प्रमुखा विकल्पसूचिः उद्घाट्यताम्


मित्रविन्दा महावैराजी १
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः २
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तु यज्ञं ३
प्रतिलोममादिश्य यजेद् ये यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु । बृहस्पतिर्दददिन्द्रः सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति ४
अष्टौ वैराजतन्त्राः ५
तासामाद्याः षडेकहविषः ६
स्नुषा-श्वशुरीययाभिचरन् यजेत ७
इन्द्रः सूरो अतरद्रजांसि स्नुषा सपत्ना श्वशुरी-ऽहमस्मि । अहं शत्रून् जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ ॥ इन्द्रः सूरः प्रथमो विश्वकर्मा मरुत्वाँ अस्तु गणवान् सजातैः । मम स्नुषा श्वशुरस्य प्रविष्टौ सपत्ना वाचं मनस उपासतां ॥ ८
जुष्टो दमूना अग्ने शर्द्ध महते सौभगायेति संयाज्ये ९
विमतानां सम्मत्यर्थे संज्ञानी १०
अग्निर्वसुमान् सोमो रुद्रवानिन्द्रो मरुत्वान्वरुण आदित्यवानित्येकप्रदानाः ११
अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना ।
इन्द्रो मरुद्भिरृतुथा कृणोतु आदित्यैर्नो वरुणः शर्म यंसत् ॥
समग्निर्वसुभिर्नो अव्यात् सं सोमो रुद्रियाभिस्तनूभिः ।
समिन्द्रो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति १२
ऐन्द्रामारुतीं भेदकामाः १३
मरुतो यस्य हि क्षये प्र शर्द्धाय मारुताय स्वभानव इति १४
ऐन्द्रीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्र्या यजेदिन्द्रं पूर्वं निगमेषु मरुतो वा १५
इन्द्रं वा । प्रधानादूर्द्ध्वं मरुतः १६
प्रकृत्या सम्पत्तिकामाः संज्ञानीञ्च १७
ऐन्द्रा बार्हस्पत्यां प्रधृष्यमाणाः १८
आ न इन्द्रा बृहस्पती अस्मै इन्द्रा बृहस्पती इति यद्यपीन्द्राय चोदयेयुः १९

देवत्रात भाष्यम्

अथ द्वितीयेऽध्याये एकादशः खण्डः
[ महावैराजीसंज्ञकमित्रविन्देष्टिकथनम्]
मित्रविन्दा महावैराजी ।। १ ।।
मित्रविन्दा नाम इष्टिः । सा च वक्ष्यते । एतयेष्ट्या मित्रं विन्दते लभते । महावैराजीति विशेषसंज्ञा, यथा कारीरीति । महावैराजं तन्त्रम् अस्यां भवति । दश प्रयाजाः दश देवताः विराजौ संयाज्ये धाय्ये इत्येतन्महावैराजमित्ये- तस्यामाम्नातम् ।। १ ।।

[ मित्रविन्देष्टेर्देवताकथनम्]
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः ।। २ ।।
अग्न्याद्या दश देवता एकप्रदानाः एकं प्रदानं यासां ता एकप्रदानाः । उक्तम् एकप्रदानविधानम् सर्वा आदिश्य (आश्रौ १, ३,१८) इति ।। २ ।।

[ मित्रविन्देष्टेरनुवाक्याकथनम्]
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तु यज्ञम् ।। ३ ।।
अग्निः सोमः (तु. शब्रा ११, ४, ३, ६) इति यथासमाम्नाता एका एवानुवाक्या एकप्रदानत्वात् ।। ३ ।।

[ याज्याकथनम्]
प्रतिलोममादिश्य यजेद् ये३ यजामहे, त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं, त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु । बृहस्पतिर्दददिन्द्रः सहस्रं मित्रो दाता वरुणः सोमो अग्निर् (तु, शब्रा ११,४,३,७) इति ।। ४ ।।
अग्न्यादि प्रथमान्तं प्रतिलोमं भवति । प्रतिलोमं देवता आदिश्य यजेत् । यजेदिति वचनाद् अन्यत्र निगमेषु प्रतिलोमे प्राप्ते आरम्भः । ये यजामह इत्यादि । यथासमाम्नाता देवता देवतादेशः । याज्या च तत्र आगूर्यादेशम् (आश्रौ १,५,२९) इति । आगुरा सह सम्बन्ध्यस्याऽऽदेशस्य समाम्नानाद् आगुरो लोपः स्यादिति आगुः पठ्यते । आदेशो यदि न पठ्येत, याज्यायां यः प्रतिलोमपाठः, स आदेशः स्यात् प्रतिलोममादिश्य यजेदिति वचनात् ।। ४ ।।

[ आग्नेय्याद्यष्टास्विष्टिसु वैराजतन्त्रं भवतीति कथनम्]
अष्टौ वैराजतन्त्राः ।। ५ ।।
आग्नेय्याद्या अष्टाविष्टयो वैराजतन्त्राः, तासु वैराजतन्त्रो भवति । अनारभ्यमाणं न प्राप्नोति ।। ५ ।।

[ आग्नेय्याद्यासु षट्सु इष्टिषु एकं हविर्भवतीति कथनम्]
तासामाद्याः षडेकहविषः ।। ६ ।।
तासाम् इष्टीनाम् आद्याः षडिष्टयः एकहविषा भवन्ति । एकं हविर्यासु ता एकहविषः । एकस्मिन्ननुच्यमाने आग्नेय्या उत्तरे (आश्रौ २,१०,१०), वैमृध्या उत्तरे (आश्रौ २,१०,१३) इत्येता द्विहविषः प्राप्नुवन्ति । कथम् । आग्नेय्या उत्तरे इत्युक्त्वा द्वे द्वे देवते उपदिशन्ति । तस्मादेकैकस्यामिष्टौ द्वे द्वे हविषी प्राप्नुतः । एवं वैमृध्योरपि जामिदोषपरिहारार्थं च याज्यान्यत्वं स्यात् । तथा इन्द्राय दात्रे पुनर्दात्रे वा (आश्रौ २,१०,१५) इति वा शब्दः समुच्चयार्थः स्यात् । वचनाज्जामिदोषोऽपि भवति, यथा वैमृध्योः । एवम् आशानामाशापालेभ्यो वा (आश्रौ २,१०,१७) इति स्यात् । तस्मात् तासामाद्याः षडेकहविषः इत्युच्यते ।। ६ ।।

[ स्नुषाश्वशुरीयेष्टिविधानम्]
स्नुषाश्वशुरीययाऽभिचरन् यजेत ।। ७ ।।
स्नुषाश्वशुरीया नाम इष्टिः, तया स्नुषाश्वशुरीयया इष्ट्या । अभिचरन् अभिचरितुमिच्छन् द्वेष्यमभिहन्तुमिच्छन् यः, स एतया यजेत । सा वक्ष्यते ।। ७ ।।

[ तस्या देवतायाज्यानूवाक्याकथनम्]
इन्द्रः सूरो अतरद्रजांसि स्नुषा सपत्नाश्श्वशुरोऽहमस्मि । अहं शत्रूञ्जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ । इन्द्रः सूरः प्रथमो विश्वकर्मा मरुत्वाँ अस्तु गणवान् सजातैः । मम स्नुषा श्वशुरस्य प्रशिष्टौ सपत्ना वाचं मनस उपासताम् (तु. तैब्रा २,४,६, १२) इति ।। ८ ।।
तस्यामिन्द्रः सूरो देवता, मन्त्रे दर्शनात् । तस्यां यथासमाम्नाते याज्यानुवाक्ये ।। ८ ।।

[ संयाज्याकथनम्]
जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये ।। ९ ।।
जुष्टो दमूनाः (ऋ ५,४,५, ५, २८, ३) इति संयाज्ये । शेषं पूर्णमासेन ।। ९ ।।

[ विमतानां संमतिकरणीष्टिः]
विमतानां संमत्यर्थे संज्ञानी ।। १० । ।
विमतानां ज्ञातिभ्रातृपुत्राणाम् । संमत्यर्थे, संमतिः एका मतिः । विमतानां संमत्यर्थे संज्ञानी नाम इष्टिः । सा वक्ष्यते । यः समानैर्मिथो विप्रियः स्यात् तमेतया संज्ञान्या याजयेत् ( तैसं २, २, ११, ६) इति श्रुतिः ।। १० ।।

[ तत्र देवताकथनम्]
अग्निर्वसुमान् सोमो रुद्रवान् इन्द्रो मरुत्वान् वरुण आदित्यवान् इत्येकप्रदानाः ।। ११ ।।
अग्निर्वसुमान् सोमो रुद्रवान् इन्द्रो मरुत्वान् वरुण ग्रादित्यवान् इत्येते देवताः एकप्रदानाः । एकं प्रदानमासां भवति ।। ११ ।।

[ तत्र याज्यानुवाक्याकथनम् ]
अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना । इन्द्रो मरुद्भिर्ऋतुथा कृणोत्वादित्यैर्नो वरुणः शर्म यंसत् । समग्निर्वसुभिर्नो अव्यात् सं सोमो रुद्रियाभिस्तनूभिः । समिन्द्रो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति ।। १२ ।।
अग्निः प्रथमः ( मैसं ४, १२, २) इति याज्यानुवाक्ये । शेषं पूर्णमासेन ।। १२ ।।

[ संमतानां विमतिकरणीष्टिः]
ऐन्द्रामारुतीं भेदकामाः ।। १३ ।।
ऐन्द्रामारुतीम् इन्द्रश्च मरुतश्च देवता यस्याः सा ऐन्द्रामारुती इष्टिः, तां भेदकामाः कुर्युः अन्येषां समानानाम् ।। १३ ।।

[ तत्र मरुतां याज्यानुवाक्याकथनम्]
मरुतो यस्य हि क्षये प्र शर्धाय मारुताय स्वभानव इति ।। १४ ।।
इन्द्रस्य नित्ये याज्यानुवाक्ये । मरुतो यस्य (ऋ १,८६,१; ५.५४,१) इति मरुताम् ।। १४ ।।
तयोरिज्याविधिः-

[ इन्द्रस्य मरुताञ्चेज्याविधानम्]
ऐन्द्रीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्र्या यजेदिन्द्रं पूर्वं निगमेषु मरुतो वा ।। १५ ।।
ऐन्द्रस्य हविष ऐन्द्रीमनुवाक्यामुक्त्वा मारुत्या यजेत् । मारुतीम् अनूच्य ऐन्द्र्या यजेत् । मारुतस्य हविषः मारुतीमनुवाक्यामुक्त्वा ऐन्द्र्या यजेत् । इन्द्रं पूर्वं निगमेषु । आवाहनादिषु निगमेषु इन्द्रं पूर्वं प्रथमं निगमयेत्, अनन्तरं मरुतो निगमयेत् । पूर्वमिति वचनाद् अनन्तरं मरुतां निगमनम् इष्ट्यधिकाराद् निगमनग्रहणम् । मरुतो वा मरुतो वा पूर्वं निगमेषु निगमयेत् ।। १५ ।।

[ अथवेन्द्रस्य पूर्वमिज्याहविःप्रदान यावत्, ततो मरुताम् इति कथनम्]
इन्द्रं वाऽऽ प्रदानादूर्ध्वं मरुतः ।। १६ ।।
पूर्वं निगमेष्विति वर्तते । इन्द्रं वा पूर्वं निगमेषु निगमयेत् अनन्तरं मरुतो निगमयेत् । पूर्वेषु निगमेषु आ प्रदानाद् यावत्प्रदानं प्राप्नोति । आवाहने पञ्चमे च प्रयाजे अयं वा कल्पो भवति । ऊर्ध्वं मरुतः पूर्वं निगमयेदिन्द्रमुत्तरं स्विष्टकृति सूक्तवाके च ।। १६ ।।

[ सम्पत्तिकामानां प्रकृतीष्टेः संज्ञानीष्टेश्च विधानम्]
प्रकृत्या सम्पत्तिकामाः संज्ञानीं च ।। १७ ।।
प्रकृत्या संपत्तिकामाः । एतयेष्ट्या प्रकृत्या यजन्ते सम्पत्तिकामाः । परेषां नानामतानां सम्पत्तिः । संज्ञानीं च । एतयेष्ट्वा संज्ञानीं च अनन्तरमेव कुर्युः । सा व्याख्याता । च-शब्दः समुच्चयार्थः ।। १७ ।।

[ परैर्बाध्यमानानामैन्द्राबार्हस्पत्येष्टेविधानम्]
ऐन्द्राबार्हस्पत्यां प्रधृष्यमाणाः ।। १८ ।।
इन्द्राबृहस्पती देवता यस्या इष्टेः सा ऐन्द्राबार्हस्पत्येष्टिः । तामिष्टिं परैः; प्रधृष्यमाणाः परैर्बाध्यमानाः कुर्युः । बहुवचनं व्याख्यातम् ।। १८ ।।

[ तस्या इष्टेर्याज्यानुवाक्याकथनम्]
आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती इति यद्यपीन्द्राय चोदयेयुः ।। १९ ।।
आ न इन्द्राबृहस्पती (ऋ ४,४९,३, अस्मे इन्द्राबृहस्पती (ऋ ४,४९,४) इति इन्द्राबृहस्पत्योर्याज्यानुवाक्ये । यद्यपीन्द्राय चोदयेयुः । यद्यपि इन्द्राय अपि इन्द्राबृहस्पतिभ्याम् एते एव याज्यानुवाक्ये भवतः ।। १९ ।।
।। इति एकादशः खण्डः ।।