कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः १५

← पटलः १४ द्राह्यायणश्रौतसूत्रम्
पटलः १५
द्राह्यायणः
पटलः १६ →

15.1 पञ्चदशः पटलः । प्रथमः खण्डः
अग्नीषोमौ प्रणेष्यत्सु वेदिमाक्रामेन्मन्त्रेण १ पश्चिमेनोत्तरवेदिमुदङ्ङतिक्रम्याक्रमणयजुर्जपेत् २ चात्वालसमीपे दीक्षितश्चेत् ३ तूष्णीमत ऊर्ध्वं वेदेराक्रमणम् ४ क्रीत्वा राजा येनातिहृतः स्यात्तेन गत्वा तूष्णीमुपविशेत् ५ राजानᳪहरेत्युक्तः पूर्वेणाग्निमेकस्मा अतिप्रदाय तान् प्रसव्यं परीत्यादायानुगच्छेद्दॊक्षिणेन चेद्गतः स्यात् ६ उत्तरेण चेद्यथेतं परीत्यादायानुगच्छेत् ७ अन्येन चेद्ब्रह्मा व्रजितः स्यादन्येन राजा तेनैनं प्रगृह्णीयात् ८ एतौ त्वेव ब्रह्मणो गतिकल्पावहरतोऽपि ६ आसीताग्नीध्रीय आहुत्योर्हूयमानयोरिति धानंजय्यः १० तिष्ठेदिति शाण्डिल्यः ११ उत्तरेणाग्नीध्रीयᳪराजानमाज्यानि च ह्रियमाणान्यनुगच्छेत् १२ प्रवेशितेषु हविर्धानं पश्चिमेन गत्वासीतेति गौतमः १३ पूर्वेणेति धानंजय्यो दक्षिणस्य द्वारबाहोः पुरस्ताद्यजुषेति १४ अग्रीषोमीयवपायां हुतायां यथेतमुदङ्ङतिक्रम्य चात्वाले मार्जयेत १५ एवमेवापररात्र आज्येषु प्रविष्टेषूपवेशनम् १६ मार्जनं च १७
इति द्राह्यायणश्रौतसूत्रे पञ्चदशे पटले प्रथमः खण्डः १

15.2 द्वितीयः खण्डः
सवनीयवपायाᳪहुतायाम् १ पुरोडाशेन चरिष्यत्सु तूष्णीमुपविशेत् २ दीक्षितश्चेत् सर्वा इडा अन्वारभेत ३ वसतीवरीषु परिह्रियमाणासु दक्षिणोत्क्रम्य तिष्ठेददीक्षितश्चेदा तासां परिहरणात् ४ आग्नीध्रीयᳪराजानᳪह्रियमाणमनुगच्छेत् ५ दीक्षितश्चेत्तत्रैव संविशेत ६ अपररात्र आज्यानि ग्रहीष्यतः पूर्वेण गत्वाग्निं च पश्चिमेन वा यजुषोपविशेत् ७ आत्तेषु प्राङुत्क्रम्य प्रसव्यं परीत्यानुगच्छेत्पूर्वेण चेद्गतः स्यात् ८ पश्चिमेन चेद्यथेतमग्निं परीत्यानुगच्छेत् ६ प्रवेशितेषूपविशेत् १० आज्येष्वेव ग्रहीष्यमाणेष्वत्रोपविशेदिति शाण्डिल्यः ११ अध्वर्युणोक्तो वाचं यच्छेदा तृतीयं प्रातरनुवाकस्य १२ आ वा परिधानीयायाः १३ आ वोपांश्वन्तर्यामयोर्होमात् १४ आ वा बहिष्पवमानात १५ हविर्धानं चेत् पूर्वेण गतः स्यादुपाᳪश्वन्तर्यामौ होष्यत्सूदङ्ङतिक्रम्य तिष्ठेत् १६ अदीक्षितश्चेदा तयोर्होमात् १७ निःसर्पत्स्वन्वारभेत १८ तस्य प्रस्तोत्रा समानं कर्म प्रागुपवेशनात् १६ आस्तावं प्राप्यानासन्नो यजुषोपविशेत्प्रस्तोतारं प्रति २०
इति द्राह्यायणश्रौतसूत्रे पञ्चदशे पटले द्वितीयः खण्डः

15.3 तृतीयः खण्डः
रश्मिरसीत्येतावनुवाकौ स्तोमभागाः १ तैः पृथगनुपूर्वᳪस्तोत्राण्यनुमन्त्रयेत ब्रह्मन्त्स्तोष्यामः प्रशस्तरित्युक्ते २ ऊर्ध्वं प्रथमाद्रात्रिपर्यायाद्यत्र स्यादमुष्मै त्वेति तं जिन्वेति तत्र ब्रूयात् ३ सवितृप्रसूता बृहस्पतये स्तुतेत्येकैकस्यान्तः ४ पूर्वेषां च ५ भूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुष ओमित्येतद्वाधिकं कुर्य्यादोंकारं वा ६ यथाम्नायᳪसंधेरनुमन्र्तयेत ७ त्रैधं विभजेदिति धानंजय्यो वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि । वसुकाय त्वा वस्यष्टये त्वा वेषश्रिये त्वा । वसुकं जिन्व वस्यष्टिं जिन्व वेषश्रियं जिन्व । सवितृप्रसूता बृहस्पतये स्तुतेति ८ स्रुतदेवेन सवित्रा प्रसूता इत्यनुमन्त्रयेत मानसं वाजपेये च बृहत् ६ आनन्तर्येणेतराणि १० ईद्ध्रात्स्तोत्राणि पूर्वेण तद्विवृद्धेः ११ परेण वा तन्निकामनात् १२ मानसवद्वातिरिक्त सामान्यात् १३ सर्वानुमन्त्रणेन वानुक्तत्वात् १४ यद्यत्स्तोत्रं लुप्येत सहैव स्तोमभागेन १५ स्तुते बहिष्पवमाने वपायां हुतायां मार्जयित्वा धिष्ण्यानुपस्थायोक्तᳪसदस्युपवेशनम् १६ स्तुतशस्त्रयोर्वाचं यच्छेत् १७ अनूच्यमाने च सर्वत्र १८ वषट्कृते विसृजेत १९ अवभृथादुदेत्यानुष्याद्यज्ञशेषम् २० अहर्गणेष्वेनᳪ सदातिप्रैषेण प्रशास्ता वाचं यमयति राजानᳪरक्षेति चाह तदुभयं कुर्यादा वसतीवरीणां परिहरणात् २१ तत्सत्रे पर्यायेण कुर्युरहीने तु ब्रह्मैव २२
इति द्राह्यायणश्रौतसूत्रे पञ्चदशे पटले तृतीयः खण्डः

15.4 चतुर्थः खण्डः
वाजपेये पृष्ठस्य स्तोत्रमनुमन्त्र्य सदस्यं ब्रह्मासन उपवेश्य निष्क्रामेत् १ पूर्वेणाग्नीध्रीयᳪस्थूणा निखाता स्यात् २ दक्षिणेन मार्जालीयमन्तर्वेदीति शाण्डिल्यः ३ तस्यामौदुम्बरᳪ सप्तदशारᳪ रथचक्रं प्रतिमुक्तं स्यात् ४ तदभावे यत्किंच रथचक्रम् ५ तस्मिन् बाहू आदध्याद्देवस्याहᳪसवितुः प्रवसे सत्यश्रवसो बृहस्पतेर्वाजिनो वाजजितो वर्षिष्ठमधि नाकᳪरुहेयमिति ६ रथेष्वाजिं धावत्स्वाविर्मर्या इति गायेदाकारमुद्गीथादौ लुप्त्वा तस्य स्थाने प्रत्याहृत्य द्व्यक्षरमग्मन्निति ७ गतेषु च ८ यथाधीतमाधावत्सु ६ आसृतेषु वा १० सर्वत्र वा यथाधीतम् ११ परिवर्तयन् गायेत् १२ परिवर्त्य वा गायेद्गीत्वा वा परिवर्तयेत् १३ गायतो वान्यः परिवर्तयेत् १८ उदङ्ङवरोहं मन्येत विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीति १६ अभिदक्षिणमावृत्य सदः प्रविशेत् १४ उदङ्ङवरोहं मन्येत विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीति १५ अभिदक्षिणमावत्य सदः प्रविशेत् १६ तत्रासीनो हिरण्यं मधु च नाना प्रतिगृह्णीयात् १७ ऋतपेये च दक्षिणां चमसम् १८ ब्राह्मणाय मधु दद्यान्निदधीत हिरण्यम् १९ त्रिष्टुप्छन्दसा सर्वभक्षं चमसं भक्षयेत् २० तं प्रतिगृह्णीयादिति स्थविरो गौतमः २१ कस्त्वा ददाति स त्वा ददाति कस्मै त्वा ददाति तस्मै त्वा ददाति कस्त्वा कं भक्षयामीति भक्षयेत् २२ वाग्देवी सीमस्य तृप्यत्विति वा २३ उभाभ्यां वोभाभ्यां वा २४
इति द्राह्यायणश्रौतसूत्रे पञ्चदशे पटले चतुर्थः खण्डः ४
इति पञ्चमः प्रपाठकः