प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तृतीयस्तरङ्गः ।
ततस्तत्रोत्स्थलद्वीपे प्रभाते तं मठस्थितम् ।
शक्तिदेवं स दाशेन्द्रः सत्यव्रत उपाययौ ।। १
स च प्राक्प्रतिपन्नः सन्नुपेत्यैनमभाषत ।
ब्रह्मंस्त्वदिष्टसिद्ध्यर्थमुपायश्चिन्तितो मया ।। २
अस्ति द्वीपवरं मध्ये रत्नकूटाख्यमम्बुधेः ।
कृतप्रतिष्ठस्तत्रास्ते भगवान्हरिरब्धिना ।। ३
आषाढशुक्लद्वादश्यां तत्र यात्रोत्सवे सदा ।
आयान्ति सर्वद्वीपेभ्यः पूजायै यत्नतो जनाः ।। ४
तत्र ज्ञायेत कनकपुरी सा जातुचित्पुरी ।
तदेहि तत्र गच्छावः प्रत्यासन्ना हि सा तिथिः ।। ५
इति सत्यव्रतेनोक्तः शक्तिदेवस्तथेति सः ।
जग्राह हृष्टः पाथेयं विष्णुदत्तोपकल्पितम् ।। ६
ततो वहनमारुह्य स सत्यव्रतढौकितम् ।
तेनैव साकं त्वरितः प्रायाद्वारिधिवर्त्मना ।। ७
गच्छंश्च तत्र स द्वीपनिभनक्रेऽद्भुतालये ।
सत्यव्रतं तं पप्रच्छ कर्णधारतया स्थितम् ।। ८
इतो दूरं महाभोगं किमेतद्दृश्यतेऽम्बुधौ ।
यदृच्छाप्रोद्गतोदग्रसपक्षगिरिविभ्रमम् ।। ३
ततः सत्यव्रतोऽवादीदसौ देवो वटद्रुमः ।
अस्याहुः सुमहावर्तमधस्ताद्वडवामुखम् ।। 5.3.१०
एतं च परिहृत्यैव प्रदेशमिह गम्यते ।
अत्रावर्ते गतानां हि न भवत्यागमः पुनः ।। ११
इति सत्यव्रते तस्मिन्वदत्येवाम्बुवेगतः ।
तस्यामेव प्रववृते गन्तुं तद्वहनं दिशि ।। १२
तद्दृष्ट्वा शक्तिदेवं स पुनः सत्यव्रतोऽब्रवीत् ।
ब्रह्मन्विनाशकालोऽयं ध्रुवमस्माकमागतः ।। १३
यदकस्मात्प्रवहणं पश्यात्रैव प्रयात्यदः ।
शक्यते नैव रोद्धुं च कथमप्यधुना मया ।। १४
तदावर्ते गभीरेऽत्र वयं मृत्योरिवानने ।
क्षिप्ता एवाम्बुनाकृष्य कर्मणेव बलीयसा ।। १५
एतच्च नैव मे दुःखं शरीरं कस्य हि स्थिरम् ।
दुःखं तु यन्न सिद्धस्ते कृच्छ्रेणापि मनोरथः ।। १६
तद्यावद्वारयाम्येतदहं प्रवहणं मनाक् ।
तावदस्यावलम्बेथाः शाखां वटतरोर्द्रुतम् ।। १७
कदाचिज्जीवितोपायो भवेद्भव्याकृतेस्तव ।
विधेर्विलासानब्धेश्च तरङ्गान्को हि तर्कयेत् ।। १८
इति सत्यव्रतस्यास्य धीरसत्त्वस्य जल्पतः ।
बभूव निकटे तस्य तरोः प्रवहणं ततः ।। १९
तत्क्षणं स कृतोत्फालः शक्तिदेवो विसाध्वसः ।
पृथुलामग्रहीच्छाखां तस्याब्धिवटशाखिनः ।। 5.3.२०
सत्यव्रतस्तु वहता देहेन वहनेन च ।
परार्थकल्पितेनात्र विवेश वडवामुखम् ।। २१
शक्तिदेवश्च शाखाभिः पूरिताशस्य तस्य सः ।
आश्रित्यापि तरोः शाखां निराशः समचिन्तयत् ।। २२
न तावत्सा च कनकपुरी दृष्टा मया पुरी ।
अपदे नश्यता तावद्दाशेन्द्रोऽप्येष नाशितः ।। २३
यदि वा सततन्यस्तपदा सर्वस्य मूर्धनि ।
कामं भगवती केन भज्यते भवितव्यता ।। २४
इत्यवस्थोचितं तस्य ततश्चिन्तयतस्तदा ।
विप्रयूनस्तरुस्कन्धे दिनं तत्पर्यहीयत ।। २५
सायं च सर्वतस्तस्मिन्स महाविहगान्बहून् ।
वटवृक्षे प्रविशतः शब्दापूरितदिक्तटान् ।। २६
अपश्यत्पृथुतत्पक्षवातधूतार्णवोर्मिभिः ।
गृध्रान्परिचयप्रीत्या कृतप्रत्युद्गमानिव ।। २७
ततः शाखाविलीनानां स तेषां पक्षिणां मिथः ।
मनुष्यवाचा संलापं पत्त्रौघैश्छादितोऽशृणोत् ।। २८
कश्चिद्द्वीपान्तरं कश्चिद्गिरिं कश्चिद्दिगन्तरम् ।
तदहश्चरणस्थानमेकैकः समवर्णयत् ।। २९
एकश्च वृद्धविहगस्तेषां मध्यादभाषत ।
अहं विहर्तुं कनकपुरीमद्य गतोऽभवम् ।। 5.3.३०
प्रातः पुनश्च तत्रैव गन्तास्मि चरितुं सुखम् ।
श्रमावहेन कोऽर्थो मे विदूरगमनेन हि ।। ३१
इत्यकाण्डसुधासारसदृशेनास्य पक्षिणः ।
वचसा शान्ततापः सञ्शक्तिदेवो व्यचिन्तयत् ।। ३२
दिष्ट्या सास्त्येव नगरी तत्प्रात्यै चायमेव मे ।
उपायः सुमहाकायो विहगो वाहनीकृतः ।। ३३
इत्यालोच्य शनैरेत्य तस्य सुप्तस्य पक्षिणः ।
पृष्ठपक्षान्तरे सोऽथ शक्तिदेवो व्यलीयत ।। ३४
प्रातश्चेतस्ततस्तेषु गतेष्वन्येषु पक्षिषु ।
स पक्षौ दर्शिताश्चर्यपक्षपातो विधिर्यथा ।। ३५
दत्तास्कन्दो वहन्पृष्ठे शक्तिदेवमलक्षितम् ।
क्षणादगच्छत्कनकपुरीं तां चरितुं पुनः ।। ३६
तत्रोद्यानान्तरे तस्मिन्नुपविष्टे विहंगमे ।
स शक्तिदेवो निभृतं तस्य पृष्ठादवातरत् ।। ३७
अपसृत्य स तत्पार्श्वाद्यावद्भ्राम्यति तत्र सः ।
द्वे पुष्पावचयव्यग्रे तावदैक्षत योषितौ ।। ३८
उपगम्य शनैस्ते च तद्विलोकनविस्मिते ।
सोऽपृच्छत्कः प्रदेशोऽयं के च भद्रे युवामिति ।। ३९
इयं कनकपुर्याख्या पुरी विद्याधरास्पदम् ।
चन्द्रप्रभेति चैतस्यामास्ते विद्याधरी सखे ।। 5.3.४०
तस्याश्चावामिहोद्याने जानीह्युद्यानपालिके ।
पुष्पोच्चयस्तदर्थोऽयमिति ते च तमूचतुः ।। ४१
ततः सोऽप्यवदद्विप्रो युवां मे कुरुतं तथा ।
यथाहमपि पश्यामि तां युष्मत्स्वामिनीमिह ।। ४२
एतच्छ्रुत्वा तथेत्युक्त्वा नीतवत्यावुभे च ते ।
स्त्रियावन्तर्नगर्यास्तं युवानं राजमन्दिरम् ।। ४३
सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् ।
सौवर्णभित्ति संकेतकेतनं संपदामिव ।। ४४
तत्रागतं च दृष्ट्वा तं सर्वः परिजनोऽब्रवीत् ।
गत्वा चन्द्रप्रभायास्तन्मानुषागमनाद्भुतम् ।। ४५
साप्यादिश्य प्रतीहारमविलम्बितमेव तम् ।
अभ्यन्तरं स्वनिकटं विप्रं प्रावेशयत्ततः ।। ४६
प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम् ।
धातुरद्भुतनिर्माणपर्याप्तिमिव रूपिणीम् ।। ४७
सा च सद्रत्नपर्यङ्काद्दूरानुत्थाय तं स्वयम् ।
स्वागतेनादृतवती तद्दर्शनवशीकृता ।। ४८
उपविष्टमपृच्छच्च कल्याणिन्कस्त्वमीदृशः ।
कथं च मानुषागम्यामिमां प्राप्तो भवान्भुवम् ।। ४९
इत्युक्तः स तया चन्द्रप्रभया सकुतूहलम् ।
शक्तिदेवो निजं देशं जातिं चावेद्य नाम च ।। 5.3.५०
तत्पुरीदर्शनपणात्प्राप्तुं तां राजकन्यकाम् ।
यथा कनकरेखाख्यामागतस्तदवर्णयत् ।। ५१
तद्बुद्ध्वा किमपि ध्यात्वा दीर्घं निःश्वस्य सा ततः ।
चन्द्रप्रभा तं विजने शक्तिदेवमभाषत ।। ५२
श्रूयतां वच्मि ते किंचिदिदं सुभग संप्रति ।
अस्त्यस्यां शशिखण्डाख्यो विद्याधरपतिर्भुवि ।। ५३
वयं तस्य चतस्रश्च जाता दुहितरः क्रमात् ।
ज्येष्ठा चन्द्रप्रभेत्यस्मि चन्द्ररेखेति चापरा ।। ५४
शशिरेखा तृतीया च चतुर्थी च शशिप्रभा ।
ता वयं क्रमशः प्राप्ता वृद्धिमत्र पितुर्गृहे ।। ५५
एकदा च भगिन्यो मे स्नातुं तिस्रोऽपि ताः समम् ।
मयि कन्याव्रतस्थायां जग्मुर्मन्दाकिनीतटम् ।। ५६
तत्राग्र्यतपसं नाम मुनिं यौवनदर्पतः ।
तोयैर्जलस्थमसिचन्नारब्धजलकेलयः ।। ५७
अतिनिर्बन्धिनीस्ताश्च मुनिः क्रुद्धः शशाप सः ।
कुकन्यकाः प्रजायध्वं मर्त्यलोकेऽखिला इति ।। ५८
तद्बुद्ध्वा सोऽस्मदीयेन पित्रा गत्वा प्रसादितः ।
पृथक्पृथक्स शापान्तमुक्त्वा तासां यथायथम् ।। ५९
जातिस्मरत्वं दिव्येन विज्ञानेनोपबृंहितम् ।
मर्त्यभावेन सर्वासामादिदेश महामुनिः ।। 5.3.६०
ततस्तासु तनूस्त्यक्त्वा मर्त्यलोकं गतासु सः ।
दत्त्वा मे नगरीमेतां पिता खेदाद्गतो वनम् ।। ६१
अथेह निवसन्तीं मां देवी स्वप्ने किलाम्बिका ।
मानुषः पुत्रि भर्ता ते भवितेति समादिशत् ।। ६२
तेन विद्याधरांस्तांस्तान्वरानुद्दिशतो बहून् ।
पितुर्विधारणं कृत्वा कन्यैवाद्याप्यहं स्थिता ।। ६३
इदानीं चामुनाश्चर्यमयेनागमनेन ते ।
वपुषा च वशीकृत्य तुभ्यमेवाहमर्पिता ।। ६४
तद्व्रजामि चतुर्दश्यामागामिन्यां भवत्कृते ।
कर्तुं तातस्य विज्ञप्तिमृषभाख्यं महागिरिम् ।। ६५
तत्र तस्यां तिथौ सर्वे मिलन्ति प्रतिवत्सरम् ।
देवं हरं पूजयितुं दिग्भ्यो विद्याधरोत्तमाः ।। ६६
तातस्तत्रैव चायाति तदनुज्ञामवाप्य च ।
इहागच्छाम्यहं तूर्णं ततः परिणयस्व माम् ।। ६७
तत्तिष्ठ तावदित्युक्त्वा सा तं विद्याधरोचितैः ।
चन्द्रप्रभा शक्तिदेवं तैस्तैर्भोगैरुपाचरत् ।। ६८
तस्य चाभूत्तथेत्यत्र तिष्ठतस्तत्तदा सुखम् ।
यद्दावानलतप्तस्य सुधाह्रदनिमज्जने ।। ६९
प्राप्तायां च चतुर्दश्यां सा तं चन्द्रप्रभाब्रवीत् ।
अद्य गच्छामि विज्ञप्त्यै तातस्याहं भवत्कृते ।। 5.3.७०
सर्वः परिजनश्चायं मयैव सह यास्यति ।
त्वया चैकाकिना दुःखं न भाव्यं दिवसद्वयम् ।। ७१
एकेन पुनरेतस्मिन्मन्दिरेऽप्यवतिष्ठता ।
मध्यमा भवता भूमिर्नारोढव्या कथंचन ।। ७२
इत्युक्त्वा सा युवानं तं न्यस्तचित्ता तदन्तिके ।
तदीयचित्तानुगता ययौ चन्द्रप्रभा ततः ।। ७३
सोऽप्येकाकी ततस्तत्र स्थितश्चेतो विनोदयन् ।
स्थानस्थानेषु बभ्राम शक्तिदेवो महर्द्धिषु ।। ७४
किंस्विदत्र निषिद्धं मे तया पृष्ठेऽधिरोहणम् ।
विद्याधरदुहित्रेति जातकौतूहलोऽथ सः ।। ७५
तस्यैव मध्यमां भूमिं मन्दिरस्यारुरोह ताम् ।
प्रायो वारितवामा हि प्रवृत्तिर्मनसो नृणाम् ।। ७६
आरूढस्तत्र चापश्यद्गुप्तांस्त्रीन्रत्नमण्डपान् ।
एकं चोद्धाटितद्वारं तन्मध्यात्प्रविवेश सः ।। ७७
प्रविश्य चान्तः सद्रत्नपर्यङ्के न्यस्ततूलिके ।
पटावगुण्ठिततनुं शयानं कंचिदैक्षत ।। ७८
वीक्षते यावदुत्क्षिप्य पटं तावन्मृतां तथा ।
परोपकारिनृपतेस्तनयां वरकन्यकाम् ।। ७९
दृष्ट्वा चाचिन्तयत्सोऽथ किमिदं महदद्भुतम् ।
किमप्रबोधसुप्तेयं किं वा भ्रान्तिरबाधका ।। 5.3.८०
यस्याः कृते प्रवासोऽयं मम सैवेह तिष्ठति ।
असावपगतप्राणा तत्र देशे च जीवति ।। ८१
अम्लानकान्तिरस्याश्च तद्विधात्रा मम ध्रुवम् ।
केनापि कारणेनेदमिन्द्रजालं वितन्यते ।। ८२
इति संचिन्त्य निर्गत्य तावन्यौ मण्डपौ क्रमात् ।
प्रविश्यान्तः स ददृशे तद्वदन्ये च कन्यके ।। ८३
ततोऽपि निर्गतस्तस्य साश्चर्यो मन्दिरस्य सः ।
उपविष्टः स्थितोऽपश्यद्वापीमत्युत्तमामधः ।। ८४
तत्तीरे रत्नपर्याणं ददर्शैकं च वाजिनम् ।
तेनावतीर्यैव ततस्तत्पार्श्वं कौतुकाद्ययौ ।। ८५
इयेष च तमारोढुं शून्यं दृष्ट्वा स तेन च ।
अश्वेनाह्रत्य पादेन तस्यां वाप्यां निचिक्षिपे ।। ८६
तन्निमग्नः स च क्षिप्रं वर्धमानपुरान्निजात् ।
उद्यानदीर्घिकामध्यादुन्ममज्ज ससंभ्रमः ।। ८७
ददर्श जन्मभूमौ च सद्यो वापीजले स्थितम् ।
आत्मानं कुमुदैस्तुल्यं दीनं चन्द्रप्रभां विना ।। ८८
वर्धमानपुरं क्वेदं क्व सा वैद्याधरी पुरी ।
अहो किमेतदाश्चर्यमायाडम्बरजृम्भितम् ।। ८९
कष्टं किमपि केनापि मन्दभाग्योऽस्मि वञ्चितः ।
यदि वा कोऽत्र जानाति कीदृशी भवितव्यता ।। 5.3.९०
इत्यादि चिन्तयन्सोऽथ वापीमध्यात्समुत्थितः ।
सविस्मयः शक्तिदेवो ययौ पितृगृहं निजम् ।। ९१
तत्रापदिष्टपटहभ्रमणः कृतकैतवः ।
पित्राभिनन्दितस्तस्थौ सोत्सवैः स्वजनैः सह ।। ९२
द्वितीयेऽह्नि बहिर्गेहान्निर्गतश्चाशृणोत्पुनः ।
घोष्यमाणं सपटहं पुरे तस्मिन्निदं वचः ।। ९३
विप्रक्षत्रियमध्यात्कनकपुरी येन तत्त्वतो दृष्ट्वा ।
वक्तु स तस्मै तनयां सयौवराज्यां ददाति नृपः ।। ९४
तच्छ्रुत्वैव स गत्वा तान्पटहोद्धोषकान्कृती ।
मया दृष्टा पुरी सेति शक्तिदेवोऽब्रवीत्पुनः ।। ९५
तैस्तूर्णं नृपतेरग्र स नीतोऽभून्नृपोऽपि तम् ।
प्राग्वन्मेने परिज्ञाय पुनर्वितथवादिनम् ।। ९६
मिथ्या चेद्वच्मि न मया दृष्टा सा नगरी यदि ।
तदिदानीं शरीरस्य निग्रहेण पणो मम ।। ९७
अद्य सा राजपुत्री मां पृच्छत्वित्युदिते ततः ।
गत्वा चानुचरै राजा तत्रैवानाययत्सुताम् ।। ९८
सा दृष्ट्वा दृष्टपूर्वं तं विप्रं राजानमभ्यधात् ।
तात मिथ्यैव भूयोऽपि किंचिद्वक्ष्यत्यसाविति ।। ९९
शक्तिदेवस्ततोऽवादीदहं सत्यं मृषैव वा ।
वच्मि राजसुते त्वं तु वदैवं मम कौतुकम् ।। 5.3.१००
मया कनकपुर्यां त्वं पर्यङ्के गतजीविता ।
दृष्टा चेह च पश्यामि जीवन्तीं भवतीं कथम् ।। १०१
 इत्युक्ता शक्तिदेवेन साभिज्ञानं नृपात्मजा ।
सद्यः कनकरेखा सा जगादैवं पितुः पुरः ।। १०२
तात दृष्टामुना सत्यं नगरी सा महात्मना ।
अचिराच्चैष भर्ता मे तत्रस्थाया भविष्यति ।। १०३
तत्र मद्भगिनीश्चान्यास्तिस्रोऽयं परिणेष्यति ।
विद्याधराधिराज्यं च तस्यां पुरि करिष्यति ।। १०४
मया त्वद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा ।
मुनेः शापादहं ह्यत्र जाताभूवं भवद्गृहे ।। १०५
यदा कनकपुर्यां ते देहमालोक्य मानुषः ।
मर्त्यभावभृतस्तत्त्वप्रतिभेदं करिष्यति ।। १०६
तदा ते शापमुक्तिश्च स च स्यान्मानुषः पतिः ।
इति मे च स शापान्तं पुनरेवादिशन्मुनिः ।। १०७
जातिस्मरा च मानुष्येऽप्यहं ज्ञानवती तथा ।
तद्व्रजाम्यधुना सिद्ध्यै निजं वैद्याधरं पदम् ।। १०८
इत्युक्त्वा राजपुत्री सा तनुं त्यक्त्वा तिरोदधे ।
तुमुलश्चोदभूत्तस्मिन्नाक्रन्दो राजमन्दिरे ।। १०९
शक्तिदेवोऽप्युभयतो भ्रष्टस्तैस्तैर्दुरुत्तरैः ।
क्लेशैः प्राप्यापि न प्राप्ते ध्यायंस्ते द्वे अपि प्रिये ।। 5.3.११०
निन्दन्खिन्नोऽपि चात्मानमसंपूर्णमनोरथः ।
निर्गत्य राजभवनात्क्षणादेवमचिन्तयत् ।। १११
अभीष्टं भावि मे तावदुक्तं कनकरेखया ।
तत्किमर्थं विषीदामि सत्त्वाधीना हि सिद्धयः ।। ११२
पथा तेनैव कनकपुरीं गच्छामि तां पुनः ।
भूयोऽप्यवश्यं दैवं मे तत्रोपायं करिष्यति ।। ११३
इत्यालोच्यैव स प्रायाच्छक्तिदेवः पुरात्ततः ।
असिद्धार्था निवर्तन्ते नहि धीराः कृतोद्यमाः ।। ११४
गच्छंश्चिराच्च संप्राप जलधेः पुलिनस्थितम् ।
तद्विटङ्कपुरं नाम नगरं पुनरेव सः ।। ११५
तत्रापश्यच्च वणिजं तं संमुखमुपागतम् ।
येन साकं गतस्याब्धिं पोतमादावभज्यत ।। ११६
सोऽयं समुद्रदत्तः स्यात्कथं च पतितोऽम्बुधौ ।
उत्तीर्णोऽयं न वा चित्रमहमेव निदर्शनम् ।। ११७
इत्यालोच्य स यावत्तमभ्येति वणिजं द्विजः ।
तावत्स तं परिज्ञाय हृष्टः कण्ठेऽग्रहीद्वणिक् ।। ११८
अनैषीच्च निजं गेहं कृतातिथ्यश्च पृष्टवान् ।
पोतभङ्गे त्वमम्भोधेः कथमुत्तीर्णवानिति ।। ११९
शक्तिदेवोऽपि वृत्तान्तं तथा तं कृत्स्नमब्रवीत् ।
यथा मत्स्यनिगीर्णः प्रागुत्स्थलद्वीपमाप सः ।। 5.3.१२०
अनन्तरं च तमपि प्रत्यपृच्छद्वणिग्वरम् ।
कथं तदा त्वमप्यब्धिमुत्तीर्णो वर्ण्यतामिति ।। १२१
अथाब्रवीत्सोऽपि वणिक्तदाहं पतितोऽम्बुधौ ।
दिनत्रयं भ्रमन्नासमेकं फलहकं श्रितः ।। १२२
ततस्तेन पथाकस्मादेकं वहनमागतम् ।
तत्रस्थैश्चाहमाक्रन्दन्दृष्ट्वा चात्राविरोपितः ।। १२३
आरूढश्चात्र पितरं स्वमपश्यमहं तदा ।
गत्वा द्वीपान्तरं पूर्वं चिरात्तत्कालमागतम् ।। १२४
स मां दृष्ट्वा परिज्ञाय कृतकण्ठग्रहः पिता ।
रुदन्नपृच्छद्वृत्तान्तमहं चैव तमब्रुवम् ।। १२५
चिरकालप्रयातेऽपि तात त्वय्यनुपागते ।
स्वधर्म इति वाणिज्ये स्वयमस्मि प्रवृत्तवान् ।। १२६
ततो द्वीपान्तरं गच्छन्नहं वहनभङ्गतः ।
अद्याम्बुधौ निमग्नः सन्प्राप्य युष्माभिरुद्धृतः ।। १२७
एवं मयोक्तस्तातो मां सोपालम्भमभाषत ।
आरोहसि किमर्थं त्वमीदृशान्प्राणसंशयान् ।। १२८
धनमस्ति हि मे पुत्र स्थितश्चाहं तदर्जने ।
पश्यानीतं मयेदं ते वहनं हेमपूरितम् ।। १२९
इत्युक्त्वाश्वास्य तेनैव वहनेन निजं गृहम् ।
विटङ्कपुरमानीतस्तेनैवेदमहं ततः ।। 5.3.१३०
इत्येतद्वणिजस्तस्माच्छक्तिदेवो निशम्य सः ।
विश्रम्य च त्रियामां तामन्येद्युस्तमभाषत ।। १३१
गन्तव्यमुत्स्थलद्वीपं सार्थवाह पुनर्मया ।
तत्कथं तत्र गच्छामि सांप्रतं कथ्यतामिति ।। १३२
गंतुं प्रवृत्तास्तत्राद्य मदीया व्यवहारिणः ।
तद्यानपात्रमारुह्य प्रयातु सह तैर्भवान् ।। १३३
इत्युक्तस्तेन वणिजा स तैस्तद्व्यवहारिभिः ।
साकं तदुत्स्थलद्वीपं शक्तिदेवो ययौ ततः ।। १३४
यः स बन्धुर्महात्मा मे विष्णुदत्तोऽत्र तिष्ठति ।
प्राग्वत्तस्यैव निकटं वस्तुमिच्छामि तन्मठम् ।। १३५
इति संप्राप्य च द्वीपं तत्कालं च विचिन्त्य सः ।
विपणीमध्यमार्गेण गन्तुं प्रावर्तत द्विजः ।। १३६
तावच्च तत्र दैवात्तं दृष्ट्वा दाशपतेः सुताः ।
सत्यव्रतस्य तस्यारात्परिज्ञायैवमब्रुवन् ।। १३७
पातेन साकं कनकपुरीं चिन्वन्नितस्तदा ।
ब्रह्मन्नगास्त्वमेकश्च कथमद्यागतो भवान् ।। १३८
शक्तिदेवस्ततोऽवादीदम्बुराशौ स वः पिता ।
पतितोऽम्बुभिराकृष्टवहनो वडवामुखे ।। १३९
तच्छ्रुत्वा दाशपुत्रास्ते क्रुद्धा भृत्यान्बभाषिरे ।
बघ्नीतैनं दुरात्मानं हतोऽनेन स नः पिता ।। 5.3.१४०
अन्यथा कथमेकस्मिन्सति प्रवहणे द्वयोः ।
वडवाग्नौ पतेदेको द्वितीयश्चोत्तरेत्ततः ।। १४१
तदेष चण्डिकादेव्याः पुरस्तात्पितृघातकः ।
अस्माभिरुपहन्तव्यः श्वः प्रभाते पशूकृतः ।। १४२
इत्युक्त्वा दाशपुत्रास्ते भृत्यान्बद्ध्वैव तं तदा ।
शक्तिदेवं ततो निन्युर्भयकृच्चण्डिकागृहम् ।। १४३
शश्वत्कवलितानेकजीवं प्रविततोदरम् ।
खचद्धण्टावलीदन्तमालं मृत्योरिवाननम् ।। १४४
तत्र बद्धः स्थितो रात्रौ संशयानः स्वजीविते ।
स शक्तिदेवो देवीं तां चण्डीमेवं व्यजिज्ञपत् ।। १४७
बालार्कबिम्बनिभया भगवति मूर्त्या त्वया परित्रातम् ।
निर्भरपीतप्रविसृतरुरुदानवकण्ठरुधिरयेव जगत् ।। १४६
तन्मां सततप्रणतं निष्कारणविधुरवर्गहस्तगतम् ।
रक्षस्व सुदूरागतमिष्टजनप्राप्तितृष्णया वरदे ।। १४७
इति देवीं स विज्ञप्य प्राप्य निद्रां कथंचन ।
अपश्यद्योषितं स्वप्ने तद्गर्भगृहनिर्गताम् ।। १४८
सा दिव्याकृतिरभ्येत्य सदयेव जगाद तम् ।
भोः शक्तिदेव मा भैषीर्न तेऽनिष्टं भविष्यति ।। १४९
अस्त्येषां दाशपुत्राणां नाम्ना बिन्दुमती स्वसा ।
सा प्रातर्वीक्ष्य कन्या त्वां भर्तृत्वेऽभ्यर्थयिष्यति ।।5.3.१ ५०
तच्च त्वं प्रतिपद्येथाः सैव त्वां मोचयिष्यति ।
न च सा धीवरी सा हि दिव्या स्त्री शापतश्च्युता ।।१५१
एतच्छ्रुत्वा प्रबुद्धस्य तस्य नेत्रामृतच्छटा ।
प्रभाते दाशकन्या सा तद्देवीगृहमाययौ ।। १५२
बभाषे चैनमभ्येत्य निवेद्यात्मानमुत्सुका ।
इतोऽहं मोचयामि त्वां तत्कुरुष्वेप्सितं मम ।। १५३
भ्रातॄणां संमता ह्येते प्रत्याख्याता वरा मया ।
त्वयि दृष्टे तु मे प्रीतिः संजाता तद्भजस्व माम् ।। १५४
इत्युक्तः स तया बिन्दुमत्या दाशेन्द्रकन्यया ।
शक्तिदेवः स्मरन्स्वप्नं हृष्टस्तत्प्रत्यपद्यत ।। १५५
तयैव मोचितस्तां च सुमुखीं परिणीतवान् ।
स्वप्नलब्धाम्बिकादेशैर्भ्रातृभिर्विहितेप्सिताम् ।। १५६
तस्थौ च सुखसिद्ध्येव तत्र पुण्यैकलब्धया ।
रूपान्तरोपागतया स तया सह दिव्यया ।। १५७
एकदा हर्म्यपृष्ठस्थो धृतगोमांसभारकम् ।
मार्गागतं स चण्डालं दृष्ट्वा तामब्रवीत्प्रियाम् ।। १५८
वन्द्यास्त्रिजगतोऽप्येता याः कृशोदरि धेनवः ।
तासां पिशितमन्नाति पश्यायं पापकृत्कथम् ।। १५९
तच्छ्रुत्वा साप्यवादीत्तं पतिं बिन्दुमती तदा ।
अचिन्त्यमार्यपुत्रैतत्पापमत्र किमुच्यते ।। 5.3.१६०
अहं गवां प्रभावेण स्वल्पादप्यपराधतः ।
जाता दाशकुलेऽमुष्मिन्का त्वेतस्यात्र निष्कृतिः ।। १६१
एवमुक्तवतीमेव शक्तिदेवो जगाद ताम् ।
चित्रं ब्रूहि प्रिये का त्वं दाशजन्म कथं च ते ।। १६२
अतिनिर्बन्धतश्चैव पृच्छन्तं तमुवाच सा ।
वदामि गोप्यमप्येतद्वचनं मे करोषि चेत् ।। १६३
बाढं प्रिये करोमीति तेनोक्ते शपथोत्तरम् ।
सा तदैनं जगादैवमादौ तावत्समीहितम् ।। १६४
अस्मिन्द्वीपे द्वितीयापि भार्या ते भविताधुना ।
सा चार्यपुत्र नचिराद्धृतगर्भा भविष्यति ।। १६५
अष्टमे गर्भमासे च पाटयित्वोदरं त्वया ।
तस्याः स गर्भः क्रष्टव्यो नैव कार्या घृणात्र च ।। १६६
एवमुक्तवती तस्मिन्किमेतदिति विस्मिते ।
लसद्धृणे च भूयः सा दाशेन्द्रतनयाब्रवीत् ।। १६७
इत्येतत्तव कर्तव्यं हेतोः कस्यापि मद्वचः ।
अथेदं शृणु या चाह दाशजन्म यथा च मे ।। १६८
अहं जन्मान्तरेऽभूवं कापि विद्याधरी पुरा ।
मर्त्यलोके च शापेन परिभ्रष्टास्मि सांप्रतम् ।। १६९
विद्याधरत्वे च यदा छित्त्वा दन्तैरयोजयम् ।
वीणासु तन्त्रीस्तेनेह जाताहं दाशवेश्मनि ।। 5.3.१७०
तदेवं वदने स्पृष्टे शुष्केण स्नायुना गवाम् ।
ईदृश्यधोगतिः का तु वार्ता तन्मांसभक्षणे ।। १७१
इत्येवं कथयन्त्या च तत्र तस्यां ससंभ्रमम् ।
 एकोऽभ्युपेत्य तद्भ्राता शक्तिदेवमभाषत ।। १७२
उत्तिष्ठ सुमहानेष कुतोऽप्युत्थाय सूकरः ।
हतानेकजनो दर्पादितोऽभिमुखमागतः ।। १७३
तच्छ्रुत्वा सोऽवतीर्यैव शक्तिदेवः स्वहर्म्यतः ।
आरुह्य शक्तिहस्तोऽश्वमधावत्सूकरं प्रति ।। १७४
प्रजहार च दृष्ट्वैव तस्मिन्वीरेऽभिधावति ।
पलाय्य व्रणितः सोऽपि वराहः प्राविशद्बिलम् ।। १७५
शक्तिदेवोऽपि तत्रैव तदन्वेषी प्रविश्य च ।
क्षणादपश्यत्सावासमुद्यानगहनं महत् ।। १७६
तत्रस्थश्च ददर्शैकां कन्यामत्यद्भुताकृतिम् ।
ससंभ्रममुपायातां प्रीत्येव वनदेवताम् ।। १७७
तामपृच्छच्च कल्याणि का त्वं किं संभ्रमश्च ते ।
तच्छ्रुत्वा सापि सुमुखी तमेवं प्रत्यभाषत ।। १७८
अस्ति दक्षिणदिङ्नाथो नृपतिश्चण्डविक्रमः ।
तस्याहं बिन्दुरेखाख्या सुता सुभग कन्यका ।। १७९
इहाकस्माच्च पापो मां दैत्यो ज्वलितलोचनः ।
अपहृत्य च्छलेनाद्य पितुरानीतवान्गृहात् ।। 5.3.१८०
स चामिषार्थी वाराहं रूपं कृत्वा बहिर्गतः ।
विद्धोऽद्यैव क्षुधार्तः सञ्शक्त्या वीरेण केनचित् ।। १८१
विद्धमात्रः प्रविश्येह पञ्चतामागतश्च सः ।
तददूषितकौमारा पलाय्याहं च निर्गता ।। १८२
तच्छ्रुत्वा शक्तिदेवस्तामूचे कस्तर्हि संभ्रमः ।
मयैव स वराहो हि हतः शक्त्या नृपात्मजे ।। १८३
ततः साप्यवदत्तर्हि ब्रूहि मे को भवानिति ।
विप्रोऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच्च सः ।। १८४
तर्हि त्वमेव मे भर्तेत्युदितः स तया ततः ।
तथेत्यादाय तां वीरो बिलद्वारेण निर्ययौ ।। १८५
गृहं गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत् ।
तच्छ्रद्धितः कुमारीं तां बिन्दुरेखामुदूढवान् ।। १८६
ततस्तस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः ।
तत्रैका बिन्दुरेखा सा भार्या गर्भमधारयत् ।। १८७
अष्टमे गर्भमासे च तस्याः स्वैरमुपेत्य तम् ।
आद्या बिन्दुमती भार्या शक्तिदेवमुवाच सा ।। १८८
वीर तत्स्मर यन्मह्म प्रतिश्रुतमभूत्त्वया ।
सोऽयं द्वितीयभार्याया गर्भमासोऽष्टमस्तव ।। १८९
तद्गत्वा गर्भमेतस्या विपाट्योदरमाहर ।
अनतिक्रमणीयं हि निजं सत्यवचस्तव ।। 5.3.१९०
एवमुक्तस्तया शक्तिदेवः स्नेहकृपाकुलः ।
प्रतिज्ञापरतन्त्रश्च क्षणमासीदनुत्तरः ।। १९१
जातोद्वेगश्च निर्गत्य बिन्दुरेखान्तिकं ययौ ।
सापि खिन्नमुपायान्तं तं विलोक्यैवमब्रवीत् ।। १९२
आर्यपुत्र विषण्णोऽसि किमद्य ननु वेद्म्यहम् ।
बिन्दुमत्या नियुक्तस्त्वं गर्भस्योत्पाटने मम ।। १९३
तच्च तेऽवश्यकर्तव्यं कार्यं किंचिद्धि विद्यते ।
नृशंसता च नास्त्यत्र काचित्तन्मा घृणां कृथाः ।। १९४
तथाहि शृणु नाथात्र देवदत्तकथामिमाम् ।
पुराभूद्धरिदत्ताख्यः कम्बुकाख्ये पुरे द्विजः ।। १९५
तस्य च श्रीमतः पुत्रः कृतविद्योऽपि शैशवे ।
देवदत्ताभिधानोऽभूद्द्यूतैकव्यसनी युवा ।। १९६
द्यूतहारितवस्त्रादिर्गन्तुं नालं पितुर्गृहम् ।
एकदा च विवेशैकं स शून्यं देवतागृहम् ।। १९७
तत्र चापश्यदेकाकी साधितानेककार्मणम् ।
जपन्तं जालपादाख्यं महाव्रतिनमेककम् ।। १९८
चकार च शनैस्तस्य प्रणाममुपगम्य सः ।
तेनाप्यपास्तमौनेन स्वागतेनाभ्यनन्द्यत ॥
स्थितः क्षणाच्च तेनैव पृष्टो वैधुर्यकारणम् ।
शशंसास्मै स्वविपदं व्यसनक्षीणवित्तजाम् ॥ 5.3.२००
ततस्तं स जगादैवं देवदत्तं महाव्रती ।
नास्ति व्यसनिनां वत्स भुवि पर्याप्तये धनम् ॥
इच्छा च विपदं हातुं यदि ते कुरु मद्वचः ।
विद्याधरत्वं प्राप्तं यत्कृतः परिकरो मया ॥
तत्साधय त्वमप्येतन्मया सह सुलक्षण ।
मच्छासनं तु पाल्यं ते नश्यन्तु विपदस्तव ॥
इत्युक्तो व्रतिना तेन प्रतिश्रुत्य तथेति तत् ।
स देवदत्तस्तत्पार्श्वे तदैव स्थितिमग्रहीत् ॥
अन्येद्युश्च श्मशानान्ते गत्वा वटतरोरधः ।
विधाय रजनौ पूजां परमान्नं निवेद्य च ॥ २०५
बलीन्दिक्षु च विक्षिप्य संपादिततदर्चनः ।
तं पार्श्ववर्तिनं विप्रमुवाच स महाव्रती ॥
एवमेव त्वया कार्यमिह प्रत्यहमर्चनम् ।
विद्युत्प्रभे गृहाणेमां पूजामित्यभिधायिना ॥
अत: परं च जानेऽहं सिद्धिश्चैवं ध्रुवावयोः ।
इत्युक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥
सोऽपि नित्यं तरोस्तस्य मूले गत्वा तथैव तत् ।
देवदत्तोर्चनं चक्रे तथैव विधिना ततः ॥
एकदा च सपर्यान्ते द्विधाभूतात्तरोस्ततः।
अकस्मात्पश्यतस्तस्य दिव्या नारी विनिर्ययौ ॥ 5.3.२१०
एह्यस्मत्स्वामिनी भद्र वक्ति त्त्वामिति वादिनी ।
सा तं प्रवेशयामास तस्यैवाभ्यन्तरं तरोः ॥
स प्रविश्य ददर्शात्र दिव्यं माणिमयं गृहम् ।
पर्यङ्कवर्तिनीमेकां तत्र चान्तर्वरस्त्रियम् ॥
रूपिणी सिद्धिरस्माकमियं स्यादिति स क्षणात् ।
यावद्ध्यायति तावत्सा कृतातिथ्या वराङ्गना ॥
रणिताभरणैरङ्गैर्विहितस्वागतैरिव ।
उत्थाय निजपर्यङ्के तमुपवेशयत्स्वयम् ॥
जगाद च महाभाग सुता यक्षपतेरहम् ।
कन्या हि रत्नवर्षस्य ख्याता विद्युत्प्रभाख्यया ॥ २१५
आराधयच्च मामेष जालपादो महाव्रती ।
तस्यार्थसिद्धिदैवास्मि त्वं प्राणेष्वपि मे प्रभुः ॥
तस्माद्दृष्टानुरागिण्याः कुरु पाणिग्रहं मम ।
इत्युक्त: स तया चक्रे देवदत्तस्तथेति तत् ॥
स्थित्वा च कंचित्कालं स गर्भभारे तथा धृते ।
जगाम पुनरागन्तुं तं महाव्रतिनं प्रति ॥
शशंस च यथावृत्तं तं तस्मै सभयं ततः ।
सोऽप्येवमात्मसिद्ध्यर्थी जगादैनं महाव्रती ॥
भद्र साधु कृतं किं तु गत्वास्या यक्षयोषितः ।
विपाट्योदरमाकृष्य शीघ्रं गर्भं तमानय ॥ 5.3.२२०
इत्युक्त्वा स्मारयित्वा च व्रतिना पूर्वसंगरम् ।
प्रेषितस्तेन भूयस्तां देवदत्तोऽप्यगात्प्रियाम् ॥
तत्र तिष्ठति यावच्च तद्विभावनदुर्मनाः ।
तावद्विद्युत्प्रभा सा तं यक्षी स्वयमभाषत ॥
आर्यपुत्र विषण्णोसि किमर्थं विदितं मया ।
आदिष्टं जालपादेन तव मद्गर्भपाटनम् ॥
तद्गर्भमेतमाकर्ष पाटयित्वा ममोदरम् ।
न चेत्स्वयं करोम्येतत्कार्यं ह्यस्त्यत्र किंचन ॥
एवं तयोक्त: स यदा कर्तुं तन्नाशकद्द्विजः ।
तदाकृष्टवती गर्भं सा स्वयं पाटितोदरा ॥ २२५
तं च कृष्टं पुरस्त्यक्त्वा देवदत्तं तमभ्यधात् ।
भोक्तुर्विद्याधरत्वस्य कारणं गृह्यतामयम् ॥
अहं च शापाद्यक्षीत्वे जाता विधाधरी सती ।
अयमीदृक्च शापान्तो मम जातिस्मरा ह्यहम् ॥
इदानीं यामि धाम स्वं संगमश्चावयोः पुनः ।
तत्रैवेत्यभिधायैषा क्कापि विद्युत्प्रभा ययौ ॥
देवदत्तोऽपि तम् गर्भं गृहीत्वा खिन्नमानसः ।
जगाम जालपादस्य तस्य स व्रतिनोऽन्तिकम् ॥
उपानयच्च तं गर्भं तस्मै सिद्धिप्रदायिनम् ।
भजन्त्यात्मम्भरित्वं हि दुर्लभेऽपि न साधवः ॥ 5.3.२३०
सोऽपि तत्पाचयित्वैव गर्भमांसं महाव्रती ।
व्यसृजद्देवदत्तं तं भैरवार्चाकृतेऽटवीम् ॥
ततो दत्तबलिर्यावदेत्य पश्यति स द्विजः ।
तावन्मांसमशेषं तद्व्रतिना तेन भक्षितम् ॥
कथं सर्वं त्वया भुक्तमिति चात्रास्य जल्पतः ।
जिह्मो विद्याधरो भूत्वा जालपादः खमुद्ययौ ॥
व्योमश्यामलनिस्त्रिंशे हारकेयूरराजिते ।
तस्मिन्नुत्पतिते सोऽथ देवदत्तो व्यचिन्तयत् ॥
कष्टं कीदृगनेनाहं वञ्चितः पापबुद्धिना ।
यदि वात्यन्तमृजुता न कस्य परिभूतये ॥ २३५
तदेतस्यापकारस्य कथमद्य प्रतिक्रियाम् ।
कुर्यां विद्याधरीभूतमप्येनं प्राप्नुयां कथम् ॥
तन्नास्त्युपायो वेतालसाधनादपरोऽत्र मे ।
इति निश्चित्य स ययौ रात्रौ पितृवनं ततः ॥
तत्राहूय तरोर्मूले वेतालं नृकलेवरे ।
पूजयित्वाकरोत्तस्य नृमांसबलितर्पणम् ॥
अतृप्यन्तं च वेतालं तमन्यानयनासहम् ।
तर्पयिष्यन्स्वमांसानि च्छेत्तुमारभते स्म सः ॥
तत्क्षणं तं स वेतालो महासत्त्वमभाषत ।
सत्त्वेनानेन तुष्टोऽस्मि तव मा साहसं कृथाः ॥ 5.3.२४०
तद्भद्र किमभिप्रेतं तव यत्साधयामि ते ।
इत्युक्तवन्तं वेतालं स वीरः प्रत्युवाच तम् ॥
विश्वस्तवञ्चको यत्र जालपादो व्रती स्थितः ।
विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥
तथेत्युक्तवता तेन वेतालेन स तत्क्षणात् ।
स्कन्धेऽधिरोप्य नभसा निन्ये वैद्याधरं पदम् ॥
तत्रापश्यञ्च तं जालपादं प्रासादवर्तिनम् ।
स विद्याधरराजत्वदृप्तं रत्नासनस्थितम् ॥
प्रतारयन्तं तामेव लब्धविद्याधरीपदाम् ।
विद्युत्प्रभामनिच्छन्तीं भार्यात्वे तत्तदुक्तिभिः ॥ २४५
दष्ट्वैव च स वेतालोऽप्यभ्यधावत्स तं युवा ।
हृष्यद्विद्युत्प्रभानेत्रचकोरामृतचन्द्रमाः
जालपादोऽपि सोऽकस्मात्तं दृष्ट्वैवागतं तथा ।
वित्रासाद्भ‘ष्टनिस्त्रिंशो निपपातासनाद्भुवि ॥
देवदत्तोऽपि तत्ख‘ स लब्ध्वाप्यवधीन्न तम् ।
रिपुष्वपि हि भीतेषु सानुकम्पा महाशयाः ॥
जिघांसन्तं च वेतालं तं जगाद स वारयन् ।
पाखण्डिना किमेतेन कृपणेन हतेन नः ॥
स्थाप्यतां भुवि नीत्वायं तस्मात्वनिलये त्वया ।
आस्तां तत्रैव भूयोऽपि पापः कापालिका वरम् ।। 5.3.२५०
इत्येवं वदतस्तस्य देवदत्तस्य तत्क्षणम् ।
दिवोऽवतीर्य शर्वाणी देवी प्रत्यक्षतां ययौ ॥
सा जगाद च तं प्रह्वं पुत्र तुष्टास्मि तेऽधुना ।
अनन्यसदृशेनेह सत्त्वोत्कर्षेण संप्रति ॥
तद्विद्याधरराजत्वं मया दत्तमिहैव ते ।
इत्युक्तत्वार्पितविद्या सा देवी सद्यस्तिरोऽभवत् ॥
जालपादश्‍च नीत्वैव वेतालेन स भूतले ।
विभ‘ष्टसिद्धिर्निदधे नाधर्मश्‍चिरमृद्धये ॥
देवदत्तोऽपि सहितः स विद्दुत्प्रभया तया ।
विद्याधराधिराज्यं तत्प्राप्य तत्र व्यजृम्भत ॥ २५५
इत्याख्याय कथां पत्ये शक्तिदेवाय सत्वरा ।
सा बिन्दुरेखा भूयस्तं बभाषे मृदुभाषिणी ॥
इतीदृशि भवन्त्येव कार्याणि तदिदं मम ।
बिन्दुमत्युदितं गर्भं मुक्तशोकं विपाटय ॥
इत्येवं बिन्दुरेखायां वदन्त्यां पापशि’ते ।
शक्तिदेवे च गगनादुदभूत्तत्र भारती ॥
भोः शक्तिदेव निःश’ङ्कं गर्भोऽस्याः कृष्यतां त्वया ।
कण्ठे मुष्ट्या गृहीतो हि ख’ड्गोऽसौ ते भविष्यति।।
इति दिव्यां गिरं श्रुत्वा पाटितोदरमाशु सः ।
गर्भं तस्याः समाकृष्य पाणिना कण्ठतोऽग्रहीत् ।। 5.3.२६०
गृहीतमात्रो जज्ञे च स खड्ग‘स्तस्य हस्तगः ।
आकृष्टः सत्त्वतः सिद्धेः केशपाश इवायताः ।
ततो विद्याधरः क्षिप्रात्स विप्रः समजायत ।
बिन्दुरेखा च तत्कालमदर्शनमियाय सा ॥
तद्दृष्ट्वा च स गत्वैव दाशपुञ्यै न्यवेदयत् ।
बिन्दुमत्यै द्वितीयस्यै पत्न्यै सर्वं तथाविधः ॥
सा तमाह वयं नाथ विद्याधरपतेः सुताः ।
तिस्रो भगिन्यः कनकपुरीतः शापतश्‍च्युता ॥
एका कनकरेखा सा वर्धमानपुरे त्वया ।
यस्या दृष्टः स शापान्तः सा च तां स्वां पुरी गता।। २६५
शापान्तो हीदृशस्तस्या विचित्रो विधियोगतः ।
अहमेव तृतीया च शापान्तञ्चाधुनैव मे ॥
मया चाद्यैव गन्तव्या नगरी सा निजा प्रिय ।
विद्याधरशरीराणि तत्रैवास्माकमासते ॥
चन्द्रप्रभा च भगिनी ज्यायसी हि स्थितात्र नः ।
तदायाहि त्वमप्याशु ख‘सिद्धिप्रभावतः।।
तत्र ह्यस्मांश्‍चतस्त्रोऽपि भार्याः संप्राप्य चाधिकाः ।
वनस्थेनार्पिताः पित्रा पुरि राज्यं करिष्यस्ति॥
इति निजपरमार्थमुक्तवत्या सममनया पुनरेव बिन्दुमत्या ।
अथ कनकपुरीं स शक्तिदेवो गगनपथेन तथेति तां जगाम ॥ 5.3.२७०
तस्यां च यानि योषिद्वपूंषि पर्य’ततल्पवर्तीनि ॥
निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥
तानि यथावत्स्वात्मभिरनुप्रविष्टाः स कनकरेखाद्याः।
प्राप्तो भूयः प्रणता अद्राक्षित्ता निजप्रियास्तिस्त्रः॥
तस्यां च यानि योषिद्वपूंषि पर्य’ततल्पवर्तीनि ॥
निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥
तानि यथावत्स्वात्मभिरनुप्रविष्टाः स कनकरेखाद्याः।
प्राप्तो भूयः प्रणता अद्राक्षित्ता निजप्रियास्तिस्त्रः॥
तां च चतुर्थीमैक्षत तज्ज्येष्ठां रचितमङ्गलां तत्र ।
चन्द्रप्रभां पिबन्तीं चिरदर्शनसोत्कया दृष्ट्या ।। २७३
स्वस्वनियोगव्यापृतपरिजनवनिताभिनन्दितागमनः ।
वासगृहान्तः प्राप्तश्चन्द्रप्रभया तया जगदे ।। २७४
या तत्र कनकरेखा राजसुता सुभग वर्धमानपुरे ।
दृष्टा भवता सेयं भगिनी मे चन्द्ररेखाख्या ।। २७५
या दाशाधिपपुत्री बिन्दुमती प्रथममुत्स्थलद्वीपे ।
परिणीताभूद्भवता शशिरेखा मत्स्वसा सेयम् ।। २७६
या तदनु बिन्दुरेखा राजसुता तत्र दानवानीता ।
भार्या च ते तदाभूच्छशिप्रभा सेयमनुजा मे ।। २७७
तदिदानीमेहि कृतिन्नस्मत्पितुरन्तिकं सहास्माभिः ।
तेन प्रत्ताश्चैता द्रुतमखिलाः परिणयस्वास्मान् ।। २७८
इति कुसुमशराज्ञासप्रगल्भं च तस्यां त्वरितमुदितवत्यामत्र चन्द्रप्रभायाम् ।
अपि चतसृभिराभिः साकमेतत्पितुस्तन्निकटमनुवनान्तं शक्तिदेवो जगाम ।। २७९
स च चरणनताभिस्ताभिरावेदितार्थो दुहितृभिरखिलाभिर्दिव्यवाक्प्रेरितश्च ।
युगपदथ ददौ ताः शक्तिदेवाय तस्मै मुदितमतिरशेषास्तत्र विद्याधरेन्द्रः ।। २८०
तदनु कनकपुर्यामृद्धमस्यां स्वराज्यं सपदि स विततार स्वाश्च विद्याः समस्ताः ।
अपि च कृतिनमेनं शक्तिवेगं स्वनाम्ना व्यधित समुचितेन स्वेषु विद्याधरेषु ।। २८१
अन्यो न जेष्यति भवन्तमतिप्रभावाद्वत्सेश्वरात्पुनरुदेष्यति चक्रवर्ती ।
युष्मासु योऽत्र नरवाहनदत्तनामा भावी विभुः स तव तस्य नतिं विदध्याः ।। २८२
इत्यूचिवांश्च विससर्ज महाप्रभावो विद्याधराधिपतिरात्मतपोवनात्तम् ।
सत्कृत्य सप्रियतमं निजराजधानीं जामातरं स शशिखण्डपदाभिधानः ।। २८३
अथ सोऽपि शक्तिवेगो राजा भूत्वा विवेश कनकपुरीम् ।
स्ववधूभिः सह गत्वा विद्याधरलोकवैजयन्तीं ताम् ।। २०४
तस्यां तिष्ठन्कनकरचनाविस्फुत्तमन्दिरायामत्यौन्नत्यादिव पटुपतत्पिण्डितार्कप्रभायाम् ।
वामाक्षीभिश्चतसृभिरसौ रत्नसोपानवापीहृद्योद्यानेष्वलभततरां निर्वृतिं प्रेयसीभिः ।। २८५
इति कथयित्वा चरितं निजमेव विचित्रमेव तत्कालम् ।
निजगाद शक्तिवेगो वाग्ग्मी वत्सेश्वरं भूयः ।। २८६
तं मां शशाङ्ककुलभूषण शक्तिवेगं जानीह्युपागतमिमं खलु वत्सराज ।
उत्पन्नभाविनिजनूतनचक्रवर्तियुष्मत्सुताङ्घ्रियुगदर्शनसाभिलाषम् ।। २८७
इत्थं मयेह मनुजेन सतापि लब्धा विद्याधराधिपतिता पुरजित्प्रसादात् ।
गच्छामि चाहमधुना नृपते स्वधाम दृष्टः प्रभुर्भवतु भद्रमभङ्गुरं वः ।। २८८
इत्युक्त्वा रचिताञ्जलौ च बदति प्राप्ताभ्यनुज्ञे तत-
स्तस्मिन्नुत्पतिते मृगाङ्कमहसि द्यां शक्तिवेगे क्षणात् ।
देवीभ्यां सहितः सबालतनयो वत्सेश्वरो मन्त्रिभिः
साकं कामपि तत्र संमदमयीं भेजे तदानीं दशाम् ।। २०९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके तृतीयस्तरङ्गः ।
समाप्तोऽयं चतुदारिकालम्बकः पञ्चमः .।