कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०२

← अध्यायः ०१ कात्यायन-श्रौतसूत्रम्
अध्यायः ०२
कात्यायनः
अध्यायः ०३ →
दर्शपूर्णमासेष्टिः

पूर्वां पौर्णमासीमुत्तरां वोपवसेत् १ अग्न्यन्वाधानमध्वर्युर्यजमानो वा २ ममाग्ने व्वर्च्चो व्विहवेष्वस्तु व्वयं त्वेन्धानास्तन्वं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेमेत्याहवनीये समिधमादधाति ३ तूष्णीं द्वितीयाम् ४ एवमितरयोः ५ महाव्याहृतिभिर्वा प्राक्संस्थम् ६ तूष्णीं वा यथापूर्वम् ७ अहनि मांसमैथुने वर्जयेत् ८ केशश्मश्रु वपते वाऽशिखम् ९ अपराह्णे व्रतोपायनीयमश्नीतः सर्पिषाऽसुहितौ १० अन्तरेणाऽपराग्नी गत्वा परेणा-ऽहवनीयं प्राङ् तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपैत्यग्ने व्रतपत इदमहमिति वा ११ सत्यवाद्यतः १२ कर्माऽङ्गमुत्तरे सत्यवदनम् १३ वृक्षाऽरण्यौषधीनामश्नीयाद्वा १४ आहवनीयगृहशाय्यधो गार्हपत्यस्य वा १५ सद्यो वा प्रातः १६ अग्निहोत्रं हुत्वा ब्रह्माणं ब्रह्मिष्ठं भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७ वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्भूर्भुवस्स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्र्! यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणाम् इति १८ वाचस्पते यज्ञं गोपायेत्याह १९ अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २० अहे दैधिषव्योदतस्तिष्ठाऽन्यस्य सदने सीद योऽस्मात्पाकतर इति ब्रह्मसदनमीक्षते २१ ब्रह्मसदनात्तृणं निरस्यति निरस्तः पाप्मा सह तेन द्विष्म इति २२ १ 2.1

इदमहं बृहस्पतेः सदसि सीदामि प्रसूतो देवेन सवित्रा तदग्नये प्रब्रवीमि तद्वायवे तत्पृथिव्या इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १ वाग्यत आऽनुयाजप्रसवात् २ भागपरिहरणादि वा ३ आवृताऽवषट्का-रासु ४ अत्र वा व्रतोपायनम् ५ व्याहृत्य वैष्णवं मन्त्रं जपेत् ६ अध्वर्युश्च ७ प्रणय यज्ञं देवता वर्द्धय त्वं नाकस्य पृष्ठे यजमानोऽस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यजमानं धेहि ॐ प्रणय इति प्रणीताः प्रसौति ८ एवमामन्त्रित ओङ्कारेण प्रोक्ष यज्ञमिति हविषीध्माबर्हिषोश्च ९ बृहस्पते परिगृहाण वेदिं सुगावो देवाः सदनानि सन्त्वस्यां बर्हिः प्रथतां साध्वन्तर्हिंस्रां पृथिवी देवी देव्यस्तु इति वेदिं परिगृह्णन्तम् १० प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् ११ देवता वर्द्धय त्वमिति सर्वत्राऽनुषजति १२ मित्रस्य त्वा चक्षुषा प्रतीक्षेति प्राशित्रं प्रतीक्षते १३ देवस्य त्वेति प्रतिगृह्णाति १४ पथिव्यास्त्वेति सादयाति उपोह्य बर्हीषि १५ पुनरादाय देवस्य त्वेत्यनामिकाऽङ्गुष्ठाभ्यामग्नेष्ट्वेति प्राश्नाति दन्तैर-नुपस्पृशन्नत्र चेत् १६ निदधाति वांऽसदेशे १७ प्रक्षाल्य पात्रं नाभिमालभते या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्र स्य गच्छ घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्र स्य त्वा जठरे सादयामि इति १८ एतं त इति समिदामन्त्रितः प्रसौति १९ प्रतिष्ठेति ब्रुयाद्वा २० कर्माऽपवर्गे समिधमादधाति जुहोत्युपतिष्ठते वा नमः कृताय कर्मणे अकृताय कर्मणे नमः । अयाड यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य सन्वं सनिं सुविमुचा विमुञ्च धेह्यस्मभ्यं द्र विणं जातवेदः स्वाहा इति यथेतमेत्य । एतदब्रह्मत्वमिष्टिपश्वोः २२ २ 2.2

गार्हपत्यमुत्तरेणोदपात्रं निधायाऽलभते भूतस्त्वा भत करिष्यामीति १ ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याह २ अनुज्ञान उत्तरेणाऽहवनीयं सम्प्रति निदधाति कस्त्वेति ३ कांस्यवानस्पत्यमार्तिकैरभिचारब्रह्मवर्च-सप्रतिष्ठाकामा यथासङ्ख्यम् ५ तॄणैरग्नीन्परिस्तीर्य पुरस्तात्प्रथमं द्विशः पात्राणि संसादयति ६ यजमानो वा ७ शूर्पाऽग्निहोत्रहवणि स्फ्यकपालं शम्याकृष्णाजिनमुलूखलमुसलं दृषदुपलमर्थवच्च ८ श्रपणस्य पश्चादुत्तरतो वा ९ कर्मणे वाम् इति शूर्पाऽग्निहोत्रहवण्यादाय वाचं यच्छति १० प्रतपनं प्रत्युष्टं निष्टप्तमिति वा ११ गच्छत्युर्वन्तरिक्षमिति श्रपणस्य पश्चादनस्तिष्ठत्समङ्गि १२ धूरसीति धूरभिमर्शनम् १३ देवानामि-त्युपस्तम्भनस्य पश्चादीषाम् १४ विष्णुस्त्वेत्यारोहणम् १५ प्रेक्षत उरु वातायेति हविष्यान् १६ अपहतमिति निरस्यत्यन्यत् १७ अविद्य-मानेऽभिमृशेत् १८ यच्छन्तामित्यालभते १९ देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीन् २० एवमग्नीषोमीयम् २१ यथादेवतमन्यत् २२ भूताय त्वा इति शेषाऽभिमर्शनम् २३ स्वरिति प्राङीक्षते २४ दृंहन्तामित्यवरोहति २५ गच्छत्युर्वन्तरिक्षम् इति २६ श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वेति २७ पात्र्! यां वा स्फ्योपहितायाम् २८ धूरीषाऽरोहणानि पात्रीबिले जपति २९ दृंहन्तामित्युत्थानम् ३० कुशौ समावप्रशीर्णाऽग्रावनन्तर्गर्भौ कुशै-श्छिनत्ति पवित्रे स्थ इति ३०-१ त्रीन्वा ३१ हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति सवितुर्व इति ३२ ता स्थानं तयोः ३३ सव्ये कृत्वा दक्षिणेनोदिङ्गयति ३४ प्रोक्षिता स्थ इति तासां प्रोक्षणम् ३५ हविश्चाऽग्नये त्वाऽग्नीषोमाय त्वेति ३६ यथादेवतमन्यत् ३७ पात्राणि दैव्यायेति ३८ असञ्चरे प्रोक्षणीर्निधाय ३९ ३ 2.3

शर्माऽसीति कृष्णाजिनमादत्ते १ अपेत्य पात्रेभ्योऽवधूनोति २ प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति ३ सव्याऽशून्ये निदधात्युलूखल-मद्रि रसि ग्रावाऽसीति वा ४ प्रति त्वेत्युभयोः ५ हविराज्पत्यग्नेस्तनूरसीति ६ वाचं विसृजते ७ यजमानश्च ८ हविष्कृता वा ९ नानाबीजेष्वन्त्ये सामर्थ्यात् १० बृहद्ग्रावेति मुसलमादत्ते ११ स इदमित्यवदधाति १२ हविष्कृदेहीति त्रिराह्वयति १३ अतः पत्न्यवहन्ति अन्यो वा १४ आह्वयत्याहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलाम् १५ वर्षवृद्धमसीति शूर्पमादत्ते १६ प्रतित्वेति हविरुद्वपति १७ परापूतमिति निष्पुनाति १८ अपहतमिति तुषान्निरस्यति १९ वायुर्व इति अपविनक्ति २० देवो व इति पात्र्! यामोप्याऽभिमन्त्रयते २१ त्रिः फलीकरोति देवेभ्यः शुन्धध्वं देवेभ्यः शुन्धध्वमित्येके २२ फलीकृत्य कणान्निदधाति २३ पेषणोपधाने युगपत् २४ धृष्टिरसीति उपवेषमादायाऽपाग्ने इति अङ्गारान्प्राचः करोति २५ आ देवयजमित्यङ्गारमाहृत्य कपालेनाऽवच्छा-दयति ध्रुवमसीति २६ अमुष्येति द्विषच्छद्वेऽभिचरन् २७ अन्यत्राऽपि २८ सव्याऽङ्गुल्याऽशून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति २९ धरुणमिति पश्चात् ३० पुरस्ताद्धर्त्रमिति ३१ विश्वाभ्य इति दक्षिणतः ३२ समं विभज्य द्वे दक्षिणतः एवमुत्तरतश्चितस्थ इति ३३ तूष्णीं वा ३४ एवमेकादशाऽग्नीषोमीयस्य ३५ अधिकं दक्षिणतः ३६ भृगूणामित्यङ्गारैरभ्यूहति ३७ ४ 2.4

उपसर्जनीर धिश्रयति १ कृष्णाजिनमादत्ते २ तस्मिन्दृषदं धिषणाऽसीति ३ पश्चाच्छम्यामुपोहत्युदीचीं दिव इति ४ दृषद्युपलां धिषणाऽसीति ५ धान्यमसीति तण्डुलानोप्य पिनष्टि प्राणाय त्वेति प्रतिमन्त्रम् ६ दीर्घामिति प्रोहति ७ चक्षुषे त्वेतीक्षते ८ पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम् ९ पात्र्! यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति १० श्रपणस्य पश्चा-दुपविशत्यन्तर्वेदि वा ११ उपसर्जनीरानयत्यन्यः १२ पवित्राभ्यां प्रति-गृह्णाति समाप इति १३ संयौति जनयत्यै त्वेति १४ समं विभज्या-ऽसंहरिष्यन्नालभत इदमग्नेरिदमग्नीषोमयोरिति १५ यथादेवतमन्यत् १६ इषे त्वेत्याज्यमधिश्रयत्यन्यः १७ अपत्नीकस्याऽहवनीये तच्छ्रापिणः १८ घर्मोऽसीति पुरोडाशौ युगपत् १९ उरु प्रथा इति प्रथयति याव-त्कपालमनतिपृथुम् २० अग्निष्ट इत्यद्भिर्मृशति सकृत् त्रिर्वा २१ पर्यग्निकरोति अन्तरितं रक्षोऽन्तरिता अरातय इति सहाऽज्यम् २२ देवस्त्वेति श्रपणम् २३ मा भेरित्यालभते २४ अतमेरुरिति शृताव-भिवासयति भस्मना वेदेनोपवेषेण वा २५ पात्र्! यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति अभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रम् २६ अन्वाहार्यं दक्षिणाग्नावधिश्रयति २७ अत्र वा व्रतोपायनम् २८ ५ 2.5

अपरेणाऽहवनीयं वेदिं खनति त्र्! यङ्गुलखातां व्याममात्रीं पश्चात् त्र्! यरत्निं प्राचीमपरिमितां वा प्राक्प्रवणामुदग्वा मध्यमसङ्गृहीतामभितॐऽसौ १ आमूलोच्छेदनादोषधीनाम् २ ओषधीनां मूलान्युच्छेत्तवै ब्रूयात् ३ आहा-र्यपुरीषां पशुकामस्य ४ वेदिं परिसमूह्य वितृतीयेऽग्नीदुत्तरत उत्करं करोति ५ देवस्य त्वेति स्फ्यमादाय सतृणं सव्ये कृत्वा दक्षिणेनाऽलभ्य यपति इन्द्र स्य बाहुरिति ६ नोपस्पृशेत्पृथिव्यात्मानौ तेन स्तम्बयजुर्हरिष्यन् ७ वेद्यां तृणं निदधात्युदक् पृथिव्यै वर्माऽसीति ८ पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरति ९ व्रजं गच्छेति पुरीषमादत्ते । वर्षतु त इति वेदिं प्रेक्षते । बधानेत्युत्करे करोति । प्रहरणशेषो वाऽविशेषोपदेशात् १३ अपाररुमिति द्वितीयं प्रहरणादि १४ अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति १५ द्र प्सस्ते इति तृतीयम् १६ तूष्णीं चतुर्थं सतृणम् १७ पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्फ्येन गायत्रेणेति प्रतिमन्त्रम् १८ वेद्यां त्रिरुल्लिख्याऽह हर त्रिरिति १९ हृत्वाऽग्नील्लेखाः संमृशति २० पितृयज्ञाऽग्निचित्ययोर्वा तत्र दर्शनात् २१ अत्र वेदिकरणं यथोक्तम् २२ उत्तरं परिग्रहं परिगृह्णाति । सूक्ष्मास्योनोर्जस्वतीति प्रतिमन्त्रम् २३ पुरा क्रूरस्येत्यनुमार्ष्टि २४ अध्यधिवेदि प्रोक्षणीर्धारयति २५ अन्योऽथ स्फ्यमुद्यम्याह प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं सन्नह्याऽज्येनोदेहीति यदीच्छेत् २६ यथाप्रेषितमन्यः २७ स्वयं वा-ऽविरोधात् २८ सम्प्रषावचनाच्च २९ प्राक् स्तरणाद्वेदिं नाऽवमृशेत् ३० शृतानि च हवींष्याप्रचरणात् ३१ अङ्गुष्ठाऽङ्गुलिभ्यां मांससहिताभ्या-मवद्यन्त्येके ३२ आपन्नं स्तृणन् निरस्येत् ३३ द्विषतो वध इति स्फ्यमुदञ्चं प्रहरति ३४ अवनिज्य पाणी अपरेण प्रणीता स्फ्यं निदधाति ३५ इध्मा बर्हिश्च ३६ पूर्वमिध्मम् ३७ प्रणीता दक्षिणत वाऽहृत्य ३८ स्रुवं प्रतप्य पूर्ववद्वेदाग्रैरन्तरतः प्राक्सम्मार्ष्टि अनिशित इति विपर्यस्य बर्हिर्मूलैः प्राङ्गुत्क्रम्य ३९ प्रतप्य प्रतप्य प्रयच्छति ४० अनिशितेति स्रुचः ४१ तूष्णीं प्राशित्रहरणं शृताऽवदानं पात्री च ४२ सम्मार्जनान्यपास्यति ४३ आहवनीये प्रासनमेके ४४ ६ 2.6

पत्नीं सन्नह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधीवासोऽदित्यै रास्नेति १ दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्प इति २ न ग्रन्थिं करोति ३ ऊर्जे त्वेत्याज्यमुद्वास्य पत्नी-मवेक्षयति अदब्धेनेति ४ वेद्यां करोत्यपरं प्रोक्षणीभ्यः ५ आहवनीये वा कृत्वा तच्छ्रापिणः ६ सवितुस्त्वेत्याज्यमुत्पुनाति प्रोक्षणीश्च पूर्ववत् ७ आज्यमवेक्षते तेजोऽसीति यजमानो वा ८ स्रुवेणाऽज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रः ९ अष्टावुपभृत्यल्पीयोऽनुयाजाश्चेत् १० चतुरन्यत्र प्रतिविभागात् ११ पश्वातिथ्याऽदर्शनाच्च १२ न कृत्स्नोपदेशात् १३ पश्वातिथ्ययोर्वचनात् १४ ध्रुवायां च जुहूवत् १५ इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्तादग्रन्थिं कृष्णोऽसीति प्रतिमन्त्रम् १६ शेषं मुलेषूपसिञ्चत्यदित्यै व्युन्दनमिति १७ पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति १८ ब्रह्मणे प्रदाय सन्नहनं विस्रंस्य दक्षिणस्यां वेदिश्रोणौ निधायाऽन्यैरवच्छाद्य वेदिं स्तृणात्यू-र्णम्रदसमिति त्रिवृत् १९ उपपत्या वा बहुलम् २० अधरमूलम् २१ पश्चादपवर्गम् २२ प्रबृहं वा २३ अत्रोद्वासनमाहवनीयश्रापिणः २४ इध्मात्समिधमादायाऽहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन् २५ उल्मुके उदूहत्यनुयाजाश्चेत् २५ ७ 2.7

परिधीन्परिदधात्यार्द्रार्नेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकार्ष्मर्यबैल्वान्पूर्वालाभ उत्तरान् खादिरौदुम्बरान्वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् १ प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति २ अनुपस्पृश्य द्वितीयां समिदसीति ३ सूर्यस्वेति जपति आहवनीयमीक्षमाणस्तद्वचनत्वात् ४ आवृत्य वेदिं बर्हिषस्तृणे तिरश्ची निदधाति सवितुरिति ५ अन्ये वाऽयुक्तत्वात् ६ अन्यत्राऽपि गृणार्थे ७ यूपाञ्जने च सर्पिः ८ पुरोडाशपयस्याधानासु चेच्छन् ९ तयोः प्रस्तरं स्तृणात्यूर्णम्रदसमिति १० अभिनिदधात्या त्वा वसव इति ११ सव्याऽशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीति १२ एवमितरे उत्तराभ्यां प्रतिमन्त्रं बर्हिष्युपभृतं ध्रुवां चाऽवकृष्टेऽनुपूर्वम् । पुरोडाशावभिघार्योद्वास्योपस्तीर्णे निधायाऽनक्ति यस्ते प्राणः पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मवान् सोम घृतवाह्नि भूत्वाऽग्निं गच्छ स्वर्यजमानाय विन्देति १४ यथादेवतमन्यत् १५ प्रत्यनक्ति कपालानि यानि घर्मे कपालान्युपछिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामिति १६ तूष्णीं वा १७ सङ्ख्ययोद्वासयति १८ प्रियेण धाम्नेति हवींषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते १९ पाहि मामित्यात्मानम् २० अत्र वा व्रतोपायनम् अत्र वा व्रतोपायनम् २१ ८ 2.8
इति कातीये श्रौतसूत्रे द्वितीयोऽध्यायः