कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/भारद्वाजपैतृमेधिकसूत्रम्

← प्रश्नः १५ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
भारद्वाजपैतृमेधिकसूत्रम्
भरद्वाजः
भारद्वाजपरिशेषसूत्रम् →

भारद्वाजपैतृमेधिकसूत्रम्
अथ प्रथमः प्रश्नः
अथातः पैतृमेधिकं दहनम् । पुरुषाहुतिर्ह्यस्य प्रियतमेति विज्ञायते १ आहितात्नेर्मरणसँ शये प्राचीनावीती दहनदेशं जोषयते दक्षिणाप्रत्यक्प्रवण-मनिरिणमसुषिरमनूषरमभङ्गुरमनुपहतमविस्रग्दार्यनुपच्छिन्नप्रवणम् २ य-स्माद्दक्षिणाप्रतीच्य आपो निःसृत्योदीच्य एत्य महानदीमवेत्य प्राच्यः संपद्यन्ते ३ समं वा सुभूमिं बहुलौषधम् ४ वनस्यावनं क्षेत्रस्याक्षेत्रमिरिणस्या-निरिणमित्येके ५ यस्मादारात् क्षीरिणो वृक्षाः काष्टकिणश्च तथौषध्यः ६ तस्मिँ स्त्रेधोल्लिख्योद्धत्यावोक्ष्य गार्हपत्यं मथित्वाहवनीयं ज्वलन्तमुद्धरति ७ अन्तरा दारुचितेरवकाशँ शिष्ट्वाग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद् गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात् सभ्यावसथ्यावौपासनं च ८ तेष्वजस्रेषु जुह्वद् वसति ९ प्राणा वा एत आहिताग्नेर्यदग्नयस्त एनँ सुसमिद्धाः पारयन्त्यगदो हैव भवतीति विज्ञायते १० तस्यैतदग्निहोत्रोच्छेषणं निदधाति ११ ग्रामे वास्यैतेन कल्पेन जुहुयात् १२ यदि जीवेत् पिबेदेतदग्निहोत्रोच्छेषणम् १३ यदि मरणसँ शये ब्रह्मविदाप्नोति परम् ॥ भृगुर्वै वारुणिः इत्येतावनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति । इतरस्य आयुषः प्राणँ संतनु इति वा १४ यदि प्रैति प्रेतेऽमात्याः प्राचीनावीतिनः केशान् प्रकीर्य पाँ सूनावपन्ते १५ तं जघनेन गार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेशयन्ति सर्वस्य प्रतिशीवरी इति १६ सर्वेषु संवेशनेषु दक्षिणाशिराः १७ पूर्वया द्वारोपनिर्हृत्यान्तराग्नी निपात्यान्वारब्धे मृत आहवनीये स्रुवाहुतिं जुहोति परे युवाँ सम् इति १८ एवं गार्यपत्ये १९ तूष्णीमन्वाहार्यपचने सभ्यावसथ्ययोरौपासने च २० अथास्य दक्षिणेन विहारं प्रेतस्य केशश्मश्रुलोमनखानि वापयित्वा स्नापयित्वाछाद्य ग्राम्येणालंकारेणालंकृत्य शुक्लसूत्रेणाङ्गुष्ठौ बद्ध्वा नलदमालामाबध्य २१ १.१

औदुम्बर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रम् इति १ अथास्येतरदपादत्ते अपैतदूह इति २ तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः प्रतीतः परिधाया जरसो वसीत ३ अपरेणाहवनीयं प्रतीचीस्तिस्र उलपराजीः स्तीर्त्वापरापावमवहतानां व्रीहीणामन्वाहार्यपचने तूष्णीमुपचरितं चरुँ श्रपयति ४ गार्हपत्ये च मैत्रावरुणीमामिक्षां यदि सोमयाजी भवति ५ पालाशं काष्ठमग्न्यगारे तृणैर्गार्हपत्य आदीप्य तेनोल्मुकप्रथमा गच्छन्ति ६ अजमनुनयन्ति राजगवी ँ! सव्ये पदि बद्धामग्नीनग्निभाण्डमग्निहोत्रोच्छेषणमिति ७ येन चान्येनार्थी भवति ८ न हीनमन्वाहरेयुः ९ अथ तमाददते १० अनसा वहन्तीत्येके ११ कृष्णगवँ स्यादिति शाट्यायनकम् १२ इमौ युनज्मि इत्येष योजन आम्नातः १३ आदीयमानमनुमन्त्रयते पूषा त्वेतश्च्यावयतु इति १४ तुरीयल्मध्वनो गत्वा निधाय दक्षिणतो लोष्टानवरुज्य तेषु चरुं प्रतिष्ठा-प्यैकवाससो दक्षिणान् केशपक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूना-घ्नानाः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्ति अप नः शोशुचदघम् इति १५ सव्यानुद्ग्रथ्य दक्षिणान् प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति अप नः शोशुचदघम् इति १६ मेक्षणेन लोष्टेषु चरोस्त्रिः प्रयौति १७ १.२

परीत्यपरीत्य प्रयौतीत्येके १ आदीयमानमनुमन्त्रयते पूषेम आशाः इति २ तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वादीयमानमनुमन्त्रयते आयुर्विश्वायुः इति ३ तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वा तृतीयेन सह चरुं प्रक्षिणुयात् ४ अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् ५ तूष्णीं चतुर्थमादाय गत्वा जघनेन दहनदेशं निधायोदञ्चः समुत्क्रामन्ति । एषा वै देवमनुष्याणाँ शान्ता दिक् तामेवैनामनूत्क्रामन्तीति विज्ञायते ६ प्रत्येत्य हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ संमार्ष्टि अपेत वीत इति ७ दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य हिरण्यशकल-मवधाय तस्मिन् दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु दक्षिणाग्रैर्याज्ञिकैः काष्ठैर्दारुचितिं चित्वाग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिण-तोऽन्वाहार्यपचनं पुरस्तात् सभ्यावसथ्यावौपासनं च ८ दक्षिणाप्राग-ग्रैर्दर्भैरग्नीन् दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् सँ स्तीर्य दक्षिणाप्राञ्च्येकैकशः पात्राणि प्रयुनक्ति ९ रज्जूरवकृत्यासन्दीमपविध्यन्ति १० रज्जुषु चैव कृष्णाजिने चोत्तानः शेते ११ एकपवित्रेण प्रोक्षणीः सँ स्कृत्य मृतं पात्राणि दारुचितिं च प्रोक्ष्याज्यानि गृह्णाति दर्शपूर्णमासवत् तूष्णीम् १२ अग्निहोत्रोच्छेषणमन्येन दध्ना सँ सृज्य पात्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते १३ ३
अथैनमुदरे विदार्य निरान्त्रं निष्पुरीषं कृत्वावटे पुरीषमवधाय प्रक्षाल्य प्रत्यवधाय सर्पिषा पूरयतीति शाट्यायनकम् १ अपि वा न निष्पुरीषं कुर्यात् । यदि कुर्यात् प्रजा हास्य क्षोधुका भवतीति विज्ञायते २ अत्र राज-गवीमुपाकरोति भुवनस्य पते इति जरतीं मूर्खां तज्जघन्यां कृष्णां कृष्णाक्षीं कृष्णवालां कृष्णखुराम् ३ अपि वाक्षिवालखुरमेव कृष्णँ स्यात् ४ तां ज्ञातयोऽन्वारभन्ते ५ अथात्यन्तप्रदेशः । धून्वनेऽन्वारम्भणे संगाहने सँ सर्पण उदकोपस्पर्शन आरोहण इति सर्वत्र कनिष्ठप्रथमा अनुपूर्वा इतरे स्त्रियोऽग्रे ६ तां घ्नन्त्युत्सृजन्ति वा ७ यद्युत्सृजन्ति अपश्याम युवतिमाचरन्तीम् इत्येता-भिस्तिसृभिस्त्रिः प्रसव्यं राजगवीमग्नीन् दारुचितिं च परिणीय ये जीवा इत्यभिमन्त्र्! य माता रुद्रा णाम् इति द्वाभ्यामुत्सृजन्ति ८ १.४

यदि घ्नन्ति ततः संप्रेष्यति अपिधाय मुखं दक्षिणापदीं प्रत्यक्छिरसीं घ्नत इति १ निहन्यमानायाँ सव्यानि जानून्यनुनिघ्नन्तः पाँ सूनवमृजन्ते पुरुषस्य सयावरि इति २ अथाह विस्रँ सयत इति ३ विस्रस्यमानामनुमन्त्रयते पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् इति ४ ततः संप्रेष्यति अङ्गादङ्गादनस्थिकानि पिशितान्युत्खिद्याप्रक्वाथयन्तोऽप्रच्यावयन्त उल्मुकैः श्रपयतात् प्रज्ञातं हृदयं निधत्तात् प्रज्ञातौ वृक्यौ प्रज्ञातं मेदः प्रज्ञातां वपां प्रज्ञातँ सपादवालशीर्षचर्म इति ५ अत्र पत्नीमुपनिपातयति इयं नारी इति ६ तां पतित्थ एक-धनेनोत्थापयत्यन्यो वा ब्राह्मणः उदीर्ष्व नारि इति ७ अत्र पत्नी साहस्रं वरं ददाति ८ हस्तौ संमार्ष्टि ९ सुवर्णेन ब्राह्मणस्य सुवर्ण ँ! हस्तात् इति १० धनुषा राजन्यस्य धनुर्हस्तात् इति ११ मणिना वैश्यस्य मणिँ हस्तात् इति १२ अथैनं चितावुपर्यध्यूहति १३ अत्र वा पत्न्याः संवेशनादिक्रियते १४ अथास्य प्राणायतनेषु हिरण्यशल्कान् प्रत्यस्यत्याज्यबिन्दून् वा १५ पात्राणि चिनोति १६ सर्वाण्यनुलोमानि ध्रुवावर्जम् १७ तस्य दक्षिणे हस्ते स्फ्यं जुहूं च निदधाति १८ सव्य उपभृतम् १९ उरसि ध्रुवामरणीं च २० १.५

मुखेऽग्निहोत्रहवणीम् १ नासिकयोः स्रुवौ २ अक्ष्योर्हिरण्यशकलावा-ज्यस्रुवौ वा ३ कर्णयोः प्राशित्रहरणे भित्त्वा वैकम् ४ हन्वोरुलूखलमुसले ५ दत्सु ग्राव्णो यदि ग्रावाणो भवन्ति ६ शिरसि कपालानि ७ ललाट एककपालम् ८ उदरे पिष्टसंयवनीं पात्रीम् ९ नाभ्यामाज्यस्थालीम् १० पार्श्वयोः शूर्पे छित्त्वा वैकम् ११ वङ्क्ष्णयोः सांनाय्यकुम्भ्यौ यदि संनयति १२ अण्डयोर्दृषदुपले १३ शिश्ने वृषारवँ शम्यां च १४ प्रतिष्ठयोर-ग्निहोत्रस्थालीमन्वाहार्यस्थालीं च १५ पत्त उपावहरणीयं कूर्चम् १६ वेदँ शिखायाम् १७ शिरस्त उपसादनीयमिडापात्रं च १८ इममग्ने चमसम् इति मध्ये चमसम् १९ अवशिष्टान्यन्तरा सक्थिनी २० स एष यज्ञायुधी यज-मानोऽञ्जसा स्वर्गं लोकमेतीति विज्ञयते २१ उल्मुके वियूष्काण्यवदानानि श्रपयित्वा हृदयेऽस्य हृदयं निदधाति २२ दक्षिणे हस्ते दक्षिणं वृक्यँ सव्ये सव्यँ श्यामशबलाभ्यां त्वा इति २३ हस्तयोरेव मैत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वा इति २४ वपयास्य मुखं प्रोर्णोति मेदसा शिरः संप्रोर्णुष्व मेदसा पीवसा च इति २५ १.६

अथैनँ सपादवालशीर्षचर्मणोत्तरलोम्ना प्रोर्णोति अग्नेर्वर्म इति १ अथैनमुपोषति मैनमग्ने विदहः इति पुरस्तादाहवनीयेन शृतं यदा इति पश्चाद्गार्हपत्येन तूष्णीं दक्षिणतोऽन्वाहार्यपचनेन पुरस्तात् सभ्यावसथ्याभ्यामौपासनेन च २ अथैनमुपतिष्ठते सूर्यं ते चक्षुः इति ३ विज्ञानमुपैति । यद्यूर्ध्वो धूम उदियाद् द्युलोको भवतीति विज्ञायते । यद्यन्तरिक्षमन्तरिक्षलोकः । यदि पृथिवीं पृथिवीलोकः ४ जघनेन चितिमजमबलेन शुल्बेन संबध्नाति ५ अजो भागः इत्युद्द्रवन्तमनुमन्त्रयते ६ अत्रैतद्धविरिडसूनेन प्पात्र्! या चमसेन वा जुहोति अग्नये रयिमते स्वाहा इति ७ नव च सुर्वाहुतीः य एतस्य पथो गोप्तारः इति ८ अत्रोभयं प्रहरति येन जुहोति ९ अपरेणाग्निं प्राङ्मुख उपविश्याथैनं याम्येन सूक्तेन नवर्चेन पराचानुशँ सति प्र केतुना इति १० जघनेन दहनदेश-मुदीचीस्तिस्रः कर्षूः खाट्वाश्मभिः सिकताभिश्चोपप्रकीर्यायुग्भिरुदकुम्भैरपः परिप्लाव्य तासु ज्ञातयः संगाहन्ते अश्मन्वती रेवतीः इति ११ १.७

जघनेन कर्षूः पलाशशाखे शमीशाखे वा निघ्नन्ति १ अथैने दर्भमयेन शुल्बेन संबध्य ते अन्तरेण प्रसर्पन्ति यद्वै देवस्य सवितुः पवित्रम् इति २ जघन्यः शाखे व्युदस्यति या राष्ट्रात् पन्नात् इति ३ उद्वयं तमसस्परि इत्यादित्य-मुपस्थायानवेक्षमाणा अपोऽवगाहन्ते धाता पुनातु सविता पुनातु इति ४ केशान् प्रकीर्य पाँ सूनोप्यैकवाससो दक्षिणामुखाः सकृदुपमज्ज्योत्तीर्योप-विशन्ति ५ एवं त्रिः ६ तत्प्रत्ययमुदकमुत्सिच्याहरहरञ्जलिनैकोत्तरवृद्धि-रैकादशाहात् ७ अप्रतीक्षा ग्राममेत्य यत् स्त्रिय आहुस्तत् कुर्वन्ति ८ अनशनानध्ययनाधःशय्योदकोपस्पर्शनान्या कालम् ९ अनूचानेषु द्व्यहं त्र्! यहँ षडहं द्वादशाहं वा १० गुरुष्वनशनवर्ज ँ! संवत्सरम् ११ मातरि पितर्यार्चाय इत्येके १२ अनशनानध्ययनवर्जं यावज्जीवं प्रेतपत्न्युदकोपस्पर्शनमेकभुक्त-मधःशय्या ब्रह्मचर्यं क्षारलवणमधुमांसवर्जं च १३ १.८

अपरेद्युस्तृतीयस्यां पञ्चम्याँ सप्तम्यां वारथीनि संचिन्वन्ति १ क्षीरोत्सिक्तेनो-दकेनोदुम्बरशाखयाप्रक्वाथयञ्छरीराण्यवोक्षति यं ते अग्निममन्थाम इति पञ्चभिः २ अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रः सुर्वाहुतीर्जुहोति अव सृज इति प्रतिमन्त्रम् ३ अयुग्भिरुदकुम्भैः स्ववोक्षितमवोक्ष्यायुजः स्त्रियः सं-चिन्वन्ति ४ यस्याः पुनर्विजननं न स्यात् सा सव्ये हस्ते नीललोहिताभ्याँ सूत्राभ्यां बृहतीफलमाबध्य सव्येन पदाश्मानमास्थाय सव्येन पाणिना प्रथमानन्वीक्षमाणास्थीन्यादत्ते उत्तिष्ठातः इति दद्भ्यः शिरसो वा ५ तद्वाससि कुम्भे वा निदधाति ६ इदं त एकम् इति द्वितीयाँ साभ्यां बाहुभ्यां वा ७ पर ऊ त एकम् इति तृतीया पार्श्वाभ्याँ श्रोणिभ्यां वा ८ तृतीयेन ज्योतिषा इति चतुर्थ्यूरुभ्यां जङ्घाभ्यां वा ९ संवेशनः इति पञ्चमी पद्भ्याम् १० एवमेवायु-जाकारँ सुसंचितँ संचिन्वन्ति ११ भस्माभिसमूह्य सँ हत्य शरीराकृतिं कृत्वा शरीराण्यादायोत्तिष्ठति उत्तिष्ठ प्रेहि इति १२ शम्यां पलाशमूले वा कुम्भं निधाय जघनेन कुम्भं कर्ष्वादि समानमा स्नानात् १३ मृदा स्नातीत्येके १४ १.९

अथातो हविर्यज्ञियं निवपनम् १ यं कामयेतानन्तलोकः स्यादिति समस्या उद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते वाग्यतोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति पृथिव्यास्त्वा अक्षित्या अपामोषधीनाँ रसेन स्वर्गे लोके निवपाग्यसौ इति २ अनन्तलोको ह भवतीति विज्ञायते ३ अथ यदि पुनर्धक्ष्यन्तः स्युरग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले च नानुप्रहरेयुः ४ अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रो रात्रीरिद्ध्वा दहनवदवकाशं जोषयित्वाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु कृष्णाजिने शम्यायां दृषदुपलाभ्यामवाञ्जनँ शरीराणि सुसंपिष्टानि पेषयित्वाज्यकुम्भे समुदायुत्याग्निहोत्रहवण्या जुहोति अस्मात् त्वमधि जातोऽसि इति ५ एतयैवान्तम् ६ अत्रैवाग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले चानुप्रहरेयुः ७ न चात ऊर्ध्व ँ! श्मशानं कर्तुमाद्रि येत ८ आकृती-र्वास्यादहने निवपेच्छर्कराभिर्वा परिचिनुयात् ९ तमभ्येवादित्यस्तपति तमभि वातो वाति तमापः स्पृशन्ते १० स नैवादित्यस्य सकाशाच्छिद्यते न वायोर्नापाँ सँ सर्जनात् ११ एवँ हि कौषीतकिर्विदांचकार तँ हैवं चक्रुरेवमु ह हैव-माश्मरथ्यं चक्रुः १२ तस्यो हैवैतेऽहीना हायना व्युच्छन्तीव्युच्छन्त्यस्मै वस्यसीवस्यसी व्युच्छति प्रजा हास्य श्रेयसी भवति यमेवं निदधातीति विज्ञायते १३ १.१०

नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामँ श्मशानं चाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य तद्वेतसमालिनो ज्ञातीनारोपयति आरोहत इति १ अथैनाननुपूर्वान् कल्पयति यथाहानि इति २ प्रतिलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति नहि ते अग्ने तनुवै इति ३ दश च सुर्वाहुतीः अप नः शोशुचदघम् इति ४ हुत्वाहुत्वा पात्र्! याँ संपातमवनयति ५ अत्रोभयं प्रहरति येन जुहोति ६ उत्तरेणाग्निं लोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति ७ तं ज्ञातयोऽन्वारभन्ते अनड्वाहमन्वारभामहे इति ८ प्राञ्चो गच्छन्ति इमे जीवाः इति ९ जघन्यो वेतसशाखयावकाभिश्च पदानि संलोपयन्नेति मृत्योः पदम् इति १० अथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधाति इमं जीवेभ्यः परिधिं दधामि इति ११ स्त्रीणामञ्जलिषु संपातानवनयति इमा नारीः इति १२ तैर्मुखानि विमृजन्ते १३ यदाञ्जनं त्रैककुदम् इति त्रैककुदेनाञ्जनेनाञ्जीरन् १४ यदि त्रैककुदं नाधिगच्छेयुर्येनैव केनचिदाञ्जनेनाञ्जीरन् १५ १.११

पृथिव्यामोषधिस्तम्बं प्रतिष्ठापयति यथा त्वमुद्भित्स्योषधे इति १ प्रत्येत्य गृहानुत्तरपूर्वदेशेऽगारस्याग्निमुपसमाधाय संपरिस्तीर्यानुलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति आनन्दाय प्रमोदाय इति २ अत्रोभयं प्रहरति येन जुहोति ३ अजमेतदहः पचन्ति यवौदनं च ४ अजोऽसि इत्यजस्य प्राश्नन्ति । यवोऽसि इति यवौदनस्य ५ अत्रासन्दीस्तल्पानधिरोहन्ति ६ नापित-कर्माणि च कारयन्ते ७ एष प्रथमोऽलंकारः ८ सोऽयमेवंविहित एवाना-हिताग्नेः पात्रचयेष्टकावर्जम् ९ औपासनेनानाहिताग्निं दहन्ति १० निर्मन्थ्येन पत्नीम् ११ उत्तपनेनेतरान् १२ अथैकेषां कुम्भान्तं निधानमनाहिताग्नेः स्त्रियाश्चनिवपनान्तँ हविर्यज्ञयाजिनः पुनर्दहनान्तँ सोमयाजिनश्चयनान्तमग्निचित इति १३ नासंनयतामामिक्षा १४ उत्सर्गो राजगव्या अपशुबन्धयाजिनः स्त्रियाश्च १५ दहनकल्पेन न कल्पेरन्ननुपेतान् कन्याश्च १६ पुनर्दहनमन्त्रेणैव दहेयुः १७ स्त्रियाश्चैवम् १८ पुंलिङ्गवपनवर्जमित्येक इत्येके १९ १.१२
इति प्रथमः प्रश्नः

अथ द्वितीयः प्रश्नः
अथात उत्तरं पैतृमेधं व्याख्यास्यामो यं ब्रह्ममेध इत्याचक्षते १ अथाप्युदाहरन्ति
द्विजातीनामपवर्गो ह्यर्थतस्तत्त्वदर्शिभिः ।
ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् ॥
होतॄँ श्च पितृमेधं च सँ सृज्य विधिरुत्तरः ।
विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः ॥
इति २ प्रकृतिविकृतिर्यथा पुरस्तात् ३ तस्य सग्रहैर्होतृभिर्होमः ४ भर्तृसूक्तेन भरणम् ५ पत्नीभिरुपसंवेशनम् ६ दक्षिणाप्रतिग्रहैर्निमार्गः ७ हृदयै-र्हिरण्यशकलाः ८ संभारयजुर्भिः पात्रचयनम् ९ ज्योतिष्मतीभिरुपोषणम् १० नारायणाभ्यामुपस्थानम् ११ ब्राह्मण एकहोता इति चानुमन्त्रणम् १२ चित्तँ संतानेन इति हविराहुतिः १३ प्रयासाय स्वाहा इति स्रुवाहुतीः १४ मृत्युसूक्तेनानुशँ सनम् १५ सौम्या संगाहनम् १६ सौर्येणादित्योपस्थानम् १७ ईयुष्टे इत्यवगाहनम् १८ समानमत ऊर्ध्वं पैतृमेधिकं कर्मा यवोदनप्राशनात् १९ तान् परं ब्रह्मेत्याचक्षते २० तान्न साधारणे श्मशाने प्रयुञ्जीत २१ नानाचार्याय नाश्रोत्रियाय २२ द्विजातीनामेव २३ संतिष्ठते ब्रह्ममेधः २४ २.१

दिष्टगमनादयुक्ष्वहःस्वहोरात्रार्धमासर्तुषु संवत्सरे वा निदधाति १ अप्रज्ञाते याथाकामी २ या माध्याः पौर्णमास्याः फाल्गुन्याश्चैत्र्! या वैशाख्या नैदाध्या वोपरिष्टादमावास्या तस्याम् ३ अयुजो युजो वाभ्रीरादायोत्तरतो लोष्टानवरुज्य दक्षिणतो हरन्ति स्थलार्थानिष्टकार्थान् वा ४ पुरस्तादेव श्मशानायत-नादोषधीरुद्धारयन्ति ५ पाठापृश्निपर्णीकर्णिकारराजवृक्षकण्टूकतिल्व-कविभीतकार्कशरश्वदँ ष्ट्राध्यण्डा अन्याश्च क्षीरिणीरनुत्खेयाः ६ अपराह्णे श्मशानायतनँ संमिमीते पञ्चपञ्च प्रक्रमान्त्सर्वतः । षट् पुरस्तादित्येके ७ माने परीतान इष्टकोपधान इति दिक्संयोगः ८ सर्वत्र पुरस्तादुपक्रमः । प्रसव्यं दक्षिणतोऽपवर्गः ९ त्रिवृता मौञ्ज्या बाल्बज्या वा रज्ज्वा प्रसव्यावृत्तया त्रिः प्रसव्यं परितत्यायुग्भिरुदकुम्भैः स्ववोक्षितमवोक्षेद्यथा प्राणदुत्सर्पेत् १० न प्राणदधि निवपेत् । यदि प्राणदधि निवपेञ्जीवताँ ह तत् प्राणानधि निवपेत् ११ खार्यां तल्पे वा संभारानोप्य १२ २.२

श्वो भूते पशुना तदर्थमन्नँ सँ स्कृत्य तदमावास्यायां निदधाति १ अथ यदि पुनर्धविष्यन्तः स्युस्तदगारं तल्पं वा मिन्वन्ति २ तस्य पूर्वार्धे मध्ये पश्चार्धे वा पालाशीं मेथीं त्रिविषूकां निघ्नन्ति ३ पुरस्तादेव शूद्रो ब्रह्मबन्धुर्वा संवादित उपविशति ४ या स्त्री मुख्यतमा तामाह वसतिं मया सह पृच्छे इति ५ न ददामि इतीतरा प्रत्याह ६ एवं द्वितीये करोति ७ एकरात्राय ददामि इति तृतीये ८ यावद्गात्रं वा धविष्यन्तः स्युः ९ एतस्यां वाचि मेथ्या मूले शरीराणि निदधाति १० शतातृण्णं च कुम्भं त्रिविषूके ११ तस्य बिलं चर्मणा कुशैः परिणद्धं भवति १२ तस्मिन् दधि वाजिनमिश्रमानयति वैश्वानरे हविरिदं जुहोमि इति १३ विक्षरन्तमभिमन्त्रयते द्र प्सश्चस्कन्द ॥ इमँ समुद्र म् इति द्वाभ्याम् १४ चत्वारो ब्रह्मचारिणोऽन्ये वा ब्राह्मणायना दक्षिणान् केश-पक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूनाघ्नानाश्चर्माघ्नन्तः सिग्भिरभि-धून्वन्तस्त्रिः प्रसव्यं परियन्ति अजिनमोय्यजिनमोय्यजिनमोयि इति १५ एवममात्याः स्त्रियश्चोत्तराभिः सिग्भिर्मन्त्रवर्जम् १६ पूर्ववत् प्रतिपरिक्रमणम् १७ संप्रवदन्ति वीणाशङ्खनाळीतूणवाः १८ नृत्तगीतवादित्राणीति १९ प्रात-र्माध्यंदिनेऽपराह्ण इति २० एवँ रात्रेस्त्रिः २१ अपरपक्षस्य तिस्रो रात्रीर्धुवन्ति पञ्च सप्त नवैकादशार्धमासं मासम् २२ संवत्सरमु हैके धुवन्ति २३ अन्नं च यथाशक्ति देयम् २४ तथा द्र व्याणि २५ उत्तम एवाहनि द्र व्यत्याग इत्येके २६ एतस्मिन्नेवाग्नौ तूष्णीमुपचरितान् पञ्च चरूञ्छ्रपयन्ति २७ तेषा-मभिघारणानि घृतँ शृतं क्षीरं दधि मध्विति २८ अपूपापिधाना भवन्ति २९ अपररात्रे गच्छन्त्यग्निः प्रथमोऽथोदकुम्भोऽनड्वाञ्छरीराणि संभारा इति । येन चान्येनार्थी भवति ३० न हीनमन्वाहरेयुः ३१ अन्तरा ग्रामँ श्मशानं चैतमग्निमिन्धान आस्ते ३२ २.३
व्युष्टायाँ हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ संमार्ष्टि अपेत वीत इति १ दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य सवितैतानि शरीराणि इति सीरं युनक्ति षड्गवं द्वादशगवं चतुर्वि ँ! शतिगवं वा २ यावद्गवँ सीरं तावन्ति शतानीष्टकानाम् ३ आमा भवन्तीति विज्ञायते ४ तस्याश्चतुर्वि शेँन भागेनेष्टकाः करोति पादेष्टकाश्च ५ वारणं काष्ठमयम् ६ मौञ्जँ रज्जुमयम् ७ वचनादन्यत् ८ शुनं वाहाः इति द्वाभ्यां प्रसव्यावृत्ताः षट् पराचीः सीताः कृषति ९ उद्यम्य लाङ्गलँ सीते वन्दामहे इति सीताः प्रत्यवेक्षते १० सवितैतानि शरीराणि इति मध्ये कृष्टस्यास्थिकुम्भं निदधाति ११ विमुच्यध्वमघ्निया देवयानाः इति दक्षिणे ँ! ऽसे बलीवर्दान् विमुच्य तान् दक्षिणोत्सृज्याध्वर्यवे ददाति १२ उदपात्रेणोदुम्बरशाखयावोक्षति प्र वाता वान्ति इति १३ पात्र्! याँ सर्वौषधीः संयुत्य वपति यथा यमाय इति १४ चितः स्थ परिचितः इत्यपरिमिताभिः शर्कराभिः परिश्रित्य आ प्यायस्व समेतु ते इति सिकता व्यूहति १५ उत्तरया त्रिष्टुभा राजन्यस्य १६ जगत्या वैश्यस्य १७ विधृतिलोष्टान् प्रतिदिशमनन्वीक्षमाण उपदधाति उत्ते तभ्नोमि इत्येतैः प्रतिमन्त्रम् १८ तिलमिश्राभिर्धानाभिः त्रिः प्रसव्यं परिकिरति एणीर्धानाः इति १९ अभिवान्यायै दुग्धस्यार्धशरावे मन्थस्त्रिः प्रसव्योपमथित आमपात्रस्थस्तं दक्षिणत उपदधाति एषा ते यमसादने इति २० समूलं बर्हिर्दक्षिणा स्तृणाति इदं पितृभ्यः प्रभरेम बर्हिः इति २१ पालाशान् परिधीन् परिदधाति २२ मा त्वा वृक्षौ इति पूर्वापरौ २३ उत्तरया दक्षिणोत्तरौ २४ मध्ये नळेषीकां निदधाति नळं प्लवम् इति २५ पुराणेन सर्पिषा शरीराणि सुसंतृप्तानि सं-तर्प्योत्तरत आसीनोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति सवितैतानि शरीराणि इति २६ यथाङ्गमङ्गानि संनिधायाथैनमुपतिष्ठते षड्ढोता सूर्यं ते चक्षुः इति २७ भुक्तभोगेन वाससास्थिकुम्भं निमृज्योपर्युपरिशिरो दक्षिणा व्युदस्यति परं मृत्यो अनु परेहि पन्थाम् इति २८ अथास्य कपालानि सु-संभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् २९ भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखयावोक्षति शं वातः इति ३० २.४

इष्टकाः प्रतिदिशमनन्वीक्षमाण उपदधाति पृथिव्यास्त्वा लोके सादयामि इत्येतैः प्रतिमन्त्रं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम् १ एवं चरून् अपूपवान् इति प्रतिमन्त्रम् २ अतिलाभिर्धानाभिस्त्रिः प्रसव्यं परिकिरति एतास्ते स्वधा अमृताः करोमि इति ३ ओषधिस्तम्बान् प्रतिदिशमनन्वीक्षमाण उपदधाति त्वामर्जुन इति प्रतिमन्त्रम् ४ तेषां मन्त्रलिङ्गैर्नियमः ५ लोकं पृण इति लोकंपृणा उपदधाति ६ उत्तरया पुरीषेणानुविकिरति ७ श्मशानस्य मात्रा द्व्यङ्गुलं त्र्! यङ्गुलं चतुरङ्गुलं प्रादेशो वितस्तिर्जानुदघ्नमूरुदघ्नं स्फिग्दघ्नं वा ८ उत्तमां मात्रां नात्याप्नुयात् ९ यावतीं पुरस्तात्ततोऽनन्तरां पश्चात् १० अपि वा द्व्यङ्गुलं पुरस्तात् समंभूमिं पश्चात् ११ उदपात्रेणोदुम्बरशाखयावोक्षति शं वातः इति १२ आरोहणं जपत्यवरोहणं जपति १३ उपस्थानेनोपतिष्ठते इदमेव मेतोऽपराम् इति १४ वारणशाखां पुरस्तान्निदधाति वरणो वारयात् इति १५ विधृतिलोष्टमुत्तरतः विधृतिरसि इति १६ शमीशाखां पश्चात् शमि शमय इति १७ यवं दक्षिणतः यव यवय इति १८ अथैनमुपतिष्ठते पृथिवीं गच्छान्तरिक्षं गच्छ इति १९ जघनेन चितिं कर्ष्वादि समानमा स्नानात् २० मृदा स्नातीत्येके २१ २.५

यमयज्ञं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमम् ।
मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा ॥
मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः ।
याम्येऽहनि सुनक्षत्रे सर्वान् कामान् समश्नुते ॥
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः ।
अकुर्वन् यस्तु कार्तिक्यां नरके स निमज्जति ॥
तस्मात् कुर्वीत कार्तिक्यां स्वर्गकामस्तु वै द्विजः ।
तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः ॥
एकेन तु न कर्तव्यः कर्तव्यो बहुभिः सह १
हविरुद्धृत्याभिमन्त्र्! य हविरादाय नमो ब्रह्मणे प्रजापतये देवेभ्य ऋषिभ्यः पितृभ्यो यमाय इत्युक्त्वा ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्या-निरिणवद्देशे नदीतीरे समे वान्यस्मिन् शुचौ देशे दिक्स्रक्तिं वेदिं करोति २ तस्यां वेद्यां पञ्चोत्तरवेद्यो दिक्स्रक्तयो भवन्ति ३ दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैः सोत्तरवेदि ँ! संप्रच्छादयति ४ प्रागग्रैर्दर्भैर्विष्टरं निधाय प्रस्तरं च
आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता ।
आसीदताँ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योम् ॥
इति यममावाह्य यमे इव यतमाने यदैतम् इति च ५ इमं यम प्रस्तरमा हि सीद इति तिसृभिः प्रस्तरमभिमन्त्र्! य सपवित्राण्यर्घ्यपाद्याचमनीयोदकानि दत्त्वा सार्वसुरभिगन्धधूपदीपमाल्यं च यथोपलब्धं ददाति कृष्णाः प्रतिसराः कृष्णसूत्रं च ६ मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति यमाय स्वाहा ॥ अन्तकाय स्वाहा ॥ धर्माय स्वाहा ॥ अन्ताय स्वाहा ॥ अनन्ताय स्वाहा ॥ वैवस्वताय स्वाहा ॥ कालाय स्वाहा ॥ मृत्यवे स्वाहा ॥ विष्णवे स्वाहा ॥ भूः स्वाहा ॥ भुवः स्वाहा ॥ सुवः स्वाहा ॥ भूर्भुवः सुवः स्वाहा इति ७ २.६

व्याहृतिपर्यन्तँ हविर्जुहोति १ अथार्कपर्णान्यौदुम्बरपर्णानि वा निधाय मध्यमायामुत्तरवेद्यां यमाय हविर्निवेदयन्ते
यमाय सोमँ सुनुत यमाय जुहुता हविः ।
यमँ ह यज्ञो गच्छत्यग्निदूतो अरंकृतोम् ॥
इति । प्रतीच्यामुत्तरवेद्याम्
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो देवेष्वा यमद् दीर्घमायुः प्रजीवसोम् ॥
इति । प्राच्यामुत्तरवेद्याम्
यमाय मधुमत्तमँ राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्योम् ॥
इति । दक्षिणस्यामुत्तरवेद्याँ श्वभ्याँ हविर्निवेदयन्ते
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योम् ॥
इति । उत्तरस्यामुत्तरवेद्यां यमदूताभ्याँ हविर्निवेदयन्ते
उरुणसावसुतृपावुलुम्बलौ यमस्य दूतौ चरतो वशाँ अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रो म् ॥
इति २ योऽस्य कौष्ठ्यः इति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं परिगायन्ति ३ दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्यं जान्वाच्य हविरादाय मिषं मिषँ स्वधा पितृभ्यः इति पिण्डं ददाति ४ त्रीनुदकाञ्जलीनुपनिनीयायम्य प्राणान् सप्तभिर्व्याहृतिभिः सप्त पदानि प्राञ्चो गच्छन्ति ५ त्रीन् हि स्वर्गा-ल्लो ँ! कानारूढा भवन्तीति विज्ञायते ६ दधिक्राव्णो अकारिषम् इति पुनः प्राणानायम्य यथेतं प्रत्येत्य नमः करकूपेभ्यो नमः करकूपेभ्यो नमः करकूपेभ्यः इति करकूपमुपस्थाय यस्मै कामाय यममभिवादयन्ते ७ यमो दाधार इत्यनुवाकशेषेण हविरुद्धरन्ति ८ नाके सुपर्णम् इति प्रवाहयन्ति ९ उरुँ हि राजा वरुणश्रकार इत्यनुवाकेनापोऽवगाहन्ते १० आपोहिष्ठीयाभिर्मार्जयन्ते ११ यमेन दत्तं त्रित एनमायुनक् इति चतसृभिरादित्यमुपस्थाय प्रतिसरमाबध्नीरन् १२ हविषा सर्वप्रायश्चित्तानि हुत्वा हविःशेषान् भक्षयन्ति भक्षोऽस्यमृतभक्षः इति १३ भक्षस्य शेषं नयन्ति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै । पुत्रवान् भवति पुत्रवती भवतीति वैवस्वतोऽब्रवीत् ।
यमो ह यष्टारमितःप्रयातमङ्के समाधाय पितेव पुत्रम् ।
सकृद् गतिं गमयति तत्र लोकान्
निवर्तने चास्य छिनत्ति पन्थानं निवर्तने चास्य छिनत्ति पन्थानम् ॥
इति १४ २.७

अथाजस्राणां द्व्यहं त्र्! यहँ षडहं द्वादशाहं वा धारयते यावद्वा सँ शयं मन्येत १ असँ शयेऽजस्रैर्विरम्याग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वपेत् २ शतकृष्णलां पञ्चहविष्कां वा यो ज्योगामयावीत्युक्तम् ३ पुरस्तादायुष्मत्याः पाथिकृत्या वा यजेत ४ ग्रामेऽप्येके पाथिकृती ँ! समामनन्ति ५ बहिष्ठो वानप्रस्थो वारण्यमवतिष्ठेत । ग्रामं वा प्रविशेद् राज्ञानुमतो ब्राह्मणैश्च सह वनधान्येन ६ अपि वा नाजस्रान् कुर्वीत । प्राग्दिष्टगमनाद् विहारँ साधयेत् ७ प्रेतेऽपि विहरणमेके समामनन्ति । तदनर्धुकं प्रजाया इति विज्ञायते ८ उदगयने प्रमीताः सौर्येण पथा देवलोकं यान्ति दक्षिणायने सौम्येन पितृलोकमिति विज्ञायते ९ उदगयन आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति १० यदि पूर्वपक्षे रात्रौ मरणँ शङ्केत सायमाहुति ँ! हुत्वा तदैव प्रातराहुतिं जुहुयात् ११ यद्यपरपक्षे सायं प्रातराहुतिभिरेनं पूर्वपक्षं नयेत् १२ दर्शं च कुर्यात् १३ इष्ट्यविभवे प्रधानदेवताभ्यश्चतुर्गृहीतान्याज्या-न्येकैकस्यै देवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् १४ अथ यदि चातुर्मास्यमध्ये पूर्ववदेव सायंप्रातराहुतिभिर्दर्शपूर्णमासाभ्यां चेष्ट्वावशिष्टानि पर्वाण्यानीय सँ स्थापयेत् १५ पश्वविभवे तद्दैवतं पुरोडाशमामिक्षां पूर्णाहुतिं वा कुर्यात् १६ म्रियमाणस्यैवं न यज्ञलोपो भवतीति विज्ञायते १७ २.८

उक्तं दीक्षितप्रमीतप्रायश्चित्तम् १ यायावरा ह वै पुरा नाम ऋषय आसँ स्ते-ऽध्वन्यश्राम्यँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः । तस्माद् यायावर-धर्मेणामयाव्यार्तोऽध्वन्यापत्सु वार्धमासायार्धमासायाग्निहोत्रं जुहुयात् २ प्रतिपदि सायं चतुर्दश चतुर्गृहीतान्युन्नयति । एका समित् । सकृद्धोमः । सकृत् पाणिनिमार्जनम् । सकृदुपस्थानम् । एवं प्रातः । एतावान् विकारः । शेषं प्रकृतिवत् ३ पक्षत्रये पुनराधेयम् ४ अग्नीन् समारोपयते धारयते वौपवसथ्यात् ५ औपवसथ्येऽहनि निर्मथ्यौपवसथ्यादिकं कर्म प्रतिपद्यते यदि समारूढो भवति ६ यद्याहिताग्निरुत्सृष्टाग्निर्विच्छिन्नाग्निर्विधुराग्निर्वा प्रमीयेत न तमन्येन त्रेताग्निभ्यो दहन्तीति ७ विज्ञायते चाधानप्रभृति यजमान एवाग्नयो भवन्ति ८ अथापि ब्राह्मणं तमसो वा एष तमः प्रविशति सह तेन यमाहिताग्निमन्येन त्रेताग्निभ्यो दहन्तीति विज्ञायते ९ तस्य प्राचीनावी-त्यग्न्यायतनान्युद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायतनेऽरणी संनिधाय मन्थति
येऽस्याग्नयो जुह्वतो माँ सकामाः संकल्पयन्ते यजमानमाँ सम् ।
जानन्तु ते हविषे सादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु ॥
इति १० तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा तूष्णी ँ! हुत्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ११ २.९

यद्याहिताग्निरध्वानं गच्छेत् सहाग्नित्रयेण पार्श्वतोऽग्निहोत्रेणानुव्रजेदाहिताग्निर-नन्तरम् १ न व्यवेयात् २ यावत्यो ग्राममर्यादा नद्यश्च तावतीरतिक्रामन्न-न्वारभेत । अनन्वारम्भणे लौकिका भवन्ति ३ यदि पत्नी सीमान्त आदित्यो-ऽभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः ४ यद्यात्मन्यरण्योर्वा समारूढेष्वग्निषु यजमानो म्रियेत पूर्ववदग्न्यायतनानि कल्पयित्वा यज-मानायतने प्रेतं निधाय गार्हपत्यायतने लौकिकमग्निमुपसमाधाय प्रेतस्य दक्षिणं पाणिमभिनिधाय तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः उपावरोह इत्युपावरोहयति । अपि वा
उपावरोह जातवेद इमं तँ स्वर्गाय लोकाय नय प्रजानन् ।
आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥
इति लौकिकेऽग्नावुपावरोहयति ५ अरण्योर्वोपावरोह्य मन्थेत् ६ यदरण्योः समारूढः स्यान्निर्वर्तमाने प्रेतमन्वारम्भयित्वैतं मन्त्रं जपेत् ७ विहरणादि समानम् ८ प्रवासमरणे संग्रामे वाहने वा शरीरमादाय विधिना दाहयेत् ९ आहिताग्निं जने प्रमीतमुपश्रुत्याग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । पूर्णाहुतिं वा कुर्यात् । प्राचीनावीती जुहोतीत्येके १० एतस्मिन्नेव विहारे पैतृमेधिकं कर्म प्रतिपद्यते ११ यद्येतस्मिन्नहनि शरीराण्याहरन्ति यद्यन्य-स्मिँ स्तस्याभिवान्यवत्सायै पयसाग्निहोत्रमित्युक्तम् १२ आहिताग्निं जने प्रमीतं तैलद्रो ण्यामवधाय शकटेनाहरन्ति १३ निर्मन्थ्येन वा दग्ध्वा कृष्णाजिने-ऽस्थीन्युपनह्याहतेन वाससा संवेष्ट्य दीर्घवँ शे प्रबध्यानधो निदधानाः प्रयता मृन्मयभोजिन आहरन्ति १४ २.१०

तानि ग्राममर्यादायां प्रतिष्ठाप्याग्नीन् पैतृमेधिकं च भाण्डं निर्हरन्ति १ नासति यजमाने ग्राममर्यादामग्नीनतिहरेयुः । यद्यतिहरेयुर्लौकिकाः संपद्येरन्निति विज्ञायते २ प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । तस्माद् ग्राममर्यादां नातिहरन्ति ३ शरीरैरग्नीन् समानीय दहनवदवकाशं जोषयित्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ४ तयोर्यः पूर्वो म्रियेत यजमानः पत्नी वा तस्याग्नित्रेतायां पितृमेधः संपद्यते ५ यः पश्चात्तस्यौपासनेन ६ सहैव प्रमीते सहैव पितृमेधः ७ दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं कुर्याद्दर्श-पूर्णमासाग्रयणार्थं च । शेषाणि कर्माणि न भवन्ति ८ यद्याहिताग्निः पशुभ्यो म्रियेत आ गावो अग्मन् इति द्वे चतुर्गृहीते जुहुयात् ९ यद्याहिताग्निरशनिहतो म्रियेत तस्य प्रायश्चित्तं मूर्धानं दिवो अरतिं पृथिव्याः इति चतुर्गृहीतं जुहुयात् । एतदेवास्य प्रायश्चित्तं भवति १० यद्याहिताग्निर्विषदष्टो म्रियेत तस्य प्रायश्चित्तं नमो अस्तु सर्पेभ्यः इति तिसृभिश्चतुर्गृहीता आहुतीर्जुहुयात् ११ यद्याहिताग्निरप्सु म्रियेत तस्य प्रायश्चित्तं इमं मे वरुण ॥ तत्त्वा यामि इति द्वे चतुर्गृहीते जुहुयात् १२ यद्याहिताग्निर्द ँ! ष्ट्रिभ्यो म्रियेत तस्य प्रायश्चित्तं दँ ष्ट्राभ्यां मलिम्लून् इति द्वे चतुर्गृहीते जुहुयात् १३ २.११

यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभिप्रस्थितः स्यात् तामस्याग्निभिः कक्षं दहेयुः १ अपि वा त्रीणि षष्टिशतानि पलाशवृन्तानां तैः कृष्णाजिने पुरुषाकृतिं कुर्वन्ति । पलाशवल्कैः कुशैर्वा संधिषु संवेष्ट्य चत्वारि ँ! शता शिरः प्रकल्पयते । दशभिर्ग्रीवाम् । वि ँ! शत्योरः । त्रि ँ! शतोदरम् । पञ्चाशतापञ्चाशतैकैकं बाहुम् । ताभ्यामेव पञ्चभिःपञ्चभिर-ङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादम् । ताभ्यामेव पञ्चभिः-पञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नम् । द्वादशभिर्वृषणम् । तैः कृष्णाशिने पुरुषाकृतिं कृत्वा स्नापयित्वालंकृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति अयमस्यसौ यस्य त इमेऽग्नयः इति ३ प्रेतेऽमात्याः इत्येतदादि कर्म प्रतिपद्यते ४ यदि तानि न विन्देरन् नवानां दर्भाणां याज्ञिकानां वा वृक्षाणां वृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति विज्ञायते ५ यदि तानि न विन्देरन् भूम्यां पाँ सूनुद्धृत्य तैः कृष्णाशिने पुरुषाकृतिं कृत्वा मधुना सर्पिषा वा सँ सृज्य विधिना दहेयुः ६ यद्येवं कृते पुनरागच्छेद् घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाग्नीनाधाय व्रात्येन पशुना यजेत ७ गिरिं गत्वाग्नये कामायेष्टिं निर्वपेत् ८ ईप्सितैः क्रतुभिर्यजेतेति विज्ञायते ९ २.१२
इति द्वितीयः प्रश्नः