॥ओन्नमः परमात्मने॥ ॥श्रीमदापस्तम्बप्रणीतगृह्यसूत्राणि॥

अथ प्रथमः पटलः॥ प्रथमः खण्डः॥ अथ कर्माण्याचाराद्यानि गृह्यन्त॥ आप.गृ.१.१ ॥ उदगयनपूर्वपक्षाहः पुण्याहेषु कार्याणि॥ आप.गृ.१.२ ॥ यज्ञोपवीतिना॥ आप.गृ.१.३ ॥ प्रदक्षिणम्॥ आप.गृ.१.४ ॥ पुरस्तादुदग्वोपक्रमः॥ आप.गृ.१.५ ॥ तथाऽपवर्गः॥ आप.गृ.१.६ ॥ अपरपक्षे पित्र्याणि॥ आप.गृ.१.७ ॥ प्राचीनावीतिना॥ आप.गृ.१.८ ॥ प्रसव्यम्॥ आप.गृ.१.९ ॥ दक्षिणतोऽपवर्गः ॥ आप.गृ.१.१० ॥ निमित्तावेक्षाणि नैमित्तिकानि॥ आप.गृ.१.११ ॥ अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति॥ आप.गृ.१.१२ ॥ प्रादुदगग्रैर्वा॥ आप.गृ.१.१३ ॥ दक्षिणाग्रैः पित्र्येषु॥ आप.गृ.१.१४ ॥ दक्षिणाप्रागग्रैर्वा॥ आप.गृ.१.१५ ॥ उत्तरेणाग्निं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि॥ आप.गृ.१.१६ ॥ सकृदेव मनुष्यसंयुक्तानि॥ आप.गृ.१.१७ ॥ एकैकशः पितृसंयुक्तानि॥ आप.गृ.१.१८ ॥ पवित्रयोः संस्कार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम्॥ आप.गृ.१.१९ ॥ अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैःप्रच्छाद्य॥ आप.गृ.१.२० ॥ ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य॥ आप.गृ.१.२१ ॥ आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलताऽवद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्निकृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रे अनुप्रहृत्य॥ आप.गृ.१.२२ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः॥

   * * *

अथ द्वितीयः खण्डः॥ येन जुहोति तदग्नौ प्रतितप्य दर्भैः सम्मृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिः संस्पृश्याग्नौ प्रहरति॥ आप.गृ.२.१ ॥ शम्याः परिध्यर्थे विवाहोपनयनसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु॥ आप.गृ.२.२ ॥ अग्निं परिषिञ्चत्य‘दितेऽनुमन्यस्वे’ति दक्षिणतः प्राचीन‘मनुमतेऽनुमन्यस्वे’ति पश्चादुदीचीनं ‘सरस्वतेऽनुमन्यस्वे’त्युत्तरतः प्राचीनं ‘देव सवितः प्रसुवे’ति समन्तम्॥ आप.गृ.२.३ ॥ पैतृकेषु समन्तमेव तूष्णीम्॥ आप.गृ.२.४ ॥ इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम्॥ आप.गृ.२.५ ॥ अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण॥ आप.गृ.२.६ ॥ यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान् राष्ट्रभृतः प्राजापत्यं व्याहृतीर्विहृताः सौविष्टकृतीमित्युपजुहोति- यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु स्वाहेति॥ आप.गृ.२.७ ॥ पूर्ववत् परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः॥ आप.गृ.२.८ ॥ लौकिकानां पाकयज्ञशब्दः॥ आप.गृ.२.९ ॥ तत्र ब्राह्मणावेक्षो विधिः॥ आप.गृ.२.१० ॥ र्द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीति॥ आप.गृ.२.११ ॥ सर्वऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाधम्॥ आप.गृ.२.१२ ॥ सर्वाणि पुणोक्तानि नक्षत्राणि॥ आप.गृ.२.१३ ॥ तथा मङ्गलानि॥ आप.गृ.२.१४ ॥ आवृतश्चास्त्रीभ्यः प्रतीयेरन्॥ आप.गृ.२.१५ ॥ इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः॥ आप.गृ.२.१६ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने द्वितीयः खण्डः॥

अथ तृतीयः खण्डः॥ मधाभिर्गावो गृह्यन्ते॥ आप.गृ.३.१ ॥ फल्गुनीभ्यां व्यूह्यते॥ आप.गृ.३.२ ॥ “यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छती”ति ब्राह्मणावेक्षो विधिः॥ आप.गृ.३.३ ॥ इन्वकाशब्दो मृगशिरसि॥ आप.गृ.३.४ ॥ निष्ट्याशब्दः स्वादौ॥ आप.गृ.३.५ ॥ विवाहे गौः॥ आप.गृ.३.६॥ गृहेषु गौः॥ आप.गृ.३.७ ॥ तया वरमतिथिवदर्हयेत्॥ आप.गृ.३.८ ॥ योऽस्यापचितस्तमितरया॥ आप.गृ.३.९ ॥ एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च॥ आप.गृ.३.१० ॥ सुप्तां रुदन्तीं निष्क्रान्तां वरणे परिवर्जयेत्॥ आप.गृ.३.११ ॥ दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत्॥ आप.गृ.३.१२ ॥ नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः॥ आप.गृ.३.१३ ॥ सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत्॥ आप.गृ.३.१४ ॥ शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति॥ आप.गृ.३.१५ ॥ नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति॥ आप.गृ.३.१६ ॥ पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः॥ आप.गृ.३.१७ ॥ उत्तमं परिचक्षते॥ आप.गृ.३.१८ ॥ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत॥ आप.गृ.३.१९ ॥ बन्धुशीललक्षणसम्पन्नः श्रुतवानरोग इति वरसम्पत्॥ आप.गृ.३.२० ॥ यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके॥ आप.गृ.३.२१ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने तृतीयः खण्डः॥ समाप्तश्च प्रथमः पटलः॥

   * * *

अथ द्वितीयः पटलः॥ चतुर्थः खण्डः॥ सुहृदस्समवेदान् मन्त्रवतो वरान् प्रहिणुयात्॥ आप.गृ.४.१ ॥ तानादितो द्वाभ्यामभिमन्त्रयेत॥ आप.गृ.४.२ ॥ स्वयं दृष्ट्वा तृतीयां जपेत्॥ आप.गृ.४.३ ॥ चतुर्थ्या समीक्षेत॥ आप.गृ.४.४ ॥ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं सङ्गृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरं सम्मृज्य प्रतीचीनं निरस्येत्॥ आप.गृ.४.५ ॥ प्राप्ते निमित्त उत्तरां जपेत्॥ आप.गृ.४.६ ॥ युग्मान्समवेतान् मन्त्रवत उत्तरयाऽद्भ्यः प्रहिणुयात्॥ आप.गृ.४.७ ॥ उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरतया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिः स्नापयित्वोत्तरयाऽहतेन वाससाऽऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति॥ आप.गृ.४.८ ॥ अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाऽग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः॥ आप.गृ.४.९ ॥ अग्नेरुपसमाधानाद्याज्यभागान्तेऽथैनामादितो द्वाभ्यामभिमन्त्रयेत॥ आप.गृ.४.१० ॥ अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात्॥ आप.गृ.४.११ ॥ यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात्॥ आप.गृ.४.१२ ॥ यति कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति॥ आप.गृ.४.१३ ॥ ‘गृभ्णामि त’ इत्येताभिश्चतसृभिः॥ आप.गृ.४.१४ ॥ अथैनामुत्तरेणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय‘त्येकमिष’ इति॥ आप.गृ.४.१५ ॥ ‘सखे’ति सप्तमे पदे जपति॥ आप.गृ.४.१६ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्थः खण्डः॥

   * * *

अथ पञ्चमः खण्डः॥ प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति ‘सोमाय जनिविदे स्वाहे’त्येतैः प्रतिमन्त्रम्॥ आप.गृ.५.१ ॥ अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति॥ आप.गृ.५.२ ॥ अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानोप्याभिघारयति॥ आप.गृ.५.३ ॥ तस्यास्सोदर्यो लाजानावपतीत्येके॥ आप.गृ.५.४ ॥ जुहोतीयं नारीति॥ आप.गृ.५.५ ॥ उत्तराभिस्तिसृभिः प्रदक्षिणमग्निं कृत्वाऽश्मानमास्थापयति यथा पुरस्तात्॥ आप.गृ.५.६ ॥ होमश्चोत्तरया॥ आप.गृ.५.७ ॥ पुनः परिक्रमणम्॥ आप.गृ.५.८ ॥ आस्थापनम्॥ आप.गृ.५.९ ॥ होमश्चोत्तरया॥ आप.गृ.५.१० ॥ पुनः परिक्रमणम्॥ आप.गृ.५.११ ॥ जयादि प्रतिपद्यते॥ आप.गृ.५.१२ ॥ परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत्॥ आप.गृ.५.१३ ॥ समोप्यैतमग्निमनुहरन्ति॥ आप.गृ.५.१४ ॥ नित्यः॥ आप.गृ.५.१५ ॥ धार्यः॥ आप.गृ.५.१६ ॥ अनुगतो मन्थ्यः॥ आप.गृ.५.१७ ॥ श्रोत्र्यागाराद्वाऽऽहार्यः॥ आप.गृ.५.१८ ॥ उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा॥ आप.गृ.५.१९ ॥ अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेत्॥ आप.गृ.५.२० ॥ उत्तरा रथस्योत्तम्भनी॥ आप.गृ.५.२१ ॥ वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे॥ आप.गृ.५.२२ ॥ आरोहतीमुत्तराभिरभिमन्त्रयते॥ आप.गृ.५.२३ ॥ सूत्रे वर्त्मनोर्व्यवस्तृणात्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम्॥ आप.गृ.५.२४ ॥ ते उत्तराभिरभियाति॥ आप.गृ.५.२५ ॥ तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत्॥ आप.गृ.५.२६ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चमः खण्डः॥

   * * *

अथ षष्ठः खण्डः॥ नावमुत्तरयानुमन्त्रयते॥ आप.गृ.६.१ ॥ न च नाव्यांस्तरन्ती वधूः पश्येत्॥ आप.गृ.६.२ ॥ तीर्त्वोत्तरां जपेत्॥ आप.गृ.६.३ ॥ श्मशानादिव्यतिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते पतिषेचनान्तं करोति॥ आप.गृ.६.४ ॥ क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत्॥ आप.गृ.६.५ ॥ गृहानुत्तरया सङ्काशयति॥ आप.गृ.६.६ ॥ वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे॥ आप.गृ.६.७ ॥ लोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा॥ आप.गृ.६.८ ॥ न च देहलीमभितिष्ठति॥ आप.गृ.६.९ ॥ उत्तरपूर्वे देशेऽगारस्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः॥ आप.गृ.६.१० ॥ अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत आ नक्षत्रेभ्यः॥ आप.गृ.६.११ ॥ उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति॥ आप.गृ.६.१२ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने षष्ठः खण्डः॥ इति द्वितीयः पटलः॥

   * * *

अथ तृतीयः पटलः॥ सप्तमः खण्डः॥

अथैनामाग्नेयेन स्थालीपाकेन याजयति॥ आप.गृ.७.१ ॥ पत्न्यवहन्ति॥ आप.गृ.७.२ ॥ श्रपयित्वा(ऽ)भिघार्य प्राचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकाज्जुहोति॥ आप.गृ.७.३ ॥ सकृदुपस्तरणाभिघारणे द्विरवदानम्॥ आप.गृ.७.४ ॥ अग्निर्देवता स्वाहाकारप्रदानः॥ आप.गृ.७.५ ॥ अपि वा सकृदुपहत्य जुहुयात्॥ आप.गृ.७.६ ॥ अग्निः स्विष्टकृद्द्वितीयः॥ आप.गृ.७.७ ॥ सकृदुपस्तरणावदाने द्विरभिघारणम्॥ आप.गृ.७.८ ॥ मध्यात् पूर्वस्यावदानम्॥ आप.गृ.७.९ ॥ मध्ये होमः॥ आप.गृ.७.१० ॥ उत्तरार्धादुत्तरस्य॥ आप.गृ.७.११ ॥ उत्तरार्धपूर्वार्धे होमः॥ आप.गृ.७.१२ ॥ लेपयोः प्रस्तरवत् तूष्णीं बर्हिरङ्क्त्वा(ऽ)ग्नौ प्रहरति॥ आप.गृ.७.१३ ॥ सिद्धमुत्तरं परिषेचनम्॥ आप.गृ.७.१४ ॥ तेन सर्पिष्मता ब्राह्मणं भोजयेत्॥ आप.गृ.७.१५ ॥ योऽस्यापचितस्तस्मा ऋषभं ददाति॥ आप.गृ.७.१६ ॥ एवमत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः॥ आप.गृ.७.१७ ॥ पूर्णपात्रस्तु दक्षिणेत्येके॥ आप.गृ.७.१८ ॥ सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात्॥ आप.गृ.७.१९ ॥ स्थालीपाकवद्दैवतम्॥ आप.गृ.७.२० ॥ सौरी पूर्वाहुतिः प्रातरित्येके॥ आप.गृ.७.२१ ॥ उभयतः परिषेचनं यथा पुरस्तात्॥ आप.गृ.७.२२ ॥ पार्वणेनातोऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते॥ आप.गृ.७.२३ ॥ यथोपदेशं देवताः॥ आप.गृ.७.२४ ॥ अग्निं स्विष्टकृतं चान्तरेण॥ आप.गृ.७.२५ ॥ अविकृतमातिथ्यम्॥ आप.गृ.७.२६ ॥ वैश्वदेवे विश्वेदेवाः॥ आप.गृ.७.२७ ॥ पौर्णमास्यां पौर्णमासी यस्यां क्रियते॥ आप.गृ.७.२८ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने सप्तमः खण्डः॥

   * * *

अथाष्टमः खण्डः॥ उपाकरणे समापने च ऋषिर्यः प्रज्ञायते॥ आप.गृ.८.१ ॥ सदसस्पतिर्द्वितीयः॥ आप.गृ.८.२ ॥ स्त्रियाऽनुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते॥ आप.गृ.८.३ ॥ यथोपदेशं काम्यानि बलयश्च ॥ आप.गृ.८.४ ॥ सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां समिधावादध्यात्॥ आप.गृ.८.५ ॥ आपन्मा श्रीः श्रीर्मागादिति वा॥ आप.गृ.८.६ ॥ एतदहविर्विजानीयाद्यदहर्भार्यामावहते॥ आप.गृ.८.७ ॥ त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च॥ आप.गृ.८.८ ॥ तयोश्शय्यामन्तरेण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति॥ आप.गृ.८.९ ॥ तं चतुर्थ्याऽपररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते पतिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य तस्याः शिरस्याज्यशेषाद्व्याहृतीभिरोङ्कार चतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाऽऽज्यशेषेण हृदयदेशौ सम्मृज्योत्तराभिस्तिस्रो जपित्वा शेषं समावेशने जपेत्॥ आप.गृ.८.१० ॥ अन्यो वैनामभिमन्त्रयेत॥ आप.गृ.८.११ ॥ यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति ‘यां मलवद्वासस’मित्येतानि॥ आप.गृ.८.१२ ॥ रजसः प्रादुर्भावात् स्नातामृतुसमावेशन उत्तराभिरभिमन्त्रयते॥ आप.गृ.८.१३ ॥

इत्यापस्तम्बीये गृह्यप्रश्ने अष्टमः खण्डः॥

   * * *

अथ नवमः खण्डः॥ चतुर्थिप्रभृत्याशोडशीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसमृतुगमन इत्युपदिशन्ति॥ आप.गृ.९.१ ॥ अर्थप्राध्वास्य परिक्षवे परिकासने चाप उपस्पृश्योत्तरे यथालिङ्गं जपेत्॥ आप.गृ.९.२ ॥ एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीतिं सिग्वातं शकुनिमिति॥ आप.गृ.९.३ ॥ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा स्थालीपाकं श्रपयित्वाऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रदिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत॥ आप.गृ.९.४ ॥ श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति “यदि वारुण्यसि वरुणा त्वा निष्क्रीणामि। यदि सौम्यसि सोमाय त्वा निष्क्रीणामी”ति॥ आप.गृ.९.५ ॥ श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया वश्यो भवति॥ आप.गृ.९.६ ॥ वश्यो भवति॥ आप.गृ.९.७ ॥ सपत्नीबाधनं च॥ आप.गृ.९.८ ॥ एतेनैव कामेनोत्तरेणानुवाकेन सदाऽऽदित्यमुपतिष्ठते॥ आप.गृ.९.९ ॥ यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि सम्मृज्य प्रतीचीनं निरस्येत्॥ आप.गृ.९.१० ॥ वधूवास उत्तराभिरेतद्विदे दद्यात्॥ आप.गृ.९.११ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने नवमः खण्डः॥ समाप्तस्तृतीयः पटलः॥

   * * *

अथ चतुर्थः पटलः॥ दशमः खण्डः॥ उपनयनं व्याख्यास्यामः॥ आप.गृ.१०.१ ॥ गर्भाष्टमेषु ब्राह्मणमुपनयीत॥ आप.गृ.१०.२ ॥ गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्॥ आप.गृ.१०.३ ॥ वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण॥ आप.गृ.१०.४ ॥ ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयित्वा कुमारं भोजयित्वाऽनुवाकस्य प्रथमेन यजुषाऽपः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति॥ आप.गृ.१०.५ ॥ त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति॥ आप.गृ.१०.६ ॥ वपन्तमुत्तरया(ऽ)नुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा॥ आप.गृ.१०.७ ॥ आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति॥ आप.गृ.१०.८ ॥ स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽऽधाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति॥ आप.गृ.१०.९ ॥ वासः सद्यः कृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयाऽनुमन्त्रयते॥ आप.गृ.१०.१० ॥ मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया॥ आप.गृ.१०.११ ॥ उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमुत्तरयाऽवस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीय सुप्रजा इति दक्षिणे कर्णे जपति॥ आप.गृ.१०.१२ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने दशमः खण्डः॥

   * * *

अथैकादशः खण्डः॥ ‘ब्रह्मचर्यमागामि’ति कुमार आह॥ आप.गृ.११.१ ॥ प्रष्टं परस्य प्रतिवचनं कुमारस्य॥ आप.गृ.११.२ ॥ शेषं परो जपति॥ आप.गृ.११.३ ॥ प्रत्यगाशिषं चैनं वाचयति॥ आप.गृ.११.४ ॥ उक्तमाज्यभागान्तम्॥ आप.गृ.११.५ ॥ अत्रैनमुत्तरा आहुतीर्हावयित्वा जयादि प्रतिपद्यते॥ आप.गृ.११.६ ॥ परिषेचनान्तं कृत्वाऽपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति॥ आप.गृ.११.७ ॥ पुरस्तात् प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह ‘सावित्रीं भो अनुब्रूही’ति॥ आप.गृ.११.८ ॥ तस्मा अन्वाह ‘तत्सवितुरि’ति॥ आप.गृ.११.९ ॥ पच्छोऽर्धर्चशस्ततस्सर्वाम्॥ आप.गृ.११.१० ॥ व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्धर्चयोरुत्तमां कृत्स्नायाम्॥ आप.गृ.११.११ ॥ कुमार उत्तरेण मन्त्रेणोत्तरमोष्ठमुपस्पृशते॥ आप.गृ.११.१२ ॥ कर्णावुत्तरेण॥ आप.गृ.११.१३ ॥ दण्डमुत्तरेणाऽऽदत्ते॥ ११.१४ ॥ पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य॥ आप.गृ.११.१५ ॥ वार्क्षो दण्ड इत्यवर्ण संयोगेनैक उपदिशन्ति॥ आप.गृ.११.१६ ॥ ‘स्मृतं च म’ इत्येतद्वाचयित्वा गुरवे वरं दत्वा “उदायुषे”त्युत्थाप्योत्तरैरादित्यमुपतिष्ठते॥ आप.गृ.११.१७ ॥ यं कामयेत नायमच्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात्॥ आप.गृ.११.१८ ॥ त्र्यहमेतमग्निं धारयन्ति॥ आप.गृ.११.१९ ॥ क्षारलवणवर्जनं च॥ आप.गृ.११.२० ॥ ‘परि त्वे’ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैः समिध आदध्यात्॥ आप.गृ.११.२१ ॥ एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य॥ आप.गृ.११.२२ ॥ उत्तरया संशास्ति॥ आप.गृ.११.२३ ॥ वासश्चतुर्थीमुत्तरयाऽऽदत्तेऽन्यत् परिधाप्य॥ आप.गृ.११.२४ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने एकादशः खण्डः॥ चतुर्थः पटलः समाप्तः॥

   * * *

अथोपाकर्मोत्सर्जनपटलः॥ अथात उपाकरणोत्सर्जने व्याख्यास्यामः॥ आप.गृ. उपाकर्म-पटलः -१ ॥ श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म॥ आप.गृ. उपाकर्म-पटलः -२ ॥ अग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो वेदाहुतीनामुपरिष्टात् सदसस्पतिमित्येके॥ आप.गृ. उपाकर्म-पटलः -३ ॥ परिषेचनान्तं कृत्वा त्रीननुवाकानादितोऽधीयीरन्॥ आप.गृ. उपाकर्म-पटलः -४ ॥ प्रथमोत्तमावनुवाकौ च॥ आप.गृ. उपाकर्म-पटलः -५ ॥ त्र्यहमेकाहं वा क्षम्याधीयीरन्॥ आप.गृ. उपाकर्म-पटलः -६ ॥ अथोपाकरणमध्यायः॥ आप.गृ. उपाकर्म-पटलः -७ ॥ तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः॥ आप.गृ. उपाकर्म-पटलः -८ ॥ प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाऽभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याऽऽचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति॥ आप.गृ. उपाकर्म-पटलः -९ ॥ ब्रह्मणे प्रजापतये बृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वरुणाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम्॥ आप.गृ. उपाकर्म-पटलः -१० ॥ अथर्षयः - विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः, सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति॥ आप.गृ. उपाकर्म-पटलः -११ ॥ ततो यावदेकवैद्यन्तैः कल्पयन्ति॥ आप.गृ. उपाकर्म-पटलः -१२ ॥ प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय, कौण्डिन्याय वृत्तिकाराय, बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति॥ आप.गृ. उपाकर्म-पटलः -१३ ॥ अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक्॥ आप.गृ. उपाकर्म-पटलः -१४ ॥ यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति - अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति॥ आप.गृ. उपाकर्म-पटलः -१५ ॥ अभिप्यन्ते वाऽन्योन्यम्॥ आप.गृ. उपाकर्म-पटलः -१६ ॥ यज्ञोपर्वातानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन्॥ आप.गृ. उपाकर्म-पटलः -१७ ॥ काण्डादीन् प्रथमोत्तमौ वा॥ आप.गृ. उपाकर्म-पटलः -१८ ॥ ‘काण्डात् काण्डात् प्ररोहन्ती’ति द्वाभ्यामुपोदके दूर्वा रोपयन्ति॥ आप.गृ. उपाकर्म-पटलः -१९ ॥ अपः प्रगाह्योदधिं कुर्वन्ति॥ आप.गृ. उपाकर्म-पटलः -२० ॥ सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति॥ आप.गृ. उपाकर्म-पटलः -२१ ॥ उद्गाह्याऽऽतमितोराजिं धावन्ति॥ आप.गृ. उपाकर्म-पटलः -२२ ॥ प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति॥ आप.गृ. उपाकर्म-पटलः -२३ ॥ एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम्॥ आप.गृ. उपाकर्म-पटलः -२४ ॥ प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते॥ आप.गृ. उपाकर्म-पटलः -२५ ॥ एवमेवाद्भिरहरहर्देवानृषीन्पितॄंश्च तर्पयेत्॥ आप.गृ. उपाकर्म-पटलः -२६ ॥ इत्युपाकर्मोत्सर्जनपटलः॥

अथ पञ्चमः पटलः॥ द्वादशः खण्डः॥ वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपिधायाऽऽस्ते॥ आप.गृ.१२.१ ॥ नैनमेतदहरादित्योऽभितपेत्॥ आप.गृ.१२.२ ॥ मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात् समानम्॥ आप.गृ.१२.३ ॥ जघनार्धे व्रजस्योपविश्य विस्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति॥ आप.गृ.१२.४ ॥ तां स उत्तरेण यजुषोदुम्बरमूले दर्भस्तम्बे वोपगूहति॥ आप.गृ.१२.५ ॥ एवं विहिताभिरेवाद्भिरुत्तराभिष्षड्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते॥ आप.गृ.१२.६ ॥ स्नानीयोच्छादितस्स्नातः॥ आप.गृ.१२.७ ॥ उत्तरेण यजुषाऽहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देवताभ्यः प्रदायोत्तरया(ऽ)नुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवास्वाबध्यैवमेव बादरं मणिं मन्त्रवर्जं सव्ये पाणावाबध्याहतमुत्तरं वासो रेवतीस्त्वेति समानम्॥ आप.गृ.१२.८ ॥ तस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते॥ आप.गृ.१२.९ ॥ परिषेचनान्तं कृत्वैताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये॥ आप.गृ.१२.१० ॥ एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शावेक्षणमुपानहौ छत्रं दण्डमिति॥ आप.गृ.१२.११ ॥ वाचं यच्छत्यानक्षत्रेभ्यः॥ आप.गृ.१२.१२ ॥ उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्द्धर्चेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति॥ आप.गृ.१२.१३ ॥ रातिना सम्भाष्य यथार्थं गच्छति॥ आप.गृ.१२.१४ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने द्वादशः खण्डः॥

अथ त्रयोदशः खण्डः॥

अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति॥ आप.गृ.१३.१ ॥ यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथा पुरस्तात्॥ आप.गृ.१३.२ ॥ एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च॥ आप.गृ.१३.३ ॥ ‘आपः पाद्या’ इति प्राह॥ आप.गृ.१३.४ ॥ उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यं शूद्राय॥ आप.गृ.१३.५ ॥ प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽऽत्मानं प्रत्यभिमृशेत्॥ आप.गृ.१३.६ ॥ कूर्चाभ्यां परिगृह्य मृण्मयेना‘र्हणीया आप’ इति प्राह॥ आप.गृ.१३.७ ॥ उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत्॥ आप.गृ.१३.८ ॥ शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते॥ आप.गृ.१३.९ ॥ दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य ‘मधुपर्क’ इति प्राह॥ आप.गृ.१३.१० ॥ त्रिवृतमेके घृतं च॥ आप.गृ.१३.११ ॥ पाङ्क्तमेके धानास्सक्तूंश्च॥ आप.गृ.१३.१२ ॥ उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत्॥ आप.गृ.१३.१३ ॥ प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय॥ आप.गृ.१३.१४ ॥ गौरिति गां प्राह॥ आप.गृ.१३.१५ ॥ उत्तरयाभिमन्त्र्य तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति॥ आप.गृ.१३.१६ ॥ यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः॥ आप.गृ.१३.१७ ॥ अन्नं पोक्तमुपांशूत्तरैरभिमन्त्र्य “ओं कल्पयते”त्युच्चैः॥ आप.गृ.१३.१८ ॥ आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठेद्भ्य एतत्कार्यम्॥ आप.गृ.१३.१९ ॥ सकृत्प्रवक्त्रे चित्राय॥ आप.गृ.१३.२० ॥ इत्यापस्तम्बीये गृह्यप्रश्ने त्रयोदशः खण्डः॥ पञ्चमश्च पटलः समाप्तः॥

अथ षष्ठः पटलः॥ चतुर्दशः खण्डः॥

सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि॥ आप.गृ.१४.१ ॥ ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयित्वाऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते॥ आप.गृ.१४.२॥ परिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्वं सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च॥ आप.गृ.१४.३ ॥ ‘गायत’मिति वीणागाथिनौ संशास्ति॥ आप.गृ.१४.४ ॥ उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा॥ आप.गृ.१४.५ ॥ नदीनिर्देशश्च यस्यां वसन्ति॥ आप.गृ.१४.६ ॥ यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः॥ आप.गृ.१४.७ ॥ उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत्॥ आप.गृ.१४.८ ॥ पुंसुवनं व्यक्ते गर्भे तिष्येण॥ आप.गृ.१४.९ ॥ न्यग्रोधस्य या प्राच्युदीची वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि॥ आप.गृ.१४.१० ॥ अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापरेणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपिनयति॥ आप.गृ.१४.११ ॥ पुमांसं जनयति॥ आप.गृ.१४.१२ ॥ क्षिप्रं सुवनम्॥ आप.गृ.१४.१३ ॥ अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाऽभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत्॥ आप.गृ.१४.१४ ॥ यदि जरायु न पतेदेवं विहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत्॥ आप.गृ.१४.१५ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्दशः खण्डः॥

अथ पञ्चदशः खण्डः॥ जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः॥ आप.गृ.१५.१ ॥ नक्षत्रनाम च निर्दिशति॥ आप.गृ.१५.२ ॥ तद्रहस्यं भवति॥ आप.गृ.१५.३ ॥ मधु, घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वाऽवदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः कुमारं प्राशयित्वाऽद्भिश्शेषं संसृज्य गोष्ठे निनयेत्॥ आप.गृ.१५.४ ॥ उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम्॥ आप.गृ.१५.५ ॥ उत्तरेण यजुषा शिरस्त उदकुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रतिस्वाहाकारं हुत्वा संशास्ति- प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति॥ आप.गृ.१५.६ ॥ एवमहरहरानिर्दशतायाः॥ आप.गृ.१५.७ ॥ दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति॥ आप.गृ.१५.८ ॥ द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम्॥ आप.गृ.१५.९ ॥ अपि वा यस्मिन् स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम्॥ आप.गृ.१५.१० ॥ अयुजाक्षरं कुमार्याः॥ आप.गृ.१५.११ ॥ प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान् मन्त्रान् जयेत्॥ आप.गृ.१५.१२ ॥ कुमारीमुत्तरेण यजुषाऽभिमन्त्रयते॥ आप.गृ.१५.१३ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चदशः खण्डः॥

अथ षोडशः खण्डः॥ जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारम् प्राशयेत्॥ आप.गृ.१६.१ ॥ तैत्तिरीयेण मांसेनेत्येके॥ आप.गृ.१६.२ ॥ जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः॥ आप.गृ.१६.३ ॥ ब्राह्मणानां भोजनमुपायनवत्॥ आप.गृ.१६.४ ॥ सीमन्तवदग्नेरुपसमाधानादि॥ आप.गृ.१६.५ ॥ अपरेणाग्निं प्राञ्चमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लप्सेनेति तूष्णीं केशान् विनीय यथर्षि शिखा निदधाति॥ आप.गृ.१६.६ ॥ यथावैषां कुलधर्मः स्यात्॥ आप.गृ.१६.७ ॥ अपां संसर्जनाद्याकेशनिधानात्समानम्॥ आप.गृ.१६.८ ॥ क्षुरं प्रक्षाल्य निदधाति॥ आप.गृ.१६.९ ॥ तेन त्र्यहं कर्मनिवृत्तिः॥ आप.गृ.१६.१० ॥ वरं ददाति॥ आप.गृ.१६.११ ॥ एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे॥ आप.गृ.१६.१२ ॥ अग्निगोदानो वा स्यात्॥ आप.गृ.१६.१३ ॥ संवत्सरं गोदानव्रतमित्येक उपदिशन्ति॥ आप.गृ.१६.१४ ॥ एतावन्नाना सर्वान् केशान् वापयते॥ आप.गृ.१६.१५ ॥ उदकोपस्पर्शनमिति छन्दोगाः॥ आप.गृ.१६.१६ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने षोडशः खण्डः॥ षष्ठः पटलः समाप्तः॥

अथ सप्तमः पटलः॥ सप्तदशः खण्डः॥ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य पालाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति॥ आप.गृ.१७.१ ॥ एवं त्रिः॥ आप.गृ.१७.२ ॥ क्लुप्तमुत्तरयाऽभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाऽभ्यन्तरं पांसूनुदूप्योत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति॥ आप.गृ.१७.३ ॥ एवमितराम्॥ आप.गृ.१७.४ ॥ यथाखातमितरा अन्ववधाय वंशमाधीयमानमुत्तरेण यजुषाऽभिमन्त्रयते॥ आप.गृ.१७.५ ॥ सम्मितमुत्तरैर्यथालिङ्गम्॥ आप.गृ.१७.६ ॥ पालाशं शमीमयं वेध्ममादीप्योत्तरयर्चाऽग्निमुद्धृत्योत्तरेण यजुषाऽगारं प्रपद्योत्तरपूर्वदेशेऽगारस्योत्तरयाऽग्निं प्रतिष्ठापयति॥ आप.गृ.१७.७ ॥ तस्माद्दक्षिणमुदधानायतनं भवति॥ आप.गृ.१७.८ ॥ तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति॥ आप.गृ.१७.९ ॥ तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति॥ आप.गृ.१७.१० ॥ दीर्णमुत्तरयाऽनुमन्त्रयते॥ आप.गृ.१७.११ ॥ अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते॥ आप.गृ.१७.१२ ॥ परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्ततोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति॥ आप.गृ.१७.१३ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने सप्तदशः खण्डः॥

अथाष्टादशः खण्डः॥ श्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम्॥ आप.गृ.१८.१ ॥ अगदो भवति॥ आप.गृ.१८.२ ॥ शङ्खिनं कुमारं तपोयुङ्क्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत् प्रतर्मध्यन्दिने सायम्॥ आप.गृ.१८.३ ॥ अगदो भवति॥ आप.गृ.१८.४ ॥ श्रावण्यां पौर्णामास्यामस्तमिते स्थालीपाकः॥ आप.गृ.१८.५ ॥ पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वा(ऽ)ञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति॥ आप.गृ.१८.६ ॥ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः॥ आप.गृ.१८.७ ॥ आज्याहुतीरुत्तराः॥ आप.गृ.१८.८ ॥ जयादि प्रतिपद्यते॥ आप.गृ.१८.९ ॥ परिषेचनान्तं कृत्वा वाग्यतस्सम्भारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाऽद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति॥ आप.गृ.१८.१० ॥ तूष्णीं सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति॥ आप.गृ.१८.११ ॥ उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या“पश्वेत पदे” त्याभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेत्॥ आप.गृ.१८.१२ ॥ इत्यापस्तम्बीये गृह्यप्रश्नेऽष्टादशः खण्डः॥

अथैकोनविंशः खण्डः॥ धानाः कुमारान् प्राशयन्ति॥ आप.गृ.१९.१ ॥ एवमत ऊर्ध्वं यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः॥ आप.गृ.१९.२ ॥ मार्गशीर्ष्यां पौर्णमास्यामस्तमिते स्थालीपाकः॥ आप.गृ.१९.३ ॥ अहार्षमिति बलिमन्त्रस्य सन्नामः॥ आप.गृ.१९.४ ॥ अत्रैनमुत्सृजति॥ आप.गृ.१९.५ ॥ अनाहिताग्नेराग्रयणं॥ आप.गृ.१९.६ ॥ नवानां स्थालीपाकं श्रपयित्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाऽऽचम्यौदनपिण्डं संवृत्योत्तरेण यजुषाऽगारस्तूप उद्विद्धेत्॥ आप.गृ.१९.७ ॥ हेमन्तप्रत्यवरोहणम्॥ आप.गृ.१९.८ ॥ उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति॥ आप.गृ.१९.९ ॥ दक्षिणतः पितोत्तरा मातैवमवशिष्टानां ज्येष्ठो ज्येष्ठोऽनन्तरः॥ आप.गृ.१९.१० ॥ संहायोत्तराभ्यां पृथिवीमभिमृशन्ति॥ आप.गृ.१९.११ ॥ एवं संवेशनादि त्रिः॥ आप.गृ.१९.१२ ॥ ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाऽग्नेरुपसमाधानादि॥ आप.गृ.१९.१३ ॥ अपरेणाग्निं द्वे कुटी कृत्वा॥ आप.गृ.१९.१४ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने एकोनविंशः खण्डः॥

अथ विंशः खण्डः॥ उत्तरया दक्षिणस्यामीशानमावाहयति॥ आप.गृ.२०.१ ॥ लौकिक्या वाचोत्तरस्यां मीढुषीम्॥ आप.गृ.२०.२ ॥ मध्ये जयन्तम्॥ आप.गृ.२०.३ ॥ यथोढमुदकानि प्रदाय त्रीनोदनान् कल्पयित्वाऽग्निमभ्यनीयोत्तरैरुपस्पर्शयित्वा उत्तरैर्यथास्व मोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाऽग्निं स्विष्टकृतम्॥ आप.गृ.२०.४ ॥ उत्तरेण यजुषोपस्थायोत्तरैः सहोदनानि पर्णान्येकैकेन द्वे द्वे दत्वा देवसेनाभ्यो दशोत्तराभ्यः॥ आप.गृ.२०.५ ॥ पूर्ववदुत्तरैः॥ आप.गृ.२०.६ ॥ ओदनपिण्डं संवृत्य पर्णपुटेऽवधायोत्तरेण यजुषा वृक्ष आसजति॥ आप.गृ.२०.७ ॥ अत्र रुद्रान् जपेत्॥ आप.गृ.२०.८ ॥ प्रथमोत्तमौ वा॥ आप.गृ.२०.९ ॥ अभित एतमग्निं गास्स्थापयति यथैना धूमः प्राप्नुयात्॥ आप.गृ.२०.१० ॥ ता गन्धैर्दर्भग्रुमुष्टिनाऽवोक्षति वृषाणमेवाग्रे॥ आप.गृ.२०.११ ॥ गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं यजते॥ आप.गृ.२०.१२ ॥ ईशानवदावाहनम्॥ आप.गृ.२०.१३ ॥ चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति॥ आप.गृ.२०.१४ ॥ क्षिप्रं यजेत पाको देवः॥ आप.गृ.२०.१५ ॥ उत्तराभ्यामुपतिष्ठते॥ आप.गृ.२०.१६ ॥ स्थालीपाकं ब्राह्मणान् भोजयेत्॥ आप.गृ.२०.१७ ॥ क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति॥ आप.गृ.२०.१८ ॥ यथा वैषां कुलधर्मस्स्यात्॥ आप.गृ.२०.१९ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने विंशः खण्डः॥ सप्तमः पटलः समाप्तः॥

अथाष्टमः पटलः॥ अथैकविंशः खण्डः॥ मासिश्राद्धस्यापरपक्षे यथोपदेशं कालाः॥ आप.गृ.२१.१ ॥ शुचीन् मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत्॥ आप.गृ.२१.२ ॥ अन्नस्योत्तराभिर्जुहोति॥ आप.गृ.२१.३ ॥ आज्याहुतीरुत्तराः॥ आप.गृ.२१.४ ॥ एतद्वा विपरीतम्॥ आप.गृ.२१.५ ॥ सर्वमुत्तरैरभिमृशेत्॥ आप.गृ.२१.६ ॥ क्लृप्तान्वा प्रतिपूरुषम्॥ आप.गृ.२१.७ ॥ उत्तरेण यजुषोपस्पर्शयित्वा॥ आप.गृ.२१.८ ॥ भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा पूर्ववदुत्तरैरपो दत्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासवरार्ध्यं प्रश्नीयात्॥ आप.गृ.२१.९ ॥ या माघ्याः पौर्णमास्या उपरिष्टाद्व्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते॥ आप.गृ.२१.१० ॥ तस्याः सायमौपकार्यम्॥ आप.गृ.२१.११ ॥ अपूपं चतुश्शरावं श्रपयेति॥ आप.गृ.२१.१२ ॥ अष्टाकपाल इत्येके॥ आप.गृ.२१.१३ ॥ इत्यापस्तम्बीये गृह्यप्रश्ने एकविंशः खण्डः॥

अथ द्वाविंशः खण्डः॥ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति॥ आप.गृ.२२.१ ॥ सिद्धः शेषस्तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति॥ आप.गृ.२२.२ ॥ श्वोभूते दर्भेण गामुपाकरोति ‘पितृभ्यस्त्वाजुष्टामुपाकरोमी’ति॥ आप.गृ.२२.३ ॥ तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेनवा पलाशपर्णेनोत्तरया जुहोति॥ आप.गृ.२२.४ ॥ मांसोदनमुत्तराभिः॥ आप.गृ.२२.५ ॥ पिष्टान्नमुत्तरया॥ आप.गृ.२२.६ ॥ आज्याहुतीरुत्तराः॥ आप.गृ.२२.७ ॥ स्विष्टकृत्प्रभृति समानमापिण्डनिधानात्॥ आप.गृ.२२.८ ॥ अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति॥ आप.गृ.२२.९ ॥ अथैतदपरं दध्न एवाञ्जलिना जुहोति ययाऽपूपम्॥ आप.गृ.२२.१० ॥ अत एव यथार्थं मांसं शिष्ट्वा श्वोभूतेऽन्वष्टकाम्॥ आप.गृ.२२.११ ॥ तस्या मासिश्राद्धेन कल्पो व्याख्यातः॥ आप.गृ.२२.१२ ॥ सनिमित्वोत्तरान् जपित्वाऽर्थं ब्रूयात्॥ आप.गृ.२२.१३ ॥ रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा॥ आप.गृ.२२.१४ ॥ उत्तरेण यजुषाऽधिरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात्॥ आप.गृ.२२.१५ ॥ अश्वमुत्तरैरारोहेत्॥ आप.गृ.२२.१६ ॥ हस्तिनमुत्तरया॥ आप.गृ.२२.१७ ॥ ताभ्यां रेषणे पूर्ववत् पृथिवीमभिमृशेत्॥ आप.गृ.२२.१८ ॥ संवादमेष्यन् सव्येन पाणिना छत्रं दण्डं चाऽऽदत्ते॥ आप.गृ.२२.१९ ॥

इत्यापस्तम्बीये गृह्यप्रश्ने द्वाविंशः खण्डः॥

अथ त्रयोविंशः खण्डः॥

दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत्॥ आप.गृ.२३.१ ॥ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति॥ आप.गृ.२३.२ ॥ असम्भवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायाः सम्बाध उपवपेत्॥ आप.गृ.२३.३ ॥ सिद्ध्यर्थे बभ्रूमूत्रेण प्रक्षालयीत॥ आप.गृ.२३.४ ॥ सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात्॥ आप.गृ.२३.५ ॥ यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत्॥ आप.गृ.२३.६ ॥ येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधायोत्तरया आहुतीर्जुहुयात्॥ आप.गृ.२३.७ ॥ यद्येनं वृक्षात् फलमभिनिपतेद्वयो वाऽभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत॥ आप.गृ.२३.८ ॥ आगारस्थूणाविरोहणे मधुन उपवेशने कुप्त्वां कपोतपददर्शनेऽमात्यानां शरीररेषणेऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते॥ आप.गृ.२३.९ ॥ परिषेचनान्तं कृत्वाऽभिमृतेभ्य

उत्तरया दक्षिणतोऽश्मानं परिधिं दधाति दधाति॥ आप.गृ.२३.१० ॥

॥इत्यापस्तम्बीये गृह्यप्रश्ने त्रयोविंशः खण्डः॥ षमाप्तस्तथाऽष्टमः पटलः॥

॥सुभं भूयात्॥

"https://sa.wikisource.org/w/index.php?title=कल्पः/गृह्यसूत्राणि/01&oldid=40167" इत्यस्माद् प्रतिप्राप्तम्