कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/भारद्वाजपरिशेषसूत्रम्

← भारद्वाजपैतृमेधिकसूत्रम् कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
भारद्वाजपरिशेषसूत्रम्
भरद्वाजः

भारद्वाजपरिशेषसूत्रम्
अथातः सूत्रपरिशेषान् व्याख्यास्यामः १ बाहुमात्राः परिधयः स्फ्यः शम्या च २ प्रादेशमात्राण्यरत्निमात्राणि वेध्मकाष्ठानि शुष्काण्याद्रा र्!णि वा सव-ल्कलानि ३ अङ्गुष्ठपर्वमात्रबिलः स्रुवो भवत्यर्धप्रादेशमात्रबिलाः स्रुचः ४ वरुणप्रघासेषु यथाप्रकृति होतानुब्रूयात् ५ द्विवद् ब्रह्मानुजानाति । यथाप्रकृत्येव वा ब्रह्मा प्रसौति ६ गृहमेधीये न देवता आवाहयति सामि-धेन्यभावात् । आवाहयेद्वा ७ अग्नीन् वाग्नी वा परिस्तीर्योपवसति ८ बर्हिर्मुष्टिं वा प्रहृत्य समिष्टयजुर्जुहोति ९ यत्र क्व चाग्नौ परिस्तीर्य होतव्यम् । अनग्नौ हिरण्यमन्तर्धायाभिजुहुयात् १० स्विष्टकृद्विकारो वनस्पतिः ११ हस्तेन वोपयज उपयजति । नात्रोपस्तरणाभिघारणानि भवन्ति १२ अनी-कवतेन प्रचर्य गृहमेधीयाय वत्सानपाकरोत्यपराह्णे वा १३ शालामुखीये उदयनीयेन चरन्ति । प्राञ्चं प्रायणीयमासादयति प्रत्यञ्चमुदयनीयमिति वि-ज्ञायते १४ द्विरात्रादूर्ध्वं तन्तुमती स्यात् । उतैकाहमुत द्व्यहं न जुह्वति हुतमेवास्य भवतीति विज्ञायते १५ आधानानन्तरं सर्वैर्मन्त्रैरेकैकँ शमयेदा-हवनीयं वा १६ यदि त्वरेत पशुबन्धेऽग्नाविष्णुभ्यामिति चतुर्गृहीतँ स्यादिति १७ समानतन्त्रो वा क्रैडिनेन स्वातवसः स्यात् १८ असोमयाजी न संनयति । तस्यैन्द्रा ग्नो नियतः १९ नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते । नैन्द्रा ग्नः संनयतः । असोमयाजिनोऽपि ब्राह्मणस्याग्नीषोमीय इत्ये-केषाम् २० उपाँ शुयाजमन्तरा यजत्यजामित्वायेति विज्ञायते । अनारभ्यवाद इत्येकेषाम् २१ समानदेवताँ समवदाय प्रचरति हविर्गणेषु पशुगणेषु च २२ पृषदाज्यधान्युपभृद्वत् २३ वनस्पतेः पुनरतिक्रम्य वनस्पतिं यजेत् । अपुनरतिक्रम्य प्रचरन् प्रदक्षिणमावृत्यावद्येत् २४ सांनाय्यधर्माः पयस्या दधि पयः पशुश्च २५ इन्द्रि यावी भूयासम् इति यत्र क्व च पयस्या दधि पयो वान्यत्र वैश्वदेव्याः । तथा पशोरन्यत्र निर्दिष्टानुमन्त्रणेभ्यः २६ सँ सृष्टे मिश्रणं मुख्यं वा स्वधर्मः स्यात् २७ सांनाय्यप्रायश्चित्तान्यामिक्षायां न विद्यन्ते २८ यद्यन्यतरद् व्यापद्येत यत एव कुतश्चोत्पाद्य प्रचरेत् । यद्युभयं व्यापद्येताज्येन पयसा दध्ना वा यजुरुत्पूतेन प्रचरेत् २९ आज्येन वाजिने व्यापन्ने ३०

अथ प्रयाजाननुमन्त्रयते ३१ यथाप्रकृत्याद्याँ श्चतुरः । तत ऊर्ध्वं देवतानामा-प्रीणामिति यथादेवतँ षट् । यथाप्रकृत्युत्तमः प्रयाजः ३२ अथानू-याजाननुमन्त्रयते ३३ आद्याँ श्चतुरः प्रजावान् भूयासम् इति । उत्तराँ श्चतुरः पशुमान् भूयासम् इति । उत्तमस्यानुमन्त्रणेन नवमम् । प्रथमस्यानुमन्त्रणेन दशमम् । यथाप्रकृत्युत्तमोऽनूयाजः ३४ पितृयज्ञा नासोमाश्चानुवषट्काराद्वा पूर्वाः ३५ पशुमालभ्य पुरोडाशं निर्वपतीति विज्ञायते । अनन्तरवादोऽभिप्रेतः । वपया प्रचर्य पुरोडाशेन प्रचरतीति तद्वत् ३६ ऐन्द्रा ग्नः काम्यानां पशूनां प्रकृतिः । अग्नीषोमीय इतरेषाम् ३७ वैश्वदेविक एककपाल एककपालानाम् ३८ नान्यत्र चातुर्मासिकेभ्यो मासनामभिरभिजुहोति ३९ पृथग्भूत एक-कपालस्तस्य स्वदेवतेन प्रचर्य सर्वं पुरोडाशमवदाय स्विष्टकृतं यजति ४० यो हविर्गणे तस्य यथाग्रयणे ४१ इष्टानुमन्त्रणानि नान्यस्य प्रकृतिं गमयेत् ४२ निर्दिष्टप्रकृत्योः संनिपाते प्रकृतिर्बलीयसी ४३ सर्वेषाँ हविषां नाना-सँ स्काराणां यथाप्रकृत्यनुमन्त्रणकल्पः । सँ स्कारपृथक्त्वान्न प्रकृतिं गमयेत् ४४ अथ नक्षत्रेष्टीनां याज्यानुवाक्या यथासमाम्नाता उपहोमाश्च भवन्ति ४५ प्राकृतावाज्यभागौ । आम्नाते संयाज्ये । यथाश्रद्धं दक्षिणा भवन्ति ४६ आग्नेयमष्टाकपालमनुमत्यै चरुँ सर्वत्रानुषजति नक्षत्रहविर्मध्ये ४७ अनुपूर्वमितराभिरिष्टिभिरन्वहं यजते । यथा वार्थः ४८ तां त्र्! यवरार्ध्यां त्रिरर्ध्यामाहरेत् । अन्वहमवशिष्टानि हवी ँ! षि निर्वपति । अर्थायार्थायो-पहोमाञ्जुहोति ४९ तैर्लिङ्गैर्नियम्यन्ते । त एते काम्यानामुपहोमा भवन्ति ५० क्रत्वादौ क्रतुकामं कामयेत यज्ञाङ्गादौ यज्ञाङ्गकामम् । यावति तत्र सूर्यो गच्छेद्यत्र जघन्यं पश्येत्तावति कुर्वीत यत्कारी स्यात् पुण्याह एव कुरुत इति विज्ञायते ५१ अग्रेण प्राजहितं निरूढस्य पात्रप्रयोगो भवति ५२ दक्षिणस्य हविर्धानस्य विहारस्य चाग्रेण खरं बहिर्वाभ्यन्तरं वा सोमे ५३ यत् पच्यमानानां प्रतिह्रसेत् पुरीषेण तत् संपूरयेत् ५४ अग्रेणाहवनीयं पितृयज्ञस्य संचरो भवति ५५

अथाक्षरान्ताः ५६ याज्यान्ते स्युर्विसर्जनीयास्तदेवाविकृतं प्लावयित्वा वषट्कुर्यादन्यत्र सरेफादग्रेभ्यः ५७ अथाग्नीन् ज्वलतो नापर्येत् ५८ अथ चातुर्मास्यानां महेष्टिष्वपरो गार्हपत्यो दर्शपूर्णमासप्रकृतित्वात् ५९ यस्यां वेद्यामग्निः प्रणीयते सा पाशुक्याकृतिः । पञ्चारत्निर्भवति ६० उभयार्था सोमेऽन्यत्राभिचरणिकेभ्यः ६१ देशेदेशे कामाः ६२ पञ्चगृहीतं पशुकामस्य ६३ न क्रतुकामा भवन्ति ६४ मन्त्रव्यवाये मन्त्राभ्यासो द्र व्यपृथक्त्वे-ऽर्थपृथक्त्वे देशपृथक्त्वे च ६५ यथा कण्डूयनस्वप्ननदीतरणाववर्षणा-मेध्यप्रतिमन्त्रणानीति ६६ समानजातीयेषु बहुवन्मन्त्रान्नमेत् । यथा ग्रहे प्रतिग्रहे ६७ मन्त्रविरोधे संनमयेत् । संनमनविरोधे मन्त्रलोपः ६८ यदि दीक्षितस्याश्रु पतेत् तदनुमन्त्रयेत कृपा आपः स्थ स्वाहाकृताः पृथिवीमाविशत इति । सुदा इति स्नुहानम् । बीभत्सा इति स्वेदम् । तपस्या इति स्वेदम् । क्रव्या इति लोहितम् । अँ होमुच इति मूत्रपुरीषे । रेतःसिच इति रेतः । आपः स्थ सर्वत्रानुषजति ६९ द्वादशाहं दक्षिणार्थं भिक्षेत । द्र व्यासंभवे भूयस्तदर्थत्वात् ७० अद्भ्यः पवतेऽपोऽभिपवते इत्यहरहः प्रस्थितो जपति ७१ अत ऊर्ध्वं याजमानं यथासमाम्नातम् ७२ वाजपेयँ साग्निकमेके समामनन्ति । वसन्त एके ७३ यत्र क्व चैकाहे साग्निके षडुपसदः तिस्र एके समामनन्ति ७४ त्र्! युपसत्के मध्यमायामुपसद्यग्निं चिन्वीत प्रकृत्युपबन्धात् ७५ उपरि-ष्टाद्विधानानि न कालाकाङ्क्षीणि भवन्ति ७६ अथान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ७७ प्रधानं पशौ पश्वाहुतिः सोमे सोमाहुतयः । तद-ङ्गमितरे होमाः ७८ व्याख्याता दर्शपूर्णमासयोरिज्या कालाश्च ७९ पशा-वविशेषेऽजः ८० वशा वेहद्गौरिति लिङ्गैर्नियम्यते ८१ अजा अवयो गाव इत्यन्योन्यस्य प्रतिनिधयो भवन्ति ८२ स्थानसमाम्नानसमाख्यानसमवाये स्थानं बलीय इष्यते । यथा शुद्धवालः सर्वशुद्धवालो मणिवाल इति ८३ वाक्यशेषाश्च तद्वत् ८४ कृत्स्नप्रधानः परतन्त्रव्यवेते च । ततः प्रधानान्तः ८५

मन्द्रे ण पितृयज्ञोऽवभृथश्च ८६ अन्तरा सामिधेनीष्वनूच्यं निगदेषु निवित्पदेषु ८७ सामिधेनीवद्देवता आवाहयति ८८ मन्द्रे ण प्रागाज्यभागाभ्यां प्रातःसवने च ८९ मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने ९० क्रुष्टेन शेषे तृतीयसवने च ९१ वाक्संद्र वश्च तद्वत् ९२ आश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषाश्च तथैव ९३ उपाँ शुदेवतासूपसद्वर्जं वषट्कारप्रणवयेयजामहाश्च ९४ उपाँ शुदेवताना-मुपाँ श्वावाहनम् ९५ प्रदाप्यः सूक्तवाकनिगदे च अजुषतावीवृधत इत्युपाँ शु स्वप्रधानत्वात् ९६ सहस्रेण हिरण्यशल्कैः प्रोक्ष्य प्रत्यवरोहेदित्येकम् । प्रत्यवरुह्य प्रोक्षेदित्यपरम् ९७ गणेन गणमनुद्रुत्यासीनो हस्तेन जुहोति ९८ उत्तमं गणमनुद्रुत्य प्रथमेन गणेन प्रथमं पुरोडाशमुत्तमं वा । स्वतवाँ श्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च शाकी चोर्जीषी च इति सप्तमो गणः । न ऊतये इति सर्वत्रानुषजति ९९ अञ्जलिना वातनामानि जुहोत्याज्येन वा । वातं यजत इत्यर्थः १०० स्थाल्यामग्निहोत्रोच्छेषणम् १०१ विप्रक्रान्ते कर्मण्यग्निहोत्रकाल आगछेत् सँ स्थाप्य जुहुयादित्याश्मरथ्यः । काल एव जुहुयादित्यालेखनः १०२ वैश्वदेवं बर्हिरुत्तरेषु पर्वसु । यथाप्रकृति वा संनहनधर्माः १०३ इष्टिगणेषु सहेध्माबर्ही ँ! ष्याहरेत् १०४ वरुणप्रघासेषु समानाः प्रणीताः १०५ उदगयन आपूर्यमाणपक्षे समस्तानि । तेषां यथादेशं निवर्तनमन्ते वपनम् १०६ अग्नीनाधाय माँ सं न खादेदा पशुबन्धात् १०७ यद्यग्निष्टोमे षोडशिनं गृह्णीयात् क्रतुविभागकर्मणि यथाग्निष्टोमे न पशूनाद्रि येत १०८ साग्निके च गृह्णीयात् १०९ अरुणपिशङ्गोऽश्वो दक्षिणा । न विद्यत इत्येकम् । विद्यत इत्यपरम् ११० एकावरेषु दीक्षाकल्पेषु पर्वणि दीक्षा सुत्या वा १११ यो ब्रह्मचारी स्त्रियमुपेयात् स गर्दभं पशुमालभेत । आहिताग्निरित्येकमनाहिताग्निरित्यपरम् ११२ यो ब्राह्मणो बहुयाजीति सोमयाजिनं ब्रूते ११३

अल्पीयाँ सो मन्त्रा भूयाँ सि कर्माणि तत्र मन्त्राँ श्च कर्माणि च समशः प्रतिविभज्य पूर्वैः पूर्वाणि कर्माण्युत्तरैरुत्तराणि । असंभवे मन्त्रविभाग उत्तममावर्तयेत् ११४ अल्पीयाँ सि कर्माणि भूयाँ सो मन्त्रास्तत्र प्रतिमन्त्रं कुर्याद्विकल्पेरन्नवशिष्टाः । यथा यूपद्र व्याणि ११५ कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रँ स्यात् । जातिभेदे तु भिद्येत पक्तिवैषम्यात् ११६ यावतोऽश्वान् प्रतिगृह्णीयादिति । प्रतिग्रहणे पुरोडाशः स्यादित्याश्मरथ्यः । अश्वे पुरोडाश इत्यालेखनः ११७ आर्त्विज्ये प्रतिग्रहणे यजमानस्यैव स्यात् ११८ यद्युख्य उद्वायेत् भस्मनारणी सँ स्पृश्य मन्थितव्यः । तत्रोखां प्रवृणक्त्युख्यस्याहरणकल्पेन । प्रवृञ्जनं विद्यत इत्येकम् । न विद्यत इत्यपरम् ११९ समितम् इति चतसृभिः सं नि वपतीति द्वितीयमग्निं गार्हपत्यचितिमग्निमधि कुरुते १२० उपधानचरोस्तूष्णीं निरुप्य तूष्णीं निर्मथ्येन श्रपयति । उपधानमन्त्र एवात्र स्यात् १२१ शतरुद्री ये त्रयश्चत्वार इत्यनुवाकविभागः १२२ यदि त्वरेतोत्तरैर्यजुर्भिः षड्भिः संपादयेत् १२३ उपरिष्टादग्नीषोमीयात् कथं वेदिकर्माणि । यानि कृतानि न पुनः क्रियन्तेऽन्यत्र प्रोक्षणात् १२४ बर्हिरुपोष्य तूष्णीं पौतुद्र वान्न् प्रहरति १२५ तूष्णीकँ सवनीयं बहिराहरेदहरहः १२६ बर्हिषः कल्पेन प्रस्तरमाहरेदिति बादरायणः १२७ स्तरणेन देशा व्याख्याताः । यथा पञ्चहोत्रा पशुमासादयति । स्फ्यँ स्तब्ध्वा संप्रेष्यतीति १२८ सर्वसोमेषु ये षोडशभ्यस्तेभ्यो यथाश्रद्धं ददाति । यथा चमसाध्वर्यवः १२९ यथा खादिरैः स्रुवैर्नक्तं जुह्वतीति । यथा शतं ब्राह्मणाः पिबन्तीति । त एते सर्व ऋत्विजो वृता यज्ञवाहा इत्याश्मरथ्यः । अवृता इत्यालेखनः १३० दशपेयेऽन्यत्र प्राकृतेभ्यः शत-मित्येकम् । सह प्राकृतैरित्यपरम् १३१ अनूचाना विद्वाँ स आर्षेया ऋत्विजो भवन्तीति । त एते सकृद्वृता एव यज्ञं वहन्तीत्याश्मरथ्यः । सोमेसोम इत्यालेखनः १३२ मार्गादनपेतोऽनूचानः १३३ विलुप्तसावित्रीको दुर्ब्राह्मणः । मार्गादपेत इत्येके १३४

यदि यजमाना न सहेयुर्भूयोऽन्वावपेत भूयो भक्षान् कुर्यात् १३५ यद-न्यच्छकलेभ्यस्तत्सर्वमिडामवद्यति । न प्राशित्रं न यजमानभागम् १३६ सवनीयैरेव परप्रधानेषु व्याख्यातम् १३७ यदि प्रचरणीयो महावीरो व्यापद्येत इतरयोरन्यतरेण प्रचरेत् १३८ अयूपे क्रतौ वनस्पतिं नावाहयेन्न जुहुया-दित्याश्मरथ्यः । आवाहयेज्जुहुयादित्यालेखनः १३९ एकाहानामविशेषेण द्वादशशतं दक्षिणाः १४० सप्तगुः सोमः । षोडशकलः पशुः । कलाभिर्वा संख्यां पूरयेत् १४१ सर्वसँ स्थानामविशेषेण क्रतुपशव ऐकादशिनाश्च विकल्पन्त इत्याश्मरथ्यः । पश्वलाभ ऐकादशिनानामेकमुपाकरोतीत्या-लेखनः १४२ यूपैकादशिन्यामेव त्वाष्ट्र इत्याश्मरथ्यः । यत्र क्व चैकादश पशवः कुर्यादेव त्वाष्ट्रमित्यालेखनः १४३ बर्हिर्मुष्टिं प्रयछन् स्तोत्रमुपाकरोति । बर्हिषी इत्येके १४४ यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य इति पृष्ठ्यास्तरणमन्त्रः १४५ उत्तरेण हविर्धाने उत्तरेणाग्नीध्रमुत्तरेण सदः प्राग्वँ शस्य संचरः सदसो हविर्धानस्य च १४६ अन्तराणि यज्ञाङ्गानि बाह्या ऋत्विजः । पत्नीयजमानावृत्विग्भ्योऽन्तरतरौ । यथाकर्म ऋत्विजः । ऋत्विग्भ्यो यज्ञाङ्गानि । यज्ञाङ्गेभ्य आज्यानि । आज्येभ्यो हवी ँ! षि । हविर्भ्यः सोमः । सोमादग्नयः १४७ न विहारादपपर्यावर्तेत । प्रत्यङ् गछन् दक्षिणमँ समावर्तयेत् प्राङ् गछन् सव्यम् १४८ पञ्च हविराकारा आज्यं पय ओषधयः पशुः सोम इति १४९ आज्यतन्त्राणामुपाँ शुयाजवत् । आज्यविकारो मधूदके १५० यद्यन्ते स्यादित्यग्निहोत्रादनन्तरवादोऽभिप्रेतः १५१ प्राणा वा एते यच्चतुर्होतारः । तान् हुत्वा यदग्निमपनयेद्यजमानस्य प्राणान् विछिन्द्यादिति विज्ञायते १५२ यदि सभ्यावसथ्यौ न शक्नुयाद्यो नित्यस्तस्मिन् मन्त्रप्रयोगः १५३

एकदेवतौषधिद्र व्या आग्नेयविकारा अन्यत्र सोमेन्द्रा भ्याम् १५४ तयोरेकदेवताग्रहणम् । गुणस्तु पूर्वम् । वृत्रहा इत्याशिषः १५५ सोमेन्द्र स्तु सोमपूर्वत्वादग्नीषोमीयविकारः । इन्द्रा सोमस्त्विन्द्र पूर्वत्वादैन्द्रा ग्नविकारः १५६ अग्नये पथिकृत इत्याग्नेयविकारः १५७ निरूढमप्याग्नेयं पौर्णमास-विकारँ स्यात् १५८ हविर्देवताशब्दाक्षरसामान्याद्विशेषाः । पूर्वंपूर्वं गरीयः १५९ गुणविशिष्टायै देवतायै गुणविशिष्टं देवताग्रहणम् । गुणलोपे लोपः १६० वैश्वदेव्यामिक्षाणां प्रकृतिः । द्यावापृथिव्य एककपालानाम् १६१ निष्कासः सांनाय्यविकारः पशुर्वाजिनं च १६२ यद्देवो वर्षत्यथौषधयो जायन्ते । ओषधीर्जग्ध्वा पयः पीत्वा रेतः संभवतीति समानयोनितां पयसः पशोश्च दर्शयति १६३ स्विष्टकृद्विकारो वनस्पतिर्वहनसामान्याद्देवतानिगमन-सामान्यादेकावदानसाम्याच्च १६४ सवनीयेषु हरिवते धानाः पूष्णः करम्भो भारत्यै परिवाप इन्द्रा य पुरोडाशो मित्रावरुणयोः पयस्येति प्रचरणकाले देवतापनयः । ऐन्द्रा ः! संपद्यन्ते १६५ तन्त्रं देवताग्रहणम् १६६ आशिषः समुच्चीयेरन् १६७ सँ सृष्टेषु नानाद्र व्यत्वाद्वरुणप्रघासेषु मेषयोश्च १६८ शतकृष्णलायामाज्यवद् विलयनसामान्याद्देवतानिगमनसामान्यादनेकसा-मान्याच्च १६९ एकदेवतौषधिद्र व्या आग्नेयविकारा अन्यत्र सौम्यादैन्द्रा च्च १७० सौम्योऽग्नीषोमीयविकारः प्रकृतिदेवतत्वात् १७१ गुणविकृतेऽपि यथा सोमाय पितृमत इति १७२ गुणविकृतेऽप्यैन्द्र ऐन्द्रा ग्नविकारः प्रकृतिदेवतत्वात् । गुणविकृतेऽपि यथेन्द्रा य मरुत्वत इति १७३ तेषां द्विदेवता बहुदेवताश्च १७४ द्व्यक्षरत्र्! यक्षरा ऐन्द्रा ग्नविकारा यथाश्विनौ मरुत इति १७५ चतुर-क्षरप्रभृतयोऽग्नीषोमीयविकारा यथा वैश्वदेवो द्यावापृथिवीय इति १७६ सोमेन्द्रा इन्द्रा सोमीया उभयविकारा उभयलिङ्गत्वात् १७७ अपि सोमेन्द्र ऐन्द्रा ग्नस्य । इन्द्रा सोमीयोऽग्नीषोमीयस्य १७८ अक्षरसंख्यायाँ सगुणो देवताशब्द एव समाश्रीयेत यथा पितरो बर्हिषदो मरुतः सांतपना मारुत्सांतपनं पैतृबर्हिषदमिति १७९ हविर्दोषान् व्याख्यास्यामः १८० अथातोऽग्नीना-मुद्वातानां खण्डद्वयं बौधायनवदेकाध्वर्यवप्रायश्चित्तं च १८१

स्त्रियाश्चैव संस्कारार्थमौपासनम् । अग्निहोत्रं यजमानस्येति विज्ञायते । अन्यतरं पत्न्या अन्यतरं यजमानस्य । तयोर्यः प्रथमं म्रियेत तस्याग्निहोत्रं पत्युर्जायाया वा । सह प्रमीतयोरुभयोः प्रतिषेधः १८२ अथ यद्यपत्नीकः स्यादुभाभ्यां तस्य सँ स्कार औपासनाग्निहोत्राभ्याम् १८३ अथ यद्यग्निहोत्रेण पत्नीं दहति । यदेकस्मिन् यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्नैकाँ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दत इति विज्ञायते । सा पुंवद्भवति स स्त्रीवद् भवतीति विज्ञायते १८४ यद्याहिताग्निः पुनर्दारान् कुर्यादग्नीन्नोत्सृजेयुर्लौकिकाः संपद्येरन् । तस्य पुनरग्न्याधेयं विद्यत इत्या-श्मरथ्यः । पुनराधेयमित्यालेखनः । पुनरग्न्याधेयमित्यौडुलोमिः १८५ यजमानः प्रधान औपासनं च । द्र व्यं पत्नी १८६ यथा शरीरिणि शरीरे च पञ्च वायवो निविष्टाः प्राणापानव्यानोदानसमाना इति । तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीय उदानसमानौ सभ्याव-सथ्यावित्येत एवाग्नय इति । एत एव पञ्च प्राणा अग्नय आधीयन्ते । पाङ्क्तं वा इदँ सर्वं पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति विज्ञायते १८७ यथैश्वर्यबलादीश्वरः स्वान् देहान् परित्यज्यान्येषां देहान् प्रविश्य पुनरात्मदेहान् प्रत्यागछति न च तेन दुर्ज्ञायते । औपासनेऽग्नयो निविष्टा औपासनो यजमाने । तस्मा-दौपासनान्न प्रमदितव्यम् । यथर्षभ ऋषभायां वत्सं जनयत्येवमौपासनो-ऽग्निहोत्रं व्यापन्नं भूयो जनयति । औपासनस्यैवैषा संततिर्यदग्निहोत्रम् । तदु तथा न कुर्यात् । न विद्यत औपासनाग्निहोत्रयोर्विवेचनम् । उभयं जुहु-यादौपासनमग्निहोत्रं च । अथापि विज्ञायते सप्त पाकयज्ञसँ स्था औपासने चतुर्दशाग्निहोत्रे १८८

पवित्रेष्टिं व्याख्यास्यामः १८९ अमावास्यायां पौर्णमास्यां वाग्नीनन्वाधाय वैश्वदेववदिध्माबर्हिराहरति १९० प्रणीताः प्रणीय चतुर्गृहीतं जुहोति येन देवाः पवित्रेण इति १९१ अपरं चतुर्गृहीतं प्राजापत्यं पवित्रम् इति १९२ अपरं चतुर्गृहीतम् इन्द्र ः! सुनीती इति १९३ अभ्यातानान् हुत्वाग्नेयमष्टाकपालं निरुप्य पवमानहवी ँ! षि वैश्वानरं द्वादशकपालं पञ्चमम् १९४ आग्नेयं परिहाप्याग्नये व्रतपतय इत्येके समामनन्ति १९५ पवमानः सुवर्जनः इति द्वे धाय्ये । यत्ते पवित्रम् ॥ जातवेदः पवित्रवत् १९६ त्वं च सोम नो वशः ॥ ब्रह्मा देवानाम् इत्याज्यभागयोः १९७ अथ हविषाम् । आग्नेयेन प्रचर्योपाँ शु व्यत्यासं पञ्चभिराज्यहविर्भिर्यजति । उत नः प्रिया ॥ इमा जुह्वाना इति सरस्वत्याः प्रियायाः । त्रीणि पदा ॥ तदस्य प्रियम् इति विष्णोरुरुक्रमस्य । अद्या नो देव सवितः ॥ विश्वानि देव सवितः इति देवस्य सवितुः । प्र वायुमच्छा ॥ आ नो नियुद्भिः इति वायोर्नियुत्वतः । दधिक्राव्णो अकारिषम् ॥ आ दधिक्राः इति दधिक्राव्णः १९८ उभाभ्यां देव सवितः ॥ वैश्वदेवी पुनती ॥ येन देवा अपुनत ॥ यः पावमानीरध्येति ॥ पावमानीर्यो अध्येति ॥ पावमानीः स्वस्त्ययनीः ॥ पावमानीर्दिशन्तु नः ॥ पावमानीः स्वस्त्ययनीः इत्युपहोमाः । वैश्वानरो रश्मिभिः ॥ बृहद्भिः सवितस्तृभिः इति संयाज्ये । यद्देवा देवहेडनम् इति गार्हपत्ये जुहोति पुरस्ताद् गृहपतेरुपरिष्टाद्वा १९९ सिद्धमिष्टिः संतिष्ठते २०० पवित्रेष्ट्येष्ट्वा शुद्धः पूतः पङ्क्तिपावनो भवतीति विज्ञायते । दश पूर्वान् दशापरानात्मानं चैकवि ँ! शतिं पुनात्युभयतः । सर्वेषां पापानां भूयिष्ठदोषनिर्णुदां पवित्रेष्टिं प्रशँ सन्ति तद्धि पावनमुत्तममिति २०१

अतिपवित्रेष्टिं व्याख्यास्यामः २०२ तस्याः पवित्रेष्ट्या कल्पो व्याख्यातः २०३ वैश्वानरं द्वादशकपालं पञ्चमं निरुप्याग्नये पथिकृतेऽग्नये वैश्वानरायाग्नये व्रतपतयेऽग्नयेऽनीकवतेऽग्नीषोमीयमिति निर्वपति २०४ अग्नीषोमीयं परिहा-प्याग्नये व्रतभृत एके समामनन्ति २०५ दधिक्राव्णः प्रचर्योपांशु व्यत्यासं पञ्चभिराज्यहविर्भिर्यजते विष्णुः सरस्वती सरस्वान् प्रजापतिः सवितेति २०६ हिरण्यं वासो दक्षिणा २०७ सिद्धमिष्टिः संतिष्ठते २०८ अतिपवित्रेष्ट्या वसन्ते ब्रह्मवर्चसकामः शरद्यायुष्कामः श्रावण्यां पुत्रकामस्तैष्यां वीर्यकामो यजेतेति विज्ञायते । सैषा संवत्सरमतिप्रवसतः । शुद्धिकाम एतया यजेतेति विज्ञायते २०९

अथातोऽनुग्रहान् व्याख्यास्यामः २१० समस्तहोमो बौधायनवत् २११ यद्युत्तरारणी समारूढो जीयद्भिद्येद् दुष्येन्नश्येद्वा अधरारणी आहृत्येति विज्ञायते २१२ यद्यधरारण्यसमारूढा जीर्येद्भिद्येद् दुष्येन्नश्येद्वा शकलीकृत्य गार्हपत्ये प्रक्षिप्य प्रज्वाल्यादत्ते दक्षिणेनोत्तरारणिँ सव्येनाधरारणिम्
उत्तिष्ठाग्ने प्रविश योनिमेतां देवयज्यायै त्वा वोढवे जातवेदाः ।
अरण्योररणी अनुसंक्रमस्व जीर्णां तनुमजीर्णया निर्णुदस्व ॥
इति २१३ अथैनँ स्वेन मन्त्रेण स्वे योनौ समारोप्य मथित्वाग्नीन् विहृत्य जुहुयात् २१४ पूर्ववद्विहृत्य पूर्ववज्जुहोतीत्यालेखनः २१५ अतिक्क्रान्तेषु होमेषु बौधायनवत् २१६ चातुर्मास्यैः पञ्चदशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ । द्वितीये वैश्वदेवम् ।तृतीये चतुर्थे पञ्चमे चोपरम्य षष्ठे वरुणप्रघासाः । सप्तमेऽष्टमे नवमे चोपरम्य दशम एकादशे च साकमेधाः । द्वादशे त्रयोदशे चोपरम्य चतुर्दशे शुनासीरीयं पञ्चदशे पशुरिति २१७ द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ । द्वितीये वैश्वदेवम् । तृतीये चतुर्थे चोपरम्य पञ्चमे वरुणप्रघासाः । षष्ठे सप्तमे चोपरम्याष्टमे नवमे च साकमेधाः । दशम एकादशे चोपरम्य द्वादशे शुनासीरीयम् । त्रयोदशे पशुरिति । संवत्सरप्रतिमा वै द्वादश रात्रयः संवत्सरमेव यजत इति विज्ञायते २१८ सर्पिर्वा मध्वलाभ इत्यादि २१९ कुशा बर्हिरर्थ इत्यादि २२० खादिरबिल्वपालाशानामिध्मदारूणीत्यादि २२१ आज्यालाभ आजमाविकं माहिषं वा घृतमाज्यार्थ आ!दि २२२
इति भारद्वाजपरिशेषसूत्रम्