कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०९

← अध्यायः ०८ कात्यायन-श्रौतसूत्रम्
अध्यायः ०९
कात्यायनः
अध्यायः १० →
अग्निष्टोमः

अपररात्र ऋत्विजः प्रबोधयन्ति १ अप उपस्पृश्य शालाद्वार्ये परिस्तरण पात्रसंसादन प्रोक्षणाऽज्यनिर्वपणाऽधिश्रयण स्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वाऽग्नीध्र उत्पूय पश्वाज्यग्रहणम् २ आज्यान्यादाय सोमं चाऽर्थवच्चाऽहवनीय इध्मप्रओक्षणादि करोति ३ अग्नीषोमीयवत्स्तरणम् ४ आऽज्याऽसादनात् कृत्वेषान्तरेणाऽर्द्धसोममद्रिषु सम्मुखेषु निदधाति हृदे त्वेति ५ विश्वास्त्वामिति विसृज्योपतिष्ठते ६ एतेनाऽहरणं सोमार्थस्या-ऽभिषवे ७ नोद्धहरणं ततो बहिर्द्धाभावात् ८ अभिषुतस्य चाऽनवहरणं कृतत्वात् ९ प्राग्वाचं प्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रात-र्यावभ्योऽनुब्रूहीति समिधमादधत् १० देवेभ्य इत्येके ११ सुब्रह्मण्यां च प्रेष्यति १२ प्रातरनुवाकं जाग्रदुपासीताऽध्वर्युः १३ स्वप्याद्वा १४ अग्नीदैन्द्र मेकादशकपालं निर्वपति हरिभ्यां धानाः पूष्णे करम्भं सरस्वत्यै दधि मित्रावरुणाभ्यां पयस्याम् १५ इन्द्रा य वा हरिपूषसरस्वतिमित्रा-वरुणवते धानादीनि यथासंख्यम् १६ १ 9.1

उन्नेतुः पात्रयोजनम् १ खरोत्तरपूर्वार्द्ध उपांश्वन्तर्यामयोः २ तदपरेण द्विदेवत्यानि प्रत्यञ्चि ४ रास्नावदैन्द्र वायवम् ५ अजकावं मैत्रावरुणम् ६ औष्ठमाश्विनम् ७ दक्षिणपूर्वार्द्धे शुक्रामन्थिनोः ८ दक्षिणं शुक्रस्य ९ आग्रयणस्थाली मध्ये १० दक्षिणोक्थ्यस्थाली सपात्रा ११ तथा-ऽदित्यस्थाल्युत्तरा १२ ऋतुपात्रे पूवे स्रुक्पुष्कराकृती उभयतोमुखे कार्ष्मर्यमये आश्वत्थे वा १३ ऊर्ध्वानीतराणि प्रादेशमात्राणि मध्य-सङ्गृहीतानि १४ आग्रयणादपरां परिप्लवां स्रुक्पुष्कराम् १५ अधोऽधोऽक्षं प्रत्यञ्चं द्रो णकलशमत्युह्योपर्युपर्यक्षं पवित्रमस्मिन्करोति । शुक्लं जीवो-र्णानाम् १६ उभयतोदशं परिप्लवायाम् १७ पूर्वेणोपस्तम्भनमुत्तरं ध्रुवस्थालीमनन्तर्हिते १८ धुरि प्रचरणीम् १९ पूर्वेणाऽक्षमुपरि पूतभृतम् २० परेणाऽधवनीयम् २१ प्रागक्षाद्दशचमसान्त्संवृन्तानधः २२ प्रत्यगेकधनानयुग्मानुदहरणांस्रिप्रभृत्यापञ्चदशभ्यः २३ अभूदुषा रुश-त्पशुरित्युच्यमाने २४ २ 9.2

चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति १ अपरं गृहीत्वोदङ् गच्छन्नाहाऽप इष्य होतरिति २ प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताऽग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति ३ अपो गत्वा देवीराप इत्यप्सु जुहोति ४ कार्षिरसीति मैत्रावरुणचमसेनाऽज्यमपोहति ५ समुद्र स्य त्वेति तेन गृह्णाति ६ एकधनांश्चोन्नयन्ति ७ पान्नेजनांश्च पत्न्यो द्वौ द्वौ ८ प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च संस्पर्शयति समाप इति ९ इतरेतरस्मि-न्व्यानयन्त्येके मैत्रावरुणचमसे प्रथमम् १० होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः ११ होत्रा पृष्टः प्रत्याहोतेव नंनमुरिति १२ प्रचरणीसंस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति १३ उक्थ्ये प्रथमं परिधिमालभते १४ प्रविशत्येवाऽन्यत्र १५ रराट्याऽलम्भनं वा षोडशिनि १६ छदिरतिरात्रे १७ अतीत्य दक्षिणेन होतारं मैत्रावरुणचमसमा-धवनीयेऽवनयति वसतीवरीतृतीयं च अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्यामेति १८ तावच्चैकधनानाम् १९ एकधनस्थान उभयशेषन्निधाय २० ३ 9.3

अधिषवणे पर्युपविशन्ति १ उत्तरतोऽध्वर्युयजमानौ २ पूर्वोऽध्वर्युः । अपरेण परीत्येतरे त्रयः ३ देवस्य त्वेत्यद्रि मादाय वाचं यच्छति प्राग्घिङ्कारात् ४ स उपांशुसवनः ५ निग्राभ्यासु वाचयत्युरस्येना निगृह्य निग्राभ्या स्थेति ६ उपांशुसवने सोमं मिमीत इन्द्रा य त्वा वसुमते रुद्र वत पञ्चकृत्वः प्रतिमन्त्रम् ७ यत्त इति मितालम्भनम् ८ प्रतिप्रस्था-तांऽशून्षडादत्तेऽङ्गुल्यन्तरेषु द्वौ द्वौ कुरुते ९ श्वात्रा स्थेत्यासिञ्चति निग्राभ्याः १० प्रहरिष्यन्द्वेष्यं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यं सोमेति ११ अभावे तृणम् १२ मा भेरिति प्रहरति १३ एवं त्रिरभिषुणोत्यासेचं निग्राभ्याः १४ अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः १५ सर्वे पञ्चवर्गाः पशुकामस्य । अष्टवर्गा ब्रह्मवर्चसकामस्य १६ प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानंशूनवधाय प्रागपागिति १७ अद्रि णा चतुर्थम् १८ तूष्णीं वा १९ उपांशुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति २० प्रतिप्रस्थातोपगृह्णाति पात्रम् २१ आत्तानां च द्वौ द्वावन्तर्दधाति ग्रहणभेदात् २२ मन्त्रलिङ्गाच्च २३ षड् वा श्रुतिसामर्थ्यात् २४ यत्त इत्यात्तान्त्सोमे निदधाति २५ परिमृज्याऽसादनमुपांश्वन्तर्यामयोः २६ अभिचरन्त्सादयेद-विसृजन्नमुष्य त्वा प्राणं सादयामीति । उदानमित्यन्तर्यामम् २७ पाणिना चाऽपिदधात्यमुष्य त्वा प्राणमपिदधामीति । उदानमन्तर्यामम् २८ स्वा-हेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणम् २९ अन्वारभतेऽन्यस्मै प्रदाय होतृ-चमसम् ३० वरं वृत्वा ददाति च ३१ स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टि ३२ प्रथमे परिधा उत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति ३३ वास-उरोबाहुषु श्लिष्टमंशुमभिचरञ्जुहुयाद्देवांशविति ३४ आग्रयणस्थाल्यां शेषैकदेशमासिच्यांऽशुं प्रास्यति तृतीयसवनाय ३५ प्राणाय त्वेति पात्रसादनम् ३६ उपांशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम् ३७ ४ 9.4

उपविष्टयोरभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात् १ आप्याय-नान्तोऽभिषवस्त्रिपर्यायः २ मन्या ३ पर्यायादिषु निग्राभ्यासेचनम् ४ प्रथमे वा प्रभूत्वात् ५ निग्राभान्ते सरसानंशून्त्सम्भरण्याऽधवनीये-ऽवधायाऽवधूयाऽहरति ६ एवं द्विरपरम् ७ पूर्ववन्निग्राभ्याः ८ पूर्वे वोपांशुं गृहीत्वा गृहीत्वाऽप्यायनसम्भरणे कृतत्वात् ९ धर्ममात्रं पर्यु-पवेशनम् १० अभिषवविपर्यासो वाऽभिमृष्टादंशूनपकृष्य निग्राभ्याश्चाऽनु-पूर्व्ययोगादनात्तस्य चाऽभिमानसामर्थ्यात् ११ ऋजीषभावाच्च १२ प्रोह्य द्रो णकलशमृजीषमुखेष्वद्रि षु निदधात्युग्दातारः १३ पवित्रं च वितन्व-न्युदक् १४ स्वयं वाऽकुर्वत्सु १५ आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति । ताः पवित्रे यजमानः १६ ततो ग्रहग्रहणमाध्रुवान्माध्यन्दिने च पञ्च प्रथमान् १७ शुक्रो द्रो णकलशे १८ ततोऽन्येऽनादेशे १९ सावि-त्रपात्नीवतहारियोजनोपक्षीणानाग्रयणात् २० पूतभृतश्चमसान् २१ तृतीय-सवने वैश्वदेवम् २२ अनादिष्टांच्चेहोन्नयनश्रुतेः २३ दशापवित्रेण परिमृज्य परिमृज्यैव ते योनिरिति ग्रहसादनम् २४ नाऽयोनिकेषु २५ सर्वेष्विति वात्स्योऽविशेषोपदेशात् २६ सावित्रर्तुग्रहप्रतिषेधाच्च २७ प्रतिवषट्कारं हुत्वा वषट्कर्तुर्भक्षहरणम् २८ यथास्वं चमसान् २९ वषट्कर्तुर्वा पूवं श्रुतिसामर्थ्यात् ३० उन्नेतोन्नयति समाख्यानात् ३१ ५ 9.5

उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति १ उपांशुवदनाम्नातवरशेषा-ऽसेचनवर्जम् २ अपमार्ष्ट्यत्र ३ प्रथमे च न्युब्जेन पाणिना प्रत्यक् ४ उपांसुसवनसंस्पृष्टस्योदानाय त्वेति पात्रसादनम् ५ एन्द्र वायवं गृह्णात्या वायविति ६ अपगृह्य पुनरिन्द्र वायू इति ७ मैत्रावरुणमयं वामिति ८ पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति ९ एवं सर्वत्र श्रयणेषु १० शुक्रं बैल्वेन वा तं प्रत्नथेति ११ अयं वेन इत्येके १२ मन्थिनमयं वेन इति १३ सक्तुभिः श्रीणात्येनं मनो न येष्विति १४ आग्रयणं द्वयोर्धारयोर्ये देवास इति १५ दशापवित्रेणाऽग्रयणमुपगृह्य त्रिर्हिंकृत्य सोमः पवत इति सकृच्छेषम् १६ प्रथमस्थानेन प्राग्देवताऽदेशात् १७ प्रातःसवने चोच्चैः कर्माणि १८ मध्यमेन माध्यन्दिने १९ उत्तमेन तृतीयसवने २० उक्थ्यमुपयामगृहीत इति २१ ध्रुवं मूर्धानं दिव इति २२ आ होमादस्य सुन्वन्न मूत्रपुरीषे कुर्यात् २३ वैश्वानरं च जानन् २४ पूर्णान् स्थालीग्रहानर्धपूर्णं द्रो णकलशं कृत्वा सर्वमासिञ्चति सुन्वन् २५ अध्वर्युप्रतिप्रस्थातृप्रस्तोत्रुद्गातृप्रतिहर्तृसुन्वन्तः समन्वारब्धा निष्क्रामन्ति २६ अध्वर्युः प्रथमो यथासंख्यमितरे २७ हुत्वा वा समन्वारभेरन् २८ यस्त इति विप्रुषां होमं जुह्वति २९ अध्वर्युर्वा ३० वेदितृणे अध्वर्युरादत्ते । प्रह्वा उदञ्चा गच्छन्ति ३१ अन्यतरत्तृणं चात्वाले प्रास्यति देवानामिति ३२ उद्गातॄणां पुरस्तादितरत्तूष्णीम् ३३ जपत्सु सोमः पवत इति पवमानोपाकरणं प्रस्तोत्रे तृणे प्रयच्छन् ३४ सर्वेषु ३५ अतृणो वा ३६ ६ 9.6

कुशमुष्टिं वा १ प्रत्यङ्मुखाः उपविशतः पुरस्ताद्दक्षिणो यजमानः २ स्तूयमान उन्नेताऽधवनीयं पवित्रमन्तर्धाय पूतभृत्यासिञ्चति ३ स्तोत्रान्ते प्रेष्यत्यग्नीदग्नीन्विहर बर्हिस्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशुनेहीति ४ यथान्युप्तं धिष्ण्येष्वाग्नीध्रादङ्गारान्निवपति ५ अनुपृष्ठ्यां बर्हिस्तृणाति ६ आश्विनं गृह्णात्यन्वारब्धे वा या वामिति ७ ग्रहानवेक्षयति यथागृहीतमवकाशान्वाचयन्प्राणाय म इति प्रतिमन्त्रम् ८ उपांशुसवनं द्वितीयम् ९ आश्विनं षष्ठम् । शुक्रामन्थिनौ युगपत् । पूतभृदाधवनीयौ च विश्वाभ्यो म इति १० कोऽसीति द्रो णकलशम् ११ भूर्भुवःस्वरिति जपति १२ ज्ञाताप्रियाऽनूचानानवकाशयेत् १३ ७ 9.7

ध्रुवगोपं कृत्वा परिव्ययणादि करोति रशनामुदुह्य पूर्वाम् १ आग्नेयोऽग्निष्टोमे सवनीयः पशुरैन्द्रा ग्नश्चोक्थ्ये द्वितीयः २ ऐन्द्रो वृष्णिः षोडशिनि तृतीयः । सरस्वत्यै चतुर्थोऽतिरात्रे मेषी वा ३ एतत्स्तोमायनम् ४ होतृनामग्रहणान्तं कृत्वेतरांश्चाऽश्राव्याऽश्राव्य प्रवृणीते यथालिङ्गम् ५ आश्विनाऽध्वर्यू आध्वर्यवात् ६ मित्रावरुणौ प्रशास्तारौ प्राशास्त्रात् ७ इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् ८ मरुतः पोत्राद् ग्नावो नेष्ट्राद् अग्निराग्नीध्रात् अग्निर्ह दैवीनामिति यजमानम् ९ यथाप्रवृत्तं प्रवृत्तहोमौ जुह्वति जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तमं जुष्टतमं तस्मिन्मा धाः स्वाहा सरस्वत्या इति १० पावका न इति द्वितीयाम् ११ वपामार्जनान्तं कृत्वा सयजमाना धिष्ण्यानुपतिष्ठन्ते विभूरसीति प्रतिमन्त्रम् १२ उत्करान्तं कृत्वा वागसीति सदोऽभिमर्शनम् । ऋतस्य द्वाराविति द्वार्ये १३ अभिमन्त्रणमुत्तरैः १४ अध्वनामध्वपत इति सूर्यम् १५ मित्रस्य त्वेत्यृत्विजः १६ अग्नयः सगरा इति धिष्ण्यान् १७ एतत्सर्पणम् १८ ८ 9.8

सदोऽभिमर्शनादि वोत्तरयोः सवनयोः १ पुरोडाशैश्चरति २ एकं प्रदानम् ३ एकपात्र्! यामासाद्य मध्ये पुरोडाशः पुरस्ताद्धानाः प्रतिदिशमितराणि यथासंख्यं प्रदक्षिणम् ४ प्रातः प्रातःसवस्येन्द्रा य पुरोडाशानामनुवाचयति ५ आश्राव्याऽह प्रातः प्रातः सवस्येन्द्रा य पुरोडाशान्प्रस्थितात्प्रेष्येति ६ एवं यथासवनमनुवाचनप्रेषौ ७ उपृभृति चाऽवद्यति । पशुपुरोडाशवत् ८ उभयं हुत्वा होतृधिष्ण्ये पुरोडाशान्निदधाति ९ निरवतां वेडाम् १० द्विदेवत्यैश्चरति ११ वायव इन्द्र वायुभ्यामनुवाचयति । प्रतिप्रस्थाता-ऽदित्यपात्रेण द्रो णकलशादुपयामगृहीतोऽसीति गृहीत्वा गृहीत्वा द्विदेव-त्याननु जुहोत्युत्तरार्धे १२ अनुवषट्कृतेऽपि १३ आश्रुतप्रत्याश्रुतप्रैषाश्च समत्वात् १४ नाऽनन्तर्यात् १५ स्यादविरोधात् १६ शेषं शेषमादित्यस्था-ल्यामासिश्चत्यादित्येभ्यस्त्वेति १७ समासिच्य तेनाऽपिदधाति विष्ण उरु गायेति १८ उन्नीयमानेभ्योऽनुवाचयति १९ चमसेषून्नयति नवस्व-परेणोत्तरवेदिं निधाय २० शुक्रादुपस्तरणाभिघारणे २१ होतृचमसे प्रथमम् २२ ९ 9.9

शुक्रामन्थिभ्यां चरतः १ शुक्रेणाऽध्वर्युर्मन्थिना प्रतिप्रस्थाता २ प्रोक्षिता-ऽप्रोक्षितौ यूपशकलावादायाऽपिधानं प्रोक्षिताभ्याम् अपमार्जनमप्रोक्षिता-भ्यामपमृष्टः शण्ड इत्यध्वर्युरपृमृष्टो मर्क इति प्रतिप्रस्थाता ३ देवास्त्वेति निष्क्रामतो यथालिङ्गम् ४ अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्यो-र्निधत्तोऽविसृजन्तौ दक्षिणस्यामध्वर्युरुत्तरस्यां प्रतिप्रस्थाताऽनाधृष्टाऽसीति ५ सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युः सुप्रजा इति प्रतिप्रस्थातोत्तरम् ६ अप्रेण यूपमरत्नी सन्धत्तः सञ्जग्मान इति यथालिङ्गम् ७ पूर्वेणाऽशक्तौ ८ अप्रोक्षितौ निरस्यतो निरस्तः शण्ड इत्यध्वर्युर्निरस्तो मर्क इति प्रतिप्रस्थाता ९ आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याऽधिष्ठानमित्य-ध्वर्युर्मन्थिन इति प्रतिप्रस्थाता १० अच्छिन्नस्येति जपित्वाऽश्राव्याऽह प्रातःसवस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति ११ १० 9.10

उभयतो यूपं प्रत्यङ्मुखौ जुहुतः । सा प्रथमेत्यध्वर्युः प्रथमम् १ तमनु प्रतिप्रस्थाता २ चमसाध्वर्यवश्च ३ प्रेष्यति च ४ प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोग्दातृणां प्रयजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपा-वर्त्तध्वं शुक्रस्याऽभ्युन्नयध्वमिति ५ आगत्य प्रतिप्रस्थाता शेषं शुक्र-पात्रेऽवनयति ६ तं स होतृचमसे ७ पञ्चसून्नयन्ति ८ तानाश्राव्याऽश्राव्य प्रेष्यति नामग्राहं यज यजेति प्रशास्त्रादीन् ९ ब्रह्मन्यजेति ब्राह्मणाच्छंसिनम् १० प्रथमं हुत्वोत्तमं वा तृम्पन्त्विति जपति ११ होतारं प्रत्यङ्ङुप-सीदत्ययाडग्नीदिति १२ द्विदेवत्यान् भक्षयति पूर्वः प्रथमचोदना-द्धोमाभिषवकारी भक्षयेदिति श्रुतेः १३ होता वा वचनमन्त्रवर्णकारणेभ्यः १४ नाऽध्वर्युः समभिव्याहारात् १५ मन्त्राणां चाऽविधानात् १६ कारणस्य च समत्वात् १७ ऐन्द्र वायवं प्रतिगृह्णात्यैतु वसुः पुरुवसुरिति १८ होतृवद्भक्षणम् वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहेत्येवं सर्वत्र सोमानां भक्षणम् १९ वचनादन्यत् २९ भक्षे हि मेति वा यथालिङ्गम् २१ एवमितरौ प्रतिमन्त्रमैतु वसुर्विदद्वसुरैतु वसुः संयद्वसुरिति २२ शेषं शेषं होतृचमसेऽवनयति २३ पुरोडाशमात्रामैन्द्र वायवे प्रास्यति पयस्यां मैत्रावरुण आश्विने धानाः २४ तानि प्रतिप्रस्थाता दक्षिणस्य हविर्धान-स्योत्तरे वर्त्मनि निदधाति २५ इडामादधाति २६ चमसांश्चोद्यच्छन्ति २७ ११ 9.11

मार्जिते वाजिनेन चरन्ति सूक्तवाकशंयोर्वाकयोरन्यार्थत्वात् १ यथोक्तं वाऽप्रसङ्गात् २ होतृचमसेन सोमं भक्षयतः ३ हिन्व मे गात्राणि हरिवः शिवो मे सप्तर्षीनुपतिष्ठस्वोर्ध्वे मे नाभेः सीद मा मेऽवाङ्नाभिमति गा इति गात्राणि संस्पृशन्ते ४ आप्यायस्वेति द्वाभ्यां चमसानालभन्ते ५ सोमं वा सिञ्चन्ति मन्त्रेणाऽसम्भवात् ६ असर्वभक्षांस्तान् ७ दक्षिणस्स्य हविर्धानस्य पश्चादक्षं निदधाति चमसानधः ८ ते नाराशंसा आ वैश्वदेवात् ९ पुरोडाशशकलमादाय समुपहूताः स्म इत्युक्त्वोत्तिष्ठति १० अच्छावाकायैनत्प्रयच्छन्नाहाऽच्छावाक वदस्व यत्ते वाद्यमिति ११ उपो अस्मानिति ब्रुवति होतारमाहोपहवमयं ब्राह्मण इच्छते तं होतरुपह्वयस्वेति १२ उपहूत उन्नीयमानायाऽनुवाचयति १३ अच्छावाकचमसमुन्नयति होत्राचमसवत्सर्वम् १४ आनिधानात्कृत्वा १५ पूर्वश्चाऽग्नीध्रादतः १६ आग्नीध्रे हविर्यज्ञर्त्विज इडां प्राश्नन्ति १७ पत्नी चाऽन्यच्छालायाम् १८ उपविष्टेऽच्छावाके १९ १२ 9.12

ऋतुग्रहैश्चरतो द्रो णकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रम् १ अध्वर्योः पूर्वः पूर्वो मन्त्रः २ उत्तर उत्तरः प्रतिप्रस्थातुः ३ युगपत्प्रथमौ गृह्णीत उत्तमौ च व्यत्यासं मध्ये प्रचरणम् च सर्वेषाम् ४ निष्क्रामत्येकः प्रविशतीतरः ५ उत्तर उत्तरः प्रतिप्रस्थाताऽपरकालत्वात् ६ उभयतोऽध्वर्युं पात्रेण परिगृह्णाति ७ सर्वहुताः प्रागुत्तमाभ्याम् ८ ऋतुनेति षट् प्रेष्यतः ९ ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य १० षड्वदुत्तमौ ११ यजमानः प्रेषितो होतरेतद्यजेति ब्रूयात् १२ अध्वर्यू च १३ त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति १४ प्रतिप्रस्थातारमनु जुहोति १५ अन्यतरस्मिञ्च्छेषौ कृत्वा वशिनैद्रा ग्नं गृह्णाति प्रति-प्रस्थातेन्द्रा ग्नी इति १६ आहरति भक्षं होतृपोतृनेष्ट्रग्नीद्ब्राह्मणाच्छंसि-प्रशास्तृभ्यः १७ विपर्यस्य पात्रं होतृपोतृनेष्ट्रच्छवाकानाम् १८ यावदुक्तं होतुर्यजमानयोगाद्वरणवत् १९ कारणाद्वा होतृभक्षः २० अप्राप्तेर्वरणम् २१ विपर्यस्य पात्रं होतुर्द्विर्भक्षणम् २२ तावद्वा सर्वहुतत्वात्पूर्वेषाम् २३ निर्हत्य पात्रं होतुः पुरस्तात्प्राङास्ते २४ अभिहुतः शॐसावेत्यावृत्योथामोदैवेति प्रतिगृणाति प्रणवाऽवसानयोः २५ ओमिति वा २६ शस्त्रान्ते नित्यम् २७ वागन्तो वा पूर्वः २८ ऐन्द्रा ग्नमादायाऽश्राव्याऽहोक्थशा यज सोमस्येति २९ एष प्रैषः सशस्त्राणाम् ३० नाराशंसानां च कम्पनं हूयमाने ३१ निहितेषु चेद्धोमः सशस्त्रस्य ३२ भक्षप्रभृत्यानिधानात्कृत्वा ३३ १३ 9.13

वैश्वदेवं गृह्णाति १ शुक्रपात्रेण द्रो णकलशादन्वारब्धे वौमास इति २ शुक्रं पूतभृत्यासिच्य द्रो णकलशे पवित्रयोजनम् ३ पशुपुरोडाशप्रथमान्त्सवनी-यान्निर्वपति पयस्यावर्जम् ४ स्तोत्रमुपाकरोति तृणाभ्यां ग्रहमुपस्पृश्यो-पावर्त्तध्वमिति ५ एवं धुर्येषु सर्वत्र ६ सर्वभक्षाश्चमसाः ७ मार्जालीये पात्रप्रक्षालनम् ८ उक्थ्यं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्यः ९ मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे १० तूष्णीं सादनम् ११ स्तोत्रमुपाकरोति १२ उक्थशा यज सोमानामिति प्रैषोऽनाराशंसेषु १३ यस्य विग्रहस्तस्य प्रथमं चमसमुन्नयति १४ ग्रहशेषं चाऽस्मिन्नासिञ्चति १५ एवं प्रति-प्रस्थातोत्तराभ्याम् १६ इन्द्रा य त्वेति ब्राह्मणाच्छंसिने १७ इन्द्रा ग्निभ्यां त्वेत्यच्छावाकाय १८ प्रागच्छावाकविग्रहात्सोमोपावहरणम् १९ वस-तीवर्यर्द्धं चाऽसिञ्चत्याधवनीये विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्यामेति २० एकधनार्धं च २१ चरिते सर्वैः प्रशास्तः प्रसुहीति ब्रूयात् २२ प्रसूतानां सर्पणं प्रसूतानां सर्पणम् २३ १४ 9.14

इति कातीये श्रौतसूत्रे नवमोऽध्यायः