कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०८

← अध्यायः ०७ कात्यायन-श्रौतसूत्रम्
अध्यायः ०८
कात्यायनः
अध्यायः ०९ →
अग्निष्टोमः

आतिथ्यं निर्वपति वैष्णवं नवकपालम् १ पत्न्यन्वारब्धस्तूर्णमेकविमुक्ते वा निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रम् २ सावित्रनिवृत्तिः श्रुति-विरोधाभ्याम् ३ अग्न्यन्वाधानव्रतोपयनाऽऽरण्यभोजनदानब्रह्मवरणादीनि दीक्षणीयाप्रभृति प्रागुदवसानीयायाः सोमे कृतत्वात् ४ पत्नीसन्नहनं च सयोक्त्रायाः ५ यजमानभागश्च भक्षप्रतिषेधात् ६ न कर्मगुणत्वात् ७ उपसर्जनीरधिश्रयाति मदन्तीश्च व्रतवत् ८ आमुष्टिविसर्गादुदकार्थस्ततः ९ कार्ष्मर्यमयाः परिधय आश्वबालः प्रस्तर ऐक्षव्यौ विधृती बर्हिश्च १० एतदेवाऽग्नीषोमीयोपसत्स्वपि चतुष्टयम् ११ आसाद्याऽग्निमन्थनमाहो-मात्करोति १२ इडान्तं भवति १३ ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति १४ द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति शक्वन ओजिष्ठायेति १५ गृह्णामीति सर्वत्र साकाङ्क्षत्वात् १६ पूर्वशेषौ वोत्तरौ १७ प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः १८ तानूनप्त्रमेतत् १९ दक्षिणस्यां वेदिश्रोणौ निधायाऽवमृशन्त्यृत्विजो यजमानश्चाऽनाधृष्टमिति २० अद्रो हस्तेभ्यो न सतानूनप्त्रिणे द्रो ग्धव्यमिति श्रुतेः २१ १ 8.1

पल्यङ्गय निदधात्यपिधायाऽमृन्मयेन १ अपराह्णे व्रतमिश्रं दीक्षिताय प्रयच्छति २ बृहुषु गृहपतये ३ अग्ने व्रतपा इत्याहवनीये समिधमादाय मदन्तीरुपस्पृश्य गाढतरं मुष्टिमेखलं कुरुते ४ पत्नी च गार्हपत्ये तूष्णीम् ५ मदन्तीरुपस्पृश्य यजमानषष्ठाः सोममाप्याययन्त्यंशुरंशुरिति ६ आज्यमालभ्योपस्पृशेदपः सोममालिप्स्यमानस्तथा विपर्यस्य ७ प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय इति ८ व्यूहनपरिध्यञ्जने कृत्वैके ९ समुल्लुप्य प्रस्तरमक्त्वा परिधींश्चाऽदायाऽहाग्नीन्मदन्त्याप इति १० मदन्तीत्यग्नीत् ११ ताभिरेहीति ब्रुवन्नध्यध्याहवनीयं हृत्वा-ऽभ्युक्ष्याऽग्नीधे प्रयच्छति निधानाय १२ सुब्रह्मण्यां च प्रेष्यति १३ प्रवर्ग्योपसदावतः १४ उपसदेव वाऽप्रवर्ग्ये १५ प्रणीताद्युपसत् १६ हविष्कृतमाहूयाऽनाहननमपेषणे तीक्ष्णार्थत्वात् १७ स्याद्वा धर्ममात्रत्वात् १८ श्रुतेश्च १९ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति २० बर्हिषः प्रच्छेदं हरति २१ मदन्तीरिति वा प्रेष्यति २२ मात्रावदिध्माबर्हिः २३ स्रुवतृतीयाः स्रुचः संमाष्टि २४ अष्टगृहीतं जुह्वां चतुरुपभृति २५ यथाप्रकृति वा २६ एकवृत्स्तरणम् २७ आज्यस्थाली ध्रुवार्थे २८ स्रुवाघारमाघार्य संमृष्ट आश्राव्य सीद होतरित्येव ब्रूयात् २९ प्रसूतोऽतिक्रमन्नग्नयेऽनुवाचयति ३० अर्द्धं हुत्वा सोमाय विष्णवे समानीय ३१ सादयित्वा स्रुचौ सोमाऽप्यायनाद्या-सुब्रह्मण्याप्रैषात् ३२ अक्त्वा प्रस्तरमुपसदं जुहोति स्रुवेण या त इत्ययः-शयामन्वारब्धे ३३ द्विरेकया चरति ३४ सुसायं सुपूर्वाह्णे च ३५ एवमितरे अन्वहं रजःशयां हरिशयां च ३६ एकाहस्व्युपसत्कः ३७ द्व्डश वा ३८ २ 8.2

त्रिस्तनं प्रथमायां दोहयति १ एकापचयेनोतरयोः २ विपर्यस्य वाऽनग्निचित्ये ३ एवं प्रवृद्धौ समं विभजेत् ४ स्वस्थानविवृद्धिः ५ औपवसथ्यात्पूर्वेऽहनि पौर्वाह्णिक्या प्रचर्य वेदिं मिमीते ६ पूर्वार्द्ध्यात्स्तम्भात्पुरस्तात् त्रिषु प्रक्रमेषु शङ्कुं निहन्ति सोऽन्तःपात्यः ७ तस्मात्पुरस्तात्षट्त्रिंशति ८ दक्षिणोत्तरौ च पञ्चदशसु पञ्चदशसु ९ अर्धसप्तदशेषु वा १० पूर्वार्द्ध्याच्च द्वादशसु द्वादशसु ११ पृष्ठ्यामायम्य स्फ्यादि करोति खादिरेणाऽच्छादनात् १२ उपरवदेशात्स्तम्बयजुर्हरति १३ उत्तरांसात्पश्चादध्यर्धे पदे चात्वालम् १४ यथोक्तं वा १५ प्रातरुपसदौ समस्य पौर्वाह्णिक्या प्रचर्याऽर्द्धव्रतं प्रयच्छति १६ सर्वं वाऽग्नौ १७ उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति यथोक्तं कुर्याच्चेत् १८ अग्निं प्रणयत्यॐपनि-वपनात्कृत्वा हविर्धाने स्थापयति पृष्ठ्यामुभयतो द्व्यरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावर्त्त्य वर्पीयो दक्षिणम् १९ तयोश्छदिरध्यस्यति २० भित्तिं वाऽभावे २१ अन्यत्राऽपि २२ रराट्यां पुरस्तादासजत्यैषीकीम् २३ उच्छ्रायीभ्यां परिवार्य छदिः पश्चाच्च २४ चतुर्गृहीतं शालाद्बार्ये जुहोति युञ्जत इति २५ स गार्हपत्योऽतः २६ अपरं दक्षिणे वर्त्मनि दक्षिणस्याऽनसो हिरण्यं निधायाऽभिजुहोतीदं विष्णुरिति २७ दक्षिणया द्वाराऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति पराग्देवश्रुताविति युगप-त्तद्वचनत्वात् २८ भेदे मन्प्रावृत्तिः सान्निपातितत्वात् २९ स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति पूर्ववत् ३० पत्नी चाऽपरेणाग्नीन्परी-त्योत्तरस्याऽनक्ति पूर्ववत् ३१ ३ 8.3

हविर्द्धानाभ्यां प्रवर्त्त्यमानाभ्यामनुवाचयति १ त्रिरुक्तायामुद्गृह्येव वर्त्तनम् २ प्राची प्रेतमिति वाचयति ३ स्वं गोष्ठमिति च खर्जति ४ पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्वा वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति ५ उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नु कमिति ६ दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वा इति ७ दिवो वेत्त्युत्तरं प्रतिप्रस्थाता ८ उत्तरतः स्थूणां पूर्ववत् ९ उभे वा दक्षिणतः १० इतरतस्ततः ११ यदु च मानुष इति श्रुतेः १२ प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्य १३ उत्तरे च १४ विष्णो रराटमिति रराट्याम् १५ विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्यौ १६ उदगग्राणि छदींषि पश्चाच्छ्रुतेः १७ द्वार्याः परिषीव्यति लस्पूजनिप्रतिहृतया रज्ज्वा विष्णोः स्यूरसीति १८ विष्णोर्ध्रुवोऽसीति ग्रन्थिं करोति १९ उपक्रान्ते प्रमुञ्चति २० प्राग्वंशं हविर्द्धानम् २१ निष्ठाप्य वैष्णवमसीत्यालभते २२ भोजनभक्षणे चाऽस्मिन्न कुर्युः २३ अद्वारेण सदोहविर्द्धाने प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति २४ पृष्ठ्यामुभयतो द्वार्ये २५ दक्षिणस्याऽनसोऽधः प्रउगं खनत्युपरवान् २६ ४ 8.4

अभ्र्यादि करोत्यवटवदापरिलेखनात् १ चतुरः २ अक्ष्णया व्याघारणवत् ३ उत्तराऽपरं वा प्रथमम् ४ सम्यग्वा ५ उत्तरपूर्वं त्वन्त्यम् ६ प्रादेश-मात्रांस्तदन्तरान् ७ बृहन्नसीति यथापरिलिखितं खनति ७ इदम-हमित्युत्किरति यथाखातं प्रतिमन्त्रम् ८ उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः ९ बाहुमात्रान् १० अक्ष्णया सम्भिन्द्यादशक्तौ सम्यक् ११ स्वरा-डित्यवमर्शयति यथाखातं प्रतिमन्त्रम् १२ अध्वर्युयजमानौ सम्मृशेते पूर्वदक्षिणेऽध्वर्युरपरोत्तरे यजमानः १३ अध्वर्युः पृच्छति यजमान किमत्रेति १४ भद्र मित्याह १५ तन्नौ सहेत्यध्वर्युरुपांशु १६ पुनर्दक्षिणापरेऽध्वर्युः पूर्वोत्तरे यजमानो यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्र मिति प्रोक्ते तन्म इति यजमानः १७ प्रोक्षत्येनान् रक्षोहण इति १८ भेदे मन्त्रावृत्तिः सान्निपातित्वात् १९ अवनयनाऽवस्तरणे चाऽवटवद्र क्षोहणो रक्षोहण इति २० तनूनुपरि कुशान्कृत्वाऽधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे सन्तृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति २१ तयोश्चर्माधिषवणं परिकृत्तं सर्वरोहितं निदधाति वैष्णवमसीति २२ तस्मिन् ग्राव्णः पञ्च वैष्णवा स्थेति २३ खरं पुस्तात्करोत्युद्धताऽवोक्षिते सिकतोपकीर्णं चतुरश्रम् २४ अन्तःपात्यात्षट् प्रक्रमान्प्राङ् यात्वा दक्षिणा सप्तमं महान्तं २५ तत्रौदुम्बरीं मिनोति यजमानमात्रीम् २६ यूपवच्छेते २७ अभ्र्यादि करोत्याऽवस्तरणात् २८ उद्दिवमित्युच्छ्रयति २९ द्युतान इति मिनोति ३० पर्यूहणाद्योपसेचनात्कृत्वा ध्रुवाऽसीति वाचयत्यौदुम्बरी-मालम्भ्य प्रजया भूयादिति पशुभिरिति वा ३१ स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति भूमिप्राप्ते स्वाहा करोति सर्वत्र मन्त्रवत्सु जुहोत्युपदेशात् ३२ अनाम्नातप्रतिषेधाच्च ३३ ५ 8.5

नाभिदघ्नं सदः १ मत्या वा २ उदग्वंशम् ३ अष्टादशारत्न्येकविंशतिश्चतुर्विंशतिर्वा ४ नव तिर्यगर्धायामो वा ५ औदुम्बरीं मध्ये पृष्ठ्यामेके ६ इन्द्र स्य च्छदिरिति मध्यमं च्छदिरारोप्याऽपरपूर्वे च ७ त्रिवर्गौ चोत्तरतः ८ परित्वेति परिवार्य परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैः ९ हविर्द्धानापरान्तमुत्तरेणाऽग्नीध्रमग्न्यगारद्वारमन्तर्वेद्यर्द्धं भूयः सर्वं वा १० निष्ठाप्य वैश्वदेवमसीत्यालभते ११ धिष्ण्यान्निवपत्युद्धताऽवोक्षिते पुरीषं निवपति स्फ्येनाऽन्वारब्ध उदङ्ङुपविश्य विभूरसीति प्रतिमन्त्रम् १२ आग्नीध्रीयं पूर्वम् १३ सिकताश्चोपरि १४ रौद्रे णेति सर्वत्र १५ षट् सदसि १६ प्रत्यङ्मुखो द्वारमपरेण होतुः १७ दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य १८ होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम् १९ आग्नीध्राद्दक्षिणं सम्प्रति वेद्यन्ते दक्षिणामुखो मार्जालीयम् २० सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरि-ब्रह्मासनशालाद्वार्यप्राजहितान्त्सम्म्राडसीति प्रतिमन्त्रम् २१ उत्करं स-मूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठेति २२ परिस्तरणपात्रसंसादन-प्रोक्षणाऽज्यनिर्वपणानि कृत्वोत्तरपरिग्रहादि करोति २३ अन्तःपात्य-सहितम् २४ बर्हिरन्तं प्रेष्यति । तत्र सर्वमासादयति २५ अत्रैव प्रोक्षणम् २६ इध्मं निधायाऽग्नीषोमीयाय वेदेः स्तरणमग्रहणं प्रस्तरस्याऽपराह्णे २७ अर्द्धव्रते प्रत्ते प्रविश्य प्रणयनीयाऽधानम् २८ आज्याऽधिश्रयण-स्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वा शालाद्बार्यमपरेणाऽस्ते यजमान उपस्थे सोमं कृत्वा २९ शालाद्वार्यमपरेण सोमक्रयणीपदं परिकिरति ३० चतुर्द्धैके आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याऽक्षोपाञ्जने च ३१ आज्य-प्रोक्षणीरन्तःपात्यदेशे उत्पूय पश्वाज्यग्रहणम् ३२ धारयन्त्याज्यानि ३३ अपिव्रताश्चाऽन्वारभन्ते यजमानम् ३४ वाससा छादयत्येनान् ३५ चरत्सु नाऽद्रि येत ३६ ६ 8.6

प्रदीप्तमिध्मं त्वं सोमेति प्रचरण्याऽभिजुहोति १ जुषाणो अप्तुरिति द्वितीयाम् २ अग्नये प्रह्रियमाणायाऽनुवाचयति ३ सोमाय प्रणीयमानायेति वा ४ आहवनीयं गच्छन्त्यादाय ग्रावद्रो णकलशसोमपात्राणीध्मचतुष्टयं च सन्नद्धं वपाश्रपण्यौ रशने शकलवृषणमरणी च ५ अग्ने नयेति वाचयति ६ उत्तरेण सदो हृत्वाऽग्नीध्रेऽग्निं निदधाति ७ ग्रावद्रो णकलशसोमपात्राणि च ८ अयन्न इति जुहोत्यस्मिन् ९ उत्तरेण परिक्रम्याऽहवनीयस्योत्तरतो निदधात्यन्यदाज्यसोमवर्जम् १० धिष्ण्याऽव्यवायोऽध्वर्योः ११ इध्म-प्रोक्षणादि करोति १२ खरोत्तरार्द्ध एकवृत्स्तरणं पश्चाद्वोत्तरवेदेः १३ आऽहवनीयेक्षणात्कृत्वोरु विष्णविति जुहोति १४ पुरस्ताद्वा समिधा-वाधायेति श्रुतेः १५ आसाद्याऽज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्त्सोमं निदधाति देव सवितरिति १६ एतत्त्वमिति विसृज्योपतिष्ठते १७ स्वाहा निरिति निष्क्रम्याऽग्ने व्रतपा इत्याहवनीये समिधमाधाय मदन्तीरुपस्पृश्याऽङ्गुलीर्विसृजते १८ पत्नी च गार्हपत्ये तूष्णीं मदन्ती-रुपस्पृश्य १९ चात्वाले मदन्तीः कृत्वा २० नामग्रहणभोजने अस्यातः कुर्वन्ति २१ व्रत्यनिवृत्तिः २२ हविःशेषभक्षः २३ अग्नीषोमीयोऽतः पशुः २४ तद्देवत्यः पशुपुरोडाशः २५ ७ 8.7

अभ्र्यादि करोति १ दक्षिणेन हविर्द्धानं पश्विडां हरति २ गुदतृतीयं च ३ मार्जालीयं दक्षिणेन जाघनीम् ४ प्रत्याहृत्य वा सोमाऽहवनी-ययोरव्यवायात् ५ यूपैकादशिनी चेद्र थाक्षमात्राण्यन्तराणि ६ पूर्वार्द्ध वा समं विभज्य ७ पक्षसम्मिता वाऽग्नौ ८ यूपाहुत्यभ्र्यादा-नयवाऽवपनानि सकृत् ९ भेदेनाऽन्यत्सान्निपातित्वात् १० मध्यमं परि-लिख्योत्तरं दक्षिणं वा व्यत्यासमितरान् ११ आऽवटहोमात्करोति १२ अञ्जनाद्याचषालेक्षणात्कृत्वैकैकस्य १३ श्वो वा दक्षिणोत्तराणामव-गूहनान्तमालम्भनाऽसम्भवात् १४ परिवीय मध्यममवगूहनान्तम् १५ अग्निष्ठे चैषां रशनाः परिवेष्ट्य वासयति १६ अभ्यञ्जनप्रभृति करोति १७ यथाखातमुच्छ्रयति १८ वर्षिष्ठो दक्षिणोऽनुपूर्वा इतरे १९ तीव्रसुत्यग्निष्ठः प्राची च २० यथायूपं वेदिवर्द्धनम् २१ वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति २२ प्रोक्षणाद्याऽवगूहनात्करोत्यनर्थलुप्तम् २३ अनुच्छ्रित्य वोत्तरम् २४ यथोच्छ्रितं सवनीयानालभत एकतृणेनोपाकृत्या-ऽग्नेयसारस्वतसौम्यपौष्णबार्हस्पत्यवैश्व देवैन्द्र मारुतैन्द्रा ग्नसावित्रवारुणान् २५ एकयूपे पश्वेकादशिन्यामाग्नेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः २६ आग्नेयः प्रथमो गच्छत्यन्वारब्धोऽनुपूर्व्या इतरे २७ दक्षिणं च निघ्नन्त्येनमुत्तरमितरान् २८ समानमुपप्रेष्यपरिपशत्ये संज्ञपयाऽन्व-गन्प्रोक्षण्युल्मुकाऽसिशामित्राऽन्तर्द्धानप्रच्छेदस्तोकसंप्रैषशामित्राऽनुशासनसंवादवनस्पतिस्विष्टकृदिडादिग्व्याधारणं समासिच्य प्रभूतत्वात् २९ उखाशूलं वपाश्रपण्यौ च ३० न वसासन्देहात् ३१ सौत्रामणीदर्शनाच्च ३२ नाऽविरोधात् ३३ पाकवैषम्यात्सौत्रामण्याम् ३४ मनोतावसाहोमौ पृथक्कालभेदात् ३५ यूपैकादशिन्या वशावपामार्जनान्तं कृत्वा शालाद्वार्ये पत्नीयूपोच्छ्रयणं नाभिमात्रस्य ३६ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनि-र्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति ३७ ८ 8.8

त्वाष्ट्रो बस्तः पर्यग्निकृतमुत्सृजन्ति १ आज्येन संस्थापयन्तीति श्रुतेः २ पशुपर्यग्निकरणाच्च ३ तदन्तं वा कर्मनामधेयात् ४ त्वष्टृवनस्पत्योश्च प्रयाजेष्विज्यादर्शनात् ५ अग्नीषोमीयस्य वपमार्जनान्ते वसतीवरीग्रहणं स्यन्दमानानामनस्तमिते ६ अस्तमितश्चेन्निनाह्यात्पुरेजानश्चेत् ७ अनीजा-नोऽन्यस्यापि समीपाऽवसितस्य पुरेजानस्य ८ उभयाऽभाव उल्कुषीं हिरण्यं वोपर्युपरि धारयन्हविष्मतीरिति ९ अग्नेर्व इति निदधाति शाला-द्वार्यमपरेण १० सुब्रह्मण्यां च प्रेष्यति पैतापुत्रीयाम् ११ आदित्या-ऽभ्ययेऽहुतयामापि १२ दक्षिणाग्निहोमान्तमग्नीषोमीयमस्तमिते संस्थाप्य व्युत्क्रामतेत्याह त्रिः १३ शालाद्वार्यमपरेणाऽस्ते पत्न्युत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा १४ शालाद्वार्यमपरेण वसतीवरीः परिहरति १५ दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्रा ग्न्योरिति १६ आहृत्य स्थाने निदधाति १७ कलशं पत्न्यालभते १८ उत्तरेण परिक्रम्योत्तरस्यां पूर्ववत् १९ मित्रावरुणयोरिति वा २० विश्वेषां देवानामित्याग्नीध्रे २१ सोमं चाऽसन्द्याम् २२ दीक्षितश्च तत्र तां रात्रिं रक्षति २३ सुब्रह्मण्यां च प्रेष्यति २४ परिवाप्यायै दोहनम् २५ आवसथोन्मर्दनाऽलङ्करणदन्तप्रक्षालनान्यध्वर्योरदीक्षितस्याध्वर्योरदीक्षितस्य २६ ९ 8.9

इति कातीये श्रौतसूत्रेऽष्टमोऽध्यायः ८