सोम पृष्ठ्य षडह षष्ठम् अहः

षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति १ वृषन्निन्द्र वृषपाणास इन्दवः सुषुमायातमद्रि भिर्वनोति हि सुन्वन् क्षयं परीणसो मोषुवो अस्मदभितानि पौंस्योषूणो अग्ने शृणुहि त्वमीडितोऽग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इति २ एवमेव माध्यन्दिनेऽध्यर्धान्तु तत्रानवानं ३ पिबा सोममिन्द्र सुवानमद्रि भिरिन्द्रा य हि द्यौरसुरो अनम्नतेति षट् ४ उपरिष्टात् त्वृच ऋतुयाजानां ५ प्रैषमृते सौयजमृचं चानवानमुक्त्वा ऋगन्तैरसौ यजेति प्रेष्येत् ६ एवमेव यजन्ति ७ []तुभ्यं हिन्वानो वसिष्ट गा अप इति द्वादश ८ []अयं जायत मनुषो धरीमणीत्याज्यं ९ एकेन द्वाभ्याञ्च विग्रहः १० त्रिभिरवसानं चतुर्भिः प्रणवो यत्रार्धर्चशः पारुच्छेप्यः ११ स्तीर्णं बर्हिरिति तृचौ सुषुमायातमद्रि भिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्रा स्तुश्रौषडोषूणो अग्ने शृणुहि त्वमीडितो ये देवासो दिव्येकादश स्थेयमददाद्र भसमृणच्युतमिति प्रउगं । द्वे चैका च पञ्चमे । एकपातिन्य उपोत्तमे । तृच इत्युभयत्र शेषः । उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः १२ न वा १३ स पूर्व्यो महानां त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । यं त्वं रथमिन्द्र स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयं १४ एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयात् द्वाभ्यामवसाय द्वाभ्यां प्रणुयाद्यत्र पच्छः पारुच्छेप्यः १५ रैवतञ्चेत् पृष्ठं । रेवतीर्नः सधमादे रेवाँ इद्रे वतः स्तोतेति स्तोत्रियानुरूपौ १६ ऐन्द्र याह्युप नः प्रघान्वस्याभूरेक इति निष्केवल्यं १७ अभि त्वं देवं सवितारमोण्योरित्येका तत् सवितुर्वरेण्यमिति द्वे दोषो आगाद्बृहद्गायद्युमद्धेह्याथर्वण । स्तुहि देवं सवितार । तमु ष्टुह्यन्तःसिन्धुं सूनुं सत्यस्य युवानं । अद्रो घवाचं सुशेवं । सघानो देवः सविता साविषद्वसुपतिः । उभे सुक्षिती सुधातुरिति वैश्वदेवस्य प्रतिपदनुचरौ १८ उद्धृत्य चोत्तमं सूक्तं त्रीणि १९ इदमित्था रौद्र मिति २० प्रागुपोत्तमाया []ये यज्ञेनेत्यावपते २१ तस्यार्धर्चशः प्रागुत्तमाया ऊर्ध्वञ्चतुर्थ्याः २२ शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भग इति तृचः २३ इति वैश्वदेवं २४

देवत्रातभाष्यम्

अथ अष्टमोऽध्यायः

तत्र प्रथमः खण्डः (पृष्ठ्यषष्ठाह्नमारभ्य वैश्वदेवादिप्रपञ्चः)
[षष्ठस्याह्नः प्रातःसवनोपक्रमः]
षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति ॥१॥

षष्ठस्येत्यधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः, तत् षष्ठस्याह्नः शस्यं वेदितव्यम् । प्रातःसवने षष्ठस्याह्नः प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः कृत्वा उभाभ्यामनवानन्तोऽनुच्छ्वसन्तो यजन्ति । ता ऋचो वक्ष्यन्ते वृषन्निन्द्र (ऋ१, १३१, ६) इत्येवमादयः । प्रातःसवन एव, नोत्तरयोः सवनयोः । प्रस्थितयाज्यानां पूर्वोत्तरत्वादिना अनन्तराः प्राप्तास्तस्मात् पुरस्तादित्याह। पारुच्छेपीरुपदधति पूर्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् (ऐब्रा ५, १०) इति ब्राह्मणम् । अन्या अधिका इत्यर्थः । अनवानं प्राप्तमपि पुनरुच्यते, उभयोः समासप्राप्त्यर्थम् । अन्यथा पृथगनवानं स्यात् । ऋचो वक्ष्यन्ते ॥१॥
[प्रस्थितयाज्यानां पुरस्तादनवानद्भिर्यजनीयमन्त्राणां कथनम्]
वृषन्निन्द्र वृषपाणास इन्दवः', 'सुषुमा यातमद्रिभिः', 'वनोति हि सुत्वन्क्षयं परीणसः, 'मोषु वो अस्मदभि तानि पौंस्या' 'ओ षू णो अग्ने शृणुहि त्वमीलितः', 'अग्निं होतारं मन्ये दास्वन्तं', 'दध्यङ ह मे जनुषं पूर्वो अङ्गिराः' इति ॥२॥

वृषन्निन्द्र (ऋ १, १३६, ६), सुषुमा यातम् (ऋ १, १३७, १) वनोति हि (ऋ १, १३३, ७), मो षु वः (ऋ १, १३६, ८), ओ षू णः (ऋ १, १३९, ७), अग्निं होतारम् (ऋ १, १२७, १), दध्यङ् ह मे (१, १३९, ९) इत्येताः सप्त ऋचः । होत्रादीनामच्छावाकान्त्यानामृचः पुरस्तात् प्रस्थितयाज्यानां प्रयोक्तव्याः । अच्छावाकस्य स्वकाले प्रस्थितयाज्या भवति 'प्रातर्यावभिरा गतम' (ऋ ८, ३८, ७) इति यजति (आश्रौ ५, ७, ६) इति । तस्याः पुरस्ताद् दध्यङ् ह मे इत्येतां कुर्यात्
[माध्यन्दिने सवने प्रातःसवनवदेव सर्वम्]
एवमेव माध्यंदिने ॥३॥
एवमेव माध्यंदिने -- यथा प्रातःसवने पुरस्तात् प्रस्थितयाज्यानामृचः कृत्वोभाभ्यामनवानन्तो यजन्ति, एवमेव माध्यंदिनेऽपि प्रस्थितयाज्यानां पुरस्तादन्या ऋचः कृत्वा उभाभ्याम् अनवानन्तो यजन्ति । ता ऋचो वक्ष्यन्ते ॥३॥


[प्रस्थितयाज्याकथनम्]
'पिबा सोममिन्द्र सुवानमद्रिभिः', 'इन्द्राय हि द्यौरसुरो अनम्नत' __इति षट् ॥४क॥ पिबा सोममिन्द्र सुवानमद्रिभिः (ऋ १,१३०, २) इत्येका, इन्द्राय हि द्यौः (ऋ १, १३१, १-६) इति षड् ऋचः । सप्तानां प्रस्थितयाज्यानामनुक्रमेण सप्त ऋचो भवन्ति ॥४क॥
[माध्यन्दिनेऽध्यर्धाया ऋचो ऽनवानद्भिर्यजनम्]
अध्यर्द्धां तु तत्रानवानम् ॥४ख॥
उभाभ्यामनवानन्तः (आश्रौ ८,१,१) इति प्राप्ते इदमारभ्यते । अध्यर्धां( तु अर्द्धेन अधिका अध्यर्धा । अध्यर्द्धां तु ऋचमनवानं कुर्यात् तत्र माध्यंदिने। कस्मात् । आगूर्वषटकारयोः प्रतिषेधार्थम् । अनवाने सति अवसानं न विद्यते। अवसानाभावादाद्यन्तौ न स्तः । आद्यन्ताभावादाद्यन्तोपदिष्टौ आगूर्वषट्कारौ अपि न स्तः । तु-शब्द उभयोरनवानप्रतिषेधार्थः । तत्रेत्यनुच्यमाने प्रातःसवनेऽपि स्यादुभयोरधिकारात्॥४ख।।

[ऋतुयाजानामुपरिष्टादृचां प्रयोगः]
उपरिष्टात्त्वृच ऋतुयाजानाम् ॥५॥
ऋतुयाजानाम् ऋतुप्रैषाणाम् उपरिष्टात् तु ऋचो भवन्ति । तस्माद् ऋग्मेभ्य एवाधि प्रेषितव्यम् ऋग्मेभ्योऽधि वषट्कृत्यम् (ऐब्रा ५,९) इति श्रुतेः । तु-शब्दोऽधिकृतानां व्यावृत्त्यर्थः पुरस्तादन्याः कृत्वा (आश्रौ ८, १, १) इति ॥५॥

कथं प्रयोग इति तदुच्यते—
[मैत्रावरुणप्रैषकथनम्]
प्रैषमृतेऽसौयजमृचं चानवानमुक्त्व ऋगन्तैर् 'असौयज' इति प्रेष्येत् ॥६॥
असौयजवर्जितं प्रैषं च 'ऋचं च' अनवानमुक्त्वा 'ऋगन्तैरसौयजेति प्रेष्येन्मैत्रावरुण ऋच ऋतुयाजानाम् (आश्रौ ८, १, ५) इति । असौयजशब्देन सह प्रैषः । ऋगन्तैरसौयजेत्याह पुनः । ऋगन्तेषु अप्राप्तो विधीयते ॥६॥

[आगूर्वषट्काराभ्यां यजनम्]
एवमेव यजन्ति ॥७॥
यथा मैत्रावरुणेन प्रेषितमेवमेव यजन्ति । एवेत्यवधारणे । यथाप्रैषं यजति (आश्रौ ५, ८, ४) इति वचनात् प्रेषेणैव इज्या प्राप्ता, तस्मादेवमेव । यजन्तीति वचनात् प्रैषेण असौयजवर्जितेन ऋचा च यजन्तीति । होतायक्षदसौयजयोस्तु स्थाने आगूर्वषट्कारौ भवतः । अथ तु-कारकरणादृग्मेभ्योऽपि आगूर्वषट्कारौ भवत एव । ता ऋचो वक्ष्यन्ते ॥७॥

[याज्यारूपाणामृचां कथनम्]
'तुभ्यं हिन्वानो वसिष्ठ गा अपः' इति द्वादश" ॥८॥
तुभ्यं हिन्वानो वसिष्ठ गा अपः (ऋ २, ३६, १-१२) इति एता द्वादश ऋच एकैकस्य प्रैषस्योपरिष्टादेकैका भवति । द्वादशेतिवचनाद् द्वादशैव भवन्ति न त्रयोदश । अध्वर्युरेव यजति न प्रतिप्रस्थाता ॥८॥

[आज्यसूक्तकथनम्]
'अयं जायत मनुषो धरीमणि' इत्याज्यम् ॥९॥
'अयं जायत मनुषो धरीमणि (ऋ १, १२८) इत्येतत् सूक्तं षष्ठेऽहनि आज्यम् ऐकाहिकस्य स्थाने ॥९॥

तस्य शस्योपायो वक्ष्यते—
[आज्यसूक्तशंसने विग्रहविधिकथनम्]
एकेन द्वाभ्यां च विग्रहः ॥१०॥
एकेन पादेन द्वाभ्यां च पादाभ्यां विग्रहः । प्रकृतौ द्विपदेऽर्द्धे उक्तो विग्रहः ।
त्रिपदे कथं भवतीति तदुच्यते । त्रिभिः तदवसानं मा भूदिति द्वाभ्यामित्याह चकारः समुच्चयार्थः ॥१०॥

[सप्तपदानां पारुच्छेपीनां शस्योपायकथनम्]
त्रिभिरवसानं चतुर्भिः प्रणवो यत्रार्धर्चशः पारुच्छेप्यः ॥११॥
इदानीं सूक्तस्य शस्योपायो वक्ष्यते, अनुक्तत्वात्। सर्वाश्चैवाचतुष्पदा (आश्रौ ५, १४, १०) यथा शंस्तव्यास्तथा तत्रैव वक्ष्याम इत्युक्तम् । तस्मादुच्यते शस्योपायः ।
त्रिभिः पादैरवसानं ततश्चतुभिः पादैः प्रणवो भवति । एवं सप्तपदानां शस्योपाय उक्तः, यत्रार्द्धर्चशस्यो भवति । पारुच्छेप्य ऋचः । परुच्छेपेन ऋषिणा दृष्टाः पारुच्छेप्य ऋचः पारुच्छेप्योऽर्द्धर्चा भवन्ति । महाव्रतविषये स्तोत्रियानुरूपेषु च 'ऐन्द्र याह्युप नः परावतः' (ऋ १,१३०, १), इन्द्राय हि द्यौरसुरो अनम्नत (ऋ १, १३१, १), 'प्रो ष्वस्मै पुरोरथम्' (ऋ १०, १३३, १), इत्यतोऽनुरूपः (ऐआ ५, १, १) इत्यत्र प्रउगेषु च अर्द्धर्चा भवन्ति । अस्य शस्योपाय उक्तः, अन्यत्र न प्राप्नोति । तस्मादन्यत्रापि प्राप्त्यर्थमिदमुच्यते । पारुच्छेप्य इति वचनादन्यासु सप्तपदासु एतन्न भवति । प्रो ष्वस्मै पुरोरथम् (ऋ १०, १३३, १) इत्येता ऋचो यथासमाम्नाता एवार्द्धर्चा भवन्ति ॥११॥

इदानीं प्रउगं वक्ष्यते--
[प्रउगशस्त्राणां कथनम्]
'स्तीर्णं बर्हिः' इति तृचौ 'सुषुमा यातमद्रिभिः', 'युवां स्तोमेभिर्वेदयन्तो अश्विना', 'अवर्मह इन्द्र वृषन्निन्द्रः', 'अस्तु श्रौषट्', 'ओ षू णो अग्ने शृणुहि त्वमीळितः', 'ये देवासो दिव्येकादश स्थ', 'यमददाद्रभसमृणच्युतम्' इति प्रउगम् । द्वे चैका च पञ्चमे । एकपातिन्य उपोत्तमे ॥१२॥
स्तीर्णं बर्हिः (ऋ १,१३५,१-६) इत्येतौ द्वौ तृचौ वायव्य ऐन्द्रवायवश्च । तृचाः प्रउगे (आश्रौ ७,१,१०) इतिवचनादेकस्तृचः प्राप्तस्तस्मादाह--तृचाविति सुषुमा यातम् (ऋ १, १३७, १-३) इति मैत्रावरुणः । युवां स्तोमेभिः (ऋ १, १३९, ३-५) इत्याश्विनस्तृचः । अवर्मह इन्द्र (ऋ १, १३३, ६-७) इति द्वे, वृषन्निन्द्र (ऋ १, १, ३९, ६) इत्येका, ऐन्द्रस्तृचः । द्वे चैकाच पञ्चमे वक्ष्यति । अस्तु श्रौषट् (१, १३९, १), ओ षू णो अग्ने (ऋ १, १३९, ७), ये देवासः (ऋ १, १३९, ११), इति त्रीणि प्रतीकान्येकस्तृचो भवति । 'इति वैश्वदेवः । एकपातिन्य उपोत्तमे इति वक्ष्यति । इयमददात् (ऋ ६, ६१,१-३) इति सारस्वतस्तृचः' । इति प्रउगम् । इत्येतत् प्रउगशस्त्रं व्याख्यातम् । ऐकाहिकस्य स्थाने पच्छःशस्यस्थाने आदिष्टानां स्थानिवद्भावात् पच्छ:शस्ये प्राप्ते अर्धर्चश इत्युच्यते । स्वस्त्यात्रेये ऋच (तृच) आदिष्टा निवित् (?) तविच्छन्दाः शि (?) स्यात् । 'स्वस्त्यात्रेये निविदं दध्यात्। (आश्रौ ६, ९, ६) इत्युक्ते ऋचे (? तृचे) एव निविदं दध्यात् । यथाप्रयुक्तमेवोपदिश्यान्यत्रापि यथा आनो भद्रीयं च तस्य स्थाने (ऐआ ५, ३, २) इति । स्मृतौ तु पञ्चर्चं (? र्चः) प्रयुज्यते (°न्ते ?) शूलं (°ल ?) गवे स्वस्त्यात्रेयं जपति, अत्र ऋग्विधाने चोदितत्वात् । निविद्धाने निविद्धानीयं च यथोपदिष्टं भवति । १ ये ये दायो यथापदिष्टः समानचातिन्यायो श्रुता श्रुतौ ? ( ) न्यायः स्मृतौ स्मार्तो भवति । इति वैश्वदेवम् आश्रौ (८, १, २५) इति वचनात् । उद्धृतस्य स्थाने न प्राप्नोति, उत्तमस्योद्धारे कृत ऐकाहिकं प्राप्तम् । एतानि च अधिकानि षष्ठे हाभिप्लविकादाग्निमारुतम् । अग्निष्टोमे प्राप्त उक्तो विधीयते। ऐकाहिकान्युक्तानि प्राप्तानि । विकृतानि विधीयन्ते। होत्रकाणां द्विपदासु ऋक्षु इह उक्थ्येषु स्तुवते छन्दोगास्ते होत्रका द्विपदेभ्यः अनुरूपेभ्य ऊर्ध्वं विकृतानि सन्मुखानि च शिल्पसन्ता (न्तता ?) नि सूक्तानि शंसेयुस्तानि वक्ष्यामः। उक्थ्येषु विधिर्विधीयते। होत्रकाणामेव भविष्यति। न व (? च) भवति । द्वे चैका च पञ्चमे । तृचाः प्रउगे (आश्रौ) ७, १, १०) इति प्राप्ते द्वौ तृचौ प्राप्तौ तस्मादिदमुच्यते । पञ्चमस्तृचः समाहार्यो भवति । अवर्मह (ऋ १, १३३, ६, ७) इति द्वे वृषन्निन्द्र (ऋ १, १३९, ६) इत्येका च तृचो भवति । चकारः समुच्चयार्थः। एकपातिन्यः । एका पतति असहाया सा एकपातिनी । तिस्र एकपातिन्यः तृचो भवति । उपोत्तमे। उपोत्तमस्य तृचस्य समीपे यस्तृचः स उपोत्तमो वैश्वदेवो भवति । त्रयस्तृचाः प्राप्ता उपोत्तमे तृचे सारस्वते ॥१२॥

[प्रत्यृचमन्तेऽष्टाक्षराणामभ्यासविधिः]
उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः ॥१३॥ .
ऋचम् ऋचमनु अन्वृचम् । अन्वृचमभ्यासा अष्टाक्षराः कर्तव्याः। तथा कृते अतिजगत्यो भवन्ति । अतिच्छन्दसो भवन्ति । पारुच्छेपमतिच्छन्दाः षष्ठेऽहनि (ऐब्रा ५, १२) इति ब्राह्मणम् । (?) अन्ताल्लोपो वृद्धिर्वेति उत्तमानामभ्यासा संख्यावचनाद् विकर्षं निक्रियते (?)।
'यथाम्नातामभ्यासः--णि तविषा सरस्वति णि तविषा सरस्वतो३मिति (ऋ. ६, ६१,१), आ विवासेम धीतिभिरा विवासेम धीतिभो३मिति) (ऋ ६, ६१, २), अस्रवो वाजिनीवत्यस्रवो वाजिनीवतो३मिति (ऋ६,६१,३) ॥१३॥

[पूर्वोक्ताभ्यासनिषेधविकल्पः]
न वा ॥१४॥
न वा अभ्यासः क्रियते । यथाम्नातस्तृचः शस्यते । एवमप्यतिच्छन्दस्तृच एव प्रउगं भवति, बाहुल्यात् । यथा गा मदं अस्मि हहमिति होत्रकाणां स्त्रोत्रियानुरूपारम्भणीया नाभाकस्तृचावाष्टादशावाप-पर्यासा यदा नाभाकावापो न क्रियते तदा एकविंशतिरावापः ॥ अभ्यासो जगतीकारं चतुर्विंशत्यक्षराण्युक्त्वाऽवस्येत्, पुनस्तावन्त्येवोक्त्वा प्रणुयात् ॥१४॥

[मरुत्वतीयशस्त्रस्य तत्प्रतिपदनुचरयोश्च कथनम्]
‘स पूर्व्यो महानां', 'त्रय इन्द्रस्य सोमाः' इति मरुत्वतीयस्य प्रतिपदनुचरौ; 'यं त्वं रथमिन्द्र', 'स यो वृषा', 'इन्द्र मरुत्वः' इति तिस्र इति मरुत्वतीयम् ॥१५॥
'स पूर्व्यो महानाम् (ऋ ८, ६३, १) त्रय इन्द्रस्य (ऋ ८, २, ७) [इति] प्रतिपदनुचरावैकाहिकयोः स्थाने । मरुत्वतीयग्रहणं वैश्वदेवनिवृत्त्यर्थम् । ध्रुव इन्द्र निहवो धाय्याश्च तृतीयौ प्रगाथौ बृहतीकारं प्रगाथाः। य त्वं रथमिन्द्र (ऋ १, १२९, १), स यो वृषा (ऋ १, १००, १), इन्द्र मरुत्वः (ऋ ३, ५१, ७) इति तिस्र ऋच इति मरुत्वतीयमित्येतानि त्रीणि सूक्तानि मरुत्वतीयं त्रयस्त्रिंशत्वात् । स्तोमस्य (स्तोमाश्च ?) मरुत्वतीयग्रहणान्मरुत्वतीये भवन्ति । ऐकाहिकस्य स्थाने पुनर्मरुत्वतीयग्रहणम् । पूर्वं हि वैश्वदेवनिवृत्त्यर्थम् अधिकारार्थ न भवति ॥१५॥

'इदानीं तेषां सूक्तानां शस्योपायो वक्ष्यते--
[पूर्वोक्तसूक्तानां शंसनविधिकथनम्]
एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयाद् द्वाभ्यामवसाय द्वाभ्यां प्रणुयाद्, यत्र पच्छः पारुच्छेप्यः ॥१६॥
'एकेनाग्रेऽवसाय एकेन पादेनाग्रेऽवसाय द्वाभ्यां पादाभ्यां प्रणुयात्, पुनः द्वाभ्यां पादाभ्यामवसाय द्वाभ्यां प्रणुयात् । एवं सप्तपदानां पादशस्यं यत्र पच्छ:शस्या भवन्ति पारुच्छेप्यः । अतो विषयादूर्ध्वम् अर्धर्चं शस्यं, वचनादर्धर्चम् । त्रैष्टुभं वै माध्यन्दिनं सवनं जागतं व तृतीयसवनम् (?) इति श्रुतिः । त्रिष्टुभां जगतीनां च पच्छः शस्यन्ते । तस्मात् पच्छःशस्यविषये याः पारुच्छेप्यः ताः पच्छःशस्या भवन्ति । निष्केवल्ये होत्रकाणां च पारुच्छेपेषु तृचेषु मरुत्वतीय उक्तं शस्यमन्यत्र न प्राप्नोति । तस्यान्यत्रापि प्राप्त्यर्थं यत्र पच्छःपारुच्छेप्यः इत्युच्यते ॥१६॥

[ रैवते साम्नि पृष्ठस्थाने कृते स्तोत्रियानुरूपकथनम्]
  रैवतं चेत् पृष्ठं 'रेवतीर्नः सधमादे', 'रेवां इद्रेवतः स्तोता' इति स्तोत्रियायानुरूपौ ॥१७॥
'रैवतं साम, तच्चेत् पृष्ठस्थाने क्रियते, तत्र स्तोत्रियानुरूपौ वक्ष्येते । रेवतीर्नः (ऋ १, ३०, १३), रेवाँ इद्रेवतः (८, २,१३) इत्येतौ स्तोत्रियानुरूपौ भवतः । चेदिति वचनाद् बृहद् वा भवति । रैवतस्य स्तोत्रियानुरूपौ धाय्या बृहती योनिः इन्द्रमिद् देवतातये (ऋ ८,३,५) इति सामप्रगाथः तार्क्ष्यः ॥१७॥

[निष्केवल्यशस्त्रकथनम्] ।
'एन्द्र याह्युप नः', 'प्र घा न्वस्याभूरेकः' इति निष्केवल्यम् ॥१८॥
एन्द्र याह्युप नः (ऋ १, १३०), प्र घा न्वस्य (ऋ २, १५), अभूरेकः (ऋ ६, ३१) इत्येतानि त्रीणि सूक्तानि निष्केवल्यं निष्केवल्ये भवत्येकाहिकस्य स्थाने । उक्तः शस्योपायः । होत्रकाणां स्तोत्रियानुरूपा अभीवर्तकालेययोर् योनिः प्रगाथाः । आरम्भणीयाः पारुच्छेप्यास्तृचा अष्ट्यानि-(? अष्टावादि-) स्तृतीयाः संपाताः अहरहःशस्यानि सुरूपकृत्नुमूतये (ऋ १, ४, १) इत्येतयोः स्तोत्रियानुरूपयोः ॥१८॥

[वैश्वदेवशस्त्रस्य प्रतिपदनुचरयोः कथनम्]
'अभि त्यं देवं सवितारमोण्योः' इत्येका, 'तत्सवितुर्वरेण्यम्' इति द्वे, 'दोषो आगाद् बृहद् गाय द्युमद् धेह्याथर्वण स्तुहि देवं सवितारं', 'तमु ष्टुह्यन्तः सिन्धुं सूनुम् सत्यस्य युवानम् द्रोघवाचं सुशेवं', 'स घा नो देवः सविता साविषद् वसुपतिः उभे सुक्षिती सुधातुः' इति वैश्वदेवस्य प्रतिपदनुचरौ ॥१९॥
'षष्ठेनाभिप्लविकेनोक्तं तृतीयसवनम् । प्रतिपदनुचरयोः स्थाने प्रतिपदनुचरौ वक्ष्यते । अभि त्यं देवम् (अथर्व ७, १४, १) इत्येका, तत्सवितुर्वरेण्यम् (ऋ ३,६२,१०,११) इत्येते द्वे ऋचौ । एका च द्वे च तृचो भवति। प्रतिपद्यु (?) क्रतमिति पदान्ते विग्रहः । दोषो आगात् (द्र. शौ ६,१, १-३) इति यथासमाम्नातोऽनुचरः इत्येतौ प्रतिपदनुचरौ भवतः । षष्ठी क्रियास्थाने । तद्देवस्य (ऋ ४, ५३), कतरा पूर्वा (ऋ १, १८५), अनश्वो जातः (४, ३६), उषासा नक्ता (ऋ १०, ४३) इत्येतेषु सूक्तेषु इदमुच्यते ॥१९॥

[पूर्वोक्तेष्वन्तिमसूक्तमुद्धृत्य तत्र त्रयाणां सूक्तानामादेश:]
उद्धृत्य चोत्तमां सूक्तं त्रीणि ॥२०॥
प्रतिपदनुचरौ उद्धृतौ । उत्तमं च सूक्तमुद्धृत्य उषासा नक्ता (ऋ १०,३६) इत्येतमुद्धृत्य तस्य स्थाने त्रीणि सूक्तानि आदिश्यन्ते । इदमित्था (ऋ १०, ६१), ये यज्ञेन (ऋ १०,६२), स्वस्ति नः(ऋ १०,७) इत्येतेषां शस्योपायो वक्ष्यते । इदमित्था रौद्रम् (ऋ १०,६१) इत्येतस्य सूक्तस्य उत्तमा उप समीपे उपोत्तमा तस्याः प्राग् ये यज्ञेन (ऋ १०, ६२) इत्येतस्य अर्धर्चः । अर्धर्चशस्या भवन्ति, ऋचः प्रागुतमायाः' 'सहस्रदा ग्रामणीः (ऋ १०, ६२, ११) इत्येतस्याः प्राग् ऊर्ध्वं चतुर्थ्याः विरूपासः (ऋ १०, ६२, ५) इत्येवमाद्या अनुष्टुभः प्रगाथो गायत्री च, ता अर्धर्चशस्या भवन्ति । अन्या च पच्छःशस्या आद्याश्चतस्रः । सूक्तं समाप्य शिष्टे ऋचौ स गृणानः (ऋ १०, ६१, २६:२७) इत्येते ऋचौ शस्त्वा ततः स्वस्ति नो मिमीताम् (ऋ ५, ५१, ११) इति तृचः । अस्मिंस्तृचे निविदं दध्यात्--इति वैश्वदेवसूक्तं उद्धृत्य अस्य स्थाने भवति सूत्रार्थम उद्धृत्य चोत्तममिति । चशब्दः समुच्चयार्थः । प्रतिपदनुचरौ उत्तमं च सूक्तमद्धरन्ति । अन्यदाभिप्लविकेन समानम। समुच्चये अक्रियमाणे प्रतिपदनुचरौ । तयोरुद्धारो न प्राप्नोति अनैकाहिकत्वात् । ऐकाहिकस्योद्धार उक्तः । उत्तमस्य सूक्तस्योद्धारवचने प्रयोजनं त्रीणीति वचनान् नाभानेदिष्ठमपि त्रिप्रतीकमेवोद्धरेत् अस्मिन्नेव निविद् धीयते । त्रि-ग्रहणे अक्रियमाणे निविद्धानीयं न भवति । न निविद्धानीयाभावात पृथगाहावः प्राप्नोति शिल्पत्वात् । संज्ञया ऋषिणा च चोदितानां पृथगाहावो भवति । यथा तार्क्ष्य एवयामरुत्संज्ञया चोदितानि द्विपदानि जातवेदस्यवत् तायमानरूपसंज्ञा, एवं पृथगाहावे प्राप्ते त्रिग्रहणम। पृष्ठादन्यत्र नाभानेदिष्ठस्य पृथगाहावो भवति विश्वजिच्छिल्पे तृचग्रहणात्, तं सनाराशंसं शंसति (ऐब्रा ६, २७) इति वचनात् ॥२०॥

[आदेशे प्रथमसूक्तकथनम्]
'इदमित्था रौद्रम्' (ऋ १०,६१) इति ॥२१॥

[द्वितीयसूक्त कथनम्]
प्रागुपोत्तमायाः 'ये यज्ञेन' इत्यावपते ॥२२॥
ये यज्ञेन (ऋ १०, ६२) इति "नाराशंसीः शस्त्वा ततोऽतिशस्यते । प्रागुपोत्तमाया एतस्य स्थानं श्रुतिवचनादेव। "मध्य एव शंसेन्मध्यायतना वा इयं वागुपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव (ऐब्रा ६, २७) इति द्वे परिशिष्य शंसति । तस्मादेतैस्त्रैस्टुभस्तृचो भवति । निविद्धानार्थं त्रैष्टुभानां तृतीयसवनानि ॥२२॥

[तस्य शस्योपायकथनम्]
तस्यार्द्धर्चशः प्रागुत्तमाया ऊर्ध्वं चतुर्थ्याः ॥२३॥
अर्धर्चशो ग्रहणं पच्छ:शस्यनिवृत्त्यर्थम् पच्छःशस्यस्य स्थानिवद्भावात् पच्छःशस्ये प्राप्ते अर्द्धर्चश इत्युच्यते । स्वरूपोऽत्र स्वस्त्यात्रेये निविदं दध्यात् (आश्रौ ६,९, ६) इत्युक्ते ये यज्ञेन (आश्रौ ८, १,२२) इति तृचे एव निविदं दध्यात्। यथाप्रयुक्तमेवोपदिश्यतेऽन्यत्रापि। यथा आनोभद्रीयं च तस्य स्थाने (ऐआ ५,३,२) इति। स्मृतौ तु पञ्चर्चः प्रयुज्यते, शूलगवे स्वस्त्यात्रेय जपत्यत्र ऋग्विधाने चोदितत्वात् । निविद्धाने निविद्धानीयं च यथोपदिष्टं भवति । यो यो न्यायो यथोपदिष्टः समानजातिः । न्यायः श्रुतौ श्रौतो न्यायः स्मृतौ स्मार्तो भवति ॥२३॥

[आदेशे तृतीयसूक्तकथनम्]
शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भगः इति तृचः॥२४॥

[वैश्वदेवसमाप्तिकथनम्]
इति वैश्वदेवम् ॥२५॥
इति-वचनाद् उद्धृतस्य स्थाने न प्राप्नोति । उत्तमस्योद्धारे कृत ऐकाहिकं प्राप्तम । एतानि चाधिकानि । षष्ठेऽहनि आभिप्लविकादाग्निमारुतम । आग्निष्टोमे प्राप्त उक्तो विधीयते । ऐकाहिकान्युक्तानि प्राप्तानि, विकृतानि विधीयन्ते ।।२५॥

इति अष्टमे प्रथमः खण्डः


८.१।१ षष्ठस्य प्रातः सवने प्रस्थित याज्यानाम् पुरस्ताद् अन्याः कृत्वा उभाभ्याम् अनवानन्तो यजन्ति । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२ वृषन्न् इन्द्र वृष पाणास इन्दवः सुषुमायातम् अद्रिभिर् वनोति हि सुन्वन् क्षयम् परीणसो मो षु वो अस्मद् अभि तानि पौर्ंस्या ओ षू णो अग्ने शृणुहि त्वम् ईळितो अग्निम् होतारम् मन्ये दास्वन्तम् दध्यन् ह मे जनुषम् पूर्वो अङ्गिरा इति । सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।३ एवम् एव माध्यंदिने अध्यर्धाम् तु तत्र अनवानम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।४ पिबा सोमम् इन्द्र सुवानम् इन्द्रभिर् इन्द्राय हि द्यौर् असुरो अनम्नत इति षट् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।५ उपरिष्टात् त्व् ऋच ऋतु याजानाम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।७ एवम् एव यजन्ति । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।८ तुभ्यम् हिन्वानो वसिष्ट गा अप इति । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।९ अयम् जायत मनुषो धरीमणि इत्य् आज्यम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१० एकेन द्वाभ्याम् च विग्रहः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।११ त्रिभिर् अवसानम् चतुर्भिः प्रणवो यत्र अर्धर्चशः पारुच्छेप्यः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१२ स्तीर्णम् बर्हिर् इति तृचौ सुषुमा आतम् अद्रिभिर् युवाम् स्तोमेभिर् देवयन्तो अश्विनाव् अर्मह इन्द्र वृषन्न् इन्द्रास्तु श्रौषळ् ओ षू णो अग्ने शृणुहि त्वम् ईळितो ये देवासो दिव्य् एकादश स्थेयम् अददाद् रभसम् ऋण च्युतम् इति प्रौगम् ।
८.१।१२ द्वे च एका च पञ्चमे एक पातिन्य उपोत्तमे उत्तमे अन्वृचम् अभ्यासा अष्ट अक्षराः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१३ न वा । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१४ स पूर्व्यो महोनाम् त्रय इन्द्रस्य सोम इति मरुत्वतीयस्य प्रतिपद् अनुचरौ यम् त्वम् रथम् इन्द्र स यो वृष इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१५ एकेन अग्रे अवसाय द्वाभ्याम् प्रणुयाद् द्वाभ्याम् अवसाय द्वाभ्याम् प्रणुयाद् यत्र पच्छः पारुच्छेप्यः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१६ रैवतम् चेत् पृष्ठम् रेवतीर् नः सधमादे रेवान् इद् रेवतः स्तोता इति स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१७ एन्द्र याह्य् उप नः प्र घा न्व् अस्य अभूर् एक इति निष्केवल्यम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१८ अभि त्यम् देवम् सवितारम् ओण्योर् इत्य् एका तत् सवितुर् अवरेण्यम् इति द्वे दोषो आगाद् बृहद् गाय द्युमद् द्युमद्ध्येह्य् आथर्वण ( द्युमद् गायाथर्वण पैप्प् ) स्तुहि देवम् सवितारम् तम् उ ष्टुह्य् अन्तः सिन्धुम् सूनुम् सत्यस्य युवानम् ।
८.१।१८ अदोरोघ वाचम् सुशेवम् ( पैप्प् ) स घानो देवः सविता साविषद् वसुपतिः ( पैप्प् ) । उभे सुक्षिती सुधातुर् इति वैश्वदेवस्य प्रतिपद् अनुचरौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।१९ उद्धृत्य च उत्तमम् सूक्तम् त्रीणि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२० इदम् इत्था रौद्रम् इति । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२१ प्राग् उपोत्तमाया ये यज्ञेन इत्य् आवपते । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२२ तस्य अर्धर्चशः प्राग् उत्तमाया ऊर्ध्वम् चतुर्थ्याः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२३ शिष्टे शस्त्वा स्वस्ति नो मिमीताम् अश्विना भग इति तृचः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.१।२४ इति वैश्वदेवम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)

  1. २.३६.१
  2. १.१२८.१
  3. ऋ.१०.६२.१