कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १४

← पटलः १३ द्राह्यायणश्रौतसूत्रम्
पटलः १४
द्राह्यायणः
पटलः १५ →

14.1 चतुर्दशः पटलः । प्रथमः खण्डः
सुत्यायां ब्रह्मणः प्राक्सुब्रह्मण्याया औद्गात्रेण समानं कर्म १ इक्षणाक्रमणे वेदेः २ संचरधिष्ण्योपस्थानदक्षिणाप्रतिग्रहभक्षाः ३ स्तोमविमोचनाच्चोर्ध्वमन्यत् समानम् ४ अनुष्यात्तु दीक्षणीयायाम् ५ तस्याᳪसᳪस्थितायामासीतादीक्षणाद्यजमानस्य ६ तं यदाध्वर्युर्वाचं यमयेदथ यथार्थᳪस्यात् ७ महावीरान्त्सम्भरिष्यत्सु तूष्णीमुपविशेत् ८ सम्भृतेषु यथार्थं स्यात् ६ प्रायणीयायाᳪसंस्थितायां पूर्वेण पत्नीशालां तिष्ठेदाभिहोमात्पदस्य राजक्रयण्याः १० अभिहुत उत्तरेण सोमवहनं गत्वा प्राग्वा पदाभिहोमाद्दक्षिणेन यत्र राजानं क्रेष्यन्तः स्युस्तत्र गत्वा तूष्णीमुपविशेत् ११ क्रीते प्राङुत्क्रामेत् पश्चिमेनैनᳪ हुत्वा राजानमादध्युराहितं पूर्वेण परीत्योह्यमानमनुगच्छेद्दक्षिणेन चेद्गतः स्यात् १२ उत्तरेण चेत्क्रीते प्रत्यङ्डुत्क्रामेत् पूर्वेणैनं हृत्वा राजानमादध्युराहितं पश्चिमेन परीत्योह्यमानमनुगच्छेत् १३ तामेवात्रेषामन्वावर्तेत १४ सा ह्यस्य प्राचि वर्तमानस्य दक्षिणेषा भवति १५ विमुक्ते चान्तरेण सोमवहनं पत्नीशालां च दक्षिणेनोत्क्रम्य तिष्ठेद्दीक्षितश्चेदा राज्ञोऽवहरणात् १६ प्रवेश्यमानᳪ राजानमनुप्रविशेदव्यवयन्नामिना १७ संबाधश्चेत् स्याद्दक्षिणयापि द्वारा प्रविशेत् १८ उत्तरेणाहवनीयं पश्चिमेन वेदिᳪ संचरेद्दीक्षितश्चेत् १९
इति द्राह्यायणश्रौतसूत्रे चतुर्दशे पटले प्रथमः खण्डः १

14.2 द्वितीयः खण्डः
आतिथ्यामिष्टिं निर्वपन्ते १ तां चेदनवहृते राजनि निर्वपेरन् ब्राह्मणᳪ राजनि समादिश्य तत्र गत्वासीत २ तस्याᳪसᳪस्थितायाँ तानूनप्त्रमाज्यमवमृशन्तो जपेयुर्हविरसि वैश्वानरमनाधृष्टमनाधृष्यं देवानामोजोऽनभिशस्त्यमभिशस्तिपा अनभिशस्त्यन्यमञ्जसा सत्यमुपगेषᳪसुवितेमाधा इति ३ अप उपस्पृश्याध्वर्युणोक्तो राजानं विस्रम्भवेत् ४ तं हिरण्यमन्तर्धायाभिमशेयुरᳪशुरᳪशुष्टे देव । सोमाप्यायतामिन्द्रायैकधनविदे । आ तुभ्यमिन्द्रः प्यायतामात्वमिन्द्राय प्यायस्व । आप्याययास्मान्त्सखीन् सन्या मेधया । स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति ५ काशमये प्रस्तरे निह्नुवीरन्दक्षिणान् पाणीनुत्तानान् कृत्वा सव्यान्नीचः एष्टा राय एष्टा वामानि प्रेषे भगायार्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति ६ सुब्रह्मण्यास्वाहूयमानासु दक्षिणोत्क्रम्य तिष्ठेद्दीक्षितश्चेत् ७ आहूतासु यथार्थं स्यात् ८ उपसदिष्टिरत ऊर्ध्वं तस्यां तथैवाभिमर्शननिह्नवने ९ सव्या अपराह्न उत्तानाः स्युर्दक्षिणा न्यञ्चः १० स्रुवेणोपसद्धोमे हुते विद्यात्सᳪस्थितेति ११ तस्या घर्मः प्रवर्ग्यवति पूर्वः १२
इति द्राह्यायणश्रौतसूत्रे चतुर्दशे पटले द्वितीयः खण्डः २

14.3 तृतीयः खण्डः
तमभीन्धिष्यत्सु गार्हपत्यं गत्वा यजुषोपविशेद्दक्षिणेन १ दक्षिणाग्निमुत्तरेण बहिश्चेत् २ रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् यमध्वर्युर्ब्रूयात् ३ तं हियमाणं यथेतमनुव्रजन् जपेद्विश्वा आशा दक्षिणसत्सर्वान् देवानयाडिह । स्वाहा कृतस्य घर्मस्य मेधोः पिबतमश्विना इति ४ आश्रावित उपविश्य जपेदश्विना घर्मं पातं हार्दिवानमहर्दिवाभिरूतिभिः । तन्त्रायिणेन नमो द्यावापृथिवीभ्यामिति ५ हुते यजमानं वाचयेदापातामश्विना घर्ममनु द्यावापृथिवी अमᳪसाताम् । इहैव रातयः सन्त्विति ६ घर्मशेषस्य भक्षयेन्मधु हुतमिन्द्रतमेऽग्नावश्याम ते देव घर्म नमस्तेऽस्तु मा मा हिᳪसीरिति ७ सत्रं चेत्स्याद्यजमाना उपह्वयध्वमित्येवोपह्वानम् ८ एवᳪसदा प्रवर्ग्योपसदः कुर्यात् ६ महावेदेस्तम्बयजुर्हरिष्यत्सु यजुषोपविशेत् १० विलिखिते चात्वाले यथार्थं स्यात् ११ उत्तरवेदिं निर्वप्स्यत्सु तूष्णीमुपविशेत् । न्युप्तायां यथार्थᳪस्यात् १२ अग्निचित्यायां प्राग्दीक्षणीयायाः सावित्रान् होमान् होष्यत्सु यजुषोपविशेत् १३ तेषु हुतेषूख्यां मृत्तिकामाह्रियमाणामनुगच्छेत् १४ तस्यां सम्भ्रियमाणायामासित्वा सम्भृतायां यथार्थं स्यात् १५
इति द्राह्यायणश्रौतसूत्रे चतुर्दशे पटले तृतीयः खण्डः

14.4 चतुर्थः खण्डः
आहवनीयं चेष्यत्सु यजुषोपविशेत् १ तस्मिंत्संचित उख्यामासन्दीं नैर्ऋतीश्चेष्टका अरण्यᳪह्रियमाणा अनुगच्छेत् २ निधीयमानानां दक्षिणतः स्थित्वा निहितास्वप उपस्पृश्यानपेक्षं प्रत्याव्रजेत् ३ अग्निं विक्रक्ष्यत्सु सर्वोषधं च वप्स्यत्सु तत्र गत्वा तृष्णीमुपविशेत् ४ तैः सार्धं प्रत्याव्रज्य चितीः प्रणीयमाना अनुगच्छेत् ५ निधीयमानानां दक्षिणतः स्थित्वा निहितासु दक्षिणस्य पक्षस्यासन्नो यजुषोपविशेत् ६ लोकं पृणासूपधीयमानासु ब्राह्मणं तत्र समादिश्य यथार्थं स्यादिति शाण्डिल्यः ७ आसीतैवेति धानंजय्यः ८ एवं सदा चितिषु कुर्यात् ६ संचितकर्माणि करिष्यत्स्वाव्राजमासीत १० सम्राडासन्दीᳪह्रियमाणामनुगच्छेत् ११ निधीयमानानां दक्षिणतः स्थित्वा परिषिच्यमानेऽप उपस्पृश्य तैः सार्धं प्रत्याव्रज्याग्निं प्रणीयमानमनुगच्छेदप्रतिरथं जपन् १२ तूष्णीमनग्निचित्या चेत् १३ निधीयमानस्य दक्षिणतः स्थित्वा निहिते दक्षिणा बहिर्वेदि यजुषोपविशेत् १४ हविर्धाने प्रवर्त्यमाने अनुगच्छेत् १५ परिवार्यमाणयोस्तत्रैव गत्वासीत १६ उच्छ्रितायामौदुम्बर्याँ यथार्थं स्यात् १७ वेदिकर्मप्रभृति वाग्नीषोमप्रणयनात्प्रणयनात् १८ ।
इति द्राह्यायणश्रौतसूत्रे चतुर्दशे पटले चतुर्थः खण्डः ४