सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः

अथ छन्दोमाः १ समुद्रा दूर्मिरित्याज्यं । आ वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छानौ नियुद्भिः शतिनीभिरध्वरं प्रसोतां जीरो अध्वरे-ष्वस्थाद्ये वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणास्यूर्द्धन्ना गोमता नासत्या रथेना नो देव शवसायाहि शुष्मिन् प्रवो यज्ञेषु देवयन्तो अर्चन् प्रक्षोदसा धायसा सस्र एवेति प्रउगं २ माध्यन्दिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात् ३ एवमुत्तरयोश्चतुर्थपञ्चमे ४ अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवाय जन्मन इति तृचा एभिरग्ने दुव इति वैश्वदेवं ५ नित्यानि द्विपदासूक्तानि ६ वैश्वानरो अजीजनदित्येका स विश्वं प्रति चाकॢपदृतूनुत्सृजते व्रशी । यज्ञस्य वय उत्तिरन् । वृषापावक दीदिह्यग्ने वैश्वानर द्युमत् । जमदग्निभिराहुतः । प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतं ७


८.९।१ अथ छन्दोमाः । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।२ समुद्राद् ऊर्मिर् इत्य् आज्यम् आ वायो भूष शुचिपा उप नः प्रयाभिर् यासि दाश्वांसम् अच्छा आ नो नियुद्भिः शतिनीभिर् अध्वरम् प्र सोता जीरो अध्वरेष्व् अस्थाद् वायव इन्द्रमादनासो या वम शतम् नियुतो याः सहस्रम् इत्य् एकपातिन्यः प्रयद् वाम् मित्रा वरुणा स्पर्धन्न् आ गोमता नासत्या रथेन आ नो देव शवसा याहि शुष्णिन् प्र वो यज्ञेषु देवयन्तो अर्चन् प्रक्षोदसा धायसा सस्र एष इति प्रौगम् । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।३ माध्यंदिने सूक्ते विपरिहृत्य इतरयोर् निविदो दध्यात् । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।४ एवम् उत्तरयोश् चतुर्थ पञ्चमे । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।५ अभि त्वा देव सवितः प्रेताम् यज्ञस्य शम्भुवा अयम् देवाय जन्मन इति तृचा ऐभिर् अग्ने दुव इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।६ नित्यानि द्विपदा सूक्तानि । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)
८.९।७ वैश्वानरो अजीजनद् इत्य् एका स विश्वम् प्रति चाक्लृपद् ऋतून् उत्सृजते वशी । यज्ञस्य वय उत् तिरन् । वृषा पावक दीदिह्य् अग्ने वैश्वानर द्युमत् । जमदग्निभिर् आहुतः । प्रयद् वस् त्रिष्टुभम् दूतम् व इत्य् आग्निमारुतम् । (सोम व्यूळ्ह दशरात्र प्रथम छन्दोम अहः)