सा व्याजहार नृपात्मजा ।। ७४
अहो सत्यं महाब्रह्मन्दृष्टा सा नगरी त्वया ।
ब्रूहि ब्रूहि पुनस्तावत्केनासि गतवान्पथा ।। ७५,
तच्छ्रुत्वा स यदा धार्ष्ट्यं शक्तिदेवोऽकरोत्पुनः ।
तदा तं राजपुत्री सा चेटभिर्निरवासयत् ।। ७६
निर्वासिते ययौ चास्मिन्पितुः पार्श्वं तदैव सा ।
किं सत्यमाह विप्रोऽसाविति पित्राप्यपृच्छ्यत ।। ७७
ततश्च सा राजसुता जनकं निजगाद तम् ।
तात राजापि भूत्वा त्वमविचार्यैव चेष्टसे ।। ७८
किं न जानासि धूर्ता यद्वञ्चयन्ते जनानृजून् ।
स हि मिथ्यैव विप्रो मां प्रतारयितुमीहते ।। ७९
न पुनर्नगरी तेन दृष्टा सालीकवादिना ।
धूर्तैरनेकाकाराश्च क्रियन्ते भुवि वञ्चनाः ।।
शिवमाधववृत्तान्तं तथाहि शृणु वच्मि ते ।
इत्युक्त्वा राजकन्या सा व्याजहार कथामिमाम् ।। ८१
अस्ति रत्नपुरं नाम यथार्थं नगरोत्तमम् ।
शिवमाधवसंज्ञौ च धूर्तौ तत्र बभूवतुः ।। ८२
परिवारीकृतानेकधूर्तौ तौ चक्रतुश्चिरम् ।
मायाप्रयोगनिःशेषमुषिताढ्यजनं पुरम् ।। ८३
एकदा द्वौ च तावेवं मन्त्रं विदधतुर्मिथः ।
इदं नगरमावाभ्यां कृत्स्नं तावद्विलुण्ठितम् ।। ८४
अतः संप्रति गच्छामो वस्तुमुज्जयिनीं पुरीम् ।
तत्र तु श्रूयते राज्ञः पुरोधाः सुमहाधनः ।। ८५
शंकरस्वामिनामा च तस्माद्युक्त्या हृतैर्धनैः ।
मालवस्त्रीविलासानां यास्यामोऽत्र रसज्ञताम् ।। ८६
आस्कन्दी दक्षिणार्धस्य स तत्र भ्रुकुटीमुखः ।
सप्तकुम्भीनिधानो हि कीनाशो गीयते द्विजैः ।। ८७
कन्यारत्नं च तस्यास्ति विप्रस्यैकमिति श्रुतम् ।
तदप्येतत्प्रसङ्गेन ध्रुवं तस्मादवाप्स्यते ।। ८८
इति निश्चित्य कृत्वा च मिथः कर्तव्यसंविदम् ।
शिवमाधवधूर्तौ तु पुरात्प्रययतुस्ततः ।। ८९
शनैश्चोज्जयिनीं प्राप्य माधवः सपरिच्छदः ।
राजपुत्रस्य वेषेण तस्थौ ग्रामे क्वचिद्बहिः ।। ९०
शिवस्त्वविकलं कृत्वा वर्णिवेषं विवेश ताम् ।
नगरीमेक एवाग्रे बहुमायाविचक्षणः ।। ९१
तत्रात्युवास सिप्राया मठिकां तीरसीमनि ।
दृश्यस्थापितमृद्दर्भभिक्षाभाण्डमृगाजिनाम् ।। ९२
स च प्रभातकालेषु घनयाङ्गं मृदालिपत् ।
अवीचिकर्दमालेपसूत्रपातमिवाचरन् ।। ९३
सरित्तोये च स चिरं निमज्यासीदवाङ्मुखः ।
कुकर्मजामिवाभ्यस्यन्भविष्यन्तीमधोगतिम् ।। ९४
स्नानोत्थितोऽर्काभिमुखस्तस्थावूर्ध्वं चिरं च सः ।
 शूलाधिरोपणौचित्यमात्मनो दर्शयन्निव ।। ९५
ततो देवाग्रतो गत्वा कुशकूर्चकरो जपन् ।
आस्त पद्मासनासीनः सदम्भचतुराननः ।। ९६
अन्तरा हृदयानीव साधूनां कैतवेन सः ।
स्वच्छान्याहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ।। ९७
कृतपूजश्च भूयोऽपि मिथ्या जपपरोऽभवत् ।
दत्तावधानः कुसृतिष्विव ध्यानं ततान सः ।। ९८
अपराह्ने च भिक्षार्थी कृष्णसाराजिनाम्बरः ।
पुरि तद्वञ्चनामायाकटाक्ष इव सोऽभ्रमत् ।। ९९
आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः ।
सदण्डाजिनकश्चक्रे त्रिः सत्यमिव खण्डशः ।। १००
भागं ददौ च काकेभ्यो भागमभ्यागताय च ।
भागेन दम्भबीजेन कुक्षिभस्त्रामपूरयत् ।। १०१
पुन- स सर्वपापानि निजानि गणयन्निव ।
जपन्नावर्तयामास चिरं मिथ्याक्षमालिकाम् ।। १०२
रजन्यामद्वितीयश्च स तस्थौ मठिकान्तरे ।
अपि सूक्ष्माणि लोकस्य तर्कस्थानानि चिन्तयन् ।। १०३
एवं प्रतिदिनं कुर्वन्कष्टं व्याजमयं तपः ।
स तत्रावर्जयामास नगरीवासिनां मनः ।। १०४
अहो तपस्वी शान्तोऽयमिति ख्यातिश्च सर्वतः ।
उदपद्यत तत्रास्य भक्तिनम्रेऽखिले जने ।। १५
तावच्च स द्वितीयोऽस्य सखा चारमुखेन तम् ।
विज्ञाय माधवोऽप्येतन्नगरीं प्रविवेश ताम् ।। १६
गृहीत्वा वसतिं चात्र दूरे देवकुलान्तरे ।
स राजपुत्रच्छद्मा सन्स्नातुं सिप्रातटं ययौ ।। १०७
स्नात्वा सानुचरो दृष्ट्वा देवाग्रे जपतत्परम् ।
तं शिवं परमप्रह्वो निपपातास्य पादयोः ।। १०८
जगाद च जनस्याग्रे नास्तीदृक्तापसोऽपरः ।
असकृद्धि मया दृष्टस्तीर्थान्येष भ्रमन्निति ।। १०९
शिवस्तु तं विलोक्यापि दम्भस्तम्भितकंधरः ।
तथैवासीत्ततः सोऽपि माधवो वसतिं ययौ ।। ११०
रात्रौ मिलित्वा चैकत्र भुक्त्वा पीत्वा च तावुभौ ।
मन्त्र्यामासतुः शेषं कर्तव्यं यदतः परम् ।। १११
यामे च पश्चिमे स्वैरमागात्स्वमठिकां शिवः ।
माधवोऽपि प्रभाते स्वं धूर्तमेकं समादिशत् ।। ११२
एतद्गृहीत्वा गच्छ त्वं वस्त्रयुग्ममुपायनम् ।
शंकरस्वामिनः पार्श्वमिह राजपुरोधसः ।। ११३
राजपुत्रः पराभूतो माधवो नाम गोत्रजैः ।
पित्र्यं बहु गृहीत्वार्थमागतो दक्षिणापथात् ।। ११४
समैः कतिपयैरन्यै राजपुत्रैरनुद्रुतः ।
स चेह युष्मदीयस्य राज्ञः सेवां करिष्यति ।। ११५
तेन त्वद्दर्शनायाहं प्रेषितो यशसां निधे ।
इति त्वया सविनयं स च वाच्यः पुरोहितः ।। ११६
एवं स माधवेनोक्त्वा धूर्तः संप्रेषितस्तदा ।
जगामोपायनकरो गृहं तस्य पुरोधसः ।। ११७
उपेत्यावसरे दत्त्वा प्राभूतं विजने च तत् ।
तस्मै माधवसंदेशं शंसति स्म यथोचितम् ।। ११८
सोऽप्युपायनलोभात्तच्छ्रद्दधे कल्पितायतिः ।
उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम् ।। ११९
ततः प्रत्यागते तस्मिन्धूर्तेऽन्येद्युः स माधवः ।
लब्धावकाशस्तमगात्स्वयं द्रष्टुं पुरोहितम् ।। १२०
धृतकार्पटिकाकारै राजपुत्रापदेशिभिः ।
वृतः पार्श्वचरैरात्तकाष्ठखण्डकलाञ्छनैः ।। १२१
पुरोगावेदितश्चैनमभ्यगात्स पुरोहितम् ।
तेनाप्यभ्युद्गमानन्दस्वागतैरभ्यनन्द्यत ।। १२२
ततस्तेन सह स्थित्वा कथालापैः क्षणं च सः ।
आययौ तदनुज्ञातो माधवो वसतिं निजाम् ।। १२३
द्वितीयेऽह्नि पुनः प्रेष्य प्राभृतं वस्त्रयोर्युगम् ।
भूयोऽपि तमुपागच्छत्पुरोहितमुवाच च ।। १२४
परिवारानुरोधेन किल सेवार्थिनो वयम् ।
तेन त्वमाश्रितोऽस्माभिरर्थमात्रास्ति नः पुनः ।। १२५
तच्छ्रुत्वा प्राप्तिमाशङ्क्य तस्मात्सोऽथ पुरोहितः ।
प्रतिशुश्राव तत्तस्मै माधवाय समीहितम् ।। १२६
क्षणाच्च गत्वा राजानमेतदर्थं व्यजिज्ञपत् ।
तद्गौरवेण राजापि तत्तथा प्रत्यपद्यत ।। १२७
अपरेऽह्नि च नीत्वा तं माधवं सपरिच्छदम् ।
नृपायादर्शयत्तस्मै स पुरोधाः सगौरवम् ।। १२८
नृपोऽपि माधवं दृष्ट्वा राजपुत्रोपमाकृतिम् ।
आदरेणानुजग्राह वृत्तिं चास्य प्रदिष्टवान् ।। १२९
ततोऽत्र सेवमानस्तं नृपं तस्थौ स माधवः ।
रात्रौ रात्रौ च मन्त्राय शिवेन समगच्छत ।। १३०
इहैव वस मद्गेहे इति तेन पुरोधसा ।
सोऽर्थितश्चाभवल्लोभादुपचारोपजीविना ।। १३१
ततः सहचरैः साकं तस्यैवाशिश्रियद्गृहम् ।
विनाशहेतुर्वासाय मद्गुः स्कन्धं तरोरिव ।। १३२
कृत्वा कृत्रिममाणिक्यमयैराभरणैर्भृतम् ।
भाण्डं च स्थापयामास तदीये कोषवेश्मनि ।। १३३
अन्तरा च तदुद्धाट्य तैस्तैर्व्याजार्धदर्शितैः ।
जहाराभरणैस्तस्य शष्पैरिव पशोर्मनः ।। १३४
विश्वस्ते च ततस्तस्मिन्पुरोधसि चकार सः ।
मान्द्यमल्पतराहारकृशीकृततनुर्मृषा ।। १३५
याते कतिपयाहे च तं शय्योपान्तवर्तिनम् ।
पुरोहितं स वक्ति स्म धूर्तराजोऽल्पया गिरा ।। १३६
मम तावच्छरीरेऽस्मिन्वर्तते विषमा दशा ।
तद्विप्रवर कंचित्त्वं ब्राह्मणोत्तममानय ।। १३७
यस्मै दास्यामि सर्वस्वमिहामुत्र च शर्मणे ।
अस्थिरे जीविते ह्यास्था का धनेषु मनस्विनः ।। १३८
इत्युक्तः स पुरोधाश्च तेन दानोपजीवकः ।
एवं करोमीत्याह स्म सोऽपतच्चास्य पादयोः ।। १३९
ततः स ब्राह्मणं यं यमानिनाय पुरोहितः ।
विशेषेच्छानिभात्तं तं श्रद्दधे न स माधवः ।। १४०
तद्दृष्ट्वा तस्य पार्श्वस्थो धूर्त एकोऽब्रवीदिदम् ।
न तावदस्मै सामान्यो विप्रः प्रायेण रोचते ।। १४१
तद्य एष शिवो नाम सिप्रातीरे महातपाः ।
स्थितः संप्रति भात्यस्य न वेत्येतन्निरूप्यताम् ।। १४२
तच्छ्रुत्वा माधवोऽवादीत्कृतार्तिस्तं पुरोहितम् ।
हन्त प्रसीदानय तं विप्रो नान्यो हि तादृशः ।। १४३
इत्युक्तस्तेन च ययौ स शिवस्यान्तिकं ततः ।
पुरोधास्तमपश्यच्च रचितध्याननिश्चलम् ।। १४४
उपाविशच्च तस्याग्रे ततः कृत्वा प्रदक्षिणम् ।
तत्क्षणं सोऽपि धूर्तोऽभूच्छनैरुन्मीलितेक्षणः ।। १४५
ततः प्रणम्य तं प्रह्वः स उवाच पुरोहितः ।
न चेत्कुप्यसि तत्किंचित्प्रभो विज्ञापयाम्यहम् ।। १४६
तन्निशम्य च तेनोष्ठपुटोन्नमनसंज्ञया ।
अनुज्ञातः शिवेनैव तमवादीत्पुरोहितः ।। १४७
इह स्थितो दाक्षिणात्यो राजपुत्रो महाधनः ।
माधवाख्यः स चास्वस्थः सर्वस्वं दातुमुद्यतः ।। १४८
मन्यसे यदि तत्तुभ्यं स सर्वं तत्प्रयच्छति ।
नानानर्घमहारत्नमयालंकरणोज्जवलम् ।। १४९
तच्छ्रुत्वा स शनैर्मुक्तमौनः किल शिवोऽब्रवीत् ।
ब्रह्मन्भिक्षाशनस्यार्थैः कोऽर्थो मे ब्रह्मचारिणः ।। १५०
ततः पुरोहितोऽप्येवं स तं पुनरभाषत ।
मैवं वादीर्महाब्रह्मन्किं न वेत्स्याश्रमक्रमम् ।। १५१
कृतदारो गृहे कुर्वन्देवपित्रतिथिक्रियाः ।
धनैस्त्रिवर्गं प्राप्नोति गृही ह्याश्रमिणां वरः ।। १५२
ततः सोऽपि शिवोऽवादीत्कुतो मे दारसंग्रहः ।
नह्यहं परिणेष्यामि कुलाद्यादृशतादृशात् ।। १५३
तच्छ्रुत्वा सुखभोग्यं च मत्वा तस्य तथा धनम् ।
स प्राप्तावसरो लुब्धः पुरोधास्तमभाषत ।। १५४
अस्ति तर्हि सुता कन्या विनयस्वामिनीति मे ।
अतिरूपवती सा च तां च तुभ्यं ददाम्यहम् ।। १५५
यच्च प्रतिग्रहधनं तस्मात्प्राप्नोषि माधवात् ।
तदहं तव रक्षामि तद्भजस्व गृहाश्रमम् ।। १५६
इत्याकर्ण्य स संपन्नयथेष्टार्थः शिवोऽब्रवीत् ।
ब्रह्मन्ग्रहस्तवायं चेत्तत्करोमि वचस्तव ।। १५७
हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः ।
त्वद्वाचैव प्रवर्तेऽहं यथा वेत्सि तथा कुरु ।। १५८
एतच्छिवचः श्रुत्वा परितुष्टस्तथेति तम् ।
मूढो निनाय गेहं स्वं तथैव स पुरोहितः ।। १५९
संनिवेश्य च तत्रैनं शिवाख्यमशिवं ततः ।
यथाकृतं शशंसैतन्माधवायाभिनन्दते ।। १६०
तदैव च ददौ तस्मै सुतां क्लेशविवर्धिताम् ।
निजां शिवाय संपत्तिमिव मूढत्वहारिताम् ।। १६१
कृतोद्वाहं तृतीयेऽह्नि प्रतिग्रहकृते च तम् ।
निनाय व्याजमन्दस्य माधवस्य ततोऽन्तिकम् ।। १६२
अतर्क्यतपसं वन्दे त्वामित्यवितथं वदन् ।
माधवोऽप्यपतत्तस्य शिवस्योत्थाय पादयोः ।। १६३
ददौ च तस्मै विधिवत्कोषागारात्तदाहृतम् ।
भूरिकृत्रिममाणिक्यमयाभरणभाण्डकम् ।। १६४
शिवोऽपि प्रतिगृह्यैतत्तस्य हस्ते पुरोधसः ।
नाहं वेद्मि त्वमेवैतद्वेत्सीत्युक्त्वा समर्पयत् ।। १६५
अङ्गीकृतमिदं पूर्वं मया चिन्ता तवात्र का ।
इत्युक्त्वा तच्च जग्राह तत्क्षणं स पुरोहितः ।। १६६
कृताशिषि ततो याते स्ववधूवासकं शिवे ।
नीत्वा स स्थापयामास तन्निजे कोषवेश्मनि ।। १६७
माधवोऽपि तदन्येद्युर्मान्द्यव्याजं शनैस्त्यजन् ।
रोगोपशान्तिं वक्ति स्म महादानप्रभावतः ।। १६८
त्वया धर्मसहायेन समुत्तीर्णोऽहमापदः ।
इति चान्तिकमायान्तं प्रशशंस पुरोहितम् ।। १६९
एतत्प्रभावादेतन्मे शरीरमिति कीर्तयन् ।
प्रकाशमेव चक्रे च शिवेन सह मित्रताम् ।। १७०
शिवोऽपि यातेषु दिनेष्ववादीत्तं पुरोहितम् ।
एवमेव भवद्गेहे भोक्ष्यते च कियन्मया ।। १७१
तत्किं त्वमेव मूल्येन गृहास्याभरणं न तत् ।
महार्घमिति चेन्मूल्यं यथासंभवि देहि मे ।। १७२
तच्छ्रुत्वा तदनर्घं च मत्वा तन्निष्क्रयं ददौ ।
तथेति तस्मै सर्वस्वं शिवाय स पुरोहितः ।। १७३
तदर्थं च स्वहस्तेन जीवं लेख्यमकारयत् ।
स्वयं चाप्यकरोद्बुद्ध्वा तद्धनं स्वधनाधिकम् ।। १७४
अन्योन्यलिखितं हस्ते गृहीत्वा स पुरोहितः ।
पृथगासीत्पृथक्सोऽपि शिवो भेजे गृहस्थितिम् ।। १७५
ततश्च स शिवः सोऽपि माधवः संगतावुभौ ।
पुरोहितार्थान्भुञ्जानौ यथेच्छं तत्र तस्थतुः ।। १७६
गते काले च मूल्यार्थी स पुरोधाः किलापणे ।
ततोऽलंकारणादेकं विक्रेतुं कटकं ययौ ।। १७७
तत्रैतद्रत्नतत्त्वज्ञाः परीक्ष्य वणिजोऽब्रुवन् ।
अहो कस्यास्ति विज्ञानं येनैतत्कृत्रिमं कृतम् ।। १७८
काचस्फटिकखण्डा हि नानारागोपरञ्जिताः ।
रीतिबद्धा इमे नैते मणयो न च काञ्चनम् ।। १७९
तच्छ्रुत्वा विह्वलो गत्वा स पुरोधास्तदवं तत् ।
आनीयाभरणं गेहात्कृत्स्नं तेषामदर्शयत् ।। १८०
ते दृष्ट्वा तद्वदेवास्य सर्वं कृत्रिममेव तत् ।
ऊचिरे च स तच्छ्रुत्वा वज्राहत इवाभवत् ।। १८१
ततश्च गत्वा तत्कालं स मूढः शिवमभ्यधात् ।
गृह्णीष्व स्वानलंकारांस्तन्मे देहि निजं धनम् ।। १८२
कुतो ममाद्यापि धनं तद्ध्यशेषं गृहे मया ।
कालेन भुक्तमिति तं शिवोऽपि प्रत्यभाषत ।। १८३
ततो विवदमानौ तौ पार्श्वावस्थितमाधवम् ।
पुरोधाश्च शिवश्चोभौ राजानमुपजग्मतुः ।। १८४
काचस्फटिकयोः खण्डै रीतिबद्धैः सुरञ्जितैः ।
रचितं देव तत्रैव व्याजालंकरणं महत् ।। १८५
शिवेन मम सर्वस्वमजानानस्य भक्षितम् ।
इति विज्ञापयामास नृपतिं स पुरोहितः ।। १८६
ततः शिवोऽब्रवीद्राजन्ना बाल्यात्तापसोऽभवम् ।
अनेनैव तदभ्यर्थ्य ग्राहितोऽहं प्रतिग्रहम् ।। १८७
तदैव भाषितं चास्य मुग्धेनापि सता मया ।
रत्नादिष्वनभिज्ञस्य प्रमाणं मे भवानिति ।। १८८
अहं स्थितस्तवात्रेति प्रत्यपद्यत चैष तत् ।
प्रतिगृह्य च सत्सर्वं हस्तेऽस्यैव मयार्पितम् ।। १८९
ततोऽनेन गृहीतं तत्स्वेच्छं मूल्येन मे प्रभो ।
विद्यते चावयोरत्र स्वहस्तलिखितं मिथः ।। १९०
इदानीं चैव साहाय्यं परं जानात्यतः प्रभुः ।
एवं शिवे समाप्तोक्तावुवाच स च माधवः ।। १९१
मैवमादिश मान्यस्त्वमपराधो ममात्र कः ।
न गृहीतं मया किंचिद्भवतो वा शिवस्य वा ।। १९२
पैतृकं धनमन्यत्र चिरं न्यासीकृतं स्थितम् ।
तदा तदेव चानीतं मया दत्तं द्विजन्मने ।। १९३
सत्यं यदि न तत्स्वर्णं न च रत्नानि तानि तत् ।
रीतिस्फटिककाचानां प्रदानादस्तु मे फलम् ।। १९४
निर्व्याजहृदयत्वेन दाने च प्रत्ययो मम ।
दृष्ट एवावतीर्णोऽस्मि यद्रोगमतिदुस्तरम् ।। ५९५
इत्यभिन्नमुखच्छायमुक्तवत्यत्र माधवे ।
जहास मन्त्रिसहितो राजा तस्मै तुतोष च ।। १९६
नैवमन्यायतः किंचिन्माधवस्य शिवस्य वा ।
इति तत्र सभासद्भिः सान्तर्हासमुदीरिते ।। १९७
पुरोहितः सोऽथ ययौ हारितार्थो विलज्जितः ।
कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ।। १९८
तौ च धूर्तौ ततस्तत्र तस्थतुः शिवमाधवौ ।
परितुष्टनृपावाप्तप्रसादसुखितौ चिरम् ।। १९९
एवं सूत्रशतैस्तैस्तैर्जिह्वाजालानि तन्वते ।
जालोपजीविनो धूर्ता धारायां धीवरा इव ।। २००
तत्तात मिथ्या कनकपुरीं दृष्टामिव ब्रुवन् ।
एषोऽपि वञ्चयित्वा त्वां विप्रो मत्प्राप्तिमिच्छति ।। २०१
अतः संप्रति मा भूत्ते मद्विवाहकृते त्वरा ।
स्थितास्मि तावत्कन्यैव पश्यामो भवितात्र किम् ।। २०२
इत्युक्तः सुतया राजा तया कनकरेखया ।
परोपकारी स तदा तामेवं प्रत्यभाषत ।। २०३
यौवने कन्यकाभावश्चिरं पुत्रि न युज्यते ।
मिथ्या वदन्ति दोषं हि दुर्जना गुणमत्सराः ।। २०४
उत्तमस्य विशेषेण कलङ्कोत्पादको जनः ।
हरस्वामिकथामत्र शृण्वेतां कथयामि ते ।। २०५
गङ्गोपकण्ठे कुसुमपुरं नामास्ति यत्पुरम् ।
हरस्वामीति कोऽप्यासीत्तीर्थार्थी तत्र तापसः ।। २०६
स भैक्षवृत्तिविप्रोऽत्र गङ्गातीरकृतोटजः ।
तपःप्रकर्षाल्लोकस्य गौरवास्पदतां ययौ ।। २०७
कदाचिच्चात्र तं दृष्ट्वा दूराद्भिक्षाविनिर्गतम् ।
जनमध्ये जगादैकस्तद्गुणासहनः खलः ।। २०८
अपि जानीथ जातोऽयं कीदृक्कपटतापसः ।
अनेनैवार्भकाः सर्वे नगरेऽमुत्र भक्षिताः ।। २०९
तच्छ्रुत्वा च द्वितीयोऽत्र तत्रावोचत तादृशः ।
सत्यं श्रुतं मयाप्येतदुच्यमानं जनैरिति ।। २१०
एवमेतदिति स्माह तृतीयोऽपि समर्थयन् ।
बध्नात्यार्यपरीवादं खलसंवादशङ्खला ।। २११
तेनैव च क्रमेणैष गतः कर्णपरम्पराम् ।
प्रवादो बहुलीभावं सर्वत्रात्र पुरे ययौ ।। २१२
पौराश्च सर्वे गेहेभ्यो बलाद्बालान्न तत्यजुः ।
हरस्वामी शिशून्नीत्वा भक्षयत्यखिलानिति ।। २१३
ततश्च ब्राह्मणास्तत्र संततिक्षयभीरवः ।
संभूय मन्त्रयामासुः पुरात्तस्य प्रवासनम् ।। २१४
ग्रसेत कुपितः सोऽस्मानिति साक्षाद्भयान्न ते ।
यदा तस्याशकन्वक्तुं दूतान्विससृजुस्तदा ।। २१५
ते च गत्वा तदा दूता दूरादेव तमब्रुवन् ।
नगराद्गम्यतामस्मादित्याहुस्त्वां द्विजातयः ।। २१६
किं निमित्तमिति प्रोक्ता विस्मितेनाथ तेन ते ।
पुनरूचुस्त्वमश्नासि बालदर्शमिहेति तम् ।। २१७
तच्छ्रुत्वा स हरस्वामी स्वयं प्रत्यायनेच्छया ।
विप्राणां निकटं तेषां भीतिनश्यज्जनो ययौ ।। २१८
विप्राश्चारुरुहुस्त्रासात्तं दृष्ट्वैव मठोपरि ।
प्रवादमोहितः प्रायो न विचारक्षमो जनः ।। २१९
अथ द्विजान्हरस्वामी तानेकैकमधः स्थितः ।
नामग्राहं समाहूय स जगादोपरि स्थितान् ।। २२०
कोऽयं मोहोऽद्य वो विप्रा नावेक्षध्वं परस्परम् ।
कियन्तो बालकाः कस्य मया कुत्र च भक्षिताः ।। २२१
तच्छ्रुत्वा यावदन्योन्यं विप्राः परिमृशन्ति ते ।
तावत्सर्वेऽपि सर्वेषां जीवन्तो बालकाः स्थिताः ।। २२२
क्रमान्नियुक्ताश्चान्येऽपि पौरास्तत्र तथैव तत् ।
प्रत्यपद्यन्त सर्वेऽपि सविप्रवणिजोऽब्रुवन् ।। २२३
अहो विमूढैरस्माभिः साधुर्मिथ्यैव दूषितः ।
जीवन्ति बालाः सर्वेषां तत्कस्यानेन भक्षिताः ।। २२४
इत्युक्तवत्सु सर्वेषु हरस्वामी तदैव सः ।
संपन्नशुद्धिर्नगराद्गन्तुं प्रववृते ततः ।। २२५
दुर्जनोत्पादितावद्यविरक्तीकृतचेतसा ।
अविवेकिनि दुर्देशे रतिः का हि मनस्विनः ।। २२६
ततो वणिग्भिर्विप्रैश्च प्रार्थितश्चरणानतैः ।
कथंचित्स हरस्वामी तत्र वस्तुममन्यत ।। २२७
इत्थं सच्चरितावलोकनलसद्विद्वेषवाचालिता
मिथ्यादूषणमेवमेव ददति प्रायः सतां दुर्जनाः ।
किंचित्किं पुनराप्नुवन्ति यदि ते तत्रावकाशं मना-
ग्द्रष्टुं तज्ज्वलितेऽनले निपतितः प्राज्याज्यधारोत्करः ।। २२८
तस्माद्विशल्ययितुमिच्छसि मां यदि त्वं वत्से तदुन्मिषति नूतनयौवनेऽस्मिन् ।
न स्वेच्छमर्हसि चिरं खलु कन्यकात्वमासेवितुं सुलभदुर्जनदुष्प्रवादम् ।। २२९
इत्युक्ता नरपतिना पित्रा प्रायेण कनकरेखा सा ।
निजगाद राजतनया तमवस्थितनिश्चया भूयः ।। २३०
दृष्टा कनकपुरी सा विप्रेण क्षत्रियेण वा येन ।
तर्हि तमाशु गवेषय तस्मै मां देहि भाषितं हि मया ।। २३१
तच्छ्रुत्वा दृढनिश्चयां विगणयञ्जातिस्मरां तां सुतां
नास्याश्चान्यममीष्टभर्तृघटने पश्यन्नुपायक्रमम् ।
देशे तत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुका-
न्भूयो भूमिपतिः स नित्यपटहप्रोद्धोषणामादिशत् ।। २३२
यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्तोऽमिधत्तां
तस्मै राजा किल स्वां वितरति तनयां यौवराज्येन साकम् ।
सर्वत्राघोष्यतैवं पुनरपि पटहानन्तरं चात्र शश्व-
न्न त्वेकः कोऽपि तावत्कृतकनकपुरीदर्शनो लभ्यते स्म ।। २३३
इति महाकविश्रीसोमदेवभट्टविरचिते कयासरित्सागरे चतुर्दारिकालम्बके प्रथमस्तरङ्गः ।