सोम पृष्ठ्य षडह षष्ठम् अहः

अथाच्छावाकस्य । प्र व इन्द्रा य वृत्रहन्तमायेति स्तोत्रियानरूपौ १ अथैव-यामरुदुक्तो वृषाकपिना २ ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदे मधोर्मदस्य मदिरस्य मदैवो३ ओ३ओ३ओ३ मोथामो दैवो३मित्यस्य प्रतिगरः । ऋतुर्जनित्रीति नित्यान्यैकाहिकानि ३ एवमुक्थ्यानि यत्र यत्र द्विपदासु स्तुवीरन् ४ नित्यशिल्पं त्विदमहः ५ विश्वजिच्च ६ तौ चेदग्निष्टोमौ यदि वोक्थ्येष्वद्विपदासु स्तुवीरन् माध्यन्दिन एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः ७ बार्हतान्येव सूक्तानि वालखिल्यानां मैत्रावरुणः ८ सुकीर्त्तिं ब्राह्मणाच्छंसी । वृषाकपिञ्च पङ्क्तिशंसं ९ द्यौर्नय इन्द्रे त्यच्छावाकः १० प्रत्येवयामरुदित्येतदाचक्षते ११ होतैवयामरुतमाग्निमारुते पुरस्तान्मा-रुतस्य पच्छः समासमुत्तमे पदे १२ षष्ठे त्वेव पृष्ठ्याहान्यहरहःशस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत् १३ सम्पातसूक्त एकाहीभवत्सु १४ न ह्येकाहीभवत्स्व हरहःशस्यानि । नारम्भणीया न कद्वन्तः १५ कद्वतां स्थाने नित्यान् प्रगाथाञ्छस्त्वा सम्पातवत्स्व हीनसूक्तानीतरेषु ततोऽन्त्यान्यै-काहिकानि १६ सम्पातवत्सु तु सर्वस्तोमेषु प्राकृते वैकाहेऽहीनसूक्तानि । आदितस्तृतीयानि १७ सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि १८ पृष्ठे संस्थाः १९ अग्निष्टोमः प्रथमं । षोडशी चतुर्थं । उक्थ्या इतरे २० इति पृष्ट्यः २१ प्रत्यक्षपृष्ठः २२ अन्यैः परोक्षपृष्ठः २३ एतैर्वोपसृष्टैः २४ वैरूपा-दीनामभावे पृष्ट्यस्तोमः २५ पवमानभाव आपर्क्यपृष्ठ्यः २६ तनूपृष्ट्यो होतुश्चेच्छ्यैतनौधसे २७


८.४।१ अथ अच्छावाकस्य । प्र व इन्द्राय वृत्र हन्तमाय इति स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।२ अथ एवया मरुद् उक्तो वृषाकपिना । (सोम पृष्ठ्य षडह षष्ठम् अहः)( एवयामरुत प्र वो महे मतयो )
८.४।३ Oमीट्ट्Eड् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।४ एवम् उक्थ्यानि यत्र यत्र द्विपदासु स्तुवीरन् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।५ नित्य शिल्पम् त्व् इदम् अहः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।७ तौ चेद् अग्निष्टोमौ यदि वा उक्थ्येष्व् अद्विपदासु स्तुवीरन् माध्यंदिन एव ऊर्ध्वम् आरम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।८ बार्हतान्य् एव सूक्तानि वालखिल्यानाम् मैत्रावरुणः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।९ सुकीर्तिम् ब्राह्मणाच्छंसी । वृषाकपिम् च पङ्क्ति शंसम् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१० द्यौर् नय इन्द्र इत्य् अच्छावाकः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।११ प्रत्य् एवयामरुद् इत्य् एतद् आचक्षते । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१२ होता एवयामरुतम् आग्निमारुते पुरस्तान् मारुतस्य पच्छः समासम् उत्तमे पदे । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१३ षष्ठे त्व् एव पृष्ठ्य अहान्य् अहर् अहः शस्य एक भूयसीः शस्त्वा मैत्रावरुणो दूरोहणम् रोहेत् । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१४ सम्पात सूक्त एकाही भवत्सु । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१५ न ह्य् एकाही भवत्स्व् अहर् अहः शस्यानि । न आरम्भणीया न कद्वन्तः । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१६ कद्वताम् स्थाने नित्यान् प्रगाथान् शस्त्वा सम्पातवत्स्व् अहीन सूक्तानि इतरेषु ततो अन्त्यान्य् ऐकाहिकानि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१७ सम्पातवत्सु तु सर्व स्तोमेषु प्राकृते वा एकाहे अहीन सूक्तान्य् आदितस् तृतीयानि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१८ साम सूक्तानि साम प्रगाथानि सर्व पृष्ठेषु पृष्ठानि । (सोम पृष्ठ्य षडह षष्ठम् अहः)
८.४।१९ पृष्ठे संस्थाः । (सोम पृष्ठ्य षडहः)
८.४।२० अग्निष्टोमः प्रथमम् । षोळशी चतुर्थम् । उक्थ्या इतरे । (सोम पृष्ठ्य षडहः)(अष् उक् उक् षोड् उक् उक्)
८.४।२१ इति पृष्ठ्यः । (सोम पृष्ठ्य षडहः)
८.४।२२ प्रत्यक्ष पृष्ठः । (सोम पृष्ठ्य षडहः)
८.४।२३ अन्यैः परोक्ष पृष्ठः । (सोम पृष्ठ्य षडहः)
८.४।२४ एतैर् वा उपसृष्टैः । (सोम पृष्ठ्य षडहः)
८.४।२५ वैरूप आदीनाम् अभावे पृष्ठ्य स्तोमः । (सोम पृष्ठ्य षडहः)
८.४।२६ पवमान भाव आपर्क्य पृष्ठ्यः । (सोम पृष्ठ्य षडहः)
८.४।२७ तनू पृष्ठ्यो होतुश् चेत् श्यैत नौधसे । (सोम पृष्ठ्य षडहः)