कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०३

← अध्यायः ०२ कात्यायन-श्रौतसूत्रम्
अध्यायः ०३
कात्यायनः
अध्यायः ०४ →
दर्शपूर्णमासेष्टिः उत्तरार्धः

होतृषदनं कृत्वाऽपरेण वेदिं श्रोणिं वोत्तरेणेध्मात्समिधमादायाऽग्नये समिध्यामानायाऽनुब्रूहीत्याह १ होतरित्येके २ प्रथमस्थानेन प्राक् स्विष्टकृतः ३ मध्यमेनेडायाः ४ शेषमुत्तमेन ५ सन्तन्वन्निव मेऽनुब्रूहीत्याह यजमानः ६ अङ्गुष्ठाभ्यां चाऽवबाधते पाद्याभ्यां वेदमहममुमवबाध इति द्वेष्यम् ७ अभावे द्विषन्तं भ्रातृव्यमिति वा ८ यावत्सामिधेनि वेदेदमहं तावतिथेन वज्रेणेति ९ प्रतिप्रणवमाधानम् १० समिद्ध इति प्रागतः सर्वमिध्ममेकवर्जमनुयाजाश्चेत् ११ अनुवचनान्ते वेदेनाऽहवनीयं त्रिरुपवाज्य स्त्रुवेण पूर्वमाघारमाघार्याऽह अग्निमग्नीत्सम्मृ-ड्ढीति १२ इध्मसन्नहनैरनुपरिधि सम्मार्ष्टि अग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम् १३ तूष्णीमुपरि १४ अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् १५ अप उपस्पृश्य सुयमे म इति जुहूपभृतावादायोत्तरां जुहूं कृत्वा दक्षिणाऽतिक्रामत्यङ्घ्रिणा विष्णविति १६ परिधीनपरो सञ्चरो होष्यतः १७ सव्येनेतो दक्षिणेनाऽमुतः १८ वसुमतीमित्यवस्थाय १९ १ 3.1

इत इन्द्र इति जुहोत्युत्तराघारम् १ आघार्याऽसंस्पर्शयन् स्रुचावेत्य जुह्वा ध्रुवां समनक्ति सञ्ज्योतिषेति २ निधायेध्मसन्नहनान्यादाय ओश्रावयेत्याह ३ अस्तु श्रौषडिति अग्नीत् ४ वेदिबर्हिरिध्मशकलमपच्छिद्यैके ५ एवं सर्वत्राऽश्रुतप्रत्याश्रुतेषु ६ अथ प्रवृणीते अग्निर्देवो दैव्यो होता देवा-न्यक्षद्विद्वांइ!न्मा!नुष्वद्भरतवत् ७ अमुवदमुवदिति यजमाना-ऽर्षेयाण्याह परस्तादर्वाञ्चि त्रीणि ८ यावन्तो वा मन्त्रकृतः ९ पुरोहिताऽर्षेयेण वा १० क्षत्रियवैश्ययोश्च नित्यम् ११ मनुवदिति वा सर्वेषाम् १२ ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारोऽसौ मानुष इति होतृनामग्रहणम् १३ उपांशु वा १४ सम्मृष्टा उपविशतः १५ अग्निर्होतेति स्रुगादापनं प्रयाजेषु सन्निधेः १६ घृतवतीमित्युक्ते स्रुचावादायाऽति-क्रम्याऽश्राव्याऽह समिधो यजेति पञ्च प्रयाजान्समिध्हतमे १७ यज यजेति शेषम् १८ ध्रुवस्तिष्ठन् १९ पूर्वं पूर्वं वाऽभिक्रामम् २० उपभृतो जुह्वामानयत्यनवमृशंश्चतुर्थम् २१ एवं प्रवृद्धौ २२ अनुयाजेषु च २३ उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति २४ एवं सर्वत्र २५ २ 3.2

नाभिदेशे धारणम् १ प्रयाजाऽनुमन्त्रणमेको ममिका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति २ एवं मिथुनैर्यथासंख्यम् ३ न तस्य किञ्चनेति पञ्चमे ४ त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नाद इति च ५ आगन्तूनां चतुर्थपञ्चमाभ्यां स्थानात् ६ प्रथमचतुर्थाभ्यां वा यथालिङ्गम् ७ सर्वान्वोत्तमेनोपायित्वात् ८ एत्य जुहवाऽभिघारणं ध्रुवाया हविष उपभृतश्च ९ आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन १० चतुरवत्तं सवषट्कारासु ११ अनिधायाऽवदायाऽवदाय ध्रुवामभिघारयत्याप्यायतां ध्रुवा हविषा यज्ञं प्रति देवयड्भ्यः । सूर्याया ऊधो अदित्या उपस्थ उरुधारा पृथिवी यज्ञेऽस्मिन्निति १२ अनुब्रूहीत्युक्त्वा नाऽपव्याहरेद्धोता चाऽश्रावणात् १३ आश्रावितेऽग्नीदाप्रत्याश्रवणात् १४ प्रत्याश्रावितेऽध्वर्युराहोतृप्रैषात् १५ होता आवषट्कारात् १६ सोमे च ग्रहं गृहीत्वोपाकरणात् १७ उपाकृत उद्गातार आहोतृप्रेषात् १८ होता आवषट्कारात् १९ आग्नेयमुत्तरपूर्वार्द्धे दक्षिणपूर्वार्द्धे सौम्यम् २० समिद्धतमे वा २१ हविर्भ्यां च २२ पुरोडाशावन्तरेणाऽग्नीषोमा उपांश्वाज्यस्य २३ विष्णुर्वा अमावास्यायां होत्राऽम्नानात् २४ यावद्धविरुत्तरार्द्धात्स्विष्टकृतः २५ तत एव होमः २६ नाऽज्यादशेषात् २७ असंसृष्टामाहुतिभिः २८ निधाय २९ ३ 3.3

सञ्चरमभ्युक्ष्य प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वाऽन्यतरत आज्यमुभयतो वाऽग्नेयात् १ भागांश्च २ अध्वर्युसञ्चरेण ब्रह्मणे प्रदाय पूर्वणैकेऽप उपस्पृश्येडां पञ्चावत्तां दक्षिणतो मध्याच्च यावद्धविः स्विष्टकृद्वदाज्यम् ३ यजमानभागं पूर्वार्द्धाद्दीर्घं प्रशीर्य पुरस्ताद् ध्रुवायाः करोति ४ इडां होत्रे प्रदाय विसृजन्दक्षिणाऽतिक्रामति ५ इडां प्रतिगृह्य होतुरङ्गुलिपर्वणी अनक्ति ६ अवान्तरेडामादधाति पूर्ववत् ७ इडां च ८ सर्वेऽन्वारभन्ते ९ इडोपहूतेत्युच्यमान आग्नेयं वर्हिषदं करोति ब्रध्न पिन्वरमाऽयुर्मे धुक्ष्व प्रजां मे धुक्ष्व पशून्मे धुक्ष्व ब्रह्म मे धुक्ष्व क्षत्रं मे धुक्ष्व विशो मे धुक्ष्व योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्रजया पशुभिराप्यायस्वेति तं चतुर्द्धा कृत्वा १० बर्हिषि ऋत्विग्भ्य आदिशति ११ उभौ वाऽविशेषात् १२ अत्र पितर इति यजमानो जपति १३ विसृज्याऽमीमदन्तेति १४ एकैकमाहरति १५ द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् १६ प्राश्नात्युपहूता पथिवीति १७ आशासाने मयीदमिति यजमानो जपति १८ उपहूतां प्राश्नति युक्ताः १९ यजमानश्च २० पवित्रयोर्मार्जयन्तेऽपरेण वेदिं सुमित्रिया न इति २१ यजमानस्य प्राणापानौ पातमिति प्रस्तरे ते करोति २२ तूष्णीं वा २३ अत्र वा ब्रह्मा प्राश्नाति २४ भागमस्मै परिहरति २५ यजमानभागं चाऽप्रोषिते २६ अन्वाहार्यमभिघार्योद्वास्याऽन्तरा ब्रह्मयजमानौ हृत्वा वेद्यां निधायाऽलभते प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितिरसि मा मे क्षेष्टाऽमुत्राऽमुष्मिन् लोक इह चेति २७ सा दक्षिणा २८ उदगुद्वासयति हविश्च २९ ४ 3.4

समस्योल्मुके समिधमादाय ब्रह्मन्प्रस्थास्यामि समिधमाधायाग्नि-मग्नीत्सम्मृड्ढीति १ एषा त इति होताऽनुमन्त्रयते २ अजानति यजमानः ३ सम्मार्ष्टि पूर्ववदपरिक्रामं सकृत्सकृत्ससृवांसमिति ४ ब्रह्माऽनुज्ञातो-ऽनुयाजैस्त्रिभिश्चरत्यौपभृतं समानीय ५ अतिक्रम्याऽश्राव्याऽह देवान्यजेति ६ यज्ञ यजेत्युत्तरौ ७ देवान्देवानिति वा सर्वत्र नियमशब्दात् ८ विकृतिदर्शनाच्च ९ प्रतीचो जुहोति १० उपसत्सु च ११ ध्रुवः १२ चतुर्थं समानीय प्राचीम् १३ अभिचरन्ननुयाजाऽनुमन्त्रणम् अशन्यमुं जहि ह्लादुन्यमुं जहि उत्कुष्यमुं जहि इति १४ एवं प्रवृद्धो समं विभजेत् १५ स्वस्थानाऽन्त्येन वोपायित्वात् १६ एत्य जुहूपभतौ व्यूहत्यग्नीषोमयोरिति जुहूं प्राचीं दक्षिणेनोत्तानेनाऽग्नीषोमौ तमितीतरेणेतरां नीचा प्रतीचीम् १७ यथादेवतमन्यत् १८ अध्वर्युर्वाऽनूज्जयत्वयं यजमानो वाजस्यैनमिति पूर्वे यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टीत्युत्तरे १९ अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् २० ५ 3.5

वसुभ्य इति प्रतिमन्त्रम् १ प्रथमं परिधिं गृहीत्वा आश्राव्याऽहेषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति २ पशौ प्रेष्येति ३ सञ्जानाथामिति प्रस्तराऽदानम् ४ विधृती स्थाने कृत्वाऽनक्त्येनं व्यन्तु वय इति ५ अग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम् ६ मरुतामिति नीचैर्हृत्वा तृणमादायाऽनुप्रहरति ७ हस्तेनाऽचरति ८ यजमानभागं च प्रोषिते ९ क्षत्रियवैश्ययोश्च नित्यम् १० अहं त्वदस्मि मदसि त्वमेतन्मम त्वं योनिस्तव योनिरस्मि । ममैव सन्दिवि देवेष्वधि पुत्रः पित्र्! ये लोककृज्जातवेदः स्वाहेति ११ सूक्तवाकाऽन्ते १२ अग्नीदाहाऽनुप्रहरेति १३ प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते १४ संवदस्वाऽगानग्नी-दगञ्च्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति एतेषां संवदस्वाऽगञ्छ्रषडित्यग्नीच्छेषमितरो व्यत्यासं ब्रूतः १५ परिधीननुप्रहरति यं परिधिमिति प्रथममितरौ च युगपदग्नेः प्रियमिति १६ स्रुचौ प्रगृह्णाति संस्रवभागा इति संस्रवाञ्जुहोति १७ घृताची इति धुरि निदधात्यनसि चेद् ग्रहणम् १८ स्फ्ये पात्र्! यां चेत् १९ यज्ञ नमश्च त इति वेदिमालभते २० वेदं होता स्रुक्सुर्वमध्वर्युराज्यस्थालीमग्नीदादाय २१ ६ 3.6

पत्नीसंयाजेभ्यो गार्हपत्यं गच्छन्ति १ अध्वर्युः पूर्वदक्षिणेन गार्हपत्यमेत्य पूर्वेणाऽपरेणान्तरेण पत्नीमिकेषाम् २ उपविश्य दक्षिणं जान्वाच्य ३ एवं सर्वत्रोपविष्टहोमेषु ४ उपांशु चरन्ति ५ चरणशब्दे सर्वे देवताऽन्यत्र ६ यजति सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति ७ तृतीयेऽन्तर्धानं पुरस्तात् ८ पत्न्यन्वारभतेऽध्वर्युम् ९ शंय्वन्तं भवतीडान्तं वा १० शंय्वन्ते वेदतृणमादायाऽनक्ति प्रस्तरवत्स्रुचि स्रुवे स्थाल्यां च ११ अग्नीदा-हाऽनुप्रहरेति १२ प्रास्य तृणादि पूर्ववत् १३ शंय्वन्ते प्रगृह्णात्यग्नेऽदब्धायो इति १४ सव्येनाऽवृत्य दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च १५ उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले उत्प्रुषो विप्रुषः संजुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहेति पिष्टलेपाञ्जुहोति १६ ७ 3.7

पत्नी वेदं मुञ्चति वेदोऽसीति योक्तम् १ प्र मा मुञ्चामि वरुणस्य पाशाद्येन मा बध्नात्सविता सुशेव । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधात्विति २ स्तृणात्यावेदेः ३ ध्रौवं समिष्टयजुर्जुहोति देवा गातुविद इति ४ बर्हिः सम्बर्हिरिति ५ वेद्यां प्रणीता निनयति परीत्य कस्त्वेति ६ पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनं रक्षसामिति ७ पूर्णपात्रं निनयति परीत्य सन्ततं यजमानोऽञ्जलिना प्रतिगृह्णाति संवर्चसेति ८ मुखं विमृष्टे ९ विष्णुक्रमान् क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा १० अस्मादन्नादिति भागमवेक्षते ११ अस्यै प्रतिष्ठायै इति भूमिम् १२ अगन्म स्वर् इति प्राङ् १३ सञ्ज्योतिषेत्याहवनीयम् १४ स्वयम्भूरिति सूर्यम् १५ वर्चोदा इति यं वा कामं कामयते १६ सूर्यस्येत्यावर्तते प्रदक्षिणम् १७ ग्रहग्रहण-प्रतिगरहोमेषु च १८ गार्हपत्यमुपतिष्ठते गृहपत इति शतं हिमा इति ब्रूयाद्वा १९ सूर्यस्येत्यावर्तते प्रदक्षिणम् २० गच्छति प्राङुरु विष्णविति २१ ततोऽसि तन्तुरस्यनु मा तनुह्यस्मिन्यज्ञेऽस्यां साधुकृत्यायामस्मिँ ल्लोक इदं मे कर्मेदं वीर्यं पुत्रोऽनु सन्तनोत्विति पुत्रस्य नाम गृह्णाति २२ आत्मनोऽविओद्यमाने तन्तवे त्वा ज्योतिषे त्वेति वा २३ आहवनी-यमुपतिष्ठते तूष्णीम् २४ व्रतं विसृजते येनोपेयात् २५ सं यज्ञपतिराशिशेति भागं प्राश्नाति २६ ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयतीति श्रुतेः २७ ८ 3.8
इति कातीये श्रौतसूत्रे तृतीयोऽध्यायः ३