कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २२

← प्रश्नः २१ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २२
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २३ →

22.1
अथ द्वाविंशप्रश्ने प्रथमः पटलः ।
काम्यैः पशुभिरमावास्यां पौर्णमासीं वा सꣳस्थाप्य यजेत । ते ब्राह्मणव्याख्याताः ॥ १ ॥
तेषां निरूढपशुबन्धेन कल्पो व्याख्यातः ॥२॥
सर्वेष्वाभिचारिकेषु शरमयं बहिर्वैभीतक इध्मो लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति ॥३॥
वायव्यꣳ श्वेतमालभेत भूतिकाम इति यथासमाम्नातम् ॥ ४ ॥
तेषामावापिकेषु स्थानेषु यथादेवतꣳ षड़ृचो निदधाति पीवोऽन्नाꣳ रयिवृधः सुमेधा इति । एतानि यथारूपं यथादेवतमाम्नातानि भवन्ति॥ ५ ॥
मल्हा इति मणिला इत्यर्थः ।। ६ ॥
विषम आलभेतेति विषमं देवयजनमध्यवस्यति पशुं वा विषम आलभेत ॥ ७ ॥
पर्यारिणीति परिहासूर्भवति ॥ ८॥
स्फ्यो यूप इति स्फ्याकृतिर्यूप आग्न्यागारिको वा ॥९॥
त्वाष्ट्रं बडवमिति यं पुमाꣳसꣳ सन्तमारोहन्ति ।। २२.१.१० ॥
अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वा । अपि वाऽपां चौषधीनां च संधौ ॥११॥
विशाखो यूप इति यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपर्युभे शाखे अष्टाश्री सचषाले स्याताम् ॥१२॥
ऋषभे गोषु जीर्णे यूनः कर्णमाजपेत्पिशङ्गरूपस्तन्नस्तुरीपमिति ॥ १३ ॥
अथैनं गोष्वपिसृजत्येतं युवानमिति ॥ १४ ॥
जीर्णमालभते ॥ १ ॥
प्राजापत्यमैन्द्रं त्वाष्ट्रं वा मनो महिम्न इत्युपाकरणेऽनुवर्तयते ॥ १५॥
तृतीयया वपां जुहोति। चतुर्थ्या हविः । पञ्चम्या सौविष्टकृतम् ॥ १६ ॥
आग्नेयमष्टाकपालं निरुप्याजां वशामालभते ॥ १७॥
वायव्यमालभेत भूतिकाम इत्युक्तानि दैवतानि ॥ १८॥
अजां वशामालभमान आ वायो भूषेति वायव्यायोपाकरोति ॥ १९ ॥
आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति ॥ २२.१.२० ॥
त्वं तुरीया वशिनी वशाऽसीत्युद्रीचीं नीयमानामनुमन्त्रयते ॥ २१ ॥
अजाऽसि रयिष्ठेति निहन्यमानाम् ॥ २२ ॥
तन्तुं तन्वन्निति वपां जुहोति ॥ २३
अनुल्बणं वयतेति हविः ॥ २४ ॥
मनसो हविरसीति हविःशेषान्याश्नन्ति ॥ २५ ॥
सा वा एषा त्रयाणामेवावरुद्धेति विज्ञायते ॥ २६ ॥
तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति ॥ २७ ॥
यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वां वा प्राश्नीयात् ॥ २८ ॥
जयाभ्यातानान्राष्ट्रभृत इति ब्राह्मणव्याख्याताः ॥ २९ ॥
चित्तं च स्वाहा चित्तिश्च स्वाहेति जयाञ्जुहोति । चित्ताय स्वाहा चित्तये स्वाहेति वा ॥ २२.१.३० ॥
अग्निर्भूतानामधिपतिः स माऽवत्वित्यभ्यातानानस्मिन्ब्रह्मन्नस्मिन्क्षत्र इत्यभ्यातानेष्वनुषजति । पितरः पितामहा इति प्राचीनावीती जुहोत्युपतिष्ठते वर्ताषाडृतधामेति राष्ट्रभृतः । पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति । ताभ्यः स्वाहेत्युत्तराम् ॥ २ ॥ ३१ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशप्रश्ने प्रथमः पटलः ।

22.2
अथ द्वाविंशप्रश्ने द्वितीयः पटलः ।
काम्याभिरिष्टिभिरमावास्यां पौर्णमासीं वा सꣳस्थाप्य यजेत | ता ब्राह्मणव्याख्याताः ॥१॥
सद्यस्काला उपाꣳशुतन्त्रा यथाप्रकृति चैका दक्षिणाः सांनाय्यवत्यस्तु द्व्यहकालाः॥२॥
समिध्यमानवतीꣳ समिद्धवतीं चान्तरेण पृथुपाजवत्यौ धाय्ये ॥ ३॥
अनुपदावाज्यभागौ यत्कामेष्टिस्तत्प्रवादौ स्यातां तदर्थत्वात्तद्देवतौ प्राकृतौ वाऽनादेशे प्रकृतिः प्रत्येतव्या त्वां चित्रश्रवस्तमेत्यनुष्टुभौ संयाज्ये ॥४॥
पुरस्ताल्लक्ष्मा पुरोनुवाक्योपरिष्टाल्लक्ष्मा याज्यैतद्वा विपरीतम् ॥ ५॥
ऐन्द्राग्नमेकादशकपालं निर्वपेदिति तासामुभा वामिन्द्राग्नी इति चतस्रो याज्यानुवाक्या द्वे पूर्वासां तिसृणां वे उत्तरासामेवमत उर्ध्वं कर्मातिरेके समशः प्रतिविभज्य पूर्वा पूर्वासामुत्तरोत्तरासां मन्त्रातिरेकेऽवशिष्टा विकल्पार्था उपहोमा वा॥६॥
पौष्णं चरुं निर्वपेद्वयमु त्वा पथस्पत इति पूर्वा पुरोनुवाक्योत्तरा याज्यैवमत ऊर्ध्वं पूर्वयोत्तरा प्रतिष्ठा ॥ ७॥
क्षैत्रपत्यं चरुं निर्वपेत्क्षैत्रपत्वस्य क्षेत्रस्य पतिनेति ॥ ८॥
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेदिति प्रवृत्तस्य कालातिनये प्रवृत्ते वैश्वानर्यग्ने नयाऽऽदेवानामिति याज्यानुवाक्ये यद्वाहिष्ठमिति संयाज्ये। अनड्वान्दक्षिणा । अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् । त्वमग्ने व्रतपा असीति याज्यानुवाक्ये ॥ ९॥
अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यꣳ रक्षाꣳसि सचेरन्निति । अमावास्यायां निशि परिश्रित्य निर्वपेत् । कृणुष्व पाजः प्रसितिमिति पञ्चदश सामिधेनीरन्वाह नित्यया परिदधाति । अया ते अग्ने समिधा विधेमेति याज्यानुवाक्ये । परे संयाज्ये ॥ २२.२.१० ॥
अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभिचरन्निति । शरमयं बर्हिर्बैभीतक इध्मो लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति । सर्वास्वभिचरणिकास्वेवम् ॥ ३॥ त्वमग्ने रुद्र इति याज्यानुवाक्ये ॥ ११ ॥
(अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयादेषा वेति) । अग्नये सुरभिमतेऽग्निर्होता साध्वीमकर्देववीतिमिति स्वयं यजमानो याज्यानुवाक्ये कुर्वीत ॥ १२ ॥
अग्नये क्षामवत इति तिस्रः क्षामवत्यस्तासामक्रन्ददग्निरिति याज्यानुवाक्ये ।। १३ ॥
अग्नये कामायेत्यष्टौ । तासां तुभ्यं ता अङ्गिरस्तमेत्यानुपूर्वेण याज्यानुवाक्याः ॥ १४ ॥
अन्नवतेऽन्नादायान्नपतय इत्येतासामुक्षान्नाय वशान्नाय वद्मा हीति याज्यानुवाक्ये ॥ १५ ॥
अग्नये पवमानायेति त्रिर्हविरग्न आयूꣳषि पवस इति याज्यानुवाक्याः ॥ १६॥
अग्नये पुत्रवत इति द्विहविर्यस्त्वा हृदा कीरिणा यस्मै त्वमिति याज्यानुवाक्याः ॥ १७॥
अग्नये रसवतेऽजक्षीरे चरुमित्येतासामग्ने रसेनेति याज्यानुवाक्याः ॥ १८ ॥
वैश्वानरं द्वादशकपालमिति त्रिहविः पतनीयेन कर्मणा कृतेनाभिशस्यमानस्य द्वादश वैश्वानर्यस्तासां वैश्वानरो न ऊत्येत्यष्टौ याज्यानुवाक्या द्वे द्वे तिसृणामव ते हेडो वरुणेति वारुणस्य दधिक्राव्णो अकारिषमिति दधिक्राव्णः ॥ १९ ॥
उद्वासनेष्टावाग्नेयस्याग्निर्मूर्धा भुव इति याज्यानुवाक्ये ॥ २२.२.२० ॥
वैश्वानरं द्वादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकामः ॥ २१ ॥
आहवनीये वैश्वानरमधिश्रयति । गार्हपत्ये मारुतम् ॥ २२ ॥
अलंकृत्य वैश्वानरमासादयति । अनूच्यमानासु सामिधेनीषु मारुतो मरुतो यद्धव इति याज्यानुवाक्ये ॥२३॥
आदित्यं चरुं संग्राममुपग्रयास्यन्नित्यदितिर्न उरुष्यतु महीमू षु मातरमिति याज्यानुवाक्ये ॥ २४ ॥
वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वेति यत्र युयुत्समाना भवन्ति ॥ २५ ॥
वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्यया रज्ज्वोत्तमां गामजेत्ता भ्रातृव्याय प्रहिणुयादिति भ्रातृव्यमयीं वाऽभिदध्याद्गोष्ठे वा न्यसेत् ॥४॥२६॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशप्रश्ने द्वितीयः पटलः ।

22.3
अथ द्वाविंशप्रश्ने तृतीयः पटलः। .
ऐन्द्रं चरुं निर्वपेत्पशुकाम इत्येतस्यानुवाकस्येष्टीनां याज्यानुवाक्या इन्द्रं वो विश्वतस्परीत्येषोऽनुवाकः ॥ १॥
इन्द्रायान्वृजव इत्यन्वह मासा इति ॥ २ ॥
इन्द्राण्यै चरुं निर्वपेद्यस्य सेनाऽसꣳशितेव स्यादधृतेवेत्यर्थो बल्बजानिध्म उपसंनह्य सहेध्मेनाभ्यादध्यादुत्तमा धाय्या । रेवती पुरोनुवाक्या भवति शक्वरी याज्या प्रोष्वस्मै पुरोरथमिति ॥ ३ ॥
आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागेत्याज्यहविरित्यथो बार्हस्पत्यश्चरुरिति त्रिर्हविर्द्वे द्वे पुरोनुवाक्ये कुर्यात् । अग्नाविष्णू सजोषसाऽऽग्नाविष्णू इत्याग्नावैष्णवं स्यात् । प्र णो देव्या नो दिवः पावीरवी कन्येति सारस्वतस्य । बृहस्पते जुषस्व न इति बार्हस्पत्यस्य ॥ ४ ॥
एतयैव यजेताभिचर्यमाण आग्नावैष्णवोऽयं यज्ञो नोपनमेदाग्नावैष्णवो घृते चरुश्चक्षुष्कामस्याग्नाविष्णू अग्नाविष्णू इत्येव याज्यानुवाक्ये ॥ ५ ॥
मैत्रावरुणमेककपालं निर्वपेदा नो मित्रावरुणेति मैत्रावरुणस्य ॥ ६॥
तिष्यापूर्णमासे सोमारौद्रो ब्रह्मवर्चसकामस्य परिश्रिते याजयन्ति । श्वेतायै श्वेतवत्सायै दुग्धं मथितमाज्यं भवति । आज्यं प्रोक्षणमाज्येन मार्जयन्ते तूष्णीकेन । प्रोक्षणमार्जने । मानवी ऋचौ धाय्ये कुर्यात् । मक्षू देववत इत्येतासां द्वे। पञ्च सोमारौद्रीयं सोमारुद्रेति सर्वासां याज्यानुवाक्ये ।। ७॥
यदि बिभीयाद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्सोमापूषणा इमौ देवाविति याज्यानुवाक्ये ॥ ८ ॥
सोमारौद्रे ज्योगामयाविनः ॥ ५ ॥ होताऽनड्वाहं दक्षिणां ददाति । सोमारौद्रं चरुं निर्वपेद्यः कामयेत स्वेऽस्मा आयतने भ्रातृव्यं जनयेयमिति भ्रातृव्यक्षेत्रे यजेत । वेदिं परिगृह्य दक्षिणमर्धमुद्धृत्य तदेवार्धेन बर्हिषस्तृणीयादर्धमिध्मस्याभ्यादध्यात् ॥ ९॥
ऐन्द्रमेकादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकामः ॥ २२.३.१०॥
आहवनीय ऐन्द्रमधिश्रयति । गार्हपत्ये मारुतम् ॥ ११ ॥
अलंकृत्यैन्द्रमासादयति अनूच्यमानासु सामिधेनीषु मारुतम् ॥ १२ ॥
इन्द्रं वो विश्वतस्परीन्द्रं नरो मरुतो यद्धवं इति याज्यानुवाक्याः ॥१३॥
एतामेव निर्वपेद्यः कामयेत क्षत्त्राय च विशे च समदं दध्यामित्यैन्द्रस्यावद्यन्ब्रूयादिन्द्रायानुब्रूहीत्यैन्द्री पुरोनुवाक्याऽऽश्राव्य ब्रूयान्मरुती यजेति मारुती याज्या मारुतस्यावद्यन्ब्रूयान्मरुद्भ्योऽनुब्रूहीति मारुती पुरोनुवाक्याऽऽश्राव्य ब्रूयादिन्द्रं यजेति ऐन्द्री याज्या ॥ १४ ॥
एतामेव निर्पेद्यः कामयेत कल्पेरन्निति यथादेवतमवदाय यथादेवतं यजेत ॥ १५॥
ऎन्द्रमेकादशकपालं निर्पेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इति ॥ १६॥
ऐन्द्रस्य पूर्वमवदानमवदाय वैश्वदेवस्यावग्रेदुपरिष्टादुत्तरमैन्द्रस्येन्द्राय विश्वेभ्यो देवेभ्योऽनुब्रूहीन्द्रं विश्वान्देवान्यजति संप्रेष्यति भरेष्विन्द्रमिति याज्यानुवाक्ये ॥ १७ ॥
उपाधाय्यपूर्वयं वासो दक्षिणा ॥ १८ ॥
 (द्विगुणान्संज्ञान्यां संगच्छध्वं समानो मन्त्रः समानी वः संज्ञानं नः संज्ञानं मे इति पञ्च होमाष्टीकाः। अत्र धूनुथ द्यां प्रवेपयन्ति पर्वतानित्युपहोमौ) टीकाजी ( द्विगुणं जी) तु प्रयाणे चित्रान्तमित्येकेषां मारुतस्य प्रिया वो नाम हुवे तुराणामिति ॥ १९॥
संज्ञान्ये समवदाय प्रचरेदग्नये वसुमते सोमाय रुद्रवत इन्द्राय मरुत्वते वरुणायाऽऽदित्यवतेऽनुब्रूह्यग्निं वसुमन्तꣳ सोमꣳ रुद्रवन्तमिन्द्रं मरुत्वन्तं वरुणमादित्यवन्तं यजेति संप्रेष्यति । आग्निः प्रथमो वसुभिरिति याज्यानुवाक्ये । नाना वा प्रचर्याः समानी याज्यानुवाक्ये उत्तरे संयाज्ये॥६॥२२.३.२०॥
आदित्येभ्यो भुवद्वद्भ्यश्चरुमिति यज्ञो देवानां प्रत्येतीति याज्यानुवाक्ये ॥ २१॥
अवरुद्धो वाऽवरुध्यमानो वाऽभ्यथारयद्वतीं निरुप्याऽऽस्ते यावदेनं नापरुन्ध्युर्धास्यन्व आदित्यास इति याज्यानुवाक्ये ॥ २२ ॥
अपरुध्यमानोऽदितेऽनुमन्यस्वेति ॥ २३ ॥
अपरोद्धुः पद्यादाय गच्छति ॥ २४ ॥
यां जनतां गच्छेद्यस्तत्र मुख्यप्रवादो भवति ॥ २५॥
तस्य गृहाद्रींाहीनाहरेच्छुक्लाꣳश्च कृष्णाꣳश्च । विचिनुयाद्ये शुक्लाः स्युस्तमादित्यं चरुं निर्वपेत् ॥ २६ ॥
ये कृष्णास्तान्कृष्णाजिन उपनह्य प्रज्ञातान्निधायोपप्रेत मरुतः सुदानव एना विश्पतिनाऽभ्यमुꣳ राजानमिति यजमानमभ्येति सत्याऽऽशीरिति पदैकदेशं यजमानस्योत्तरे वाससि निवपतीह मन इत्युरसि शेषं त्यान्नु क्षत्रियानिति याज्यानुवाक्ये ॥ २७॥
यदि नावगच्छेदिममहमादित्येभ्यो भार्ग निर्वपाम्यमुष्मादमुष्यै विशोऽवगन्तोरित्यपरोद्धुर्नाम गृह्णाति तस्यैव विशः ॥ २८ ॥
यदि नावगच्छेदाश्वत्थान्मयूखान्त्सप्त मध्यमेषायामुपहन्यादिदमहमादित्यान्बध्नामीति त्रीन्प्राचश्चतुर उदीचः ॥ २९ ।।
यदि नावगच्छेदेतमेवाऽऽदित्यं चरुं निर्वपेदिध्मेऽपि मयूखान्संनह्येदनवगतः ॥ २२.३.३० ॥
कृष्णानां वारुणं चरुं निर्वपति । अनवगतो वाऽऽदित्यं निरुप्य वारुणं निर्वपेदिमं मे वरुण तत्त्वा यामीति याज्यानुवाक्ये । त्वं नो अग्न इति संयाज्ये ॥ ३१ ॥ .
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशप्रश्ने तृतीयः पटलः ।

22.4
अथ द्वाविंशप्रश्ने चतुर्थः पटलः ।
प्राजापत्याꣳ शतकृष्णलां निर्वपेदायुष्कामः॥१॥
शतꣳ हिरण्यकृष्णलानि काकिण्या माषेण वा संमितानि । औषधकल्पो यत्प्रागवहननात्तत्कृत्वा पवित्रान्तर्हित आज्य आवपति। ध(घ)र्ममात्रं श्रपणम् । प्रचरणकालेऽष्टौ देवताया अवद्यति । चत्वारि स्विष्टकृति । द्वे प्राशित्रेऽष्टाविडायाम् । चतुर्धाकरणकाले सर्वाणि प्राशित्रे समोप्यैकधा ब्रह्मण उपहरति । तानि ब्रह्मा भक्षयति । भक्षाय नयतीतरेषाम् ॥ २॥
सौर्यं चरुं निर्वपेदधस्तादुपरिष्टाच्च रुक्माभ्यां परिगृह्याऽऽसादयति । तस्य प्रयाजे प्रयाजे कृष्णलं जुहोति । अपोह्य रुक्मौ चरुणा प्रचरति। उदु त्यं चित्रमिति याज्यानुवाक्ये । एतावेव रुक्मौ दक्षिणा ॥३॥
आग्नेयमष्टाकपालं निर्वपेदिति त्रिहविः स प्रत्नवदिति याज्यानुवाक्याः ॥ ४॥
सोमेन्द्रꣳ श्यामाकं चरुं निर्वपेत्सोमवामिनः सोमातिपवितस्यर्दूदरेणाऽऽपान्तमिति याज्यानुवाक्ये ॥ ५॥
अग्नये दात्र इति त्रिर्हविस्तेषां प्राजापत्यं संसृष्टहविस्तृतीयम् । दधि मधु घृतमापो धाना इति दधि मधु घृतमापस्तण्डुला इत्येतेषामाज्यविकारो मधूदके सꣳसृष्टे मुख्ये स्वाधर्म्यभूयस्त्वादाज्यविकारो बलीयानग्ने दा दाशुषे रयिमित्याग्नेयस्य।
मा नो मर्धीरा तू भरेत्यैन्द्रस्य । घृतं न पूतमुभे इति प्राजापत्यस्य ॥ ६॥
ज्ञविभ्रष्टस्याऽऽग्नेयादीनि त्रीण्युपक्रम्याशक्नुवन्यज्ञविभ्रष्टः। आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति सꣳहितानि हवीꣳष्यधिश्रयतीत्यर्थः । लेपौ वाऽस्मिन्समाश्लेषयेत् । सपत्नवदिति याज्यानुवाक्याः ॥ ७ ॥
द्वावग्नीषोमीयौ । नानातन्त्रावग्नीषोमा सवेदसेति याज्यानुवाक्याः ॥ ८॥
सोमाय वाजिने श्यामाकस्याऽऽप्यायस्व सं त इति ॥ ९ ॥
ब्राह्मणस्पत्यस्य गणानां त्वा गणपतिꣳ हवामह इति ॥ २२.४.१०॥
तां यः कामयेत ब्रह्मन्विशं विनाशयेयमिति ॥८॥
सर्वं ब्राह्मणस्पत्यं भवति । मरुतो यद्धव इति याज्यानुवाक्ये ॥ ११॥
अर्यम्णे चरुं निर्वपेत्सुवर्गकामोऽर्यमाऽऽयाति ये ते इति ॥ १२ ॥
यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकाशदशकपालं निर्वपदैन्द्रस्यानुषूकस्य बुध्नादग्रमिति ॥१३॥
 (यो ब्राह्मणानुजावरः स्यात्तस्मा एतं बार्हस्पत्यमानुषूकं चरं निर्वपेत् । ) बार्हस्पत्यस्य प्र यो जज्ञ इति ॥ १४ ॥
पापयक्ष्मगृहीतस्याऽऽदित्यश्चरुरमावास्यायां अश्वो जपो यमादित्या इति याज्यानुवाक्ये ॥ १५ ॥
त्रिधातुं निर्वपेदिन्द्राय राज्ञ इत्येकादशसूत्तानेषु कपालेष्वधिश्रयति परितपनान्तं कृत्वा तस्मिन्नुत्तरं ज्यायाꣳसमधिश्रयति । यथाशृतानलंकृत्य सादयति । प्रचरणकाले मध्यात्प्रथमां देवतां यजति । दक्षिणार्धाद्द्वितीयामुत्तरार्धात्तृतीयाꣳ सर्वेषामभिगमयन्नवद्यति । अच्छंबट्कारं यावता हि न प्राप्नुयात्तावता च वषट् कुर्यात् । प्राच्यां दिशि त्वमिन्द्राऽ(न्दोऽ)सि राजेति तिस्र ऋचो व्यत्यासमन्वाह । प्रथमामनूच्य मध्यमया यजेत । मध्यमामनूच्योत्तमया यजेत । उत्तमामनूच्य प्रथमया यजेत । एवं सर्वा अनुवाक्याः सर्वा याज्या भवन्ति ॥ १६ ॥
सर्वपृष्ठां निर्वपेदिन्द्राय राथंतरायेति द्वादशसूत्तानेषु कपालेष्वधिश्रयति । प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजति । एवमितराः प्रदक्षिणं समन्तं पर्यवद्यतीति विज्ञायते । अभि त्वा शूर नोनुम इति षडृचो व्यत्यासमन्वाह विज्ञायते च न बृहत्या वषट् कुर्याद्यद्बृहत्या वषट् कुर्यादन्तं छन्दाꣳसि गमयेदनुवाक्यायाश्चत्वार्यक्षराणि न याज्यायामध्यूह्य यजत्यनुष्टुभं च वा एतत्पङ्क्तिं च संपादयन्ति मन्यामहे ॥ ९॥ इन्द्राय राथंतरायानुब्रूहीत्युक्ते अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमोमित्यनूच्येन्द्र तस्थुषस्त्वामिद्धि हवामहे इति यजतीन्द्राय बार्हतायानुब्रूहीत्युक्ते त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतोऽभि त्वा शूर नोनुम इति यजति । इन्द्राय वैरूपायानुब्रूहीत्युक्ते यद्याव इत्यनूच्य पिबा सोमामिति यजति । इन्द्राय वैराजायानुब्रूहीत्युक्ते पिबा सोममित्यनूच्य यद्याव इति यजति । इन्द्राय शाक्वराया नुब्रूहीत्युक्ते रेवतीर्न इत्यनूच्य प्रोष्वस्मै पुरोरथमिति यजति । इन्द्राय रैवतायानुब्रूहीत्युक्ते प्रोष्वस्मै पुरोरथमिति( त्यनूच्य ) रेवतीर्न इति यजति । अश्वर्षभो वृष्णिवस्तः सा दक्षिणा।। १७॥
वृषत्वायैतयैव यजेताभिशस्यमानः॥ १८॥
चक्षुष्कामस्याऽऽग्नेयादीनि त्रीण्युदग्ने शुचयस्तव वि ज्योतिषोदु त्यं चित्रमिति याज्यानुवाक्या: । समानी आग्नेयाभ्यां चतुर्धाकरणकाले सौर्यान्त्रीन्पिण्डान्कृत्वोदु त्यं जातवेदसꣳ सप्त त्वा हरितो रथे चित्रं देवानामिति प्रतिमन्त्रं पिण्डान्यजमानाय प्रयच्छति । तान्यजमानः प्राश्नाति ॥ १९॥
वैश्वदेवीꣳ सांग्रहणीं निर्वपेद्ग्रामकाम इति । पृषत्याः पृषद्वत्सायै दुग्धे वत्सायै चरुं घृत इत्येकेषाम् । ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति परिधीन्परिदधाति । विश्वे देवा विश्वे देवा इति याज्यानुवाक्ये । आमनमस्यामनस्य देवा इत्यामने तिस आहुतीर्जुहोति । अप्रकृतानामनिर्दिष्टकालानां कर्मणां प्रधानानन्तर्यमित्यात्रेयः । अन्तमागन्तूनीति बादरायणः ॥ १० ॥ २२.४.२० ॥ ४ ॥
इति सत्याषाढहिरण्यकशिसूत्रे द्वाविंशप्रश्ने चतुर्थः पटलः ।

22.5
अथ द्वाविंशप्रश्ने पञ्चमः पटलः ।
यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरिति । तस्मा एतामिष्टिं निर्वपेत् । आग्नेयादीनि पञ्च पात्रसꣳसादनकाले खादिरं चतुःस्रक्तिपात्रं प्रयुनक्ति । सौवर्णं च प्रवृत्तं शतमानस्य कृतम् । अथो खलु यावतीः समा एष्यन्मन्येत तावन्मानꣳ स्यादिति विज्ञायते ॥ १॥
यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याऽऽज्यग्रहणकाले तूष्णीमादितः खादिरे चतुर्गृहीतं गृहीत्वाऽथेतरासु गृह्णाति । सादनकाल उत्तरेण ध्रुवाꣳ सादयति । तस्मिन्प्रवृत्तमवदधाति । आयुष्ट आयुर्दा अग्न आप्यायस्व सं तेऽव ते हेड उदुत्तमं प्र णो देव्या नो दिवोऽग्नाविष्णू अग्नाविष्णू इति याज्यानुवाक्याः॥२॥
अश्विनोः प्राणोऽसीति चतुर उपहोमाञ्जुहोति ।।३।।
यत्खादिर आज्यं तदग्रेणाऽऽहवनीयं पर्याहृत्य दक्षिणेनाऽऽहवनीयमन्तर्वेदि निदधाति ॥ ४ ॥
तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य पन्थामिति ॥५॥
अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति । ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति ॥ ६॥
अथैतद्यजमानो हिरण्याद्घृतं निष्पिबतीममग्न आयुषे वर्चसे कृधीति निष्पिबन्तमभिमन्त्रयते ॥ ७॥
उद्धृत्य प्रवृत्तं प्रक्षाल्य दक्षिणे कर्णे यजमानः प्रदक्षिणमाबध्नाति । आयुरसि विश्वायुरसीति ॥ ८॥
अथास्याध्वर्युर्दक्षिणꣳ हस्तꣳ साङ्गुष्ठं गृह्णात्यग्निरायुष्मानिति षड्भिः पर्यायैः ॥ ९॥
स्विष्टकृत्प्रभृति ॥ ११॥ सिद्धꣳ संतिष्ठते ॥ २२.५.१० ॥
ऋत्विजोऽश्वप्रतिग्रहे वारुणी। यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेदेकमतिरिक्तमिमं मे वरुण तत्त्वा यामीति याज्यानुवाक्ये ॥ ११ ॥
यद्यपरं प्रतिग्राही स्यात्सौर्यमेककपालं निर्वपेत् । उदु त्यं चित्रमिति याज्यानुवाक्ये ॥ १२ ॥
अपोऽवभृथमवैति सामवर्जमनूयाजान्तम् । इमं मे वरुण तत्त्वा यामीति याज्यानुवाक्ये ॥ १३ ॥
अपोनप्त्रीयं चरुं पुनरेत्य निर्वपेदपांनपात्समन्या यन्तीति याज्यानुवाक्ये ।। १४ ।।
पाप्मगृहीतस्यैन्द्रावरुणमेककपालं निर्वपेत् ॥ १५ ।।
ऐन्द्रावरुणीं पयस्यान्तं पयस्यायामवधाय प्रच्छाद्याऽऽसादयति ॥१६॥
अथास्मात्पयस्यां प्रतिदिशं व्यूहति या वामिन्द्रावरुणा यतव्या तनूरित्येतैरेव पुनः समूहत्यमुक्तमिति मन्त्रान्त्संनमति ॥१७ ।।
इन्द्रावरुणा युवमध्वराय, आ नो मित्रावरुणा प्र बाहवा इति याज्यानुवाक्ये ॥ १८ ॥
यो वामिन्द्रावरुणाविति पयस्याया उपहोमाः ॥१९॥
अग्नये प्रवत इति त्रिहविः प्रप्रायमग्निरिति याज्यानुवाक्याः ।। २२.५.२०
इन्द्रायाꣳहोमुच इति त्रीण्यꣳहोमुचे विवेष यन्मा वि न इन्द्रेन्द्र क्षत्त्रमिन्द्रियाणि शतक्रतोऽनु ते दायीति याज्यानुवाक्याः ॥ २१॥
अग्नये संवर्गाय पुरोडाशमष्टाकपालं निर्वपेत् । तꣳ शृतमासन्नमेतेन यजुषाऽभिमृशेदोजोऽसि सहोऽसीति । युक्ष्वा हि देवहूतमानिति पञ्चदश सामिधेनीरन्वाह नित्यया परिदधाति । कुवित्सु न इति याज्यानुवाक्ये । उत्तरे संयाज्ये ॥ २२ ॥
प्राजापत्यो गार्मुतश्चरुः प्रजाकामस्य प्रजापते, स वेद पुत्र इति याज्यानुवाक्ये ॥ २३ ॥
सोमापूषणेति सोमापौष्णस्य ॥ २४ ॥
चित्रापूर्णमासे निर्वपेत्पशुकामस्याऽऽग्नेयादीनि सप्ताग्निना रयिमश्नवदिति याज्यानुवाक्याः । अग्ने गोभिर्न आगहीत्युपहोमाः ॥ २५॥
पुष्कलेषु नक्षत्रेषूदवसाय ॥ १२ ॥ २६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशप्रश्ने पञ्चमः पटलः ।

22.6
अथ द्वाविंशप्रश्ने षष्ठः पटलः ।
कारीर्या वृष्टिकामो यजेत ॥ १ ॥
अग्नीनन्वाधाय दक्षिणेनाऽऽहवनीयं मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं यजमानः परिधत्ते । अप उपस्पृश्य ॥ २ ॥
रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति पुरोवातमेव जनयत्येहि वातेति । कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति ॥३॥
तमेतेन वाससाऽभिपिनष्ट्यभिक्रन्दयति यदि क्रन्देद्विधूनुयाच्छकृन्मूत्रं वा कुर्याद्वर्षिष्यतीति विद्यात् ॥ ४ ॥
पुरोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वाऽन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ॥५॥
तस्मिन्खर्जूरसक्तून्करीरसक्तून्निदधाति मान्दा वाशा इति कृष्णमधुषा संयुत्य तिस्रः पिण्डीः कृत्वा पुष्करपलाशेषूपवेष्ट्य वृष्णो अश्वस्य संदानमसीति कृष्णेनाश्वदाम्नोपनह्यति ॥ ६ ॥
उत्करे प्रागीषं त्रिगवं त्रिच्छदिरनपस्थितं भवति । देवा वसव्या इति तस्योत्तमे छदिषि कृष्णाजिनमाबध्नाति ॥ ७ ॥
अहोरात्रावसक्तं भवति ॥ ८॥
यदि वर्षेत्पिण्डीरेव जुहुयात् ॥ ९॥
यदि न वर्षेद्देवाः शर्मण्या इति मध्यम आबध्नाति । अहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात् । यदि न वर्षेद्देवाः सपीतय इति जघन्य आबध्नाति । अहोरात्रावसक्तं भवति । यदि वर्षेत्पिण्डीरेव जुहुयात् । यदि न वर्षेच्छ्वोभूते त्रीणि धामच्छदादीनि कृष्णानां व्रीहीणां निर्वपति ॥ २२.६.१० ॥
तान्यासाद्योत्तरतः कृष्णाजिनमासादयति ॥ ११ ॥
त्वं त्या चिदच्युतेति याज्यानुवाक्याः ॥ १२॥
दिवा चित्तमः कृण्वन्तीत्येताभिः पिण्डीर्जुहोति॥१३॥
अथाऽऽसां धूममुद्यन्तमनुमन्त्रयतेऽसितवर्णा हरय इति ॥ १४ ॥
उत्करे कृष्णामामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति ॥ १५ ॥
यदि भिद्येत वर्षिष्येतेति विद्यात् ॥ १६ ॥
अनस उपस्तम्भने शङ्कौ वा कृष्णाऽविर्बद्धा भवत्यब्जा असीति तस्यामश्वविज्ञानमुपैति ॥१७॥
उत्करे वर्षाहुस्तम्बं प्रतिष्ठाप्योन्नमय्य पृथिवीमिति वर्षाह्वां जुहोति ॥ १८ ॥
तमाहवनीयेऽनुप्रहृत्य हिरण्यकेशो रजसो विसार इति धूममुद्यन्तमनुमन्त्रयते ॥ १९ ॥
ये देवा दिविभागा इत्युत्करे कृष्णाजिनमवधूनोति ॥ २२.६.२० ॥
और्वभृगुवच्छुचिमिति संयाज्ये ॥ २१ ॥
कृष्णं वासः कृष्णोऽश्वः कृष्णाविर्दक्षिणा ॥ २२ ॥
अथ सर्वकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गस्तस्योपहोमा वातनामानि याभिः कृष्णाजिनमाबध्नाति याभिः पिण्डीर्जुहोति याभ्यां च धूममुद्यन्तमनुमन्त्रयते ॥ २३ ।।
पूर्ववत्त्रिधातुमधिश्रयति ॥ २४ ॥
यवमयस्तु मध्यः । ऐन्द्रावैष्णवꣳ हविर्भवति ॥ २५॥
.प्र सो अग्न इत्युष्णिक्ककुभौ धाय्ये । अग्ने त्री ते वाजिना त्री षधस्थे ते त्रिवत्या परिदधाति । सं वां कर्मणोभा जिग्यथु रेति याज्यानुवाक्ये । उत्तरे संयाज्ये ॥२६॥
हिरण्यं तार्प्यं धेनुरिति दक्षिणा ॥ २७ ॥
ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जात इदं वामास्ये हविरिति याज्यानुवाक्ये । हिरण्यं दाम दक्षिणा दक्षिणा ॥ १४ ॥ २८॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशप्रश्ने षष्ठः पटलः ॥
इति सत्याषाढहिरण्यकेशिसूत्रे द्वाविंशः प्रश्नः ।