प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४ आर्षेयकल्पः
अध्यायः ५
मशकः
अध्यायः ६ →

राजा मेधाभिरीयत उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे ज्योतिष्टोमी गायत्री वृषा शोण इति पार्थमन्त्यं यो राजा चर्षणीनामित्यभीवर्तो ब्रह्मसाम समानमितरं प्रथमेन साहस्रेण सप्तदशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठान्येकविंशोऽग्निष्टोमो ५-१-१

यवंयवं नो अन्धसेत्यनुरूप आमहीयवादुत्तरमाभीकमान्धीगवादर्कपुष्पँ समानमितरं ज्योतिष्टोमेन सर्वो दशदश्य् ५-१-२

एष शुष्म्यसिष्यददिति पुरस्तात्पर्यासस्यैकर्च आमहीयवादुत्तरम् पवस्व मधुमत्तम इति च्यावनं नौधसस्यर्क्षु जनित्रं परि प्र धन्वेति सफं पर्यू ष्विति श्यावाश्वं पुरोजिती वो अन्धस इत्यान्धीगवं च जनित्रं च समानमितरं ज्योतिष्टोमेन सस्तोममेकैका स्तोत्रियोपजायते ५-१-३

रौरवयौधाजये अन्तरा मैधातिथं नौधसस्यर्क्षु शुद्धाशुद्धीयं ब्रह्मसाम यत् पदनिधनँ सँहितस्य लोके गौषूक्तं पौष्कलस्याश्वसूक्तं प्रमाँहिष्ठीयँ हारिवर्णँ शुद्धाशुद्धीयँ स्वासु यदैडँ समानमितरं ज्योतिष्टोमेन द्वादशं माध्यंदिनँ सवनं त्रिवृती अभितो ५-२-१

अयं पूषा रयिर्भग इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति पुनस्तोमस्याज्यमध्यंदिनं तीव्रसुतः पृष्ठानि ज्योतिष्टोम आर्भव आन्धीगवादुत्तरं यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु वारवन्तीयेन षड्भिः साकमश्वस्य षड्भिर्हारिवर्णस्य षद्भिस्तैरश्च्यस्य षड्भिरनुब्राह्मणँ स्तोमास् ५-२-२

तरत्स मन्दी धावतीति चतसृभिर्बहिष्पवमानमिन्द्रायेन्दो मरुत्वत इति गायत्रं चामहीयवं च यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम साकमश्वँ हारिवर्णं तैरश्च्यं गौरीवितँ षोडशिसाम समानमितरं पूर्वेणानुब्राह्मणँ स्तोमाः ५-२-३

उपो षु जातमप्तुरमित्यनुरूपो यज्ञ इन्द्रमवर्धयदिति ब्रह्मण आज्यं पिबा सुतस्य रसिन इत्युत्सेधो ब्रह्मसाम जनुषैकर्चयोः सफं च वलभिच्च श्यावाश्वस्य लोक औदलमञ्जत इति कावमन्त्यमुद्धरत्युक्थानि समानमितरमायुषैकाहिकेन सप्तिसप्तदशौ स्तोमौ विपर्यासं ५-३-१

प्रतीचीनस्तोमस्य बहिष्पवमानं यज्ञ इन्द्रमवर्धयदिति ब्रह्मण आज्यं पिबा सुतस्य रसिन इति निषेधो ब्रह्मसाम मौक्षस्य लोके वलभित्सफस्य सत्रासाहीयमयं पूषा रयिर्भग इति श्यावाश्वक्रौञ्चे अग्रेगो राजाप्यस्तविष्यत इति कावमन्त्यं उद्धरत्युक्थानि समानमितरं गवैकाहिकेनै कविँशं बहिष्पवमानं तिसृभिर्होतुराज्यँ सप्तिसप्तदशमितरँ सर्वं ५-३-२

वलभिदो बहिष्पवमानमुभौ पर्यासावभिजितो गायत्री पुनानः सोम धारयेति बृहति ज्योतिष्टोमे अन्त्ये त्वमिन्द्र यशा असीति यशो ब्रह्मसाम सँहितादुत्तरं जराबोधीयमान्धीगवाद्भर्गः समानमितरं प्रथमेन साहस्रेण चतुर्विँशं बहिष्पवमानं त्रिवृत्पञ्चदशान्याज्यानि चतुर्विँशो माध्यंदिनः पवमानः सप्तदशैकविँशानि पृष्ठानि त्रिणव आर्भव एकविँशोऽग्निष्टोमः ५-३-३

साहस्रं बहिष्पवमानं यथा प्रथमस्या महीयवादुत्तरमैडँ सौपर्णं जराबोधीयात्स्वाशिरामर्क आनुष्टुभेभ्य उत्तरम्परि प्र धन्वेति द्विपदासु वारवन्तीयँ सूर्यवतीषु कावमन्त्यँ समानमितरं पूर्वेण त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशे द्वे एकविँशमच्छाकावस्य त्रिणवो माध्यंदिनः पवमानश्छन्दोमाः पृष्ठानि त्रयस्त्रिँश आर्भव एकविँशोऽग्निष्टोम ५-४-१

उच्चा ते जातमन्धस इति गायत्रं चामहीयवं च जराबोधीयं च स्वारं च सौपर्णमग्नेश्च व्रतं यौधाजयात्पूर्वँ रौरवं यशसो लोके श्यैतँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः समानमितरं पूर्वेण ज्योतिष्टोममत ऊर्ध्वँ षडूर्ध्वा षडर्वाञ्चो ५-४-२

ज्योतिष्टोममाज्यबहिष्पवमानम् उद्धरति जराबोधीयँ रथंतररौरवे वाजपेयस्य पृष्ठानि पुरोजिती वो अन्धस इति औदलमेकस्यामान्धीगवमेकस्याँ श्यावाश्वमेकश्यां बृहत्तिसृषु समानमितरं पूर्वेण त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि त्रिवृन्मैत्रावरुणस्य चतुर्विँशो माध्यंदिनः पवमानः सप्तदशानि त्रीणि पॄष्ठानि पञ्चदशं मैत्रावरुणस्य सप्तदश आर्भव एकविँशोऽग्निष्टोमः ५-४-३

पुनानः सोम धारयेति रौरवं तिसृषु सदोविशीयमेकस्याँ समन्तं विष्टारपङ्क्तौ यौधाजयं तिसृष्वभीवर्तो ब्रह्मसाम पुरोजिती वो अन्धस इति गौरीवितमेकस्यामान्धीगवमेकस्याँ श्यावाश्वमेकस्यां बृहत्तिसृषु सप्तदशो माध्यंदिनः पवमानः समानमितरं ज्योतिष्टोमेन सस्तोमम् ५-५-१

उपास्मै गायता नर इति तृचः षट्संभार्या वैश्वजित्यः पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचै ते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनै तमु त्यं दश क्षिपः पवमानस्य ते वयं पवमानस्य ते कवे पुनानः सोम धारयेति बृहती समानमितरमभिषेचनीयेन सर्वः षट्त्रिँशो ५-५-२

या ज्योतिष्टोमस्य सा मरुत्स्तोमस्य ५-५-३

या बृहस्पतिसवस्य सेन्द्राग्न्योः कुलायस्य नुब्राह्मणँ स्तोमाः ५-५-४

इन्द्रायेन्दो मरुत्वते पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कव ईडेन्यो नमस्यो यदुद्य सूर उदित इन्द्रमिद्गाथिनो बृहद् इन्द्रे अग्ना नमो बृहदुच्चा ते जातमन्धस इति गायत्रं चामहीयवं च तवाहँ सोम रारणेति समन्तं च यौधाजयं च वृषा शोण इति पार्थमन्त्यं बृहच्च रेवतीषु च वामदेव्यँ श्यैतं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र मौक्षे पवस्वेन्द्रमच्छेति सफ श्रुध्ये परि त्यँ हर्यतँ हरिमिति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं प्र दैवोदासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसाम स्वासु सत्रासाहीयं तव त्यद् इन्द्रियं बृहदिति सौभरं स्वासूद्वँशीयँ सर्वः पञ्चदशः ५-६

पवस्व वाचो अग्रिय उपास्मै गायता नरः पवमानस्य ते कवे ग्निं दूतं वृणीमह इत्युभयान्याज्यानि पुननः सोम धारयेति रौरवमेकस्यां यौधाजयमेकस्यां दैर्घश्रवसमेकस्याँ रथंतरं तिसृषु बृहत्पृष्ठँ श्यैतस्यर्क्ष्वभीवर्तो ब्रह्मसाम समानमितरं ज्योतिष्टोमेन त्रिवृत्पञ्चदशौ स्तोमौ विपर्यासँ ५-७-१

स्वासु श्यैतँ सँहितादुत्तरं जराबोधीयँ श्रुध्यस्य लोके विशोविशी-यमान्धीगवादुत्तरँ सोमसामा थर्वणं वासमानमितरं प्रथमेन साहस्रेण द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशसप्तदशे द्वे एकविँशनरदशे द्वे चतुर्विँशे द्वे त्रिणवे ५-७-२

पवस्व वाचो अग्रिय उपास्मै गायता नरः पवमानस्य ते कवे नमस्ते अग्न ओजसे मित्रं वयँ हवामहे समस्य मन्यवे विशस्ता हुवे ययोरिदम्प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमिति द्वयोः सतोबृहत्योर्गायत्रं तिसृष्वामहीयवमेकस्यामैडँ सौपर्णमेकस्याँ सत्रासाहीयमेकस्यां यैका परिशिष्यते तस्याँ सदोविशीयं पुनानः सोम धारयेति रौरवमेकस्यां यौधाजयमेकस्याँ समन्तमेकस्याँ रथंतरं तिसृष्वध यदिमे पवमान रोदसी इत्युत्सेध एकस्यामयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च तदिदास भुवनेषु ज्येष्ठमिति श्यैतँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं तिसृषु संहितमेकस्याँ सुरूपमेकस्याँ स्वाशिरां चार्क एकस्यां पवस्वेन्द्रमच्छेति सफविशोविशीये पुरोजिती वो अन्धस इति गौरीवितं एकस्यां निषेध एकस्याँ श्यावाश्वामेकस्यामान्धीगवं तिसृषु मधुश्चुन्निधनं तिसृषु सुमन्मा वस्वी रन्ती सुनरीति वारवन्तीयं तिसृषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशसप्तदशे द्वे नवदशचतुर्विँशे द्वे चतुर्विँशैकविँशे द्वे त्रिणवे ५-८

श्येनमाज्यबहिष्पवमानमर्षा सोम द्युमत्तम इति गायत्र वार्षाहरे पुनानः सोम धारयेति वैयश्वमेकस्यां वषट्कारणिधनमेकस्याँ रौरवमेकस्यां यौधाजयं तिसृष्वौशनमन्त्यँ रथंतरं च वामदेव्यं च सप्तहं च कालेयं च यस्ते मदो वरेण्य इति गायत्रं वार्षाहरँ सत्रासाहीयं पवस्वेन्द्रमच्छेति काशीतौ पगवे पुरोजिती वो अन्धस इति नानदा न्धीगवे सामत्रयाणां यत्प्रथमं कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशे द्वे एकविँशे द्वे चतुर्विँशे द्वे त्रिणवे ५-९-१

पवस्वेन्दो वृषा सुतो ऽपघ्नन्पवते मृध इति पुरस्तात्पर्यासस्य तृचे उद्धरति सत्रासाहीयं पुरोजिती वो अन्धस इति नानदमेकस्याँ तस्यामेवान्धीगवँ श्यावाश्वमेकस्याँ सामैकस्यां त्रयाणां यद्द्वितीयं प्रमाँहिष्ठीयमौपगवमुद्वँशीयं महानाम्न्यः षोडशिसाम समानमितरं पूर्वेण सर्वः पञ्चदशः कॢप्तो ज्योतिष्टोमः शान्त्यर्थः शान्त्यर्थः ५-९-२


विवृति

पञ्चमोऽध्यायः
राट्
अथ वक्ष्यमाणा एकाहा द्वन्द्वसंज्ञाः। प्रायेण द्वन्द्वभूतत्वात् । अथैष राट् । यो राज्य ( तां० ब्रा० १९. १. १-२) इत्यनुवाकेन राडुक्तः। तस्य कल्पः --
राजा मेधाभिरीयते (सा ८३३-५) उत्ते शुष्मास ईरत (सा० १२०५.९) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे । ज्योतिष्टोमी गायत्री । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ॥ १ ॥ यो राजा चर्षणीनाम् (सा० ९३३-४) इत्यभीवर्तो ब्रह्मसाम (ऊ० ७. २. ७) ॥ २ ॥
समानमितरं प्रथमेन साहस्रेण ॥३॥
इति । पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा
(सा० ६५४-६) राजा मेधाभिरीयते (सा० ८३३-५) उत्ते शुष्मास ईरते (सा० ११०५-९) पवमानस्य ते कव (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ याहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५) इन्द्रमिद्गाथिन ( सा० ७९६-८) इन्द्रे अग्न ( सा० ८००-२) इत्याज्यानि ॥

245
एकाहः-विराट् [ अ. ५. ख. २ ]
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । परीतोषि-(सा० १३१३-५)समन्तमाद्यायाम् (ऊ० ९. १. ३)। रथन्तरं तिसृषु (र० २. २.६)। दैर्घश्रवसं (ऊ० ५. २. ४) च । यौधाजयमध्यास्यायाम् (ऊ. ७. २. ५)। वृषा शोण (सा० ८०६-८) इति पार्थमन्त्यम् (ऊ० ७. १. ६) ॥
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च । यो राजा चर्षणीनाम् (सा० ९३३-४) इत्यभीवर्तः (ऊ० ७.२.७) स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि ॥
स्वादिष्ठये(सा० ६८६-९१)ति गायत्र-संहिते (ऊ० १.१.८)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-श्रुध्ये (ऊ० १.१.९) एकर्चयोः (ऊ० ९.१.२०)। पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १. १. ११-२)। सूर्यवतीषु कावमन्त्यम् (ऊ० २.१.११) ।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ ३॥
अथ स्तोमक्लृप्तिः
सप्तदशाः पवमानाः । त्रिवृन्त्याज्यानि । पञ्चदशानि पृष्ठानि ।
एकविंशोऽग्निष्टोमः ॥ ४॥
इति ॥४॥
इति राट् ॥१॥
विराट
अथैष विराट् (तां० ब्रा० १९. २. १) इत्यनुवाकेन विराडुक्तः। तस्य कल्पः --
यवं यवं नो अन्धस (सा० ९७५-८) इत्यनुरूपः। आमहीयवादुत्तरमाभीकम् ( उ० ६. १. १०) आन्धीगवादर्कपुष्पम् (ऊ० १३. १. १३ ) ॥१॥
समानमितरं ज्योतिष्टोमेन सर्वो दशी ॥२॥
इति। उपास्मै (सा० ९५१-३) यवं यवं नो अन्धसः (सा० ९७५-८) पवमानस्य ते कव (सा० ६५७-६) इति बहिष्पवमानम् ॥
अग्न आ नो-मित्रायाही इन्द्राग्नी (सा० ६६०-७१ ) इत्याज्यानि ॥
उच्चा ते (६७२-५) गायत्रं चामहीयवं (ऊ० १.१.१) चाभीकं च (ऊ० ६.१.१०)। पुनानः सोम (सा० ६७५-६) रौरवयौधाजये (ऊ० १. १. २-३)। औशनमन्त्यम् (ऊ० १. १.४) । औशनयौधाजये तृचयोः। एकर्चाः इतरे । संभवति स्तोमेऽन्त्यं सर्वत्र । तृचे द्वितीयं चेदरण्येगेयम् । तदभावे यदन्त्यात् पूर्वम् (ला० श्रौ० सू० ६.४.४) इति वचनात् ।
गायत्र्यामहीयवाभीकानि सामतृचः। त्रीनेकतृचे नानास्तोत्रीयासु (ला०श्रौ० सू० ६. ३. १४) इति वचनात् ॥
रथन्तरं (र० १.१) च वामदेव्यं (ऊ० १.१.५) च नौधसं (ऊ० १. १ ७) च कालेयं (ऊ० १. १. ६) चेति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८६-९१) इति गायत्र-संहिते (ऊ० १.१.८)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-पौष्कले (ऊ०१.१.९-१०) । पुरोजिती (सा० ६९७-९) इति श्यावाश्वान्धीगवा-(ऊ० १.१.११-२)र्कपुष्पाणि (ऊ०१३.१.१३) । कावमन्त्यम् (ऊ०१.१.१३)। अन्त्यवर्जमेकर्चाः। अनुष्टुभि सामतृचः । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । सर्वाणि स्तोत्राणि दशीनि। तिसृभ्यो हिंकरोति । स पराचीभिश्चतसृभ्यो हिंकरोति । स एकया स द्वाभ्यां

247
एकाहः- औपशवः [ अ. ५. ख. ३ ]

स एकया तिसृभ्यो हिंकरोति । स पराचीभिरिति दशिनो विष्टुतिरिति। तदुक्तम्-दशिनि चतुष्को मध्ये परिवर्त्तिनी पर्यायावभितः (ला० श्रौ० सू० ६. ७. १) इति ॥२॥
इति विराट् ॥ २॥

औपशदः
अथैष औपशदः (तां० ब्रा० १९. ३. १) इत्यनुवाकेन औपशदः उक्तः । तस्य कल्प:
एष शुष्म्यसिष्यदद् (सा० १२९०) इति पुरस्तात् पर्यासस्यैकर्चः । आमहीयवादुत्तरम् । पवस्व मधुमत्तम (सा० ६९२-३ ) इति च्यावनम् (ऊ० १३. १. ४)। नौधसस्यर्क्षु जनित्रम् (सा० ६८५-६, ऊ०१३.१.५)। परि प्रधन्वेति (सा० १३६७-९) सफम् (ऊ० १०.१.९)। पर्यूषु (सा० १३६४-६) इति श्यावाश्वम्, (ऊ.० ६.१.१८)। पुरोजिती वो अन्धस (सा० ६९७-९) इत्यान्धीगवं च ( ऊ० १. १. १२ ) जनित्रं च (ऊ० १३.१.६) ॥१॥
समानमितरं ज्योतिष्टोमेन सस्तोमम् । एकैका स्तोत्रीयोपजायते ॥२॥
इति । उपास्मै दविद्युतत्या रुचा (सा० ६५१-६) एष शुष्म्यसिष्यदत् ( सा० १२६०) पवमानस्य ते कवे (सा० ६५७-8 ) इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहि इन्द्राग्नी ( सा० ६६०-७१) इत्याज्यानि ॥
उच्चा ते (सा० ६९२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च। पवस्व मधुमत्तम (सा० ६९२.३) इति च्यावनम् (ऊ. १३. १. ४) । पुनानः सोम धारय ( सा० ६७५-५ ) इति रौरवयौधाजये (ऊ० १.१.२-३) । औशनमन्त्यम् (ऊ० १. १. ४) । च्यावनमेकस्याम् । ककुब्यत्र माध्यंदिन एकर्चः । तस्यामिति वचनात् ॥
रथन्तरं (र० १.१.१) वामदेव्यं (ऊ० १.१.५) च नौधसस्यर्क्षु जनित्रम् (ऊ० १३. १. ५)। स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८६-९१) इति गायत्र-संहिते (ऊ. १. १.८)। परि प्र धन्व (सा० १३६७-९) इन्द्रमच्छ (सा० ६९४-६) इति सफ-पौष्कले (ऊ० १. १.९-१०)। पर्यूषु (सा० १३६४-६) इति श्यावाश्वम् (ऊ० ६.१.१८)। पुरोजिती (सा० ६९७-९) इति आन्धीगवं (ऊ० १.१. १२) च जनित्रं (ऊ० १३.१.१६) च कावमन्त्यम् (ऊ० १. १. १३)। सफपौष्कलश्यावाश्वान्येकर्चानि परि प्र धन्वेति द्विपदा। पर्यूष्विति पिपीलिकामध्यानुष्टुप् । पृष्ठेषु पूर्वं जनित्रम् । आर्भवे तूत्तमम् । तदुक्तमुपग्रन्थे-अनुपूर्वमौपशदनवसप्तदशयोः पूर्वमतोऽन्यत्र ( उप०ग्र०सू० ४.२) इति ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। एकैका स्तोत्रीयोपजायत इत्यस्यायमर्थः । बहिष्पवमानप्रभृतियज्ञायज्ञीयान्तेषु स्तोत्रेषु ज्योतिष्टोमस्तोमा एकैकया स्तोत्रीयया वृद्धाः कार्या इति । ततश्चेयं स्तोमक्लृप्तिः। दशि बहिष्पवमानम् । षोडशान्याज्यानि । षोडशो माध्यंदिनः पवमानः । अष्टादशानि पृष्ठानि । अष्टादश आर्भवो द्वाविंशोऽग्निष्टोम इति । तत्र षोडशस्य विष्टुतिः । पञ्चभ्यो हिंकरोति । स तिसृभिः स एकया स एकया स तिसृभिः स एकया षड्भ्यो हिंकरोति । स द्वाभ्यां स एकया स तिसृभिरिति । दशरात्रिकेभ्य एकया ज्यायःसु तस्मात् पूर्वस्योत्तमे पर्याय आवपेत् । ब्रह्मायतनीया तु तेषु (ला० श्रौ० सू० ६.६. १७-८)इति

249
एकाहः-पुनस्तोमः (अ. ५. ख. ४]

वचनात् । अष्टादशं सप्तदश आवपेदिति गौतमः । न्यायविहितः स्यादिति धानंजय्यः (ला० श्रौ०सू० ६.७.१२-३)। तत्रावापपक्षे गर्भिणीविष्टुत्या उत्तमे पर्याये अष्टाभ्यो हिंकरोति । स द्वाभ्यां स तिसृभिः स तिसृभिरिति विदध्यात् । समपर्यायत्वं न्यायविहितत्वम् । षड्भ्यो हिंकरोति स तिसृभिः स द्वाभ्यां स एकया षड्भ्यो हिंकरोति स एकया स तिसृभिः स द्वाभ्यां षड्भ्यो हिंकरोति । स द्वाभ्यां स एकया स तिसृभिरिति तस्मिन् पक्षे विष्टुतिः । द्वाविंशस्य सप्तिन्या विष्टुत्या उत्तमे पर्याये आवपेत् । अष्टाभ्यो हिंकरोति। स च तिसृभिः स एकया स तिसृभिरिति ॥ २ ॥
इति औपशदः ॥३॥

पुनस्तोमः
औपशदानन्तरम् आपस्तम्बेन सर्वतोमुख उक्तः । सर्वतोमुखेन यजेत यः कामयेत सर्वमिदं भवेयम् इति । मध्ये गार्हपत्यः । प्रतिदिशं सौमिका विहाराः । त्रिवृत् प्राच्यां दिशि । पञ्चदशो दक्षिणतः। सप्तदशः पश्चात् । एकविंश उत्तरतः (आप० श्रौ० २२.११.१२-३) इति । तानि च त्रिवृदादीनि 15 चत्वारि मुखानि बृहद्रथन्तरपृष्ठस्य षडहस्य चतुर्भिरहोभिः कर्तव्यानि। स्तोमान्वयात् । यत्र हि षडहस्य संपूर्णता तत्रैव वैरूपादीनां प्रवृत्तिः। न्यूनतायां तु बृहद्रथन्तरयोरेव व्यत्यासेन प्रयोगः । तथा च कल्पकारः--चतुर्वीरादिषु बृहद्रथन्तरेणैव पृष्ठेन कल्पयति । न तु वैरूपादीनि यथासंभवम् । [इति] । निदानकारश्चाह--
अथैष चतुर्वीरो बृहद्रथन्तरपृष्ठ एव । न हि षाडहिकानि अनुभवन्ति । नान्यो व्यलोलुप्सीत् (नि० सू० ८.९.) इति । छन्दोमेषु चाह---बृहद्रथन्तरे पृष्ठे न हि षाडहिकान्यनुभवन्ति नो व्यलोलुप्सीत् (नि०सू०४.६) इति । बृहद्रथन्तरपृष्ठं च षडहं पृष्ठ्यस्तोमसंज्ञं परस्तात् कल्पयिष्यति। ततश्च पृष्ठ्यस्तोमस्य चतुर्भिरहोभिरस्य चत्वारि मुखानि कार्याणि । तत्र प्रथमस्य मुखस्य क्लृप्तिः--उपास्मै गायता नर (सा०६५१-३) उपोषु जातमप्तुरम् (सा० १३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी ( सा० ६६०-७१ ) इत्याज्यानि॥
प्र सोमासो विपश्चित (सा० ७६४) इति गायत्रं प्रथमायाम् । अभि द्रोणानि बभ्रव ( सा० ७६५ ) इत्याश्वं ( ऊ. १. २. ११) द्वितीयायाम् । सुता इन्द्राय वायव (सा० ७६६ ) इति सोमसाम (ऊ. १. २. १२) तृतीयायाम् । प्र सोम देववीतय (सा० ७६७-८) इति यौधाजयं ( ऊ० १. २. १३) तिसृषु । प्र तु द्रव (सा० ६७७-६) इति औशनम् (ऊ० १. १. ४) अन्त्यम् ॥
रथन्तरं (२० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १.१. ६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
प्र सोमासो मदच्युत ( सा० ७६४-६ ) इति गायत्रं प्रथमायाम्। तस्यामेव संहितम् (ऊ० १.२. १४) । अया पवस्व देवयुः पवते हर्यतो हरिः ( सा० ७७२-३ ) इति जनुषैकर्चयोः सफाक्षारे (ऊ० १.२.१५-६)। प्र सुन्वनाय (सा० ७७४) इत्यौदलं

251
एकाहः -- औपशदः [ अ. ५. ख.४]

(ऊ० ११.२.३) प्रथमायाम् । तस्यामेव गौतमम् (ऊ० १.२.१८) कावम् (ऊ० १. १. १३) अन्त्यं तिसृषु ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४)। सर्वाणि स्तोत्राणि त्रिवृत् ॥
अथ द्वितीयस्य--
पवस्व वाचो अग्रियो ( सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८० ) वृषा सोम (सा० ७८१-३) वृषा ह्यसि (सा० ७८४-६) पवमानस्य ते वयम् (सा० ७८७-९) इति बहिष्पवमानम् । द्वितीयादीनामपि मुखानां बहिरेव बहिष्पवमानस्तवनम् । एकाहप्रकरणे विधानात् । कालभेदाभावाच्च ॥
अग्नि दूतं (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५ ) इन्द्रमिद्गा-(सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्न (सा० ८००-२) इत्याज्यानि । चतुर्ऋचे अन्त्याया उद्धारः ॥
वृषा पवस्व धारय (सा० ८०३-५) इति गायत्रं च यौक्ताश्वं (ऊ० द०३९) च । पुनानः सोम धारय (सा० ६७५-६) इत्यैडंत्रिणिधने आयास्ये (ऊ० ११.२.२० , २.१.१)। वृषा शोण (सा० ८०६-८) इति वासिष्ठम् ( अ० २.१.२ ) अन्त्यम्। पार्थं (ऊ० ७.१.६) केचिदिच्छन्ति ।
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० २.१.३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २. १. ५) च । पवस्वेन्द्रमच्छ (सा० ६९२-६) इति शङ्कुसुज्ञाने (ऊ० २.१.६-७) एकर्चयोः। अयं पूषा रयिर्भगः (सा० ८१८-२०) इत्यासिताद्यं (ऊ० ११.२.२०) प्रथमम् । क्रौञ्चं (ऊ० २.१.९) तिसृषु। वृषा मतीनाम् ( सा० ८२१-३ ) इति यामम् (ऊ० २. १. १०) अन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥
साकमश्वम् (ऊ० १.१.१५) । एवाहि ( सा० ८२४-६ ) इत्यामहीयवम् (ऊ० २.१.११) । इन्द्रं विश्वा (सा० ८२७-९) इत्याष्टादंष्ट्रं पूर्वम् (ऊ० २.१.१२) इत्युक्थानि । सर्वं पञ्चदशम् ॥ अथ तृतीयस्य--
दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारय ( सा० ८४१-३) इति बहिष्पवमानम् ॥
अग्निनाग्निः ( सा० ८४४-६) मित्रं हुवे (सा० ८४७-९) इन्द्रेण ता हुवे (सा० ८५०-२) इत्याज्यानि ॥
उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१.१३) च। अभि सोमास आयव (सा० ८५६-८) इति पौरुमद्गं प्रथमायाम् (ऊ० २.१.१४) । गौतमं तिसृषु (ऊ० २.१.१५) । अन्तरिक्षं ( र० १. १. ६) तिसृषु । आष्कारणिधनमध्यास्यायाम् (ऊ० २.१.१६)। तिस्रो वाच (सा० ८५६-६१) इत्यङ्गिरसां क्रोशमन्त्यम् (ऊ० २.१.१७) ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १. १. ५) च । वयं घ त्वा (सा० ८६४-६) इति महावैष्टम्भम् (ऊ० २.१.१८)। तरणिरित्सिषासति (सा० ८६७-८) इति रौरवम् (ऊ० २.१.१९) इति पृष्ठानि ॥
तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं च पाष्ठौहं ( ऊ० २.१.२०) च । आ सोता परि षिञ्चत (सा०

253
एकाहः- पुनस्तोमः [अ. ५. ख. ४]

१३६४) सखाय आ निषीदत ( सा० ११५७) इति वाचः साम शौक्तं (ऊ० २.२.१-२) चैकर्चे। सुतासो मधुमत्तम (सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० २.२.४ ; ऊ० १५.१.१)। पवित्रं त (सा० ८७५-७) इत्यरिष्टम् (र० १. १. ८) अन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥
प्रमंहिष्ठीयं ( ऊ० २. २. ५) हारिवर्णं ( ऊ २. २. ६) तैरश्च्य-( ऊ० २.२.७ )मित्युक्थानि ॥ सर्वः सप्तदशः ॥
अथ चतुर्थस्य
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्रयद्गावो न भूर्णयः (सा० ८९२-७) आशुरर्ष बृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् ॥
अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा (सा० ९१०-२) इन्द्रो दधीचो अस्थभिः (सा० ९१३-५ ) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि॥
 पवस्व दक्षसाधन ( सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १. ९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारण ( सा० ९२२-३ ) इत्याष्टादंष्ट्रम् आभीशवं च स्वःपृष्ठं चाङ्गिरसम् (ऊ० २. २. ९-११) सोमः पवते (सा. ९४३-५) जनित्रम् (ऊ० ८.२.१) अन्त्यम् ॥
बृहच्च (र०१.१.५) वामदेव्यं (ऊ. १. १. ५) च त्रैशोकं ( ऊ० २.२.१३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि ॥
परि प्रिया दिवः कविः (सा० ९३५-७ ) इति गायत्रं चौर्णायवं (ऊ० २.२.१५) च। त्वं ह्यङ्ग दैव्य (सा० ९३८-९) सोमः पुनानः ऊर्मिणा (सा० ६४०-२) इति बृहत्का-(ऊ० २.२.१६) तीषादीये (ऊ० २.२.१७)। पुरोजिती वो अन्धस (सा० ९९७-९) इति नानदा-(ऊ० २.२.१८)न्धीगवे (ऊ० १.१. १२) । प्र त
अश्विनीर् (सा० ८८६-८) इति लौशम् (ऊ० ८.२.२) अन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)॥
अग्निं वो वृधन्ताम् ( सा० ९४६-८ ) इति सैन्धुक्षितम् । वयमु त्वाम् (सा० ७०८-९) इति सौभरम् (ऊ० १.१.१६ ) ।
इममिन्द्र (सा० ९४९-५१) इति वसिष्ठस्य प्रियम् (ऊ० ३.१.२१) इत्युक्थानि ॥

प्रत्यस्मै पिपीषत (सा० १४४०-३) इति गौरीवितं षोडशिसाम । पृष्ठ्यस्तोमे हि कल्पकारो वक्ष्यति -- चतुर्थस्याह्नः प्रत्यस्मै पिपीषत इति गौरीवितं षोडशिसामे (आ०क० ७. १५. १)ति । सूत्रकारश्चाह --
विराडपाये चापैत्यन्यासु चेति । आद्येत्यभियुक्ता चतुष्टोमवदस्य ज्योतिष्टोमेनैव रथन्तरपृष्ठेन यथास्तोमक्लृप्तेन चत्वारि मुखानि
कार्याणीत्याह । त्रिवृदादिस्तोमस्य क्लृप्तिः विश्वसृजामयने वक्ष्यते ॥

255
एकाहः-- पुनस्तोमः [अ. ५. ख. ४)

अथैष पुनस्तोम (तां. ब्रा० १९. ४) इत्यनुवाकेन पुनस्तोम उक्तः। तस्य कल्प:
रौरवयौधाजये अन्तरा मैधातिथम् (ऊ० १३. १. ७ ) । नौधसस्यर्क्षु शुद्धाशुद्धीयं ब्रह्मसाम यत् पदनिधनम् (ऊ० १३. १.८)। संहितस्य लोके गौषूक्तम् (ऊ० १३. १.९)। पौष्कलस्याश्वसूक्तम् (ऊ० १३. १. १०) प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णं ( उ० २. २. ६) शुद्धाशुद्धीयं स्वासु यदैडम् (ऊ० ७. २. १२) ॥१॥
समानमितरं ज्योतिष्टोमेन ॥२॥
इति । उप-दवि-पवे(सा० ६५१-९)ति बहिष्पवमानम् । अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सो (सा० ६७५-६) रौरवं (ऊ० १. १. २) प्रथमायाम् । मैधातिथं (ऊ० १३. १. ७) द्वितीयायाम् । यौधाजयं (ऊ० १.१. ३) तृतीयायाम् । औशनमन्त्यम् (ऊ० १. १. ४)। त्रीण्यन्यतरस्यां संभवेयुर् (ला० श्रौ० सू० ६. ३. १७) इति वचनात् बृहत्यामेकर्चकरणम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१.५) च नौधसस्यर्क्षु पदनिधनं शुद्धाशुद्धीयं (ऊ० १३. १.८) । स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-गौषूक्ते (ऊ० १३. १. ९)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-पौष्कले (ऊ ० १. १. ९-१०)। पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १. १२-३)। कावम् (ऊ० १. १. १४) अन्त्यम् । काववर्जमेकर्चाः ॥ २ ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥३॥
प्रमँहिष्ठीयं हारिवर्णं शुद्धाशुद्धीयं स्वासु यदैडमित्युक्थानि ॥ ३ ॥
अथ स्तोमक्लृप्तिः --
द्वादशं माध्यंदिनं सवनम् । त्रिवृती अभितः ॥ ४ ॥
इति । प्रातःसवनं सर्वं त्रिवृत् । माध्यंदिनं सवनं तृतीयसवनं त्रिवृदित्यर्थः। द्वादशस्तोमस्य विष्टुतिः। चतसृभ्यो हिंकरोति । स द्वाभ्यां स एकया स एकया चतसृभ्यो हिंकरोति । स एकया स द्वाभ्यां स एकया चतसृभ्यो हिंकरोति । स एकया स एकया स द्वाभ्यामिति । आवापस्थानेषु द्विकाविष्टावाः । तदुक्तम्--द्वादशे तृचभागस्थानेषु द्विकाविष्टावाः (ला० श्रौ० ६. ७. ४)। आवापस्थानेषु वेति ॥ ४ ॥
इति पुनस्तोमः ।।४॥
चतुष्टोमौ
प्रथमः
अथैष चतुष्टोम (तां. ब्रा० १९. ५) इत्यनुवाकेन पूर्वश्चतुष्टोम उक्तः। अथ यस्य चत्वारि स्तोत्राणी-(तां० ब्रा० १९. ६)त्युत्तरः । एतौ च गौतमौ चतुष्टोमाविति सूत्रान्तरेषु प्रसिद्धिः । तयोः पूर्वस्य कल्पः --
अयं पूषा रयिर्भगः (सा० ८१८-२०) इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति । पुनस्तोमस्याज्यमध्यंदिनम् । तीव्रसुतः पृष्ठानि । ज्योतिष्टोम आर्भवः । आन्धीगादुत्तरं यज्ञायज्ञीयम् (ऊ० ८.२.१६)। यज्ञायज्ञीयस्यर्क्षु (सा० ७०३-४) वारवन्तीयेन षड्भिः (ऊ० १३. १. ११) साकमश्वस्य षड्भिः (ऊ० १३. १. १३) हारिवर्णस्य षड्भिः (ऊ० १३. १. १४) तैरश्च्यस्य षड्भिर् (ऊ० १३. १. १४) अनु ब्राह्मणस्तोमाः ॥१॥

257
एकाहः-चतुष्टोम: (१)[अ. ५. ख. ५]
इति । अयं पूषेति तिस्रोऽनुष्टुभः। स तिसृभिस्त्रिभिः पादैश्चतस्रो गायत्रीः कुर्यात् । तद्यथा - अयं पूषा रयिर्भगोम् । वियख्यद्रोदसी उभोम् । सोमासः कृण्वते पथोम् । पवमान श्रवायियोम् । प्रथमा रेतस्या । उत्तमा रथन्तरवर्णा । इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च। पुनानः सो (सा० ६७५-६) रौरवं (ऊ० १.१.२) मैधातिथं (ऊ० १३. १. ७) यौधाजयम् (ऊ० १. १. ३) इति सामतृचः । औशनम् (ऊ० १. १. ४) अन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च श्रायन्तीयं (ऊ० ५.२.९) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
  स्वादिष्ठये-(सा० ६८६-९१)ति गायत्र-संहिते (ऊ० १३.१.९)। पवस्वेन्द्रमच्छा ( सा० ६९२-४) इति एकर्चयोः सफ-पौष्कले (ऊ. १. १. १०) । पुरोजिती वो ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.१२-३)। कावम् ( ऊ० १.१.१४ ) अन्त्यम् ॥
यज्ञा-एह्यूषु (सा० ७०३-७) तं ते श्रुधी ( सा० ८८०-५) इति चतुर्षु तृचेषु वारवन्तीयेन षड्भिः स्तोत्रीयाभिरग्निष्टोमसाम । आद्ययोर्यज्ञायज्ञीययोरग्निर्देवता। परयोरिन्द्रः। अनुब्राह्मणं स्तोमक्लृप्तिः । चतसृभिः बहिष्पवमानम् । अष्टाभिराज्यानि । द्वादशो माध्यंदिनः पवमानः । षोडशानि पृष्ठानि । विंश आर्भवः ।
चतुर्विंशोऽग्निष्टोमः इति । चतुष्टोमयोश्चतुःपर्यायाः कार्याः । तत्राष्टिस्तोमस्य विष्टुतिः । द्वाभ्यां हिंकरोति । स प्रथमया द्वाभ्यां हिंकरोति । स प्रथमया द्वाभ्यां हिंकरोति । स मध्यमया द्वाभ्यां हिंकरोति । स उत्तमयेति ब्रह्मायतनीयापक्षे । क्षत्रायतनीयापक्षे तु मध्यमायां द्वौ पर्यायौ । तदुक्तम् -- चतुष्के द्वौ प्रथमायां पर्यायौ स्यातां यदि ब्रह्मायतनीयां कुर्यात् । मध्यमायां क्षत्रायतनीयां चेत् तथाष्टीनि । द्विकास्तु तस्य पर्यायाः ( ला० श्रौ० ६. ८. २-४ ) इति । तत्र प्रथमद्वितीयौ पर्यायौ तत्तृचभागस्थानयोर्निधाय द्वितीयस्य पर्यायस्योत्तरतः प्रत्यगग्रेण कुशाद्वयेन तृतीयं पर्यायं निदध्यात् । उत्तमस्य पर्यायस्य
तृचभागस्थान एवोत्तमं पर्यायम् । एवं चतुष्पर्यायेषु सर्वेषु कुशाविधानस्थानम् । अथ षोडशस्य चतसृभ्यो हिंकरोति । स द्वाभ्यां स एकया स एकया। चतसृभ्यो हिंकरोति । स एकया स द्वाभ्यां स एकया। चतसृभ्यो हिंकरोति स एकया स द्वाभ्यां स एकया । चतसृभ्यो हिंकरोति स एकया स एकया स द्वाभ्यामिति । षोडशे चत्वारो द्वादश पर्यायाः । तेषां मध्यमौ सदृशाविति । अथ चतुर्विंशस्य षड्भ्यो हिंकरोति स द्वाभ्यां स द्वाभ्यामिति प्रथमः पर्यायः । एवमन्ये त्रयः । तत्र यज्ञातृचे द्विरभ्यस्तयैकैकया स्तोत्रीयया प्रथमः पर्यायः । एवमितरेष्वपि तृचेष्वितरे पर्यायाः । तदुक्तं -- चतुर्विंशे चत्वारः षट्काः पर्याया द्विकविष्टावाः । पृथक्तृचेषु चतुस्तृच ( ला० श्रौ० ६. ८. ९-१० ) इति । अत्राष्टिचतुर्विंशयोर्विष्टुतिकल्पे पक्षान्तराणि सूत्रोक्तानि विस्तरभयादत्र न लिखितानि ॥१॥
इति प्रथमश्चतुष्टोमः ॥ ५॥

259
एकाह:-चतुष्टोमः (२) [अ. ५. ख. ६]
द्वितीयः
उत्तरं चतुष्टोममाह --
तरत् स मन्दी धावति (सा० १०५७-६०) इति चतसृभिर्बहिष्पवमानम् । इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८ ) इति गायत्रं चामहीयवं (ऊ० १०. २. ४) च । यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम (ऊ० १३. १. ११)। साकमश्वं (ऊ० १.१.१५) हारिवर्णं तैरश्च्यम् (ऊ० २.२.६) । गौरीवितं षोडशिसाम (ऊ० ३.१.२) ॥ १॥
समानमितरं पूर्वेण । अनुब्राह्मणं स्तोमाः ॥ २ ॥
इति । तरत्समन्दी धावति ( सा० १०५७-६०) इति चतुर्ऋचं बहिष्पवमानम् ॥ अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि ॥ इन्द्रायेन्दो मरुत्वत (सा० १०७६-८ ) इति गायत्रं चामहीयवं (ऊ० १०. २.४) च । पुनानः सो (सा० ६७५-६) रौरवं (ऊ० १.१.२) च मैधातिथं (ऊ० १३. १. ७) च यौधाजयं (ऊ० १. १. ३) चौशनमन्त्यम् (ऊ० १. १. ४)। औशनमेव तृचे। शिष्टा एकर्चाः ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं (ऊ० ५. २. ९) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १३. १. ९) । पवस्वेन्द्रमच्छा ( सा० ६९२-४) इति सफ-पौष्कले ( ऊ० १.१. ९-१० )। पुरोजिती व ( सा० ६९७-९ ) इति श्यावाश्वान्धीगव-(ऊ०१.१.१२-३)। यज्ञायज्ञीयानि (ऊ० २१.२.३)। काव-(ऊ० १. १. १४)मन्त्यम् । कावयज्ञायज्ञीये तृचयोः । एकर्चा इतरे । संभवति स्तोमेऽन्त्यं सर्वं तृचे । द्वितीयं चेदरण्येगेयम् ।
तदभावे यदन्त्यात्पूर्वम् ( ला० श्रौ० ० ६.४.२-४) इति वचनात् । यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम (ऊ० १३. १. ११) साकमश्वं (ऊ०. १. १. १५) हारिवर्णं तैरश्च्यम् (ऊ० २. २. ६-७) इत्युक्थानि । गौरीवितं षोडशिसाम (ऊ० ३.१. २)॥

अथ चत्वारि स्तोत्राणि चतसृभिः (तां० ब्रा० १९.६.१) इत्यादिब्राह्मणोक्ताः स्तोमाः। तद्यथा-- बहिष्पवमानम् । त्रीणि चाज्यानि चतुष्कस्तोमानि । उत्तममाज्यम् । माध्यंदिनः पवमानो रथन्तरं च वामदेव्ये चाष्टीनि उत्तमं पृष्ठद्वयम् आर्भावोऽग्निष्टोमसाम च द्वादशानि। उक्थानि षोडशी च षोडशानि । तत्र चतुष्कस्य विष्टुतिः। एकस्यै हिंकरोति स प्रथमयैकस्यै हिंकरोति स प्रथमयैकस्यै हिंकरोति स मध्यमयैकस्यै हिंकरोति स उत्तमयेति । क्षत्रायतनीयापक्षे मध्यमायां पर्यायद्वयम् । अष्टिस्तोमस्य पूर्वस्मिन् विष्टुतिरुक्ता । अथ द्वादशस्य चतसृभ्यो हिंकरोति स द्वाभ्यां स एकया स एकया । द्वाभ्यां हिंकरोति स पराचीभ्यां पूर्वाभ्यां द्वाभ्यां हिंकरोति । स पराचीभ्यामुत्तराभ्यां चतसृभ्यो हिंकरोति । स एकया स एकया स द्वाभ्यामिति । उक्तं च द्वादशे व्याख्यातौ प्रथमोत्तमौ मध्यमौ द्विकौ पूर्वयोः पूर्व उत्तरयोरुत्तर इति षोडशस्य पूर्वस्मिन्नेवोक्ता ॥२॥
इति द्वितीयश्चतुष्टोमः ॥६॥

उद्भिद्
असुराणां वै बलः ( तां० ब्रा० १६. ७. १) इत्यनुवाकेनोद्भिद्बलभिदावुक्तौ । उद्भिद्बलभिद्भ्यामविप्रयोगेण यजेते - ( ला० श्रौ० ९. ४.९)त्यादि सूत्रम् । तत्रोद्भिदः क्लृप्तिमाह --
उपोषु जातमप्तुरम् ( सा० ७६२ ) इत्यनुरूपो यज्ञ
इन्द्रमवर्धयद् (सा० १६३९-४१) इति ब्रह्मण आज्यम् । पिबा

261
एकाहः-उद्भिद् [अ. ५. ख.७]
सुतस्य रसिन (सा० १४२०-२) इत्युत्सेधो ब्रह्मसाम (ऊ० १३. १. १५) जनुषैकर्चयोः (सा० ७७२-३) सफं (ऊ० १. २. १५) च उद्भिच्च (र० ३. २.६) श्यावाश्वस्य लोक औदलम् (ऊ० १०. १. ३)। अञ्जत (सा० १६१४-६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥१॥
उद्धरत्युक्थानि ॥२॥
समानमितरम् आयुषैकाहिकेन ॥३॥
इति। उपास्मै (सा० ६५१-३) उपोषु ( सा० ७६२ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । उद्भिद्यनुरूपमेकर्चं शाण्डिल्यः । स्तोत्रीयं गौतमधानंजय्यौ (ला० श्रौ० ६.३.५-६)॥
अग्न आयाहि वीतये (सा० ६६०-२) आ नो मित्रावरुणा (सा० ६६३-५) यज्ञ इन्द्रमवर्धयत् ( सा० १६३९-४१ ) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १.१) च । अभि सोमास (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४.२.७)प्रथमायाम्। मैधातिथ-(ऊ० ९.२.६) रौरवे (ऊ० ७.१.१३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३)। औशन-( ऊ. १.१.४)मन्त्यम् ॥
रथन्तरं (ऊ० १.१.१) च वामदेव्यं (ऊ० १.१.५) च । पिबा सुतस्य रसिन (सा० १४२१-२) इत्युत्सेधः (ऊ० १२.२.१५)। स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ॥
  स्वादिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः ( सा० ७७२ ) पवते हर्यतो हरिः (सा० ७७३) इति सफं (ऊ० १. २. १५) च उद्भिच्च (र० ३. २. ६)।
पुरोजिती वो अन्धस (सा० ६६७-९) इति औदला-(ऊ० १०.१.३)न्धीगवे (ऊ० १.१.१२) । अञ्जत (सा० १६१४-६) इति कावमन्त्यम् । एकर्चाः सर्वे । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (ला० श्रौ० ६.४.२ ) इत्यत्र संभवतीति वचनात् । यज्ञायज्ञीयमग्निष्टोमसाम ॥ ३ ॥
सप्तिसप्तदशौ स्तोमौ विपर्यासम् ॥ ४ ॥
इति बहिष्पवमानम् । सप्तिप्रथममाज्यं सप्तदशमित्येवं व्यत्यासेन सप्तिसप्तदशौ स्तोमौ भवतः। तत्र सप्तिस्तोमस्य जातिसंहारपक्षे विष्टुतिः। एकस्यै हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स पराचीभिस्तिसृभ्यो हिंकरोति स पराचीभिरिति । युग्मायुक्संहारपक्षे तु द्वाभ्यां हिंकरोति स प्रथमया द्वाभ्यां हिंकरोति स प्रथमया द्वाभ्यां हिंकरोति स मध्यमया तिसृभ्यो हिंकरोति स पराचीभिरिति ॥ ४ ॥
इति उद्भिद् ॥ ७ ॥

बलभिद्
बलभिदः क्लृप्तिमाह
प्रतीचीनस्तोमस्य बहिष्पवमानम् । यज्ञ इन्द्रमवर्धयद् (सा० १६३९-९२) इति ब्रह्मण आज्यम् । पिबा सुतस्य (सा० १४२०-२) इति निषेधो (ऊ० १३. १. १०) ब्रह्मसाम । मौक्षस्य लोके बलभित् (ऊ० र० ३. २. ७)। सफस्य सत्रासाहीयम् (ऊ० ९. २. ७)। अयं पूषा रयिर्भग (सा० ८१८-७०) इति श्यावाश्व-(ऊ० ११. २. १०) क्रौञ्चे (ऊ. २. १. ९)। अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥ १॥
उद्धरत्युक्थानि ॥ २॥

263
एकाहः -- बलभिद् [अ. ५. ख. ८ ]

समानमितरं गवैकाहिकेन ॥३॥
इति । प्रतीचीनस्तोमः केशवपनीयः । पवस्व वाचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) दविद्युतत्या रुचा (सा० ६५४-६ ) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्निं दूतं वृणीमहे (सा० ७९०-२) इति मित्रं वयं हवामहे (सा० ७९३-५) यज्ञ इन्द्रमवर्धयत् (सा० १६३९-४१) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ॥
  अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च। परीतोषि (सा० १३१३-५) समन्तमाद्यायाम् (ऊ० ९. १. ३) । दैर्घश्रवसं (ऊ० ५. २. ४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १६. १. ५) । अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९. २. ५) ॥
  बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च। पिबा सुतस्य (सा० १४२१-२) इति निषेधः (ऊ० १२. २. १६)। स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५) इति गायत्रं च बलभिच्च (र० ३. २. ७) । पवस्वेन्द्रमच्छ (सा० ६९२) इति सत्रासाहीय (ऊ० ९. २. ७) श्रुध्ये (ऊ० ९.१.२०)। अयं पूषा (सा० ८१८) इति श्यावाश्व-(ऊ० १२.२.१०)क्रौञ्चे (ऊ० १५.१.७) । अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति काव-(ऊ० १२. १. १७)मन्त्यम् ॥ एकर्चाः सर्वे । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥३॥
एकविंशं बहिष्पवमानम् । तिसृभिर्होतुराज्यम् । सप्तिसप्तदशमितरं सर्वम् ॥४॥
इति । स्तोमविधिः । त्रिकस्तोमस्य श्येने विष्टुतिरुक्ता सप्तिस्तोमस्योद्भिदि ॥ ४ ॥
इति बलभिद् ।। ८ ।।

अपचितिः
अथैषोऽपचितिर् ( तां० ब्रा० १९. ८) इत्यनुवाकेन प्रथमोऽपचितिरुक्तः । अथैष सर्वस्तोमोऽपचितिर् (तां० ब्रा० १९.९) इति द्वितीयः । राजापचितिकाम एताभ्यां यजेतेति धानंजय्यः । यःकश्चापचितिकाम इति शाण्डिल्यः ( ला० श्रौ० ९.४.१६-७) । तयोः प्रथमस्य कल्पः
बलभिदो बहिष्पवमानम् । उभौ पर्यासौ । अभिजितो गायत्री । पुनानः सोम धारय ( सा० ६७५-६ ) इति बृहती । ज्योतिष्टोमे अन्त्ये । त्वमिन्द्र यशा असि ( सा० १४११-२) इति यशो (र० ३. १. १८) ब्रह्मसाम । संहितादुत्तरं जराबोधीयम् ( ऊ० १०. २. १०) । आन्धीगवाद्भर्गः (र० ३. २. ९) ॥ १॥
समानमितरं प्रथमेन साहस्रोण ॥ २ ॥
इति । पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति बार्हतरथन्तरावुभौ पर्यासावत्र भवतः । तत्र बृहतः पृष्ठेन प्रधान्याद्बार्हतस्य पूर्वं प्रयोगः । ज्योतिष्टोमेऽन्त्ये इति माध्यंदिनार्भवयोरन्त्ये औशनकावे इत्यर्थः । २ ॥ तत्रेयं क्लृप्तिः --
पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) दविद्युतत्या रुचा (सा०६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना

265
एकाहः -- अपचितिः [अ. ५. ख. ९ ]

(सा० ७८४-६) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न आयाहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५) इन्द्रमिद्गाथिनः (सा० ७९६-९) इन्द्रे अग्न (सा०६६०-७२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) सत्रासाहीयं (ऊ० ८.२.१२) च । पुनानः सो (सा० ६७५-६) समन्तमाद्यायाम् ।
रथन्तरं (र० १. २. १०) दैर्घश्रवसं (ऊ० ५.२.४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३) औशनमन्त्यम् (ऊ० १.१.४)।
  बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१.५) च । त्वमिन्द्र यशा असि (सा० १४११-२) इति यशः (र० ३.२.८)। स्वासु कालेय-(ऊ० १. १. ७)मिति पृष्ठानि ।।
स्वादिष्ठया (सा० ६८९-९१) इति गायत्रं च संहितं (ऊ० १.१.८) च जराबोधीयं (ऊ० १०.२.१०) च । पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-(ऊ० १.१.९) श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-२) । भर्गश्च (र० ३.२.६)। काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
चतुर्विंशं बहिष्पवमानम् । त्रिवृत्पञ्चदशान्याज्यानि । चतुर्विंशो माध्यंदिनः पवमानः । सप्तदशैकविंशानि पृष्ठानि । त्रिणवः आर्भवः । एकविंशोऽग्निष्टोमः ॥ ३ ॥
इति । त्रिवृत्पञ्चदशयोराज्येषु व्यत्यासेन प्रयोगः । पृष्ठेषु सप्तदशैकविंशयोश्च ॥३॥
। इति अपचितिः ॥ ६ ॥

सर्वस्तोमोऽपचितिः
द्वितीयमपचितिमाह --
साहस्रं बहिष्पवमानं यथा प्रथमस्य । आमहीयवादुत्तरमैडं सौपर्णम् ( ऊ० १३. १. १७) । जराबोधीयात् स्वाशिरामर्कः (र० ३.१.२)। आनुष्टुभेभ्य उत्तरम् । परि प्र धन्व (सा० १३६७-९) इति द्विपदासु वारवन्तीयम् (ऊ० ९. २. १०)। सूर्यवतीषु कावम् (ऊ० ९. २. ११) अन्त्यम् ॥ १॥
समानमितरं पूर्वेण ॥२॥
इति । पवस्व वाचो अग्रिय ( सा० ७७५-७) दविद्युतत्या रुचा ( सा० ६५५-६ ) पवमानस्य ते कवे ( सा० ६५७-९ ) इति बहिष्पवमानम् ॥
अग्न आयाहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५) इन्द्रमिद्गाथिन ( सा० ७९६-९) इन्द्रे अग्न (सा० ८००.२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं च आमहीयवं (ऊ० १. १.१) चैडं च सौपर्णं (ऊ० १३.१.१७) सत्रासाहीयं (ऊ० ८.२.१२) च । पुनानः सोम धारय (सा० ६७५-६) इति समन्तं (र० २.२.१) च रथन्तरं च दैर्घश्रवसं (ऊ० १२.२.१६) च यौधाजय-(ऊ० १.१.३) मौशन-(ऊ० १.१.४)मन्त्यम् ॥
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च । त्वमिन्द्र यशा (सा० १४११-२) इति यशः (र० ३. १. १८)। स्वासु कालेय-(ऊ० १.१.७) मिति पृष्ठानि ॥
  स्वादिष्ठया (सा० ६८९-९१) इति गायत्रं च संहितं (ऊ. १.१.८) च जराबोधीयं (ऊ० १०. २. १०) च स्वाशिरामर्कः (र० ३.२.१)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-( ऊ० १.१.९)

267
एकाहः-अग्नेः स्तोमाः (१) [अ. ५. ख. १]

श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती व ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-१२) भर्गः (र० ३.२.९) । परि प्रधन्व (सा० १३६७-९) इति द्विपदासु वारवन्तीयम् (ऊ० ९.२.१०)। सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)॥ २ ॥
स्तोमविधिमाह --
त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशे द्वे । एकविंशमच्छावाकस्य । त्रिणवो माध्यंदिनः पवमानः । छन्दोमाः पृष्ठानि । त्रयस्त्रिंश
आर्भवः । एकविंशोऽग्निष्टोमः ॥३॥
इति । छन्दोमाः पृष्ठानीति । चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वरिंश- 10 चतुर्विंशस्तोमानि क्रमात् पृष्ठानीत्यर्थः ॥ ३ ॥
इति सर्वस्तोमोऽपचितिः ॥ १० ॥
अग्नेः स्तोमः
प्रथमः -- पक्षीत्यपराख्यः
पक्षी वा एष स्तोमः (तां० ब्रा० १९. १०. १) इत्यनुवाकेन पक्षी विहितः। अथैष ज्योतिः ( तां० ब्रा० १९. ११. १) इति अनुवाकेन ज्योतिः । तावग्निस्तोमाविति चोच्यते । यथोक्तम् -- ऐकाहिकेन व्रतेनोक्त: उपायोऽग्नेः स्तोमयोः ( ला० श्रौ० ९. ४. १८) इति । ज्योतिषोऽपि पक्षिसंज्ञाऽस्ति । यथोक्तमापस्तम्बेन— पक्षिभ्यां साग्निचित्यौ ( आप० श्रौ० ) इति । प्रथममग्नेः स्तोममाह --
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीयं च (ऊ० ११. १. १४) स्वारं च सौपर्णम् ( उ० १०. १. १०) अग्नेश्च व्रतम् (र० २. २. १)। यौधाजयात् पूर्वं रौरवम् (ऊ० १.१.२)। यशसो लोके श्यैतम् (ऊ० २.१.३)। स्वादिष्ठया (सा० ६८९-९१) गायत्रं च स्वाशिरामर्कः (र० ३.१.२)॥१॥
समानमितरं पूर्वेण । ज्योतिष्टोममत ऊर्ध्वम् ॥ २॥
इति । समानमितरं पूर्वेणेत्यादेरयमर्थः । आर्भवात् पूर्वमनुक्तं पूर्वेण समानम् । स्वाशिरामर्कादूर्ध्वं तु ककुबादिज्योतिष्टोमेन सममिति । पवस्व वाचो (सा० ७७५-७) दविद्युतत्या रुचा ( सा० ६५५ - ६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ याहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५ ) इन्द्रमिद्गाथिन ( सा० ७६६-९ ) इन्द्रे अग्न (सा० ८००-२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ.० १.१.१) च जराबोधीयं च स्वारं सौपर्णमग्नेश्च व्रतम् । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं ( ऊ० ६.२.२) च रथन्तरं (र० २.१.१) च दैर्घश्रवसं (ऊ० ११.२.१६) च रौरवयौधाजये (ऊ० १.१.२-३)। औशन-(ऊ० १.१.४)मन्त्यम् ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २.१.३) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि ॥

269
एकाहः-अग्नेः स्तोमा (२) [अ. ५. ख. १२]

स्वादिष्ठया (सा० ६८९-९२) इति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे-(सा० ६९३-६)ति सफपौष्कले (ऊ० १.१. ९-१०)। पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १.१. ११-१२) । काव-(ऊ० १.१.१३) मन्त्यम् ॥ सफपौष्कलश्यावाश्वान्धीगवान्येकर्चेषु ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
षडूर्ध्वाः स्तोमाः षडर्वाञ्चः ॥ ३॥
पार्ष्ठिकाः स्तोमाः षट्पूर्वमूर्ध्वा भवन्ति । ततस्त एवार्वाञ्च इत्यर्थः। तद्यथा त्रिवृद्बहिष्पवमानम् । पञ्चदश सप्तदशैकविंशत्रिणवान्याज्यानि । यथासंख्यं त्रयस्त्रिंशो माध्यंदिनः पवमानः । त्रयस्त्रिंशत्रिणवैकविंशसप्तदशानि पृष्ठानि। यथासंख्यं पञ्चदश आर्भवः । त्रिवृदग्निष्टोमसाम । इति ॥ ३ ॥
इति प्रथमः अग्नेः स्तोमः ॥ ११ ।

अग्नेः स्तोमः
द्वितीयः-- ज्योतिरित्यपराख्यः

द्वितीयमग्नेः स्तोममाह --
ज्योतिष्टोममाज्यबहिष्पवमानम् । उद्धरति जराबोधीयं रथन्तररौरवे । वाजपेयस्य पृष्ठानि । पुरोजिती वो अन्धस (सा० ६९७-९) इति औदलमेकस्याम् (ऊ० १०.१. ३)। आन्धीगवमेकस्याम् (ऊ० १.१. १२) । श्यावाश्वमेकस्याम् (ऊ० १. १. ११)। बृहत्तिसृषु (र० २. २. ५)॥ १ ॥
समानमितरं पूर्वेण ॥२॥
इति । उपास्मै ( सा० ६५१-३) दविद्युतत्या (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि ॥
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च स्वारं च सौपर्ण-(ऊ० १०. १. १०)मग्नेश्च व्रतम् (र० २. २. १) पुनानः सोम धारये- सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च दैर्घश्रवसं (ऊ० ११. २. १६) च यौधाजय-( ऊ० १. १. ३ )मौशन-( ऊ० १. १. ४ )मन्त्यम् ॥ जराबोधीयरथन्तररौरवाणामुद्धारः॥
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१. ५) चाभीवर्तं (ऊ० ६. १. १६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे-( सा० ६९२-४ )ति सफ-पौष्कले (ऊ० १.१.९-१०) एकर्चयोः । पुरोजिती वो अन्धस (सा. ६९७-९) इति औदलम् (ऊ० १०. १. ३) आन्धीगवं (ऊ० १. १. १२ ) श्यावाश्व-(ऊ. १. १. ११ )मिति सामतृचः । बृहत्तिसृषु (र० २. २. ५) काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
अथ स्तोमक्लृप्तिः –
त्रिवृद्बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । त्रिवृन्मौत्रावरुणस्य
चतुर्विंशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि ।
पञ्चदशं मैत्रावरुणस्य । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ॥ ३॥
इति ॥३॥
इति द्वितीयः अग्नेः स्तोमः ॥ १२ ॥

271
एकाहः--ऋषभः [अ. ५. ख. १३]
 
ऋषभः
अथ ऋषभो राजन्यः । अथैष ऋषभ (तां० ब्रा० १९.१२) इत्यनुवाकेनोक्तः । तस्य कल्पः----
पुनानः सोम धारय ( सा० ६७५-६ ) इति रौरवं तिसृषु (ऊ० १.१.२)। सदोविशीयमेकस्याम् (ग्रा० गे० १४.१.३१)। समन्तं विष्टारपङ्क्तौ ( सा० ६७६ , ऊ० १३. १.१८ )। यौधाजयं तिसृषु (ऊ० १.१.३)। अभीवर्तो ब्रह्मसाम । (ऊ० ६. १. १६)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४. १. १३) । आन्धीगवमेकस्याम् (ऊ० ४.१. १२)। श्यावाश्वमेकस्याम् (ऊ० ४. १. ११) । बृहत्तिसृषु (र० २. २. ५) ॥१॥
सप्तदशो माध्यंदिनः पवमानः । समानमितरं ज्योतिष्टोमेन
सस्तोमम् ॥ २॥
इति । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी- (सा० ६६०-७९)त्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च। पुनानः सो (सा० ६७५-६) रौरवं तिसृषु ( ऊ० १.१.२)। सदोविशीय(ऊ० १२.१.२०)मेकस्याम् । दुहान ऊध-(सा० ६७६)रिति विष्टारपङ्क्तौ समन्तम् (ऊ० १३. १. १८) । यौधाजयं तिसृषु (ऊ० १.१.३) औशनमन्त्यम् (ऊ० १. १. ४)॥
स्थन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) चाभीवर्त्तश्च (ऊ० ६.१.१६) । कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥ स्वादिष्ठये-(सा०६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८)। पवस्वेन्द्रमच्छे-(सा०६९२-४)ति सफ-पौष्कले (ऊ० १.१.९-१०) एकर्चे। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितम् (ऊ० ६.१.१३) आन्धीगवं (ऊ० १.१.१२) श्यावाश्वम् (ऊ० १.१.११) इति सामतृचः । बृहत्तिसृषु (र० २.२.५) काव-(ऊ० १.१.१३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः । सप्तदशानि पृष्ठानि । आर्भव एकविंशोऽग्निष्टोमसाम । इति स्तोमक्लृप्तिः ॥ २॥
इति ऋषभः ॥ १३ ॥


गोसवः
यो वै वाजपेय ( तां० ब्रा० १९. १३) इत्यनुवाकेन गोसव उक्तः । वैश्यं यं विशः सराजानः पुरस्कुर्वीरन् । स गोसवेन यजेत (ला० श्रौ० ६. ४. २२)। तस्य बहिष्पवमानम् --
उपास्मै गायता नरः (सा० ६५१-३) इति तृचः षट् संभार्या वैश्वजित्यः । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८० ) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) । वृषा ह्यसि भानुना (सा० ७८४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९)॥
इति बहिष्पवमानम् ।।
उप त्वा जामयो गिर ( सा० १५७० ) इत्याद्या अग्न आयूंषि पवस (सा०१४६०-४) इति [अन्ताः] षडृचः संभार्याः वैश्वजित्यः॥१॥
पुनानः सोम धारय (सा० ६७५-६) इति बृहती । समानमितरमभिषेचनीयेन ॥ २॥

273
एकाहः -- गोसवः [अ. ५. ख. १४]

इति । सुषमिद्धो न आवह (सा० १३४७-५०)। ता नः शक्तं पार्थिवस्य (सा० १४६५-७)। युञ्जन्ति ब्रध्नमरुषं चरन्तम् (सा० १४६८ - ७०)। तमीडिष्व यो अर्चिषे-(ऊ० ११४९-५१)त्याज्यानि ॥ सुषमिच्चतुर्ऋचे यथागोत्रमुद्धारः । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीयं (ऊ० ११.१.१४) च स्वारं च सैन्धुक्षितं (ऊ० १२.२.७) च । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६.२.२) च रथन्तरं (र० २.१.६) च दैर्घश्रवसं ( ऊ० ५. २. ४) च देवस्थानं (र० १. २. ३) च वरुणसाम (ऊ. १२. २. ८) रौरव-(ऊ० ९. ३. ११) यौधाजये (ऊ० ७. २. ५)। वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १.६)मन्त्यम् ॥
बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १. १. ५) च कालेयं (ऊ० १.१.७) श्यैतं (ऊ० २.१.३) चेति पृष्ठानि ॥
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्र-मौक्षे (ऊ. ४. १. १०)। काक्षीवतं (ऊ० १२. २. ३) च स्वाशिरामर्कः (र० ३. १. ४)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १. १. ९)दैवोदासे (ऊ० १२. २. १०)। पुरोजिती-(सा० ६९७-९)ति वाध्र्यश्वं च वैतहव्यं च सोमसाम च त्रासदस्यवं (ऊ० ११. २. ११-४) चान्धीगवं काव-(ऊ० १.१.१२-३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४)। अग्ने त्वन्नो अन्तम (सा० ११०७-९) इति सत्रासाहीयं (ऊ० १२.२.१५) सौभरम् (ऊ० १. १. १६ ) उद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ॥२॥
अथ स्तोमक्लृप्तिः
सर्वः षट्त्रिंशः ॥ ३॥
इति । द्वादशभ्यो हिंकरोति स तिसृभिः सोऽष्टाभिः स एकया द्वादशभ्यो हिंकरोति स एकया स तिसृभिः सोऽष्टाभिः द्वादशभ्यो हिंकरोति । सोऽष्टाभिः स एकया स तिसृभिः। इति षड् त्रिंशस्य विष्टुतिः त्रिणवाद्यावत्। समा ( ला० श्रौ० ६.५.२० ) इति वचनात् । त्रिणवस्याद्या विष्टुतिर्या तद्वत् समाः स्तोमाः कर्तव्या इत्यर्थः ॥ ३॥
इति गोसवः ॥ १४॥
- -- -- - - - - --

मरुत्स्तोमः इन्द्राग्न्योः कुलायश्च

अथैष मरुत्स्तोम (तां० ब्रा० १९. १४) इत्यनुवाकेन मरुत्स्तोम उक्तः । अथैष इन्द्राग्न्योः कुलाय (तां० ब्रा० १९. १५) इत्यनुवाकेन इन्द्राग्न्योः कुलायः। तयोः कल्पः
या ज्योतिष्टोमस्य सा मरुत्स्तोमस्य ॥१॥
या बृहस्पतिसवस्य सेन्द्राग्न्योः कुलायस्य ॥२॥
इति। येति क्लृप्तिर्विशेष्या। उभयोः स्तोमक्लृप्तिमाह
अनुब्राह्मणं स्तोमाः ॥ ३॥
इति । तत्र मरुत्स्तोमो बहुयजमानकः । एतेनैव त्रीन्याजयेत्
(तां० ब्रा० १९. १४. ३) इति श्रुतेः । सखायो भ्रातरो वा ये संपादयेयुस्ते मरुत्स्तोमेन यजेरन् ( ला० श्रौ० ९.४. २५) इति वचनाच्च । तस्य सर्वं ज्योतिष्टोमवत् । धूर्ज्योतिर्विश्वारूपाणां निवृत्तिः । त्रीणि त्रिवृन्ति स्तोत्राणि । त्रीणि पञ्चदशानि । त्रीणि सप्तदशानि । त्रीण्येकविंशानि । आर्भवे सर्वाणि सामानि तृचस्थानि। इन्द्राग्न्योः कुलायस्य बृहस्पतिसववत् सर्वम् । षट्

275
एकाहः-इन्द्रस्तोमः [अ. ५. ख. १६]

स्तोत्राणि त्रिवृन्ति । द्वे स्तोत्रे पञ्चदशे। सप्तदशे द्वे एकविंशे इति स्तोमाः । आर्भवे सर्वे तृचाः । एतेनैव द्वौ याजयेत् (तां. ब्रा० १९. १५.२) इति श्रुतेः ॥ ३ ॥
इति मरुत्स्तोमः इन्द्राग्न्योः कुलायश्च ॥ १५॥
- - - -- -
इन्द्रस्तोमः
 
अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः (तां० ब्रा० १९.१६ ) इत्यनुवाकेनेन्द्रस्तोम उक्तः । तस्य कल्पः --
इन्द्रायेन्दो मरुत्वते ( सा० १०७६-८) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६५७-९) ॥ १॥
इति बहिष्पवमानम् ॥
ईडेन्यो नमस्यो (सा० १५३८-९०) यदद्य सूर उदित (सा० १३५१-३) इन्द्रमिद्गाथिनो बृहद् (सा० ७९६-८ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ॥ २॥
इत्याज्यानि ॥
उच्चा ते (सा० ६२२-४) गायत्रं चामहीयवं च ( ऊ० १. १. १ )। तवाहं सोम रारणे-(सा० ९२२-३)ति समन्तं (ऊ० १३. २. १) च यौधाजयं च (ऊ० १३.२.२)। वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१.६ ) अन्त्यम् ॥ ३ ॥
[ इति माध्यंदिनः पवमानः॥]
बृहच्च (र० १.१.१) रेवतीषु च वामदेव्यम् (सा० १०८४-६, ऊ० १३. २.३)। श्यैतं (ऊ० १०. १. ४) च कालेयं (ऊ० १. १. ७) च ॥ ४ ॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१) इति गायत्र-मौक्षे (ऊ० १२. २. ४)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ(ऊ० १. १. ९) श्रुध्ये (ऊ० ९. १. २०)। परि त्यं हर्यतं हरिम् (सा० १३२९-८१) इति श्यावाश्वा-( ऊ० १२.२.१)न्धीगवे ( ऊ० १२. २. २ )। सूर्यवतीषु कावम् ( ऊ० ९. २. ११) अन्त्यम् ॥ ५ ॥
सफप्रभृतीनि त्रीण्येकर्चानि ॥ ५ ॥
प्र दैवोदासो अग्निर् (सा० १५१५) इति यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० ९. २. ४) ॥ ६॥
स्वासु सत्रासाहीयम् (सा० १६४२-४ ; ऊ० १३.२.४) । तव त्यदिन्द्रियं बृहद् (ऊ० १६४५-७) इति सौभरम् (ऊ० १३. २.५) स्वासूद्वंशीयम् (सा० १३४४-६ ; ऊ० ६. १.८) ॥ ७ ॥
इत्युक्थानि॥
सर्वः पञ्चदशः ॥ ८ ॥
इति इन्द्रस्तोमः ॥ १६ ॥
- -- -- - -
इन्द्राग्न्योः स्तोमः
अथैष इन्द्राग्न्योः स्तोमः (तां० ब्रा० १९.१७ ) इत्यनुवाकेन इन्द्राग्न्योः स्तोम उक्तः। राजपुरोहितौ सह यजेयाताम् इन्द्राग्न्योः स्तोमेन । पृथग्वा (ला० श्रौ० ९. ४. ३०)। तस्य कल्पः --
एकाहः-इन्द्राग्न्योः स्तोमः [अ. ५. ख. १७
पवस्व वाचो अग्रियः (सा० ७७५-७) उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते कवे (सा० ६५७-९) ॥१॥
इति बहिष्पवमानम् ॥

अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्युभयान्याज्यानि ॥ २ ॥
अग्निं दूतम् (सा० ७९०-२) आ नो मित्रावरुणे-(सा० ६६३-५)न्द्रमिद्गाथिनो बृहद् (सा० ७९६-८) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ॥
पुनानः सोम धारये-( सा० ६७५-६ )ति रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयमेकस्याम् (ऊ० १. १.३) । दैर्घश्रवसमेकस्याम् (ऊ० ११.२.१६)। रथन्तरं (र० १.२.१०) तिसृषु । बृहत्पृष्ठम् (र० १. १. ५)। श्यैतस्यर्क्षु अभीवर्तो ब्रह्मसाम (सा० ८११-२; ऊ० ७. १. ७) ॥ ३ ॥
समानमितरं ज्योतिष्टोमेन ॥४॥
इति । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सो-( सा० ६७५-६ ) रौरवं यौधाजयं 15 (ऊ० १. १. २.३) दैर्घश्रवस-(ऊ० ११. २. १६)मिति सामतृचः । रथन्तरं (र० १. २. १०) तिसृषु। औशन-(ऊ० १.१.४)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतस्यर्क्षु अभीवर्तो (ऊ० ७. १. ७) ब्रह्मसाम । स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते ( ऊ० १. १. ८)। पवस्वेन्द्रमच्छे-(६९२-६)ति सफ-(ऊ० १. १. ९)पौष्कले (ऊ०१.१.१०)। पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १. ११-२) । काव-(ऊ० १.१.१३) मन्त्यम् । कावमेकतृचे । एकर्चा इतरे । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥ ४ ॥
त्रिवृत्पञ्चदशौ स्तोमौ विपर्यासम् ॥ ५ ॥
इति स्तोमविधिः ॥५॥
इति इन्द्राग्न्योः स्तोमः ॥ १७ ॥
- - - - - - -- - - -
 
विघनः प्रथमः
अथैष विघन (तां० ब्रा० १९. १८) इत्यनुवाकेन विघन उक्तः । इन्द्रमदेव्यो माया असचन्त (तां० ब्रा० १९. १९) इति द्वितीयः । विघनाभ्यां पशुकामो यजेताभिचरन् वा (ला० श्रौ० ९.४.३३) । प्रथमं विघनमाह --
स्वासु श्यैतं (सा० ८११-२, ऊ० २. १. ३) । संहितादुत्तरं जराबोधीयम् (ऊ० १०. २. १०) । श्रुध्यस्य लोके विशोविशीयम् (ऊ० १३. १. १) आन्धीगवादुत्तरं सोमसाम (ऊ० १३.२.६) आथर्वणं वा (र० १. २. १२) ॥ १ ॥
समानमितरं प्रथमेन साहस्रेण ॥२॥
इति । सोमसामाथर्वणं वेति विकल्पस्य व्यवस्था सूत्रोक्ता । आथर्वणं पशुकामयज्ञे कुर्यात् । सोमसामाभिचरतः (ला० श्रौ० ९.४.३४ ) इति । पवस्व वाचो (सा० ७७५-७) दविद्युतत्या-पवमानस्य ते कवे (सा० ६५४-९) इति बहिष्पवमानम् ॥
अग्न आयाहि ( सा० ६६०-२) मित्रं वयम् इन्द्रमिद्गाथिन इन्द्रे (सा० ७९३-८०२) अग्नेत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं च। परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं (ऊ.

279
एकाहः--विघन: (१) अ. ५. ख. १८]
 
९. १.३) प्रथमायाम् । रथन्तरं (र० २. २. ६) दैर्घश्रवसे (ऊ० ५. २. ४) तृचयोः । यौधाजयमध्यास्यायाम् (ऊ० ७. २. ५) । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ११.२.५)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं ( उ० १०. १. ४) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९ )ति गायत्र-संहित-(ऊ० १. १.८) जराबोधीयानि (ऊ० १०.२.१०)। पवस्वेन्द्रमच्छे-(सा० ६८९-९१)ति सफ-(ऊ० १. १. ९)विशोविशीये (ऊ० १३.१.१) । पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सोमसामा-( ऊ० १३. २.६ ) थर्वणं ( र० १. २. १२) वा । सूर्यवतीषु काव-(ऊ० ६.२.११)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) ॥२॥
स्तोमक्लृप्तिमाह --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे। द्वे पञ्चदशसप्तदशे। द्वे
एकविंशनवदशे । द्वे चतुर्विंशे। द्वे त्रिणवे ॥३॥
इति । द्वादशस्य विष्टुतिः पुनःस्तोमे दर्शिता । अथ नवदशस्य । तिसृभ्यो हिंकरोति स पराचीभिः । त्रयोदशभ्यो हिंकरोति स तिसृभिः स सप्तभिः स तिसृभिः । तिसृभ्यो हिंकरोति स पराचीभिरिति। तदुक्तम्-- एकान्नविंशे च परिवर्तिनि पर्यायावभितस्त्रयोदशीमध्येऽस्मिन् प्रथमायास्त्रिर्वचनं तथोत्तमाया (ला० श्रौ० ६. ७. १४-५) इति ॥३॥
इति प्रथमो विघनः ॥१८॥

द्वितीयो विघनः
द्वितीयं विघनमाह --
पवस्व वाचो अग्रियः (सा० ७७५-७) उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
नमस्ते अग्न ओजसे ( सा० १६४८-५०) मित्रं वयं हवामहे ( सा० ७९३-५ ) समस्य मन्यसे विशस् (सा० १६५१-३) ता हुवे ययोरिदम् (सा० ८५३-५) ॥२॥
इत्याज्यानि ।
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् (सा० १४९४-६) इति द्वयोः सतोबृहत्योर्गायत्रं तिसृषु आमहीयवमेकस्याम् (ऊ. १३. २. ७)। ऐडं सौपर्णमेकस्याम् ( ऊ० १३. २. ८) । सत्रासाहीयमेकस्याम् (ऊ० १३. २. ९)। यैका परिशिष्यते तस्यां सदोविशीयम् ( ऊ० १३. २. १०)। पुनानः सोम धारय ( सा० ६७५-६) इति रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयमेकस्याम् (ऊ० १. १. ३)। समन्तमेकस्याम् (ऊ० ६. २. २)। रथन्तरं तिसृषु (र० १. २. १०)। अध यदिमे पवमान रोदसी (सा० १४९६) इत्युत्सेध एकस्याम् (ऊ० १३. २. ११)। अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ. ९. २. ५) अन्त्यम् ॥ ३ ॥
[ इति माध्यंदिनः पवमानः ॥ ]
सतो द्वे बृहत्यौ द्वासप्तत्यक्षरे । तत्र चतुर्विंशतिचतुर्विंशत्यक्षरैस्त्रिस्रो गायत्रीः कृत्वा तासु गायत्रं कार्यम् । तद्यथा -- प्रत्नं

281
एकाहः --विघनः (२) [अ. ५. ख. १८]

पीयूषं पूर्व्योम् । इन्द्रमभिजायमानोम् । वसुरुचो दिव्या अभ्योम् इति । यथा --प्रत्नं पीयूषं पूर्व्याम् इत्यामहीयवम् । इन्द्रमभोवेत्यैडं सौपर्णम् । वसुरुच इति सत्रासाहीयम् । या तु सतोबार्हते तृचे परिशिष्टा सतोबृहती अध यदिम इति तस्यां सदोविशीयम् । शिष्टं स्पष्टम् ॥
अथ तैत्तिरीयकम् । सतोबृहतीषु स्तुवते व्यतिषिक्ताभिः स्तुवते (तै० ब्रा० २. ७. १८. ५) इति । व्यतिषङ्गः सतोबृहतीनां बृहतीभिर्व्यवधानम् । ततश्च व्यतिषङ्गसंपादनार्थोऽध यदिम इत्यस्याः पुनः प्रयोग इत्यर्थकारितः संचारो न दोषाय । उक्तं चोपग्रन्थे -- न पुनः समानाहनि स्तोत्रियासंचारो विद्यते अन्यत्र विघना-(उ० ग्र० सू० ३.२)दिति ॥ ३॥
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च तदिदास भुवनेषु ज्येष्ठम् (सा० १४८३-५ ) इति श्यैतं (ऊ० १३. २. १२) स्वासु कालेयम् (ऊ० १.१.७) ॥ ४ ॥
इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१ ) इति गायत्रं तिसृषु संहितमेकस्याम् (सा० १.१. ८) सुरूपमेकस्याम् (ऊ० १३. २. १३)। स्वाशिरामर्क एकस्याम् (र० ३.१.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९)विशोविशीये (ऊ० १३. १. १)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४. १. १३) । निषेध एकस्याम् (ऊ० १२. १. ६)। श्यावाश्वमेकस्याम् (ऊ० १. १. ११) ।
आन्धीगवं तिसृषु ( ऊ० १. १. १२) मधुश्चुन्निधनं तिसृषु (ऊ० ८.२.१५)। सुमन्मा वस्वीरन्ती सूनरी-(सा० १६५४-६)ति वारवन्तीयं तिसृषु (ऊ० १३.२.१४)। कावम् (ऊ० १.१.१३) अन्त्यम् ॥ ५
इत्यार्भवः पवमानः॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥६॥
अथ स्तोमाः --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे । द्वे पञ्चदशसप्तदशे। द्वे नवदशचतुर्विंशे । द्वे चतुर्विंशैकविंशे। द्वे त्रिणवे ॥ ७॥
इति द्वितीयः विघनः ॥१८॥
- - - -- - -
संदंशः
अथैष संदंशोऽभिचरन्यजेत (ष० वि० ब्रा० ४. ४) इति षड्विंशब्राह्मणे संदंश उक्तः । अथैष वज्रोऽभिचरन्यजेत (ष० विं० ब्रा० ४. ५) इति वज्रः। राजानं संदंशेनाभिचरेत् । जनपदं वज्रेण (ला० श्रौ० ९.४.३८-९)। तत्र संदंशमाह --
श्येनमाज्यबहिष्पवमानम् ॥ १ ॥
इति । पवमानस्य जिघ्नतः (सा० १३१०-२) पुनानो अक्रमीदभि ( सा० ९२४-६ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्निर्वृत्राणि ( सा० १३९६-८) मित्रं हुवे (सा० ८४७-८) उ त्वा मन्दन्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ॥१॥

283
एकाहः-संदंशः [अ. ५. ख. १९]

अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्र-वार्षाहरे (र० ३. १. ३)। पुनानः सोम धारय (सा० ६७५-६) इति वैयश्वमेकस्याम् (ऊ० १३. २. १५)। वषट्कारणिधनमेकस्याम् (ऊ० १३. २. १६)। रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयं तिसृषु (ऊ० १. १. ३)। औशनम् (ऊ० १.१.४) अन्त्यम् ॥ २॥
[इति माध्यंदिनः पवमानः ॥]
 
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१. ५) च सप्तहं (र० ३. २. १ ) च कालेयं (ऊ० १. १. ७)॥३॥
इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं वार्षाहरं (र० ३. १. ४) सत्रासाहीयम् ( ऊ० १३. २. १७)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति काशीतौ-( ऊ० १३. २. १८)पगवे (ऊ० १०. २. १)। पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदा-(ऊ० २. २. १८)न्धीगवे (ऊ० १. १. १२) । सामत्रयाणां यत् प्रथमं (र० ३. २. २)। कावम् (ऊ० १.१.१३) अन्त्यम् ॥४॥
[ इत्यार्भवः पवमानः ।।]
सामत्रयाणां यत् प्रथममिति । हाउ हाउ हाउ अस् फडित्यादि (आ० गा० २.७.८१)॥ ४ ॥
यज्ञायज्ञीयमग्निष्टोमसाम ॥५॥
स्तोमानाह --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे । द्वे पञ्चदशे । द्वे एकविंशे ।
द्वे चतुर्विंशे । द्वे त्रिणवे ॥६॥
इति । त्रिवृत्पञ्चदशैकविंशत्रिणवानामभिचरणीया विष्टुतयः षड्विंशेऽधीताः। तत्र त्रिवृतोर्विष्टुत्योर्विकल्पः ॥ ६ ॥
इति संदंशः ॥१९॥

वज्रः
वज्रमाह --
पवस्वेन्दो वृषा सुतोऽ-( सा० ७७८-८० )पघ्नन् पवते मृध ( सा० १२१३-५ ) इति पुरस्तात् पर्यासस्य तृचे । उद्धरति सत्रासाहीयम् (ऊ० १३. २. १७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदमेकस्याम् (ऊ० २. २. १८) । तस्यामेवान्धीगवम् (ऊ० १. १. १२)। श्यावाश्वमेकस्याम् (ऊ० १. १. ११ )। सामैकस्यां त्रयाणां यद् द्वितीयम् (र० ३. २. ३)। प्रमंहिष्ठीयम् (ऊ० २. २. ५) औपगवम् (ऊ० ४.१. १८) उद्वंशीयम् (ऊ० ६. १. ८) ॥ १॥
महानाम्न्यः षोडशिसाम । समानमितरं पूर्वेण ॥२॥
इति । पवमानस्य जिघ्नतः (सा० १३१०-२) पुनानो अक्रमीदभि(सा० ९२४-६) पवस्वेन्दो वृषा सुतः (सा० ७७८-८० ) अपघ्नन् पवते मृधः (सा० १२३७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥

285
एकाहः-- वज्रः [अ. ५. ख. २०]
 
अग्निर्वृत्राणि (सा० १३९६-८) मित्रं हुवे पूतदक्षम् (सा० ८४७-८) उ त्वा मन्दन्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ॥
अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रवार्षाहरे (र० ३.१.३) । पुनानः सो ( सा० ६७५-६) इति वैयश्वं (ऊ० १३. २. १५) वषट्कारनिधनं (ऊ० १३. २. १६) रौरव-(ऊ० १. १. २)मिति सामतृचौ। यौधाजयं तिसृषु (ऊ० १. १.३)। औशन-(ऊ० १.१. ४)मन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१. ५) च सप्तहं (र० ३. २. १) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि ॥
 
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रवार्षाहरे (र० ३. १. ४)। पवस्वेन्द्रमच्छे- (सा० ६९२-६)ति काशीतौ-(ऊ० १३. २. १८)पगवे (ऊ० १०. २. १) एकर्चयोः । पुरोजिती वो (सा० ६९७-९) इति नानदा-( ऊ० २. २. १८)न्धीगवे (ऊ० १. १. १२) प्रथमायाम् । श्यावाश्वं द्वितीयायाम् (ऊ० १. १. ११) । अभ्याभूर् ( आ० गा० ८२ ) इत्यादिकं महासाम तृतीयायाम् (र० ३. २. ३)। काव-( ऊ० १.१.१३ )मन्त्यम् ।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)।
प्रमंहिष्ठीयं त्वं न इन्द्र ( सा० ११६९-७१) इत्यौपगवमुद्वंशीयमित्युक्थानि ॥

महानाम्न्यः षोडशिसाम । तासां स्तुतिवेलायामुदघोषः कर्तव्यः । न त्वपां निधनं यजुषा स्यात् ॥ २ ॥
स्तोमविधिमाह --
सर्वः पश्चदशः ॥३॥
इति । अभिचरणीया विष्टुतिः ॥ ३॥
संदंशवज्रयोरन्ततः शान्त्यर्थं ज्योतिष्टोमेन यष्टव्यमित्याह --
क्लृप्तो ज्योतिष्टोमः शान्त्यर्थः । शान्त्यर्थः ॥ ४ ॥
इति ॥४॥

इति वज्रः ।। २० ।।

इति वामनार्यसूनुः कुशिकान्वयसंभवो वरदराजः ।
एकाहानां कल्पं व्याचष्ट यथागमं यथाबुद्धि ।
इति श्रीवमनार्यसूनुवरदराजविरचितायामार्षेयकल्पव्याख्यायां
पञ्चमोऽध्यायः ॥५॥
एकाहः समाप्तः ॥