कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २०

← अध्यायः १९ कात्यायन-श्रौतसूत्रम्
अध्यायः २०
कात्यायनः
अध्यायः २१ →
अश्वमेधयज्ञः

राजयज्ञोऽश्वमेधः सर्वकामस्य १ अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य २ ग्रीष्म एके ३ बह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रसृतानां च ४ अक्त्वैनमाद्यर्त्विग्भ्यः प्रयच्छति ५ तेभ्यश्चत्वारि सहस्राणि ददाति शतमानांश्च तावतः ६ अक्त्वाऽऽज्यशेषेण रशनां द्वादशारत्निं त्रयोदशारत्निं वा निदधाति ७ आदानकाले वाऽञ्जनम् ८ निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति ९ वाचं यच्छेति १० आ वरदानाद्वाग्यमनम् ११ पत्न्यश्चाऽयन्त्यलङ्कृता निष्किण्यो महिषी वावाता परिवृक्ता पालागली सानुचर्यः शतेन शतेन १२ राजदुहितरः प्रथमायाः १३ राजन्यानां द्वितीयायाः १४ सूतग्रामण्यां तृतीयायाः १५ क्षात्रसंग्रहीतृणां चतुर्थ्याः १६ अग्न्याधेयवत्प्रविश्य हुतेऽग्निहोत्रेऽपरेण गार्हपत्यमुदक्शिराः संविशत्यूर्वन्तरे वावाताया ब्रह्मचारी १७ इतराश्चाऽन्वक् १८ प्रातराहुत्यां हुतायां पूर्णाहुत्यन्ते वरदानं ब्रह्मणे १९ अध्वर्यवे च प्रतिमुक्तं निष्कम् २० पुरोडाशोऽग्नये पथिकृते २१ शतमानं दक्षिणा सौवर्णम् २२ हिरण्यपरिमाणेऽन्यत्रापि २३ पौष्णं चरुं निर्वपति वासःशतं दक्षिणा २४ देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह २५ तं बधानेति ब्रह्मा-ऽनुज्ञातोऽभिधाऽअसीति बध्नात्यश्वं त्रिरूपम् २६ सर्वरूपं वा २७ शीघ्रम् २८ दक्षिणधुर्यसमम् २९ साहस्रम् ३० ललामम् ३१ कृत्तिकांजिं वा ३२ पूर्वकायकृष्णं शुक्लाऽपरम् ३३ कृष्णसारङ्गं वा ३४ स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम् ३५ आयोगवमाह श्वानं चतुरक्षमभिहन्यस्वेति ३६ पुँ श्चलूमेके ३७ सिध्रकमुसलेनैनं हन्ति ३८ १ 20.1

सोऽअर्वन्तमिति वाचयति १ वेतसकटेनाऽधोऽश्वं प्लावयति परो मर्त इति २ अग्निसमीपमानीयाऽग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् ३ सहस्रं वाऽवर्तम् ४ आऽश्वस्रवणविरमणाद्वा ५ द्वादश कपालान्निर्वपति भिन्न-तन्त्राञ्छतमानदक्षिणान्मध्यमस्य राजतः सवित्रे प्रसवित्रे सवित्रऽआसवित्रे सवित्रे सत्यप्रसवायेति ६ प्रयाजेषु दक्षिणतो ब्राह्मणो यजमानस्य यज्ञदानयुक्ताः स्वयंकृतास्तिस्रो गाथा गायत्युत्तरमन्द्रा याम् ७ राजन्यो धृतिषु युद्धजययुक्ताः ८ अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति ९ पशुवदुत्सर्जनं निरष्टेऽश्वशते १० देवा आशापाला इति रक्षिणोऽऽस्याऽदिशत्यनुचरीजातीयांस्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासंख्यम् ११ वडवाभ्यो वारणम् १२ प्रस्नेयाच्चोदकात् १३ ब्राह्मणोऽश्वमेधेऽविद्वान्वृत्तिः स वः १४ पक्वान्नं च सर्वेषु १५ रथकारगृहवासाश्च १६ अभिषेक्या भविष्यत समाप्नुवन्त इत्याह राजपुत्रान् १७ दक्षिणतो वेदेर्हिरण्यमयेषूपविशन्ति १८ अध्वर्युयजमानौ कूर्चयोः १९ फलकयोर्वा २० होतृब्रह्मोद्गातारः कशिपुषु २१ होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति पारिप्लवं प्रेष्यति २२ २ 20.2

हैव होतरिति प्रतिगृणाति १ तदन्ते प्रेष्यति वीणागणगिनो राजर्षिभिर्यजमानं सङ्गायतेति २ दक्षिणाग्नौ जुहोति हिङ्काराय स्वाहेति प्रक्रमान् ३ आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति ४ वावातासम्वेशनसावित्र्युत्तरमन्द्रा गानपारिप्लवधृतीः संवत्सरम् ५ अर्धमासमासत्रैमास्य-षण्मास्यानि चैके ६ वीणागाथिभ्यां पृथक्शते ददाति ७ राजर्षिभिः सङ्गायनमा दीक्षणीयायाः ८ दीक्षान्ते देवैरौपवसथ्यात् ९ पश्वादौ प्रजापतिना सुत्यासु १० अन्ते च ११ अश्वापदीज्या चरुभिः सावित्र्! यन्ते १२ पौष्णः स्रामे १३ सौर्योऽक्ष्यामये १४ वारुणोऽप्सु मृते १५ भूमिकपालो वैश्वानरोऽरिष्ट्यामये १६ लोष्टकपालं जातूकर्ण्यो भेदात् १७ नाशे तन्त्रेण द्यावापृथिव्यः पयो वायव्यं सौर्यः १८ अन्यत्राऽपि १९ प्रजाते वायव्यम् २० ३ 20.3

मृतादर्शनयोरन्यस्य रशनादानादि करोत्यश्वयुक्तम् १ पश्वालम्भनाद्याऽऽध्वरदीक्षणीयायाः कृत्वा चत्वार्योद्ग्रभणानि जुहोत्याध्वरिकाणि २ काय स्वाहेति चाऽश्वमेधिकानि त्रीणि ३ कृष्णाजिनदीक्षाऽतः ४ अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाऽश्वमेधिकानि ५ कृष्णाजिनान्त-मन्वहम् । प्राकृतव्रतोऽकृतत्वात् ६ आग्निके च सप्तम्यां निर्वपति ७ अभ्यञ्जनप्रभृति करोति ८ षडाग्निकानि चतुःस्थाने ९ दशमं विश्वो देवस्येति १० कृष्णाजिनाद्या समिदाधानात्कृत्वा आ ब्रह्मन्निति जपति ११ उत्सर्गकाल एके १२ दीक्षा द्वादशोपसदश्च १३ नित्योदकं देवयजनं पुरस्तात् १४ आद्योऽग्निर्द्विगुणस्त्रिगुण एकविंशतिविधो वा १५ एकादशिनीवदेकविंशतिर्यूपाः १६ राज्जुदालो मध्ये १७ अभितः पैतुदारवौ १८ षट् षड् बैल्वखादिरपालाशाः १९ त्रयस्त्रयोऽभितः २० प्रतियूपमग्नीषोमीयाः २१ प्रातरग्निष्टोमः २२ एकादशिन्यौ सवनीयाः पशवो भवन्ति २३ मध्यम आग्नेयौ २४ उत्तरयोश्च २५ उत्तमे गावो बहुरूपाः २६ विजयमध्याद्धोतुः प्राची दिक् दक्षिणा ब्रह्मणोऽध्वर्योः प्रतीच्युद्गातु-रुदीची २७ तृतीयं तृतीयमन्वहं ददाति भूमिपुरुषब्राह्मणस्ववर्जम् २८ तृतीयसवनं उक्थ्यं गृहीत्वाऽऽग्निमारुतकाले त्रैधं विगृह्णाति २९ तच्चमसाननु होमभक्षौ ३० वसतीवरीर्गृहीत्वा गृहीत्वा प्रतिदिशं समा-सिच्य परिहरति ३१ आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम् ३२ व्युष्ट्या इति व्युष्टायाम् ३३ स्वर्गायेत्युदिते ३४ ४ 20.4

प्रातरुक्थ्यः १ महिमानौ गृह्णाति सौवर्णेन पूर्वं हिरण्यगर्भ इति द्वितीयं राजतेन यः प्राणत इति २ बहिष्पवमानाय सर्पणमश्वमालम्भ्य ३ वडवां दर्शयत्यभिरसति तत्स्तोत्रम् ४ स्तुवीरन्वा ५ शतमानं ददाति ६ अश्वेना-ऽऽक्रमयन्त्यास्तावम् ७ ऐकादशिनानुपाकृत्याऽश्वादींश्च ८ होतरश्वम-भिष्टुहीति प्रेष्यति ९ युनक्त्येनं युंजन्ति ब्रध्नामिति १० इतरांश्च युञ्जन्त्यस्येति ११ अश्वाः सौवर्णालङ्काराः १२ रथश्च १३ अपो यात्वाऽवगाढेषु वाचयति यद्वात इति १४ आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताऽऽज्येनाभ्यञ्जन्ति पूर्वकायमध्याऽपरकायान् यथादेशं वसवस्त्वेति प्रतिमन्त्रम् १५ अभ्रंश्यमानान्मणीन्त्सौवर्णनेकशतमेकशतं केसरपुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति १६ अनुचर्यश्च तूष्णीमेकेषाम् १७ अश्वाय रात्रिहुतशेषं प्रयच्छति लाजींश्छाचीश्निति १८ अप्स्ववहरणमखादति १९ ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति २० सूर्यऽइत्याचष्टे २१ होता ब्रह्माणं का स्विदासीदिति २२ द्यौरिति प्रत्याह २३ ५ 20.5

अग्निमन्थनादि करोति १ अग्निष्ठेऽश्वतूपरगोमृगान्नियुनक्ति २ यथोक्तमश्वादौ देवताः ३ पर्यङ्ग्यानश्वे ४ पञ्चदश पञ्चदश रोहितादीन्त्सौर्यान्तानितरेषु ५ कपिञ्जलादीन्पृषतान्तांस्त्रयोदश त्रयोदश यूपान्तरेषु ६ अश्वप्रोक्षण-मद्भयस्त्वा वायुष्ट्वेति ७ उपगृह्णात्यपाम्पेरुरग्निः पशुरिति ८ कपिञ्जलादीनुत्सृजन्ति पर्यग्निकृतात् ९ हिरण्यवासोऽधीवासेष्वश्वसंज्ञपनम् १० परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः ११ वाचयति पत्नी-र्नयन्नमस्तेऽम्बऽइति १२ अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति १३ प्रक्षालितेषु महिष्यश्वमुपसंविशत्याऽहमजानीति १४ अधीवासेन प्रच्छादयति स्वर्गे लोकऽइति १५ अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति १६ उत्सक्थ्याऽइत्यश्वं यजमानोऽभिमन्त्रयते १७ अध्वर्यु-ब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकाऽसकाविति दशर्चस्य द्वाभ्यां द्वाभ्यां हये हयेऽसावित्यामन्त्र्! यामन्त्र्य १८ सानुचर्यः प्रत्याहुः १९ अनुचर्यऽएकेषाम् २० महिषीमुत्थाप्य पुरुषा दधिक्राव्णऽइत्याहुः २१ ६ 20.6

तिस्रः पत्न्योऽसिपथान्कल्पयन्त्यश्वस्य सूचीभिर्लौहराजतसौवर्णीभिर्मणि-संख्याभिर्गायत्री त्रिष्टुबिति १ रजतसुवर्णसीसाभिर्वा मन्त्राम्नानात् २ सौवर्णासिरश्वः ३ लौहाः पर्यङ्ग्याणाम् ४ आयसाऽइतरेषाम् ५ अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छयतीति ६ मेदोऽस्योद्धरन्ति वपार्थे ७ लोहितं चाऽस्य श्रपयन्ति ८ प्राजापत्यवपानामुत्तरतः श्रपणं होमो हविषश्च ९ प्राग्वपाहोमाद्घोताऽध्वर्यू च सदसि संवदेते चतसृभिः कः स्विदेकाकीति पूर्ववत् १० ब्रह्मोद्गातारौ च पृच्छामि त्वेति ११ पुनः पूर्वावपरेणोत्तरवेदिं का स्विदासीदिति १२ उत्तरौ च कत्यस्येति १३ यजमानोऽध्वर्यु पृच्छामि त्वेति १४ इयं वेदिरित्यध्वर्युः १५ सर्वहुतेन महिम्ना चरति यस्तेऽहन्निति जुहोति १६ अत्र वा ग्रहणम् १७ वपाभिश्चरति १८ छागोस्रमेषाः पश्व-भिधानाद्यथालिङ्गम् १९ गुणवचनाच्चोदनाशब्दस्य २० प्रकृतौ चाऽवचनात् २१ एकविंशतिप्रदानानेकेऽन्वक्चातुर्मास्यदेवताः पितृत्रैयम्बकपुनरुक्तवर्जम् २२ ऐन्द्राग्नवैश्वदेवकायानेके २३ देवतातन्त्रेण तु २४ न कालभेदात् २५ वपान्ते द्वितीयेन पूर्ववद्यस्ते रात्राविति जुहोति २६ शूलेऽश्वशेषश्रपणम् २७ सर्पणप्रभृत्यापश्वासादनात् कृत्वा २८ ७ 20.7

लोहितमवद्यति गोमृगकण्ठाश्वशफयोरयस्मये चरौ १ वेतसशाखासु प्राजापत्यानाम् २ अश्वस्य वा ३ स्विष्टकृद्वदनस्पत्यन्तरे शूल्यं हुत्वा देवताऽश्वाङ्गेभ्यो जुहोत्यमुष्मै स्वाहेति प्रतिदेवतं शादप्रभृतित्वगन्तेभ्यः ४ विमुखाच्च परेभ्यः ५ मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम् ६ अन्त्यां द्यावापृथिवीयाम् ७ स्विष्टकृदन्तेऽग्निभिः स्विष्टकृद्भ्यः स्वाहेति लोहितं जुहोति यथावत्तम् ८ अश्वशफेन वाऽनुयाजान्ते ९ अयस्मयेन वा पत्नीसंयाजान्ते १० इमा नु कमिति च द्विपदाः ११ अतिरात्र उत्तमः १२ सर्वस्तोमो ज्य्तोर्गौरायुरभिजिद्विश्वजिन्महाव्रतमप्तोर्यामो वा १३ आप्तोर्यामे तिरोऽह्नीयेभ्यो रात्रिपर्याय उत्तमः १४ अग्निष्ठे प्राजापत्यौ च १५ अवभृ-थेष्ट्यन्तेऽप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति १६ उत्क्रान्ते यजमाने पापकृतोऽभ्यवयन्त्यचरित्वा व्रतानि १७ अश्वमेधपूताख्यास्ते १८ नानाऽवभृथानि वा १९ कुम्भो-पमारणान्तं पूर्वयोः २० शेषे दीक्षाव्रताऽभावात् २१ सर्वं वा श्रुतेः २२ एकविंशतिरनूबन्ध्याः २३ उदवसानीयान्ते भार्या ददाति यथासम्वादं सानुचरीः २४ कुमारीं पालागलीं चाध्वर्यवे २५ अनुचरीर्वा फला-धिकारादितरासाम् २६ अनारभ्यत्वाच्च २७ द्वादशाहमाग्नेयः पुरोडाशः २८ ब्रह्मौदनो वा २९ प्रत्यृतु पशूनालभते षट् षड् वसन्ताद्याग्नेयानैन्द्रान्पार्जन्यान्मारुतान्वा मैत्रावरुणानैन्द्रा वैष्णवानैन्द्रा बार्हस्पत्यान् ३० ८ 20.8