सोम पृष्ठ्य षडह षष्ठम् अहः

होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते १ अत ऊर्ध्वमनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः २ मैत्रावरुणस्याग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ । अथ वालखिल्या विहरेत् ३ तदुक्तं षोडशिना ४ सूक्तानां प्रथमद्वितीये पच्छः ५ तृतीयचतुर्थे अर्धर्चशः ऋक्शः पञ्चमषष्ठे । व्यतिमर्शं वा विहरेत् ६ पूर्वस्य प्रथमामुत्तरस्य द्वितीयया ७ उत्तरस्य प्रथमां पूर्वस्य द्वितीयया ८ तयोर्नानर्चा ९ प्रथमद्वितीयाभ्यां पादाभ्यामवस्येत् प्रथमद्वितीयाभ्यां प्रणुयात् तृतीयोत्तमाभ्यामवस्येत् तृतीयोत्तमाभ्यां प्रणुयात् १० एवं व्यतिमर्शमर्धर्चशः उत्तरे । एवं व्यतिमर्शमृक्श उत्तरे ११ विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र १२ इमानि वां भागधेयानीति प्रागुत्तमाया आहूय दूरोहणं रोहेत् १३ हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवान-मुक्त्वा प्रणुत्यावस्येत् । पुनस्त्रिपद्याऽर्धर्चशः पच्छ एव सप्तमं १४ एतत् दूरोहणं १५ आवां राजानाविति नित्यमैकाहिकं १६ इति नु हौण्डिनौ १७ अथ महावालभित् १८ एतान्येव षट् सूक्तानि व्यतिमर्शं पच्छो विहरेद्व्यति-मर्शमर्धर्चशो व्यतिमर्शमृक्शः १९ प्रगाथान्तेषु चानुपसन्तानऋगावानमे-कपदाः शंसेत् २० इन्द्रो विश्वस्य गोपतिरिन्द्रो विश्वस्य भूपतिरिन्द्रो विश्वस्य चेततीन्द्रो विश्वस्य राजतीति चतस्रः २१ एकां महाव्रतादाहरेत् २२ त्रयो-विंशतिमष्टाक्षरान् पादान् महानाम्नीभ्यः सपुरीषाभ्यः २३ षोडशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः २४ अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत् २५ समा-नमन्यत् २६


८.२।१ होत्रकाणाम् द्विपदास्व् इह उक्थ्येषु स्तुवते । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२ त ऊर्ध्वम् अनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।३ मैत्रावरुणस्य अग्ने त्वम् नो अन्तमो अग्ने भव सुषमिधा समिद्ध इति स्तोत्रिय अनुरूपाव् अथ वालखिल्या विहरेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)( अभि प्र वस् सुराधसम्वालखिल्य)
८.२।४ तद् उक्तम् षोळशिना । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।५ सूक्तानाम् प्रथम द्वितीये पच्छः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।६ तृतीय चतुर्थे अर्धर्चश ऋक्शः पञ्चम षष्ठे व्यतिमर्शम् वा विहरेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।७ पूर्वस्य प्रथमाम् उत्तरस्य द्वितीयया । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।८ उत्तरस्य प्रथमाम् पूर्वस्य द्वितीयया ।८। (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।९ तयोर् नाना ऋचा । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१० प्रथम द्वितीयाभ्याम् पादाभ्याम् अवस्येत् प्रथम द्वितीयाभ्याम् प्रणुयात् तृतीय उत्तमाभ्याम् अवस्येत् तृतीय उत्तमाभ्याम् प्रणुयात् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।११ एवम् व्यतिमर्शम् अर्धर्चश उत्तर एवम् व्यतिमर्शम् ऋक्श उत्तरे । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१२ विपरिहरेद् एव उत्तमे सूक्ते गायत्रे सर्वत्र । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१३ इमानि वाम् भागधेयानि इति प्राग् उत्तमाया आहूय दूरोहणम् रोहेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१४ हंसः शुचिषद् इत् पच्छो अर्धर्चशस् त्रिपद्या चतुर्थम् अनवानम् उक्त्वा प्रणुत्य अवस्येत् । पुनस् त्रिपद्या अर्धर्चशः पच्छ एव सप्तमम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१५ एतद् दूरोहणम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१६ आवाम् राजानाव् इति नित्यम् ऐकाहिकम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१७ इति नु हौण्डिनौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।१८ अथ महावालभिद् । (सोम पृष्ठ्य षडह षष्ठम् अहः)( महाबालभिद् )
८.२।१९ एतान्य् एव षट् सूक्तानि व्यतिमर्शम् पच्छो विहरेद् व्यतिमर्शम् अर्धर्चशो व्यतिमर्शम् ऋक्शः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२० प्रगाथ अन्तेषु च अनुसंतान ऋगावानम् एक पदाः शंसेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२१ इन्द्रो विश्वस्य गोपतिर् इन्द्रो विश्वस्य भूपतिर् इन्द्रो विश्वस्य चेतति इन्द्रो विश्वस्य राजति इति चतस्रः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२२ एकाम् महा व्रताद् आहरेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२३ त्रयोविंशतिम् अष्ट अक्षरान् पादान् महानाम्नीभ्यः सपुरीषाभ्यः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२४ षोळशिना उक्तः प्रतिगरो अन्यत्र एक पदाभ्यः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२५ अवकृष्य एक पदा अविहरंश् चतुर्थम् शंसेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.२।२६ समानम् अन्यत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)