कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ११

← अध्यायः १० कात्यायन-श्रौतसूत्रम्
अध्यायः ११
कात्यायनः
अध्यायः १२ →
ज्योतिष्टोमब्रह्मत्वम्

ब्रह्मत्वमतः १ वाग्यतः कर्मणि वर्त्तमाने २ हिरण्यवत्यां हुतायां दक्षिणाऽनुगच्छत्या क्रयात् ३ क्रीते प्राङ्तीत्य पूर्वेणाऽनः परीत्याऽपरेण वा दक्षिणोऽनुगच्छत्या निधानात् ४ दक्षिणाग्निं वाऽपरेण घर्मे ५ स्तम्बयजुर्हरिष्यत्याहवनीयं दक्षिणेनाऽस्ते वेदिसहितः ६ एवं सर्वत्र प्रागग्नीषोमप्रणयनात् ७ कर्मणः कर्मणो वा सहितस्तत्तदेवाऽन्वेत्य ८ आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ ९ सर्वत्रैके १० स्तीर्णायां यथार्थमेत्य ११ अग्नीषोमप्रणयनायोत्तरेण धिष्ण्याञ्छालाद्वार्यं पूर्वेणेत्यास्ते दक्षिणतः १२ हुते च सोममादाय अग्निमन्वेति १३ यजमानो वा सोमं हरेत् १४ अन्यस्मै प्रदायाऽनिहिते यथेतमेत्याऽस्ते दक्षिणतः १५ हुते च सोममादायाऽहवनीयं चाऽतीत्य १६ अपररात्रेऽग्नीषोमप्रण-यनवदिच्छन् १७ विप्रुषां होमं हुत्वा प्रतिहर्त्तारमन्वारभेत वाऽदीक्षितः १८ प्रस्तोत्राऽऽमन्त्रित एतं ते देव सवितःस्तुत सवितुः प्रसव इत्युक्त्वा प्रसौति १९ देव सवितरेतद्बृहस्पते प्रेति वा २० रश्मिना सत्यायेति वा प्रतिमन्त्रम् २१ येन प्रवेशनं तस्मिन्त्सर्पणम् २२ पूर्वेण यूपं परीत्याऽपरेण चेत् २३ प्रशास्तुर्दक्षिणतः आस्ते २४ अपरेण धिष्ण्यानितरे २५ नेष्टा च २६ विसंस्थितसश्चरः प्रशास्तृधिष्ण्यं वोत्तरेणाऽपवमाने २७ स्वं स्वमितरे स्वं स्वमितरे २८ 11.१

इति कातीयश्रौतसूत्र एकादशोऽध्यायः