कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १२

← अध्यायः ११ कात्यायन-श्रौतसूत्रम्
अध्यायः १२
कात्यायनः
अध्यायः १३ →
द्वादशाहयज्ञः

ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात् १ प्रथमस्य व्रात्यस्तोम-साद्यःक्रेषु वचनात् २ अग्निष्टुत्सु चैके ४ द्वादशाह सत्त्रमहीनश्च ५ आसत उपयन्तीति सत्त्रलिङ्गम् यजत इत्यहीनस्य ६ उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य ७ यजमानाः सर्वे सत्रेषु ८ अदक्षिणानि च स्वामियोगात् ९ गृहपतिर्याजमानयुक्तत्वात् १० दर्शनाच्च ११ सर्वे संस्कारात् १२ दर्शने वचनात् १३ अविभवति गृहपत्यन्वारम्भः १४ परार्थेत्वेकः कृतत्वात् १५ अग्निं चेष्यमाणः समारोह्य गृहपतिर्मध्ये मन्थत्यर्द्धश इतरे दक्षिणोत्तराः १६ गृहपत्याहवनीयेऽङ्गारप्रासनम् १७ तत्र प्राजापत्यः पशुः १८ आज्येन पत्नीसंयाजा गृहपतिवर्जम् १९ तदहर्दीक्षा २० अशक्तौ नियतक्रिया समारूढनिर्मर्थितेषु सर्वत्र २१ दीक्षाकाल उदग्वंशायां पूर्ववन्मन्थनम् २२ गार्हपत्ये प्रासनमत्र २३ आहवनीयस्ततः २४ तत्र दीक्षा २५ उपवसथप्रभृति प्रागग्नीषोम-प्रणयनादुपशमय्य चिनोत्येनाञ्छालाद्वार्याद्दक्षिणोत्तरान्धिष्ण्यवत् श्रुतेः २७ वा यथोक्तं गृहपतेः २८ 12.१

आग्नीध्रीय उद्यतेऽङ्गारमेकैकं हरन्ति प्रतिचिति शालाद्वार्यात् १ प्रत्यग्नि सवनीयपुरोडाशा भूयोहविरुच्छिष्टमसत्समाप्त्या इति श्रुतेः २ पत्नीसंयाजाश्च पूर्ववत् ३ गृहपतिं वा पर्युपविश्य मन्थन्ते ४ गृहपतिः प्रथमः प्रथमः सर्वत्र ५ जातं जातं गृहपतिर्गार्हपत्ये प्रास्यन्त्युभयत्र ६ उपवसथप्रभृति तुल्यं सर्वेषु ७ अरण्योर्वाऽहुर्गृहपतेर्य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या नाना पापकृत्या य एव पापं करवत्तस्यैव तदित्युक्त्वा गृहपतिः समारोहयते स्वौ प्रथमम् ८ यथास्वं वेतरे ९ दीक्षाकाले संवादप्रभृति पशुबन्धस्थाने सत्रेणेति १० एकाहवद्धोत्तमे शालागार्हपत्यपुरोडाश-पत्नीसंयाजाः ११ एकपुरोडाशेषु व्रत्यासम्भवान्दैद्रं पञ्चशरावमोदनं निर्वपेत्पुरोडाशं वा यद्योदनीयन्ति यद्यपूपीयन्ति इति श्रुतेः १२ बार्हस्पत्यमेके १३ दीक्षा द्वादशोपसदश्च १४ अध्वर्युर्गृहपतिं दीक्षयति ब्रह्मादींश्चाऽध्वर्य्वादीन्प्रतिप्रस्थाता प्रतिप्रस्थात्रादीन्नेष्टा नेष्ट्रादीनुन्नेता उन्नेतारं ब्रह्मचारी स्नातकोऽन्यो वा ब्राह्मणो न पूतः पावयेत् इति श्रुतेः १५ अनुपति पत्नीरुत्तर उत्तरः १६ त एवोन्नेतुः १७ दक्षिणाकाले कृष्णाजिनानि धून्वाना दक्षिणापथेन उपन्तो गच्छन्ति यन्मे गदायुषः परागिताऽगात्तां तेऽगद दक्षिणां नयामीतीदमहममुमामुष्यायणममुष्य पुत्रममुष्या । पुत्रं कामाय दक्षिणां नयामीति १८ २ 12.2

पृष्ठ्यः षडहः प्रथमोऽग्निष्टोमश्चतुर्थः षोडश्युक्थ्या इतरे १ तत्राऽतिग्राह्यग्रहणं त्र्! यहे पूर्वेऽग्ने पवेस्वोत्तिष्ठन्नदृश्रमित्यन्वहमेकैकम् २ उत्तरे वा ३ उभयोर्वा ४ माहेन्द्र मनु होमः ५ अग्ने वर्च्चस्विन्निन्द्रौ जिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैः ६ पृष्ठकाले रथसंसारणं प्रथमे दक्षिणेन वेदिम् ७ द्वितीये दुन्दुभिशब्देनोपाकरणम् ८ तृतीय औपवाजनैः ९ चतुर्थेऽरणिभ्यां मन्थनं चोद्गातुरुरौ होमश्च १० पञ्चमे सावकयोदपात्र्! या ११ षष्ठे सांवाशिनेन १२ मातृभिर्वत्सान्त्संसृज्य सदः पूर्वेण व्यावर्त्तयन्ति १३ स्वयमृतुयाजेज्याऽर्वाञ्चमद्य यय्यं नृवाहणं । रथं युञ्जाथामिह वां विमोचनं पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवस् इति १४ होतृप्रत्ययः प्रतिगरः १५ प्राकृतं चाऽन्यार्थत्वादितरेषाम् १६ षडहाऽन्ते न बहु वदेत् । नाऽन्यं पृच्छेत् । नाऽन्यस्मै प्रब्रूयात् १७ मधोः प्राशनं घृतस्य वा १८ उक्थ्याश्छन्दोमास्त्रय उत्तरे १९ अत्यग्निष्टोमोऽविवाक्यं दशमम् २० पत्नीसंयाजान्तान्यहान्यन्त्यवर्जम् २१ ३ 12.3

एकैको वाग्यतः सोमं रक्षत्याबोधनात् १ वसतीवरिपरिहरणादि वा २ इतरे विसृज्यन्ते स्वाध्यायाय समिद्भ्यो वा ३ तत्राऽप्यशनम् ४ दशमे वा सन्निधेः ५ अस्तमिते समिदाधानं सर्वेषु ६ दशमेऽपराह्णेऽप उपस्पृश्य शालाप्रवेशनम् ७ शालाद्वार्येऽन्वारब्धेष्विह रतिरिति जुहोति ८ अपरामुपसृजन्निति ९ उत्तरेण परिक्रम्याऽपरेण हविर्धानं प्रविश्योत्तरस्य हविर्धानस्याऽपरकूबरीमालभ्य सत्त्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति १० उत्तरवेदिश्रोण्यां वोत्तरस्याम् ११ युवं तमिति दक्षिणस्याऽधोऽक्षं प्राञ्चो निष्क्रामन्ति १२ ग्रहं गृह्णाति प्राजापत्यं वायुं पृथिव्या पात्रेण ग्रहणसादनस्तोत्रोपाकरणहोमभक्षाऽहरणभक्षणानि मनसा १३ चतुर्होतृ-व्याख्यानं होतुः १४ गृहपतिरजानति १५ प्रतिगृणात्यरात्सुरिमे यजमाना भद्र मेभ्यो यजमानेभ्योऽभूदिति १६ ब्रह्मोद्यं वदन्ति १७ प्रजापतेरगुणाऽख्यानम् १८ अप्रतिभायां वा तद्वादः १९ आश्वमेधिकं वा नामधेयात् २० अनस्तमिते गृहीत्वौदुम्बरीं वाचं यच्छन्ति २१ अस्तमिते निष्क्रम्या-ऽपरेणोत्तरवेदिमासते प्रतिप्रस्थाता वसतीवरीः परिहरति २२ वाग्विसर्जनं सत्त्रकामेन २३ पृथक्कामेषु भूर्भुव इति २४ सुब्रह्मण्याऽह्वानं गृहपतेर्यं वाऽहं गृहपतिः २५ सुब्रह्मण्य उप मा ह्वयस्वेत्युक्त्वा समिदाधानम् २६ अप उपस्पर्शनाद्येतत्सत्त्रोत्थानम् २७ ४ 12.4

अन्तराऽग्रयणोक्थ्यावागन्तुस्थानं ग्रहणाम् १ प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनाऽतिष्ठ युक्ष्वा हीति वा २ माध्यन्दिने वाऽग्रयणादुत्तरः ३ धाराग्रहान्ते वाऽतिग्राह्यान् ४ पूतभृतो वोपा-करिष्यन्पृष्ठम् ५ अपो निधायांऽश्वदाभ्यग्रहणम् ६ औदुम्बरेण चतुःस्रक्तिनांऽशोः । तूष्णीं सर्वम् ७ अनुच्छ्वसंश्चेच्छन् ८ अद्र य्दाआ!नांऽशुनिवपनोपसर्जनसकृत्प्रहरणहोमान् । हिरण्यं चोपजिघ्रति ९ उद्यम्य वा प्रहरणम् १० सत्त्रसहसरसर्ववेदसवाजपेयराजसूयविश्वजि-त्सर्वपृष्ठेषु ग्रहणमवक्जाश्यश्चेत् ११ द्वादश वत्सतर्यो गर्भिण्यो दक्षिणाऽसत्त्रे १२ बुभूषतोऽदाभ्यं गृह्णाति १३ आसिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनंशूनवधायाग्नये त्वा गायत्रच्छन्दसमिति १४ उपयामः सर्वत्राऽविशेषात् १५ विग्रहादित्यग्रहप्रतिषेधात् १६ अनुष्टुते इत्युक्त्वा धूनोत्यंशुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयं तस्मै त्वा इति जुहोति १७ अंशून्त्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रम् १८ अंशुवद्दक्षिणा १९ चमसानुन्नीय २० ५ 12.5

तृणहिरण्यैः स्तोत्रोपाकरणमुपास्तमयं सोमोऽत्यरेच्युपावर्त्तध्वमिति कृष्णेऽश्व उपतिष्ठति १ इन्द्र श्च सम्राडिति भक्षणम् २ आ पात्रप्रक्षालनात्कृत्वाऽतिरात्रश्चेत्सौम्येन सहाऽश्विनो द्विकपालः सर्वत्र ३ त्रयः पर्यायाश्चमसैश्चतुस्तोत्रः पर्यायः ४ होतुः प्रथमं प्रथममुक्थ्यवदितरेषु ५ तदन्ते चमसानुन्नीय स्तोत्रोपाकरणं सन्धेः ६ होता शंसत्याश्विनम् ७ शस्त्रान्त आश्चिनेन सर्वहुतेन चरति । एकप्रदानश्चमसैः ८ अश्विभ्यां तिरोह्न्यानां सोमानामनुवाचनप्रैषौ ९ ऐन्द्रा ग्नः सवनीयोऽन्वहम् १० स्तोमायनं वा ११ ऐकादशिना वा विहृताः १२ द्वादश आद्यः १३ सर्वसमासो वैन्द्रा ग्नो वा १४ यावच्छेषमुत्तरेषु १५ काम्यं सत्त्रम् १६ अहीने व्यूढच्छन्दसि दशसत्रस्य चतुर्थनवमयोरह्नोराग्रयणग्रहणं प्रथमम् १७ शुक्रस्य षष्ठसप्तमयोः १८ असादनमा पूर्वेषां ग्रहणात् १९ परिमार्जनभृति काले हिङ्कृत्य सादनम् २० अव्यूढो वा २१ उभयतोऽतिरात्रः २२ अतिप्रेषितेऽग्नीदाह श्वःसुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति २३ प्रायणीयेऽद्य सुत्यामेके प्राप्तकालत्वात् २४ न पूर्वशेषात् २५ तस्माच्च श्वो भावात् २६ अचोदितत्वाच्च २७ अग्निमद्येति च लिङ्गात् २८ प्रायणीयादुत्तरमहः श्वः कालाभावात् २९ न सम्पच्छ्रुतेः ३० कालो वचनात् ३१ ६ 12.6

इति कात्यायनसूत्रे द्वादशोऽध्यायः १२