प्रमुखा विकल्पसूचिः उद्घाट्यताम्
सोम व्यूळ्ह दशरात्र दशमम् अहः

गार्हपत्ये जुह्वतीह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट् स्वाहा वाडिति १ आग्नीध्रीय उप सृजं धरुणं मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति २ सदः प्रसृप्य मानसेन स्तुवते ३ यर्हि स्तुतं मन्येता-ध्वर्यवित्याह्वयीत ४ हो होतरितीतरः ५ आयङ्गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा व्याख्यास्वरेण चतुर्होतॄन् व्याचक्षीत ६ देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत ७ ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु ८ तेषां चित्तिः स्रुगासी३त् । चित्त-माज्यमासी३त् । वाग्वेदिरासी३त् । आधीतं बहिरासी३त् । केतो अग्नि-रासी३त् । विज्ञातमग्नीदासी३त् । प्राणो हविरासी३त् । सामाध्वर्युरासी३त् । वाचस्पतिर्होतासी३त् । मन उपवक्तासी३त् ९ ते वा एतं ग्रहमगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम्नाद्यां गच्छ । यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति १० अपव्रजत्यध्वर्युः ११ अथ प्रजापतेस्तनूरितर उपांश्वनुद्र वति १२ ब्रह्मोद्यञ्च । ब्रह्मोद्यञ्चोपांश्वेवानुद्र वति । अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलया चापभया चानाप्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः १३ अग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपति-र्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहाः । येषां वै गृहपतिं देवं विद्वान् गृहपतिर्भवति राध्नोति स गृहपतीराध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देवं विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नते १४ अध्वर्यो अरात्स्मेत्युच्चैः १५ एषा याज्या १६ एष वषट्कारः १७ नानुवषट्करोति । उक्तं वषट्कारानुमन्त्रणं १८ अरात्स्म होतरित्यध्वर्युः प्रत्याह १९ मनसाऽध्वर्युर्ग्रहं गृहीत्वा । मनसा भक्षमाहरति २० मानसेषु भक्षेषु मनसोपह्वानं भक्षणे २१ मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्यानक्षत्रदर्शनात् । तत्रानधरान् पाणॐश्चिकीर्षेरन् २२ दृश्यमानेष्व-ध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् युवन्तमिन्द्रा पर्वता पुरोयुधेति जपन्तः २३ अध्वर्युपथेनेत्येके २४ दक्षिणस्य हविर्धानस्याधोक्षेणेत्येके २५ प्राप्य वरान् वृत्वा वाचं विसृजन्ते यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति २६ अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुप मैतु वागिति २७ उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते २८ नित्यस्त्विह वाग्विसर्गः २९ एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात् ३० तदेषा-ऽभियज्ञगाथा गीयते । प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च । अभि-जित्स्वरसामानो विषुवान् विश्वजित् तथा । छन्दोमा दशमञ्चाह उत्तमं तु महाव्रतं । अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते । यद्यन्यधीयते पूर्वधोयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैर्वै संवत्सरो मितः । एतेषामेव प्रभवस्त्रीणि षष्टिशतानि यदिति ३१ तद्ये केचन छान्दोग्ये वाऽऽध्वर्यवे वा हौत्रामर्शाः समाम्नाता न तान् कुर्यादकृत्स्नत्वाद्धौत्रस्य ३२ छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति ३३ अध्वर्युप्रत्ययन्तु व्याख्यानं कामकालदेशदक्षि-णानां दीक्षोपसत्प्रसवसंस्थोत्थानानामेतावत्त्वं हविषामुच्चैरुपांशुतायां हविषा चानुपूर्वं ३४ एतेभ्य एवाहोभ्योऽहीनैकाहान् पश्चात्तरान् व्याख्यास्यामः ३५

८.१३।१ गार्हपत्ये जुह्वति इह रम इह रमध्वम् इह धृतिर् इह स्वधृतिर् अग्ने वाट् स्वाहा वाट् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२ अग्नीध्रीय उपसृजम् धरुणम् मातरम् धरुणो धयन् । रायस् पोषम् इषम् ऊर्जम् अस्मासु दीधरत् स्वाहा इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३ सदः प्रसृप्य मानसे स्तुवते । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।४ यर्हि स्तुतम् मन्येत अध्वर्यव् इत्य् आह्वयीत । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।५ हो होतर् इति इतरः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।६ आ अयम् गौः पृश्निर् अक्रमीद् इत्य् उपांशु तिस्रः पराचीः शस्त्वा व्याख्या स्वरेण चतुर् होतॄन् व्याचक्षीत । (सोम व्यूळ्ह दशरात्र दशम अहः)( चित्तिः स्रुग् आसीत् )
८.१३।७ देवा वा अध्वर्योः प्रजापति गृह पतयः सत्रम् आसत । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।८ ओम् होतस् तथा होतर् इत्य् अध्वर्युः प्रतिगृणात्य् अवसिते अवसिते दशसु पदेषु । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।९ तेषाम् चित्तिः स्रुग् आसीत् । चित्तम् आज्यम् आसीत् । वाग् वेदिर् आसीत् । आधीतम् बर्हिर् आसीत् । केतो अग्निर् आसीत् । विज्ञानम् अग्नीद् आसीत् । प्राणो हविर् आसीत् । साम अध्वर्युर् आसीत् । वाचस्पतिर् होता आसीत् । मन उपवक्ता आसीत् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१० ते वा एतम् ग्रहम् अगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस् त्वम् अस्माकम् नाम्ना द्याम् गच्छ । याम् देवाः प्रजापति गृहपतय । ऋद्धिम् अराध्नुवंस् ताम् ऋद्धिम् रात्स्याम इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।११ अपव्रजत्य् अध्वर्युः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१२ अथ प्रजापतेस् तनूर् इतर उपांश्व् अनुद्रवति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१३ ब्रह्म उद्यम् च । अन्नादा च अन्न पत्नी च भद्रा च कल्याणी च अनिलया च अपभया च अनाप्ता च अनाप्या च अनाधृष्या च अप्रतिधृष्या च अपूर्वा च अभ्रातृव्या च इति तन्वः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१४ अग्निर् गृहपतिर् इति ह एक आहुः सो अस्य लोकस्य गृहपतिर् वायुर् गृहपतिर् इति ह एक आहुः सो अन्तरिक्ष लोकस्य गृहपतिर् असौ वै गृहपतिर् यो असौ तपत्य् एष पतिर् ऋतवो गृहाः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१४ येषाम् वै गृहपतिम् देवम् विद्वान् गृहपतिर् भवति राध्नोति स गृहपती राध्नुवन्ति ते यजमानाः । येषाम् वा अपहत पाप्मानम् देवम् विद्वान् गृहपतिर् भवत्य् अप स गृहपतिः पाप्मानम् हते अप ते यजमानाः पाप्मानम् घ्नते । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१५ अध्वर्यो अरात्स्म इत्य् उच्चैः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१६ एषा याज्या । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१७ एष वषट् कारः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१८ न अनुवषट् करोति । उक्तम् वषट्कार अनुमन्त्रणम् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।१९ अरात्स्म होतर् इत्य् अध्वर्युः प्रत्याह । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२० मनसा अध्वर्युर् ग्रहम् गृहीत्वा । मनसा भक्षम् आहरति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२१ मानसेषु भक्षेषु मनसा उपह्वानम् भक्षणे । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२२ मनसा आत्मानम् आप्याय्य औदुम्बरीम् समन्वारभ्य वाचम् यच्छन्त्य् आ नक्षत्र दर्शनात् । तत्र अनधरान् पाणींश् चिकीर्षेरन् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२३ दृश्यमानेष्व् अध्वर्यु मुखाः समन्वारब्धाः सर्पन्त्य् आ तीर्थ देशाद् युवम् तम् इन्द्रा पर्वता पुरोयुधा इति जपन्तः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२४ अध्वर्यु पथेन इत्य् एके । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२५ दक्षिणस्य हविर् धानस्य अधोक्षेण इत्य् एके । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२७ प्राप्य वरान् वृत्वा वाचम् विसृजन्ते यद् इह ऊनम् अकर्म यद् अत्यरीरिचाम प्रजापतिम् तत् पितरम् अप्येत्व् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२७ अथ वाचम् निह्नवन्ते वाग् ऐतु वाग् ऐतु वाग् उपमा एतु वाग् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२८ उत्कर देशे सुब्रह्मण्याम् त्रिर् आहूय वाचम् विसृजन्ते । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।२९ नित्यस् त्व् इह वाग् विसर्गः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३० एतावत् सात्रम् होतृ कर्म अन्यत्र महा व्रतात् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३१ तद् एषा अभियज्ञ गाथा गीयन्ते । अतिरात्रश् चतुर्विंशम् षळहाव् अभिजित् स्वराः । विषुवान् विश्वजिच् चैव छन्दोमा दशम व्रतम् ।
८.१३।३१ प्रायणीयश् चतुर्विंशम् पृष्ठ्यो अभिप्लव एव च । अभिजित् स्वर सामानो विषुवान् विश्वजित् तथा । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३२ छन्दोमा दशमम् च अह उत्तमम् तु महा व्रतम् । अहीन एकाहः सत्राणाम् प्रकृतिः समुदाह्रियते । यद्य् अन्य धीयते पूर्व धीयते तम् प्रतिग्रामन्त्य् अहानि पञ्चविंशतिर् यैर् वै संवत्सरो मितः । एतेषाम् एव प्रभवस् त्रीणि षष्टि शतानि यद् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३३ तद् ये केचन छान्दोग्ये वा आध्वर्यवे वा होत्र आमर्शा समाम्नाता न तान् कुर्याद् अकृत्स्नत्वाद् हौत्रस्य । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३४ छन्दोग प्रत्ययम् स्तोम स्तोत्रियः पृष्ठम् संस्था इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३५ अध्वर्यु प्रत्ययम् तु व्याख्यानम् काम काल देश दक्षिणानाम् दीक्षित उपसत् प्रसव संस्था उत्थानानाम् एतावत्त्वम् हविसाम् उच्चैर् उपांशुतायाम् हविषा च आनुपूर्व्यम् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१३।३६ एतेभ्य एव अहोभ्यो अहीन एकाहान् पश्चात्तरान् व्याख्यास्यामः । (सोम व्यूळ्ह दशरात्र दशम अहः)