कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १८

← प्रश्नः १७ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १८
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १९ →

18.1
अथाष्टादशप्रश्ने प्रथमः पटलः
द्वादशाहप्रजादीनि सत्राणि ॥ १॥
यानि पुरस्तात्संवत्सराद्गवामयनप्रकृतीन्युत्तराण्युभयतोतिरात्राणि सत्राणि ॥२॥
उपरिष्टादतिरात्रस्तृतीयः पञ्चदश उक्थ्यः ॥ ३ ॥
तथा कुण्डपायिनामयनम् ॥ ४॥
तेषां द्वादशाहेन कल्पो व्याख्यातः ॥५॥
ऋतूनामेकादशरात्रेण प्रजाꣳ सृजन्ते प्रजामवरुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति ॥६॥
ज्योतिरतिरात्रः ॥ ७॥
पृष्ठ्यः षडहः ॥ ८॥
त्रयश्छन्दोमाः ॥ ९॥
अतिरात्रः ॥१८.१.१०॥
द्वौ त्रयोदशरात्रौ ॥ ११ ॥
यं कामं कामयन्ते तमभ्यश्नुवते ॥ १२ ॥
अतिरात्रः पृष्ठ्यः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्रः ॥ १३ ॥
द्वितीयं ब्रह्मवर्चसकामा उपेयुः ॥१४॥
अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतमतिरात्रः॥१५॥
त्रयश्चतुर्दशरात्राः । यं कामं कामयन्ते तमभ्यश्नुवते। अतिरात्रः पृष्ठ्यः षडह आवृत्तः पृष्ठ्यः षडहोऽतिरात्रः। सर्वामृद्धिमृध्नुवन्ति य एता उपयन्त्यतिरात्रः । पृष्ठ्यः षडहः पृष्ठ्यः षडहस्त्रयस्त्रिꣳशारम्भणोऽतिरात्रो द्वितीयं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्यः षडह आयुर्गोज्यौतिरतिरात्रस्तृतीयं प्रतिष्ठाकामा उपेयुः। अतिरात्रो गौश्चाऽऽयुश्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः ॥ (ख०१) ॥ १६॥
चत्वारः पञ्चदशरात्राः ॥ १७ ॥
देवत्वं गच्छन्ति ॥ १८ ॥
अमावास्यायां प्रायणीयोऽष्टम्यां महाव्रतम् । पौर्णमास्यामुदयनीय इतरथा युक्तं वोपेयुः ॥ अतिरात्रः पृष्ठ्यः षडहो महाव्रतं पृष्ठ्यः षडहस्त्रयस्त्रिꣳशारम्भणोऽतिरात्रः ॥ १९ ॥ द्वितीयं याꣳस्तल्प उदके विवाहे वा मीमाꣳसेरन्। अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्यः षडहो महाव्रतमायुर्गौर्ज्योतिरतिरात्रः । तृतीयं प्रतिष्ठाकामा उपेयुः । त्रिवृदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः । चतुर्थꣳ स्वर्गकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः। ऐन्द्रेण षोडशरात्रेण सर्वाभिजितीर्विजयन्तोऽभिपूर्वमन्नाद्यमायन्ति । एता एव समहाव्रताः ॥ १८.१.२० ॥
सप्तदशरात्रमन्नाद्यकामा उपेयुः। अतिरात्रो ज्योतिर्गौर्ज्योतिर्गौरायुः पञ्चाहः । द्वादशाहस्य दशाहान्यतिरात्रः ॥ २१ ॥
अष्टादशरात्रं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः ।। २२ ॥
एकान्नविꣳशतिरात्रेण । सर्वेषां पशूनामाधिपत्यं गच्छन्ति । एता एव समहाव्रताः ॥ २३ ॥
विꣳशतिरात्रेण ब्रह्मवर्चसिनोऽन्नादा भवन्ति । य एता उपयन्ति । अतिरात्रो गौश्चाऽऽयुश्च द्वे अहनी । अभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः ।। (ख० २) ।। २४ ॥
द्वावेकविꣳशतिरात्रौ । यं कामं कामयन्ते तमभ्यश्नुवते । सर्वामृद्धिमृध्नुवन्ति । वसीयाꣳसो भवन्ति । य एता उपयन्त्यतिरात्रः पृष्ठ्यः षडहस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पृष्ठ्यः षडहस्त्रयस्त्रिꣳशारम्णोऽतिरात्रो निदाघ उपयन्ति सौमापौष्णं पशुमालभन्ते । मनोर्ऋचः सामिधेन्यो भवन्ति ॥२५॥
द्वितीयेनोभयोर्लोकयोर्ऋध्नुवन्ति । अस्मिꣳश्चामुष्मिꣳश्च। य एता उपयन्त्यतिरात्रोऽभिप्लवः षडहोऽभिप्लवः षडहोऽतिरात्रः ॥ २६ ॥
द्वाविꣳशतिरात्रं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहोऽभिप्लवः । षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रः ॥ २७ ॥
त्रयोविꣳशतिरात्रं प्रतिष्ठाकामा उपेयुरिति । अतिरात्रो ज्योतिर्गौरायुः पञ्चाहोऽभिप्लवः। षडहो द्वादशाहस्य दशाहान्यतिरात्रः ॥ २८ ॥
द्वौ चतुर्विꣳशतिरात्रौ । यं कामं कामयन्ते तमभ्यश्नुवते । सर्वामृद्धिमृध्नुवन्ति । वसीयाꣳसो भवन्ति । य एता उपयन्त्यतिरात्रो द्वावभिप्लवौ । द्वादशाहस्य दशाहान्यतिरात्रः (ख० ३) ॥ २९ ॥
इति सत्याषाढहिरण्यकेशिसूत्रेऽष्टादशप्रश्ने प्रथमः पटलः ।

18.2
अथाष्टादशप्रश्ने द्वितीयः पटलः ।
सꣳसदा चतुर्विꣳशतिरात्रेण स्वर्गे लोके सीदन्ति । य एता उपयन्त्यतिरात्रश्चतुर्विꣳश उक्थ्य आरम्भणीयस्त्रिवृद्वा पृष्ठ्यः स्तोमः षडहः । अथ त्रयस्त्रिꣳशमहर्निरुक्तमुक्तमुपहव्यस्य तन्त्रे क्लृप्तं तस्य कण्वरथंतरं माध्यंदिने सवने यत्त्रयस्त्रिꣳशमहर्निरुक्तं त्रिणवं द्वे एकविꣳशे त्रिणवं त्रयस्त्रिꣳशमहर्निरुक्तं पृष्ठ्यः स्तोमः षडहः प्रत्यङ्त्रिवृदहर्निरुक्तं ज्योतिर्वैश्वानरोऽतिरात्रः ॥ १॥
पञ्चविꣳशतिरात्रमन्नाद्यकामा उपेयुः । अतिरात्रो द्वावभिप्लवौ । द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ॥ २॥
षड्विꣳशतिरात्रं स्वर्गकामा उपेयुः । अतिरात्रो गौश्चाऽऽयुश्च द्वे अहनी द्वावभिप्लवौ । द्वादशाहस्य दशाहान्यतिरात्रः ॥ ३ ॥
सप्तविꣳशतिरात्रेणाऽऽदित्यलोकं जयन्ति एता एव समहाव्रताः ॥ ४॥
अष्टाविꣳशतिरात्रं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ । द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ॥५॥
एकान्नत्रिꣳशद्रात्रꣳ श्रीकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः ॥ ६॥
त्रिꣳशद्रात्रमन्नाद्यकामा उपेयुः । अतिरात्रस्त्रयोऽभिप्लवा द्वादशाहस्य दशाहान्यतिरात्रः॥ ( ख० ४ ॥ ) ७॥
एकत्रिꣳशद्रात्रेणाभिपूर्वमन्नाद्यमाप्नुवन्त्येता एव समहाव्रताः ॥८॥
द्वात्रिꣳशद्रात्रं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रो गौश्चाऽऽयुश्च द्वे अहनी । त्रयोऽभिप्लवाः । द्वादशाहस्य दशाहान्यतिरात्रः ॥ ९॥
त्रयस्त्रिꣳशद्रात्रमृद्धिकामा उपेयुः । अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्रस्त्रयः पञ्चाहा अतिरात्रः । द्वितीयेन यावद्वयेन सत्रेणर्द्धिमाप्नुवन्ति । तावता समृद्धिरतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः । षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च । तृतीयं प्रतिष्ठाकामा उपेयुः । अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः ॥ १८.२.१० ॥
चतुस्त्रिꣳशद्रात्रं ब्रह्मवर्चसकामा उपेयुः । अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्र्यहोऽभिप्लवाः। द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च॥ (ख०५)॥११॥
पञ्चत्रिꣳशद्रात्रेण संवत्सरादाऽमुष्मादादित्यादन्नाद्यमवरुन्धते । य एता उपयन्ति । अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहस्त्रयोऽभिप्लवाः। द्वादशाहस्य दशाहान्यतिरात्रः ।। १२ ।।
षट्त्रिꣳशद्रात्रꣳ स्वर्गकामा उपेयुः । अतिरात्रश्चत्वारोऽभिप्लवाः । द्वादशाहस्य दशाहान्यतिरात्रः ॥ १३ ॥
सप्तत्रिꣳशद्रात्रेणाऽऽदित्यं लोकं जयन्त्येता एव समहाव्रताः ॥ १४ ॥
अष्टत्रिꣳशद्रात्रेण ब्रह्मवर्चसकामा उपेयुः। अतिरात्रो गौश्चाऽऽयुश्च द्वे अहनी । चत्वारोऽभिप्लवाः। द्वादशाहस्य दशाहान्यतिरात्रः ।। १५ ॥
एकोनचत्वारिꣳशद्रात्रेण सर्वेषां पशूनामाधिपत्यं गच्छन्ति । प्रजाकामा उपेयुरतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चत्वारोऽभिप्लवा द्वादशाहस्य दशाहान्यतिरात्रः ॥ १६ ॥ चत्वारिꣳशद्रात्रेण परमायां विराजि प्रतिष्ठां गच्छन्ति । एता एव समहाव्रताः ।। (ख० ६) ॥१७॥
इति सत्याषाढहिरण्यकेशिसूत्रेऽअष्टादशप्रश्ने द्वितीयः पटलः ।।

18.3
अथाष्टादशप्रश्ने तृतीयः पटलः ।
विधृतिरेकस्मान्न पञ्चाशो विपाप्मना भ्रातृव्येणाऽऽवर्तन्ते । य एता उपयन्त्यतिरात्रस्त्रयस्त्रिवृतोऽग्निष्टोमा अतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशममहरतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठ्यः षडहोऽतिरात्रो द्वादशैकविꣳशा उक्थ्या अतिरात्रोऽयमतिरात्रः ॥ १॥
द्वितीयोऽयमेवैतेषाꣳ श्रीर्भवति । मित्रश्च वरुणश्च धाता चार्यमा चाꣳशश्च भगश्चेन्द्रश्च विवस्वाꣳश्चेत्येतासां देवतानामृद्धिमृध्नुवन्ति । वसीयाꣳसो भवन्ति । य एता उपयन्त्यतिरात्रः । द्वावभिप्लवौ । गोआयुषी द्वौ द्वावभिप्लवावभिजिच्च विश्वजिच्चातिरात्रावेकोऽभिप्लवः सर्वस्तोमो नव सप्तदशाश्चातिरात्रा द्वादशाहस्य दशाहानि महाव्रतश्चातिरात्रश्च ।। (ख० ७) ॥ २ ॥
आञ्जनाभ्यञ्जनीयस्तृतीयो यां न जानीयुर्यदा वाऽञ्जतेऽभि वाऽञ्जते शुभमेवाऽऽत्मन्दधते जानन्त्येनान् गौल्गुलवेन प्रातःसवने । सौगन्धिकेन माध्यंदिने सवने । पौतुदारवेण तृतीयसवने । य एता उपयन्त्यतिरात्रश्चत्वारोऽभिप्लवाः सर्वस्तोमोऽतिरात्रो नवरात्रगर्भश्च द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रो नवरात्रगर्भश्चतुर्थः । संवत्सरसंमिता संवत्सरस्य प्रसवं गच्छन्ति य एता उपयन्त्यतिरात्रश्चतुर्विꣳश उक्थ्यश्चाऽऽरम्भणीयस्त्रिवृद्वौ द्वावभिप्लवौ पृष्ठ्यः षडहोऽभिजित्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लवः प्रत्यङ्गो आयुषी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ॥ ( ख० ८) ॥ सवितुः ककुहः पञ्चमः सर्वस्य प्रसवं गच्छन्ति । य एता उपयन्त्यतिरात्रस्त्रीणि त्रिवृन्त्यहान्यग्निष्टोममुखः षडहोऽधि यानि त्रीणि त्रिवृन्त्यहान्यग्निष्टोमावभित उक्थ्यं मध्ये तथैव नव पञ्चदशानि नव सप्तदशानि नवैकविꣳशानि द्वादशाहानि महाव्रतं चातिरात्रश्च । ऋतूनाꣳ षष्ठं प्रतिष्ठाकामा उपेयुः। अतिरात्रश्चत्वारोऽभिप्लवा महाव्रतम् । द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रम् । इन्द्राग्न्योः सप्तमोऽत्यन्याः प्रजा भवन्त्योजिष्ठा भवन्ति । य एता उपयन्त्यतिरात्रः । षडभिप्लवा महाव्रतं द्वावभिप्लवौ द्वादशाहस्य दशाहान्यतिरात्रः ।। (ख०९) ॥ ३ ॥
एकषष्टिरात्रेण यं कामं कामयन्ते तमभ्यश्नुवते सर्वामृद्धिमृध्नुवन्ति वसीयाꣳसो भवन्ति । य एता उपयन्ति अतिरात्रश्चतुर्विꣳश उक्थ्य आरम्भणीयस्त्रिवृद्वा त्रयोऽभिप्लवाः पृष्ठ्यः षडहोऽभिजित्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानोऽभिजित्त्रयस्त्रिꣳशारम्भणः पृष्ठ्यः षडह एकोऽभिप्लवः प्रत्यङ्गो आयुषी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ।। ४ ॥
देवानाꣳ शतरात्रेण देवत्वं गच्छन्ति । य एता उपयन्त्यतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चतुर्दशाभिप्लवाः द्वादशाहस्य दशाहानि महाव्रतं चातिरात्र श्चाभिप्रयन्तः समानत्र वा तिष्ठन्तोऽभिषुण्वन्ति ॥(ख० १०)॥५॥
आदित्यानामयनेनैषु लोकेषु प्रतितिष्ठन्ति ॥ ६॥
गवामयनेन व्याख्यातम् ॥ ७॥
सर्वेऽभिप्लवा मासां मध्ये पृष्ठ्यः पञ्चदशस्त्रिवृतोऽभिप्लवाः ॥ ८ ॥
अभिजितः स्थाने त्रिवृद्बृहस्पतिसवः ॥९॥
विश्वजितः स्थाने पञ्चदश इन्द्रस्तोमः ॥ १८.३.१० ॥
पृष्ठाभिप्लवावुपेत्य व्यूढा अग्निष्टोमास्त्रिवृत उद्भिद्बलभिद्भ्यामिति । ऊ( द्व्यू )नो मास उत्तमे संभार्येऽभिप्लवति । यां मध्ये षष्ठ्यः षडह ऊर्ध्वं गोआयुषी ॥ ११ ॥
छन्दोमा दशरात्रः ॥ १२ ।
प्रत्यङ्ङष्टाचत्वारिꣳशं चतुश्चत्वारिꣳशं षट्त्रिꣳशं द्वात्रिꣳशं त्रिꣳशं द्वे अष्टाविꣳशे पञ्चविꣳशं चतुर्विꣳशमविवाक्यं दशमं महाव्रतमुदयनीयश्चातिरात्र इति ॥ १३ ॥
अङ्गिरसामयनꣳ स्वर्गकामा उपेयुः ॥ १४ ॥
आदित्यानामयनेन व्याख्यातम् । १५ ॥
सर्वेऽभिप्लवा मासाः पुरस्तात्पृष्ठ्याः प्राग्विषुवत उपरिष्टात्पृष्ठ्या ऊर्ध्वं विषुवतश्छन्दोमा दशरात्रः । ऊर्ध्वꣳ स्तोमः पञ्चविꣳशं द्वे अष्टाविꣳशे त्रिꣳशं द्वात्रिꣳशꣳ षट्त्रिꣳशं चत्वारिꣳशमष्टाचत्वारिꣳशं चतुश्चत्वारिꣳशमष्टाचत्वारिꣳशं चतुर्विꣳशमविवाक्यं दशमं महाव्रतमुदयनीयं चातिरात्र इति ॥ १६ ॥
दृतिवातवतोरयनेन यं कामं कामयन्ते तमभ्यश्नुवते सर्वामृद्धिमृध्नुवन्ति वसीयाꣳसो भवन्ति । य एता उपयन्त्यतिरात्रः ॥ (ख० ११)। १७ ॥
इति सत्याषाढहिरण्यकेशिसूत्रेऽष्टादशप्रश्ने तृतीयः पटलः ॥

18.4
अथाष्टादशप्रश्ने चतुर्थः पटलः ॥
त्रिवृता मासं पञ्चदशेन मासꣳ सप्तदशेन मासमेकविꣳशेन मासं त्रिणवेन मासं त्रयस्त्रिꣳशेन मासम् । एत एवोत्तरे मासास्त्रयस्त्रिꣳशारम्भणस्त्रिवृदुत्तमा अतिरात्रः॥१॥
कुण्डपायिनामयने मासं दीक्षिताः २॥
राजानं क्रीत्वोपनह्य द्वादशभिरुपसद्भिश्चरित्वा हविर्यज्ञमासैर्यजन्ते ॥ ३॥ मासमग्निहोत्रं जुह्वति ॥ ४ ॥
मासं दर्शपूर्णमासाभ्यां यजन्ते ॥ ५ ॥
मासं वैश्वदेवेन मासं वरुणप्रघासैर्मासꣳ साकमेधैः मासꣳ शुनासीरीयेण । त्रिवृता मासं पञ्चदशेन मासमेकविꣳशेन मासं त्रिणवेन मासमष्टादश त्रयस्त्रिꣳशान्यहानि द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च ॥ ६॥
सर्वेण यज्ञेन यजन्ते ॥ ७ ॥
सर्वे भवन्ति ॥ ८ ॥
अत्सरुकैश्चमसैर्भक्षयन्ति ॥९॥
यो होता सोऽध्वर्युः स पोता य उद्गाता । स नेष्टा सोऽच्छावाको यो मैत्रावरुणः स ब्रह्मा । स प्रतिहर्ता । यः प्रस्तोता स ब्राह्मणाच्छꣳसी स ग्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्यः ॥ १८.४.१० ॥
तपस्विनामयने संवत्सरं दीक्षाः । संवत्सरमुपसदः । संवत्सरꣳ सुत्याः ॥ ११ ॥
प्रजापतेर्द्वादशसंवत्सरं प्रजया पशुभिर्जायन्ते ॥ १२ ॥
य एतदुपयन्ति त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविꣳशाः ॥ १३ ॥
एतदेव नैमिषीयाणां ( स्वर्गकामा उपेयुः । नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविꣳशाः) शाक्यानाꣳ षट्त्रिꣳशत्संवत्सरं तरसपुरोडाशमगस्त्यगृहपतिकम् ॥ १४ ॥
काप्याध्वर्यवꣳ सꣳस्थिते सꣳस्थितेऽहनि गृहपतिर्मृगयां प्रयाति ॥ १५ ॥
स यान्मृगान्हन्ति । तेषां तरसाः पुरोडाशा भवन्ति ।। १६ ॥
नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविꣳशाः ॥ १७ ॥
एतेन ह वै शाक्यो गौरवीतिः सर्वामृद्धिमृध्नोत्सर्वामृद्धिमृध्नुवन्ति । वसीयाꣳसो भवन्ति । य एतदुपयन्ति ॥ १८ ॥
पञ्चविꣳशतिस्त्रिवृतः संवत्सराः पञ्चविꣳशतिः पञ्चदशाः पञ्चविशतिः सप्तदशाः पञ्चविꣳशतिरेकविꣳशाः ॥ १९ ॥
अग्नेः सहस्रसाध्येन सर्वस्य प्रसवं गच्छन्ति । . य एतदुपयन्त्यतिरात्रः सहस्रनामानि त्रिवृतोऽग्निष्टोमोऽतिरात्रः ॥ १८.४.२० ।। ( ख० १२ )॥
त्रीणि सारस्वतानि ॥ २१ ॥
मित्रावरुणयोः प्रथमम् । इन्द्राग्न्योर्द्वितीयम् । अर्यम्णस्तृतीयम् ॥ २२ ॥
सरस्वत्या उपमज्जकेन दीक्षन्ते ॥ २३ ॥
अमावास्यायां प्रायणीयमहस्तदहर्वत्सानपाकुर्वन्ति ॥ २४ ॥
सꣳस्थितेऽतिरात्रे सांनाय्येन यजन्ते ॥ २५ ॥
तस्मिन्सꣳस्थितेऽध्वर्युः शम्यां परास्यति ॥ २६ ॥
सा यत्र निपतति तद्गार्हपत्यः । ततः षट्त्रिꣳशत्प्रक्रमेष्वाहवनीयम् ॥ २७ ॥
चक्रीवन्ति सदोहविर्धानान्याग्नीध्रश्च ।। २८ ॥
उलूखलबुध्नो यूपः प्रकृष्य उपोप्त एव ॥ २९ ॥
नोपरवान्खनन्ति ॥ १८.४.३० ॥
त एतमापूर्यमाणपक्षममावास्येन यजन्ति ॥३१॥
पौर्णमास्यां गोष्टोम उक्थ्यो रथंतरसामा ॥ ३२ ॥
तस्मिन्सꣳस्थिते पौर्णमासेन यजन्ते ।। ३३ ।।
त एतमपरपक्षं पौर्णमासेन यजन्ति ॥ ३४ ॥
अमावास्यायामायुष्टोम उक्थ्यो बृहत्सामैवं विपर्यासयन्ति ॥ ३५ ॥
सरस्वत्या दक्षिणेन तीरेणाऽऽक्रोशन्तो यान्ति ॥ ३६॥
दृषद्वत्या अप्ययेऽपोनप्त्रीयं च निरुप्यातियन्ति ॥ ३७॥
गवां दशसु शते वर्षभमुत्सृजन्ति ।। ३८ ॥
यदा दशशतं कुर्वन्त्यथैकमुत्थानम् । यदा शतꣳ सहस्रं कुर्वन्त्यथैकमुत्थानम् । यदैषां गृहपतिर्म्रियतेऽथैकमुत्थानम् । यदा वा सर्वं ज्यानिं जीयन्त्यथैकमुत्थानम् । यदा प्लक्षं प्रस्रवणं प्राप्नुवन्त्यथैकमुत्थानम् । प्लक्षं प्रस्रवणं प्राप्याग्नये कामायेष्टिं निर्वपन्ति ॥ ३९ ॥
तस्यामश्वां पुरुषीं च धेनुके दत्त्वा कारपचवं (यं) प्रति यमुनावभृथमभ्यवयन्ति ।। १८.४.४० ॥
देवमनुष्येभ्यस्तिरो भवन्ति ।। ४१ ॥
द्वितीयेऽतिरात्रे ज्योतिर्गौरायुरयनं विश्वजिदभिजिता मनुष्येभ्यस्तिरोभवन्ति ॥ ४२ ॥
द्वितीयेऽतिरात्रे ज्योतिर्गौरायुरयनं विश्वजिदभिजिताविन्द्रकुक्षी । अत्यन्याः प्रजा भवन्ति ॥४३॥
ओजिष्ठा भवन्ति ।। ४४॥
तृतीयेऽतिरात्रस्त्रिवृत्पञ्चदशमपरे गोआयुषी इन्द्रकुक्षी ॥ ४५ ॥
अर्यम्णः पन्थानं यन्ति ।।(ख)१३॥ देवयानं पन्थानं गच्छन्ति ॥४६॥
दार्षद्वते संवत्सरं ब्राह्मणस्य गा रक्षेत् ।। ४७॥
संवत्सरं व्यर्णे नैतन्धवेऽग्निमिन्धीत ॥ ४८ ॥
संवत्सरे परिणह्याग्नीनादधीत ॥ ४९॥
दृषद्वत्या दक्षिणेन तीरेणाऽऽग्नेयेनाष्टाकपालेन शम्यापरासा ॥ १८.४.५० ॥
त्रिः प्लक्षं प्रति यमुनामवभृथमभ्यवयन्ति ।। ५१॥
तदेव मनुष्येभ्यस्तिरो भवति ॥ ५२ ॥
तुरायणेन सर्वामृद्धिमृध्नुवन्ति ।। ५३ ॥
परमेष्ठितां गच्छन्ति ।। ५४ ॥
आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालो वैश्वदेवं चरुम् ।। ५५॥
दीक्षितः कृष्णाजिनं प्रतिमुञ्चते ॥ ५६ ॥
मानुषि( षी )मेव तेन समृद्धिमृध्नोति ॥ ५७ ॥
यत्तपस्तप्यते दैवीं तेन हविरुच्छिष्टव्रतो भवति ॥ ५८ ॥
संवत्सरमहरहरिष्टिभिर्यजते ॥ ५९ ॥
सवनकल्पो भवति ।। १८.४.६० ॥
सर्वसत्रेणापपुनर्मृत्युं जयति ॥ ६१ ॥
आदित्यानामिवैषां प्रकाशो भवति ॥ ६२ ॥
अतिरात्रावग्निष्टोमं मध्ये ॥ ६३ ॥
सर्वो दशदशी संवत्सरो द्वादशो विषुवान् ॥ ६४ ॥
त्रिसंवत्सरं गवामयनमादित्यानामङ्गिरसाम् । प्रजापतिं भूमानं गच्छन्त्यभिस्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति ॥ ६५ ॥
प्रजापतेः सहस्रसंवत्सरेण प्रजापतेर्ऋद्धिमृध्नुवन्ति ।। ६६ ।।
य एतदुपयन्त्यतिरात्रः सहस्रꣳ संवत्सरांस्त्रिवृतोऽग्निष्टोमा अतिरात्रः ॥ ६७ ।।
विश्वसृजाꣳ सहस्रसंवत्सरं विश्वमेनाननुसृजते । य एतदुपयन्ति--पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पंञ्चपश्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविꣳशाः । विश्वसृजाꣳ सहस्रसंवत्सरम् । विश्वमेनाननुसृजते । य एतदुपयन्ति । तत्र श्लोको विश्वसृजः प्रथमाः सत्रमासत सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनामेति । तत्र ब्रह्मणः सायुज्यꣳ सलोकतां यन्ति य एतदुपयन्ति य एतदुपयन्ति ॥ (ख०१४) ॥ ६८ ॥
इति सत्याषाढहिरण्यकेशिसूत्रेऽष्टादशप्रश्ने चतुर्थः पटलः ॥
इति सत्याषाढहिरण्यकेशिसूत्रेऽष्टादशप्रश्नः।

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१११ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३०