कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २६

← प्रश्नः २५ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २६
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २७ →

26.1
अथ षड्विंशप्रश्नप्रारम्भः।
तत्र प्रथमः पटलः ।
अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः ॥ १॥
धर्मज्ञसमयः ॥ २॥
= प्रमाणं वेदाः ॥ ३॥
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ ४ ॥
तेषां पूर्वः पूर्वो जन्मतः श्रेयान् ॥ ५ ॥
अशूद्राणामदुष्टकर्मणामुपनयो वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि ॥ ६॥
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥ ७ ॥
पूर्वस्मिन्पूर्वस्मिन् वर्णे निःश्रेयसं भूयः ॥ ८ ॥
शुश्रूषेत्यनुवृत्तिः । सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया मात्रेयाऽपि कृता क्षत्रियशुश्रूषा बहुतरं फलं साधयति । एवं क्षत्रियशुश्रूषाया अपि ब्राह्मणशुश्रूषा । निःश्रेयसं निःश्रेयससाधनमतिशयेन जनयति । एषा नित्यकर्मत्वेनोक्ता प्रधानभूता ॥ ८ ॥
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ॥९॥
सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम् ॥२६.१.१०॥
तस्मिन्नभिजनविद्यासमुदेतꣳ समाहितꣳ सꣳस्कर्तारमिच्छेत् ॥ ११॥
तस्मिंश्चैव विद्याकर्माऽऽन्तमविप्रतिपन्ने धर्मेभ्यः ॥ १२ ॥
यस्माद्धर्मानाचिनोति स आचार्यः ॥ १३ ॥
तस्मै न दुह्येत्कदाचन ॥ १४ ॥
स हि विद्यातस्तं जनयति ॥ १५ ॥
तछ्रेष्ठं जन्म ॥ १६ ॥
शरीरमेव मातापितरौ जनयतः ॥ १७॥
अथाप्युदाहरन्ति य आतृणत्त्यवितथेन कर्मणा दुःखं कुर्वन्नमृतꣳ संप्रयच्छंस्तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमश्चनाहेति ॥ १८ ॥
तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति विज्ञायते ॥ १९ ॥
वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यꣳ शरदि वैश्यम् ॥ २६.१.२०॥
गर्भाष्टमेषु ब्राह्मणं गर्भैकादशे राजन्यं गर्भंद्वादशेषु वैश्यम् ॥ २१ ॥
अथ काम्यानि ॥ २२ ॥
सप्तम आयुष्काममष्टमे ब्रह्मवर्चसकामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामम् ।। २३ ।।
आ षोडशाद्राियह्मणस्यानात्यय आ द्वाविंशात्क्षत्त्रियस्याऽऽ चतुर्विꣳशाद्वैश्यस्य ॥ २४ ॥
यथा व्रतेषु समर्थः स्थाद्यानि वक्ष्यामः ॥ २५॥
अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् ॥ २६ ॥
तत उपनयनम् ॥ २७॥
अथोदकोपस्पर्शनम् ।। २८ ।।
अथाध्यायः ॥ २९॥
अथ यस्य पिता पितामह इत्यनुपनीतौ स्यातां ते ब्रह्महसꣳस्तुताः ॥ २६.१.३० ॥
तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत् ॥ ३१ ॥
तेषामिच्छतां प्रायश्चित्तम् ॥ ३२ ॥
यथा प्रथमेऽतिक्रम ऋतुरेवꣳ संवत्सरम् ॥ ३३ ॥
प्रतिपूरुषꣳ संख्याय संवत्सरान्यावन्तोऽनुपेताः स्युः ॥ ३४ ॥ (ख०१)
सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनेति ॥ ३५ ॥
.अपि वा व्याहृतिभिरेव ॥ ३६॥
अथाध्याप्यः ॥ ३७॥
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्मशानसꣳस्तुताः ॥ ३८ ॥
तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपस्पर्शनं पावमानी(न्यादि)भिः ॥ ३९ ॥ अथ गृहमेधोपदेशनम् ।। २६.१.४० ॥
नाध्यापनम् ॥ ४१॥
ततो यो निर्वर्तते तस्य सꣳस्कारो यथा प्रथमेऽतिक्रमे ।। ४२ ॥
तत ऊर्ध्वं प्रकृतिवत् ॥ ४३ ॥
उपेतस्याऽऽचार्यकुले ब्रह्मचारिणो वासः ॥ ४४ ॥
अष्टाचत्वारिंꣳशद्वर्षाणि ॥ ४५ ॥
पादोनम् ॥ ४६॥
अर्धोनम् ॥ ४७॥
त्रिभिर्वा ॥ ४८॥
द्वादशावरार्ध्यम् ॥ ४९॥
न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ॥ २६.१.५० ॥
अथ ब्रह्मचर्यविधिः ॥ ५१ ।।
आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः ॥ ५२ ॥
हितकारी गुरोरप्रतिलोमयन्वाचा ॥ ५३॥
अधासनशायी ॥५४॥
नानुदेश्यं भुञ्जीत ॥ ५५ ॥
तथा क्षारलवणमधुमांसानि ॥ ५६ ॥
अदिवास्वापी ॥ ५७ ॥
अगन्धसेवी ॥ ५८ ॥
मैथुनं न चरेत् ॥ ५९॥
उत्सन्नश्लाघः ॥ २६.१.६०॥
अङ्गानि न प्रक्षालयीत ।। ६१ ॥
प्रक्षालयीत त्वशुचिलिप्तानि गुरोरसंदर्शे ॥ ६२ ॥
नाप्सु श्लाघमानः स्नायात् ॥ ६३ ॥
जटिलः शिखाजटो वा स्याद्वापयेदितरान् ॥ ६४ ॥
त्रिवृन्मौञ्जी मेखला ब्राह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ॥६५॥
ज्या राजन्यस्य ।। ६६ ।।
मौञ्जी वाऽयोमिश्रा ॥ ६७ ॥
आवीसूत्रं वैश्यस्य सैरी तामली वेत्येके । ६८ ॥
बैल्वः पालाशो वा दण्डो ब्राह्मणस्य नैयग्रोधः स्कन्धजोऽवाङग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति ॥ ६९ ॥
वासः ॥ २६.१.७० ॥
काषायं चैके वस्त्रमुपदिशन्ति ॥ ७२ ॥ (ख०२)
माञ्जिष्ठं राजन्यस्य ॥ ७३ ॥
हारिद्रं वैश्यस्य ।। ७४ ॥
हारिणमैणेयं वा कृष्णं ब्राह्मणस्य ॥ ७५ ॥
कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ॥ ७६ ॥
रौरवꣳ राजन्यस्य ॥ ७७ ॥
बस्ताजिनं वैश्यस्य ॥ ७८ ॥
आविकꣳ सार्ववर्णिकम् ॥ ७९ ॥
कम्बलश्च ॥ २६.१.८०॥
ब्रह्मवृद्धिमिच्छन्नजिनान्येव वसीत क्षत्त्रवृद्धिमिच्छन्वस्त्राण्येवोभयवृद्धिमिच्छन्नुभयमिति हि ब्राह्मणम् ॥ ८१ ॥
अजिनं त्वेवोत्तरं धारयेत् ।। ८२ ।।
न गायेन्न रोदेत् ।। ८३ ॥
अनृत्तदर्शी ।। ८४ ॥
सभाः समाजाꣳश्चागन्ता ॥ ८५ ॥
अजनवादशीलः ॥ ८६ ॥
रहःशीलः ॥ ८७ ॥
गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि ॥ ८८ ॥
स्त्रीभिर्यावदर्थसंभाषी ।। ८९ ॥
मृदुः॥ २६.१.९० ॥
शान्तः ॥ ९१ ॥
दान्तः ॥ ९२ ॥
ह्रीमान् ॥ ९३ ॥
दृढसिद्धिर्धृतिः ॥ ९४ ॥
अग्लानिः ॥ ९५ ॥
अक्रोधनः ॥ ९६ ॥
समाहितः ।। ९७॥
ब्रह्मचारी ॥ ९८ ॥
अनसूयः ॥ ९९ ॥
सर्वं लाभमाहरन्गुरवे सायंप्रातरमत्रेण भिक्षाचर्यं चरेद्भिक्ष माणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च ।। २६.१.१०० ।।
स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तँ हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यमिति वृङ्क्ते तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध एवंव्रतः स्यादिति हि ब्राह्मणम् ॥ १०१॥
नानुमानेन भैक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु ॥ १०२ ॥
भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ १०३ ॥
भवन्मध्यया राजन्यः ॥ १०४ ॥
भवदन्त्यया वैश्यः ॥ १०५॥
तत्समाहृत्योपनिधाय गुरवे प्रब्रूयाद्भैक्षमिदं भो इति ।। १०६॥
तेन प्रदिष्टं भुञ्जीत ॥ १०७ ॥
विप्रवासे गुरोराचार्यकुलाय ॥ १०८ ।।
तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ १०९ ॥
नाऽऽत्मप्रयोजनश्चरेत् ॥ २६.१.११० ॥
प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत ॥ १११ ॥
भुक्त्वा स्वयममत्रं प्रक्षालयेत् ।। ११२ ॥
न चोच्छिष्टं कुर्यात् ॥ ११३ ॥
अशक्तौ भूमौ निखनेत् ॥ ११४ ॥
अप्सु वा प्रवेशयेत् ॥ ११५ ॥
आर्याय पर्यवदध्याद्वा ॥ ११६ ॥
अन्तर्धिने वा शूद्राय ॥ ११७ ॥
भैक्षꣳ हविषा सꣳस्तुतं तत्राऽऽचार्यों देवतार्थे ॥ ११८ ।।
आहवनीयार्थे च ॥ ११९ ॥
तं भोजयित्वा यदुच्छिष्टं प्राश्नाति ॥ २६.१.१२० ॥
हविरुच्छिष्टमेव तत् ॥ १२१ ॥
यदन्यानि द्रव्याणि यथालाभमाहराति दक्षिणा एव ताः ॥ १२२ ॥
स वा एष ब्रह्मचारिणो यज्ञो नित्यं प्रततः ॥ १२३ ॥
न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ १२४॥
यथा क्षारलवणमधुमांसानीति ॥ १२५ ।। (ख. ३)
एतेनान्ये नियमा व्याख्याताः ।। १२६ ॥
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ १२७ ॥
दृश्यते चापि प्रवृत्तिकारणम् ॥ १२८ ॥
प्रीतिर्ह्युपलभ्यते ॥ १२९॥
पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ २६.१.१३० ॥
धर्मविप्रतिपत्तावभोज्यम् ॥ १३१ ॥
सायंप्रातरुदकुम्भमाहेरत् ।। १३२ ॥
सदाऽरण्यादेधानाहृत्याधो निदध्यात् ॥ १३३ ॥
नास्तमिते समिद्धारो गच्छेत् ।। १३४ ॥
अग्निमिद्ध्वा परिसमुह्य समिध आदध्यात्सायं प्रातर्यथोपदेशम् ।। १३५ ॥
सायमेवाग्निपूजेत्येके ।। १३६ ॥
समिद्धमग्निं पाणिना समूहेन्न समूहन्या ।। १३७ ॥
प्राक्तु याथाकामी ।। १३८ ॥
नाग्न्युदकशेषेण वृथाकर्माणि कुर्यादाचामेद्वा ॥१३९॥
पाणिसंक्षुब्धेनोदकेनेकपाण्यावर्जितेन च नाऽऽचामेत् ॥ २६.१.१४०॥
स्वप्नं च वर्जयेत् ॥ १४१॥
अथाहरहराचार्यं गोपायेद्धर्मार्थयुक्तैः कर्मभिः ॥ १४२ ॥
स गुह्यात्संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति ॥ १४३ ।।
प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमꣳ रहसि बोधयेत् ।। १४४ ॥
अनिवृत्तौ स्वयं कर्माण्यारभेत् ॥ १४५ ॥
निवर्तयेद्वा ॥ १४६ ॥
अथ यः पूर्वोत्थायी जघन्यसंवेशी भवति तमाहुर्न स्वपितीति ॥१४७॥
स य एवं प्रणिहितात्मा ब्रह्मचारी भवत्यत्रैवास्य सर्वाणि फलवन्ति कर्माण्यवाप्तानि भवन्ति यान्यपि गृहमेधे ।। १४८ ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) षड्विंशप्रश्ने प्रथमः पटलः ।। १ ॥ (ख० ४)

26.2
अथ द्वितीयः पटलः ।
नियमेषु तप:शब्दः ॥१॥
तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् ॥ २॥
कर्तृपत्यमनायुष्यं च ॥ ३ ॥
तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ॥ ४ ॥
श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवेऽपि ॥ ५ ॥
अथ यथा श्वेतकेतुः ॥ ६ ॥
यत्किंच समाहितोऽब्रह्माxप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ॥ ७॥
अथो यत्किंच मनसा वाचा चक्षुषा वा संकल्पयन्ध्यायत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ॥८॥
गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ॥ ९॥
अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणि ॥ १० ॥
स्वाध्यायधृग्धर्मरुचिस्तपस्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ॥११॥
सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादयी( ये )तासावहं भो इति ॥ १२ ॥
समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक्प्रातराशात् ॥ १३ ॥
प्रोष्य च समागमे ॥ १४ ॥
स्वर्गमायुश्चेप्सन् ।। १५ ॥
दक्षिणं बाहुꣳ श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमꣳ राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः ॥ १६ ॥
प्राञ्जलिः ॥ १७ ॥
प्लावनं च नाम्नोऽभिवादने पूर्वेषां वर्णानाम् ॥ १८ ॥
उदित आदित्य आचार्येण समेत्योपसंग्रहणम् ॥ १९॥
सदैवाभिवादनम् ॥ २० ॥
उपसंग्राह्य आचार्य इत्येके ॥ २१ ॥
दक्षिणेन पाणिना दक्षिणं पादमवस्तादभिमृश्य सकुष्ठिकमुपसंगृह्णीयात् ॥ २२ ।।
उभाभ्यामेवोभावभिपीडयत उपसंग्राह्यावित्येके ॥ २३ ॥
सर्वाह्णंꣳ सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २४ ॥
तथा गुरुकर्मसु मनसा चानध्याये ॥ २५ ॥
आहूताध्यायी च स्यात् ॥ २६ ॥ (ख० ५)।
सदा निशायां गुरुꣳ संवेशयेत्तस्य पादौ प्रक्षाल्यसंवाह्यानुज्ञातः संविशेत् ॥ २७ ॥
न चैनमभिप्रसारयीत ॥ २८ ॥
न खट्वायाꣳ सतोऽभिप्रसारणमस्तीत्येके ॥ २९ ॥
न चास्य सकाशे संविष्टो भाषेत ॥ ३० ॥
अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ३१॥
अनूत्थाय तिष्ठन्तम् ॥ ३२॥
गच्छन्तमनुगच्छेद्धावन्तमनुधावेन्न सोपानद्वेष्टितशिरा अवहितपाणिर्वाऽऽसीदेत् ।। ३३ ॥
अध्वापन्नस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ३४ ॥
न चेदुपसीदेत् ॥ ३५॥
देवमिवाऽऽचार्यमुपासीताविकथयन्नविमना वाचꣳ शुश्रूषमाणोऽस्य ॥ ३६॥
अनुपस्थकृतः ।। ३७ ।।
अनुवाति वीतः ॥ ३८ ॥
अप्रतिष्टब्धः पाणिना ॥ ३९ ॥
अनपश्रितोऽन्यत्र ॥ ४०॥
यज्ञोपवीती द्विवस्त्रः॥४१॥
अधोऽनिवीतस्त्वेकवस्त्रः ।। ४२ ।।
अभिमुखोऽनभिमुखम् ॥ ४३ ॥
अनासन्नोऽनतिदूरे ॥ ४४ ॥
यावदासीनो बाहुभ्यां प्राप्नुयात् ॥ ४५ ॥
अप्रतिवातम् ॥ ४६ ॥
एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् ॥ ४७॥
यथावकाशं बहवः ॥ ४८ ॥
तिष्ठति च नान्वासीत नासनयोगविहिते ॥ ४९ ॥
आसीने च न संविशेत् ॥ ५० ॥
चेष्टति च चिकीर्षंस्तच्छक्तिविषये ॥ ५१॥
न चास्य सकाशेऽन्वक्स्थानिनमुपसंगृह्णीयात् ॥ ५२॥
गोत्रेण वा कीर्तयेत् ॥ ५३॥
न चैनं प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वाऽपि चेदस्य गुरुः स्यात् ॥ ५४॥
देशात्त्वासनाच्च संसर्पेत् ॥ ५५ ॥
नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ५६ ॥
यस्मिँस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिरेव तस्मिन्नन्वक्स्थानीयेऽप्याचार्यस्य ॥ ५७ ॥
भुक्त्वा चास्य सकाशे नानुत्थायोच्छिष्टं प्रयच्छेत् ।। ५८ ॥
आचामेद्वा ।। ५९ ।।
किं करवाणीत्यामन्त्र्य ॥ ६० ॥ (ख० ६)।
उत्तिष्ठेत्तूष्णीं वा ॥ ६१ ॥
नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयान्न प्रेक्षेत नग्नां स्त्रियम् ।। ६२ ।।
ओषधिवनस्पतीनाच्छिद्य नोपजिघ्रेत ॥ ६३ ॥
उपानहौ छत्रं यानमिति वर्जयेत् ॥ ६४ ॥
नोपजिघ्रेत्स्त्रियं मुखेन ॥ ६५ ॥
न हृदयेन प्रार्थयेत् ॥ ६६ ॥
नाकारणादुपस्पृशेत् ।। ६७ ।।
रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥ ६८ ॥
यां विद्यां गुरौ कुरुते तेऽप्यस्याऽऽचार्या ये तस्यां गुरोर्वंश्याः ॥ ६९ ॥
यानन्यान्पश्यतोऽस्याऽऽचार्य उपसंगृह्णीयात् तदात्वे ते उपसंग्राह्याः ।। ७०॥
गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबन्ध(द्ध)स्तदधीना भिक्षा ॥ ७१॥
समावृत्तो मात्रे दद्यात् ।। ७२ ।।
माता भर्तारं गमयेत् ।। ७३ ॥
भर्ता गुरुम् ॥ ७४ ।।
धर्मकृत्येषूपयोजयेत् । ७५॥
कृत्वा विद्यां यावतीꣳ शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति ।। ७६।।
विषमगते त्वाचार्य उग्रतः शूद्रतो वा ॥ ७७ ॥
सर्वदा शूद्रत उग्रतो वाऽऽचार्यार्थस्याऽऽहरणं धर्म्यमित्येके ॥ ७८ ॥
दत्त्वा च नानुकथयेत् ॥ ७९ ॥
कृत्वा च नानुस्मरेत् ॥ ८० ॥
आत्मप्रशंसां परगर्हामिति च वर्जयेत् ॥ ८१ ॥
प्रेषितस्तदेव प्रतिपद्येत ॥ ८२ ॥
शास्तुश्चानागमाद्वृत्तिरन्यत्र ॥ ८३ ॥
अन्यत्रोपसंग्रहणादुच्छिष्टाशनात्पादप्रक्षालनादित्याचार्यवदाचार्यदारे वृत्तिः ॥ ८४ ॥
तथा समादिष्टो(ष्टे)ऽध्यापयति ।। ८५॥
वृद्धतरे च सब्रह्मचारिणि ॥ ८६ ॥
उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ॥ ८७ ॥
समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ॥ ८८ ॥ (ख० ७)।
यथा ब्रह्मचारिणो वृत्तम् ।। ८९॥
माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टिन्यपवेष्टिनी काञ्चुक्युपानही पादुकी ॥ ९० ॥
उदाचारेषु चास्यैतानि न कुर्यात्कारयेत वा ॥ ९१ ॥
स्वैरिकर्मसु च ॥ ९२ ॥
यथा पादप्रक्षालनोत्सादनावलेखनानुलेपनानीति ।। ९३ ॥
तद्द्रव्याणां च न कथयेदात्मसंयोग आचार्यः ॥ ९४ ॥
स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा न प्रतिसंहरेदित्येके ॥ ९५ ॥
उच्चैस्तरां नाऽऽसीत ॥ ९६ ॥
तथा बहुपादे ॥ ९७ ।।
सर्वतः प्रतिष्ठिते ॥ ९८ ॥
शय्यासने चाऽऽचरिते नाऽऽविशेत् ।। ९९ ॥
यानमध्वन्युक्तोऽन्वारोहेत् ॥ १०० ॥
सभानिकषकटस्वस्तराँश्च ॥ १०१ ॥
नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ॥ १०२ ॥
व्युपतोद्युि पजापव्यभिहासोदामन्त्रणनामधेयग्रहणप्रैषणानीति गुरोर्वर्जयेत् ।। १०३ ।।
आपद्यर्थं ज्ञापयत् ॥ १०४ ।।
 सह वसन्सायंप्रातरनाहूतो गुरुदर्शनार्थो गच्छेत् ।। १०५ ॥
प्रोष्य च तदहरागतः ॥ १०६ ॥
आचार्यप्राचार्य संनिपाते प्राचार्यायोपसंगृह्योपसंजिघृक्षेदाचार्यम् ॥१०७॥
प्रतिषेधयेदितरः ॥ १०८ ॥
लुप्यते पूजा चास्य सकाशे ॥ १०९ ॥
मुहुस्त्वाचार्यकुलदर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति ।। ११० ॥
तस्मिन्गुरोर्वृतिः ॥ १११ ॥
पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ।। ११२ ॥
न चैनमध्ययनविघ्नेनाऽऽत्मकार्येष्यत्युपरुन्ध्यादनापत्सु ॥ ११३ ॥
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुण्यमापद्यमानः ॥ ११४ ॥
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः ॥ ११५ ।।
अपराधेषु चैनꣳ सततमुपालभेत ॥ ११६ ॥
अभित्रासोपवासोदकोपस्पर्शनान्यदर्शनमिति दण्डा यथामात्रमा निवृत्तेः ॥ ११७ ॥
निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ११८ ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) षड्विंशप्रश्ने द्वितीयः पटलः।

26.3
(अथ तृतीयः पटलः )।
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत ॥१॥
तैषीपक्षस्य रोहिण्यां विरमेत् ॥ २ ॥
अर्धपञ्चमाꣳश्चतुरो मासानित्येके ॥ ३॥
निगमेष्वध्ययनं वर्जयेत् ॥ ४ ॥
आनडुहेन शकृत्पिण्डेनोपलिप्तेऽधीयीत ॥ ५॥
श्मशाने सर्वतः शम्याप्रासात् ॥ ६ ॥
ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ॥७॥
ज्ञायमाने तु तस्मिन्नेव देशे नाधीयीत ॥८॥
श्मशानवच्छूद्रपतितौ ॥९॥
समानागार इत्येके ॥ २६.३.१० ॥
शूद्रायां तु प्रेक्षणपतिप्रेक्षणयोरेवानध्यायः ॥ ११ ॥
तथाऽन्यस्याꣳ स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१२॥
ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु तया ब्राह्मणेनैव संभाष्याधीयीतैवं तस्याः प्रजानिःश्रेयसम् ॥ १३ ॥
अन्तःशवम् ॥ १४ ॥
अन्तश्चाण्डालम् ॥ १५ ॥
अभिनिर्हृतानां च सीम्न्यनध्यायः ॥ १६ ॥
संदर्शने चारण्ये ॥ १७ ॥
तदहरागतेषु च ग्रामं बाह्येषु ॥१८॥
अपि सत्सु ॥ १९॥
संधावनुस्तनिते रात्रिम् ॥ २६.३.२० ॥
वर्षार्ताविदम् ।। २१ ॥
स्वप्नपर्यान्तं विद्युति ॥ २२ ॥
उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २३ ॥
दह्रे चापररात्रे स्तनयित्नुना ॥ २४ ॥
ऊर्ध्वमर्धरात्रादित्येके ॥ २५ ॥
गवां चावरोधे ॥ २६ ॥
वध्यानां च यावता हन्यन्ते ॥ २७ ॥
पृष्ठारूढः पशूनां नाधीयीत तावन्तं कालम् ॥ २८ ॥
अहोरात्रावमावास्यासु ॥ २९ ॥ (ख० ९)।
चातुर्मासीषु च ॥ २६.३.३० ॥
वैरमणे गुरुष्वष्टक्य औपाकरण इति त्र्यहाः ॥ ३१॥
तथा संबन्धेषु ज्ञातिषु ॥ ३२ ॥
मातरि पितर्याचार्य इति द्वादशाहाः ॥ ३३ ॥
तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥ ३४ ॥
अनुभाविनां तु परिवापनम् ॥ ३५ ॥
न समावृत्ता वपरेनन्यत्र विहारिण इत्येके ॥ ३६ ॥
तथाऽप्युदाहरन्ति रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपिधानं यच्छिखेति ॥ ३७॥
सत्रेषु तु वचनाद्वापनं शिखायाः ॥ ३८ ॥
आचार्ये त्रीनहोरात्रानित्येके ।। ३९॥
श्रोत्रियसꣳस्थायामपरिवत्सरायामेकाम् ॥ २६.३.४०॥
सब्रह्मचारिणीत्येके ॥ ४१॥
श्रोत्रियाभ्यागमेऽधिजिगाँसमानोऽधीयानो वाऽनुज्ञाप्याधीयीताध्यापयेद्वा ॥४२॥
गुरुसंनिधौ चाधीहि भो इत्युक्त्वाऽधीयीताध्यापयेद्वा ।। ४३ ॥
उभयत उपसंग्रहणमधिजिगाँसमानस्याधीत्य च ॥४४॥
अधीयानेषु वा यत्रान्यो व्यवेयादेतमेव शब्दमुत्सृज्याधीयीत ॥ ४५ ॥
श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे वादितशब्दा रोदनगीतसामशब्दाश्च ।। ४६ ।।
शाखान्तरे च साम्नामनध्यायः॥ ४७ ॥
सर्वेषु च शब्दकर्मसु यावता वा सꣳसृज्येरन् ॥ ४८ ॥
छर्दयित्वा स्वप्नपर्यन्तम् ॥ ४९ ॥
सर्पिर्वा प्राश्य ॥ २६.३.५० ॥
पूतीगन्धश्च ॥ ५१॥
भुक्तं चाऽऽत्मसंयुक्तम् ॥ ५२ ॥
प्रदोषे च भुक्त्वा नाधीयीत ॥ ५३ ।।
प्रोदकयोश्च पाण्योः ॥ ५४॥
प्रेतसंक्लृप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥ ५५ ॥
आ च विपाकात् ॥ ५६ ॥
अश्राद्धेन तु पर्यवदध्यात् ॥ ५७ ॥
काण्डोपाकरणे चामातृकस्य ।। ५८॥
काण्डसमापने चापितृकस्य ।। ५९ ॥
मनुष्यप्रकृतीनां च (ख०१०)। देवानां यज्ञे भुक्त्वेत्येके ॥ २६.३.६० ॥
पर्युषितैस्तण्डुलैराममांसेन च नानध्यायः ॥ ६१ ॥
तथौषधिवनस्पतिमूलफलैः ॥ ६२ ॥
यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ॥ ६३ ॥
उपाकरणसमापनयोश्च पारायणस्य च तां विद्याम् ॥ ६४ ॥
वायुर्घोषवान्भूमौ वा तृणसंवाहो वर्षति वा यत्र धाराः प्रवहेत् ॥ ६५ ॥
ग्रामारण्ययोश्च संधौ महापथे च गतो विप्रोष्य च समध्ययनं तदहः ॥ ६६ ॥
स्वैरिकर्मसु च ॥ ६७ ॥
यथा पादप्रक्षालनोत्सादनावलेखनानुलेपनानीति तावन्तं कालं नाधीयीताध्यापयेद्वा संध्योः ॥६८॥
तथा वृक्षसमारूढोऽप्सु वाऽवगाढो नक्तं चापावृत्ते दिवा चापिहिते ॥ ६९ ॥
अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः ।। २६.३.७० ॥
नित्यप्रश्नस्य चाविधिना ॥ ७१ ॥
तस्य विधिः ॥ ७२ ॥
अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे स्वाध्यायमधीयीत यथाध्यायमुत्सृजन्वाचा ॥ ७३ ॥
मनसा चानध्याये ॥ ७४॥
विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते ॥ ७५ ।।
श्राद्धभोजन एवेत्येके ॥ ७६ ॥
विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्त्र्यहमनध्यायः ॥ ७७॥
यावद्व्युदका भूमिरित्येके ॥ ७८ ॥
एकेन द्वाभ्यां वै तेषामाकालम् ॥ ७९ ॥
सूर्याचन्द्रमसोर्र्कहणे भूमिचलनेऽवस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ।। २६.३.८० ॥
अभ्रे चापर्तौ ॥ ८१॥
सूर्याचन्द्रमसोः परिवेष इन्द्रधनुषि प्रतिसूर्यमत्स्य(श्च) वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ।। ८२ ॥
मुहूर्तं विरते वाते ॥ ८३॥
सलावृक्यामेकसृक इति स्वप्नपर्यन्तम् ॥ ८४ ॥
नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ८५ ॥
अननूक्तं चापर्तौ छन्दसो नाधीयीत ॥ ८६ ॥
प्रदोषे च ॥ ८७॥
सार्वकालिकमाम्नातम् ॥ ८८॥
यथोपाकृते नानुवाकानामेवमपर्तौ कल्पानां यथोक्तमन्यदत्तः(तः) परिषत्सु ॥ ८९ ।। (ख० ११)।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) षड्विंशप्रश्ने तृतीयः पटलः॥

26.4
अथ चतुर्थः पटलः ।
तपः स्वाध्याय इति हि ब्राह्मणम् ॥१॥
तत्र श्रूयते स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥ २॥
अथापि वाजसनेयिब्राह्मणं ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वा वाति तस्मात्स्तनयति विद्योतमाने वाऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छंबटकारायेति विज्ञायते ॥ ३ ॥
तस्य शाखान्तरे वाक्यसमाप्तिः ॥ ४ ॥
अथ यदि वातो वा वायात्स्तनयेद्वा विद्योतेत वा स्फूर्जेद्वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः स्वः सत्यं तपः श्रद्धायां जुहोमीति चैतत्तेनो हैवास्यैतदहः स्वाध्याय उपाप्तो भवति ।। ५ ॥
एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ॥ ६ ॥
अध्यायानध्यायान्ह्युपदिशन्ति तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ।। ७ ।।
आर्यसमयो ह्यगृह्यमानकारणः ॥८॥
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ।।९।।
ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः ॥ २६.४.१० ॥
प्रयोगादनुमीयन्ते ॥ ११ ॥
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ॥ १२ ॥
तदनुवर्तमानो नरकाय राध्यति ॥ १३ ॥
अथापि ब्राह्मणोक्ता विधयस्तेषां महायज्ञा महासत्राणीति संस्तुतिः ॥ १४ ॥
अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्तिदानं (ख. १२)। देवेभ्यः स्वाहाकार आकाष्ठात् पितृभ्यः स्वधाकार ओदपात्रात्स्वाध्याय इति ।। १५ ।।
पूजा वर्णज्यायसां कार्या ॥ १६ ॥
वृद्धतराणां च ॥ १७ ॥
हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ॥ १८ ॥
न समावृत्ते समादेशो विद्यते ॥ १९ ॥
ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ॥ २६.४.२० ॥
विकथां चान्यां कृत्वैव लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ २१ ॥
यज्ञेषु चैतदादयः प्रसवाः ॥ २२ ॥
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहꣳ स्वस्त्ययनमृद्धिमिति ॥ २३ ॥
नासमयेन कृच्छ्रं कुर्वीत त्रिः श्रावणं त्रिः सहवचनमिति परिहाप्य ॥ २४ ॥
अविचिकित्साया ब्रह्म निगन्तव्यमिति हारीतः ॥ २५ ॥
न बहिर्वेदे गतिर्विद्यते ॥ २६॥
समादिष्टमध्यापयन्तं यावदध्यायमुपसंगृह्णीयात् ॥ २७ ॥
एनमुपसंगृह्णीयान्नित्यमर्हन्तमित्येके ॥ २८ ॥
नित्यानां तु खलु ॥ २९ ॥
ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ २६.४.३० ॥
ब्रह्म वर्धत इत्युपदिशन्ति ॥ ३१ ॥
निवेशे हि वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्निति श्वेतकेतुः ॥ ३२ ॥
एतेन ह्ययं योगेन पूर्वस्मात्कालाद्भूयः श्रुतमकुर्वामीति ॥ ३३ ॥
तच्छास्त्रेषु च प्रतिषिद्धम् ॥ ३४॥
निवेशे हि वृत्ते(ख० १३) । नैयमिकानि श्रूयन्ते यथाऽग्निहोत्रमतिथयो यच्चान्यदेवं युक्तम् ॥ ३५ ॥
अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ॥ ३६ ॥
न चास्मिन्दोषं पश्येत् ॥ ३७॥
यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ।। ३८ ॥
मातरि पितर्याचार्यवच्छुश्रूषा ॥ ३९ ॥
समावृत्तेन सर्वे गुरव उपसंग्राह्याः ॥ २६.४.४० ॥
भ्रातृभगिनीषु च यथापूर्वमुपसंग्रहणम् ॥ ४१ ॥
नित्या च पूजा यथोपदेशम् ।। ४२ ।।
ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसोऽप्युत्थायाभिवदेत् ॥४३॥
तूष्णीं वोपसंगृह्णीयात् ॥ ४४ ॥
दशवर्षं पौरसंख्यं पञ्चवर्षं तु चारणं त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हतीति ॥ ४५ ॥
ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् ॥ ४६॥
विषमगतायागुरवे नाभिवाद्यम् ।। ४७ ॥
अन्वारुह्य वाऽभिवादयीत ॥ ४८ ॥
अप्रयतेन नाभिवाद्यं तथा प्रयतायाप्रयतश्च न प्रत्यभिवदेत् ॥ ४९॥
पतिवयसः स्त्रियः ॥ २६.४.५० ॥
न सोपानद्वेष्टितशिरा अवहितपाणिर्वाऽभिवादयीत ॥५१॥
सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना ॥ ५२ ॥
मातरमाचार्यदारं चेत्येके ॥ ५३॥
दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता ॥ ५४ ॥
कुशलमवरवयसं वयस्यं वा पृच्छेत् ॥ ५५ ॥
अनामयं क्षत्रियम् ॥ ५६ ॥
अनष्टं वैश्यम् ॥ ५७॥
आरोग्यं शूद्रम् ॥ ५८ ॥
नासंभाष्य श्रोत्रियं ह्यतिव्रजेदरण्ये च स्त्रियम् ॥ ५९ ।। ( ख० १४)।
उपासने गुरूणां वृद्धानामतिथीनाꣳ होमे जपकर्मणि स्वाध्याये भोजन आचमने च यज्ञोपवीति स्यात् ॥ २६.४.६० ॥
भूमिगतास्वप्स्वाचम्य प्रयतो भवति ॥ ६१ ॥
यं वा प्रयत आचामयेत् ॥ ६२ ॥
न वर्षधारास्वाचामेत् ॥ ६३ ॥
तथा प्रदरोदके ॥ ६४ ॥
तप्ताभिश्चाकारणात् ॥ ६५ ॥
रिक्तपाणिर्वयस उद्यम्याप उपस्पृशेत् ॥ ६६ ॥
शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ॥ ६७ ॥
नग्नो वा ॥ ६८ ॥
नाप्सु सतः प्रयमणं विद्यते ॥ ६९ ॥
उत्तीर्य त्वाचामेत् ॥ २६.४.७०॥
नाप्रोक्षितमिन्धनमग्नावादध्यात् ॥ ७१ ॥
मूढस्वस्तरे चासꣳस्पृशन्यानप्रयतान्प्रयतो मन्येत ॥ ७२ ।
तथा तृणकाष्ठेषु निखातेषु ॥ ७३ ॥
प्रोक्ष्य वास उपयोजयेत् ॥ ७४ ॥
शुनोपहतः सचैलोऽवगाहेत ।। ७५ ॥
प्रक्षाल्य वा तद्देशमग्निना सꣳस्पृश्य पुनः प्रक्षाल्य चाऽऽचम्य प्रयतो भवति ॥ ७६ ।।
अग्निं नाप्रयत आसीदेत् ॥ ७७ ॥
इषुमात्रादित्येके ॥ ७८ ॥
न चैनमुपधमेत् ॥ ७९ ॥
खट्वायां च नोपदध्यात् ॥ २६.४.८०॥
प्रभूतैधोदके ग्रामे यत्राऽऽत्माधीनं प्रयमणं तत्र वासो धर्म्यो ब्राह्मणस्य ।। ८१॥
मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान्रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ।। ८२ ॥ (ख०१५)।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे ( धर्मसूत्रापरपर्याये ) षड्विंशप्रश्ने चतुर्थः पटलः॥४॥

26.5
अथ पञ्चमः पटलः।
तिष्ठन्नाऽऽचामेत्प्रह्वो वा ॥१॥
आसीनस्त्रिराचामेद्धृदयंगमाभिरद्भिः ॥ २ ॥
त्रिरोष्ठौ परिमृजेत् ॥ ३ ॥
द्विरित्येके ॥ ४ ॥
सकृदुपस्पृशेत् ॥ ५॥
द्विरित्येके ॥ ६॥
दक्षिणेन पाणिना सव्यमभ्युक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च ॥ ७॥
भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद् द्विः परिमृजीत सकृदुपस्पृशेत् ॥ ८॥
श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचम्य प्रयतो भवति ॥९॥
न श्मश्रुभिरुच्छिष्टा भवन्त्यन्तरास्ये सद्भिर्यावन्न हस्तेनोपस्पृशति ॥ २६.५.१० ।।
य आस्याद्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् ॥ ११ ॥
ये भूमौ न तेष्वाचामेदित्येके ॥ १२ ॥
स्वप्ने क्षवथौ श्रृं(सिं)घाणिकाश्र्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चाssलम्भे महापथं च गत्वाऽमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत् ।। १३ ॥
आर्द्रं वा शकृदोषधीर्भूमिं वनस्पतिं चाऽऽचामेद्वा ॥ १४ ॥
हिंसार्थेनासिना माꣳसं छिन्नं तदभोज्यम् ॥ १५॥
दद्भिरपूपस्य नापछिन्द्यात् ॥ १६ ॥
यस्य कुले म्रियेत न तत्रानिर्देशे भोक्तव्यम् ॥ १७ ॥
तथाऽनुत्थितायाꣳ सूतिकायाम् ॥ १८ ॥
अन्तःशवे च ।। १९ ॥
अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ।। २६.५.२० ।।
अप्रयतेन शूद्रेणोपहृतमभोज्यम् ॥ २१ ।।
यस्मिंश्चान्ने केशः स्यात् ॥ २२ ॥
अन्यद्वाऽमेध्यम् ॥ २३ ॥
अमेध्यैरवमृष्टम् ॥ २४ ॥
कीटो वाऽमेध्यसेवी ॥ २५ ।। (ख० १६)।
मूषकलाऽङ्गं वा ॥ २६ ॥
पदा वोपहतम् ॥ २७ ॥
सिचा वा ॥ २८ ॥
अपपात्रेण वा दृष्टम् ।। २९ ।।
शुना वा ॥ २६.५.३० ॥
सिचा वोपहृतम् ॥ ३१ ॥
दास्या वा नक्तमाहृतम् ॥३२॥
भुञ्जानं वा यत्र शूद्र उपस्पृशेत् ।। ३३ ।।
अनर्हद्भिर्वा समानपङ्क्त्तौ ॥ ३४ ॥
भुञ्जानेषु वा यत्रान्योऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥३५॥
कुत्सयित्वा वा यत्रान्नं दद्युः ॥ ३६ ॥
मनुष्यैरवघ्रातमन्यैर्वा मेध्यैः ॥ ३७॥
न नावि भुञ्जीत ॥ ३८॥
तथा प्रसादे ॥ ३९ ॥
कृतभूमौ तु भुञ्जीत ॥ २६.५.४० ॥
अनाप्रीते मृन्मये भोक्तव्यम् ॥ ४१ ॥
आप्रीतं चेदभिदग्धे ॥ ४२ ॥
परिमृष्टं लौहं प्रयतम् ॥ ४३ ॥
यन्निर्लिखितं दारुमयम् ॥ ४४ ॥
यथागमं यज्ञे ॥ ४५ ॥
नाऽऽपणीयमन्नमद्यात् ॥ ४६॥
तथा रसानाममांसमधुलवणानीति परिहाप्य ।। ४७॥
तैलसर्पिषी तूदकेऽवधायोपयोजयेत् ॥ ४८॥
कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ ४९ ॥
शुक्तं च ॥ २६.५.५० ॥
फाणितपृथुकतण्डुलभरुजकरम्भ सक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूल फलवर्जम् ॥ ५१ ।।
शुक्तं चापरयोगम् ॥ ५२ ॥
सर्वं मद्यमपेयम् ॥ ५३॥
तथैलकं पयः॥ ५४॥
उष्ट्रीक्षीरमृगीक्षीरसंधिनीक्षीरयमसूक्षीराणीति ॥ ५५ ॥
धेनोश्चानिर्दशायाः ॥५६॥
औषधीनां च तथा कीलालम् ॥ ५७॥
कलञ्जपलाण्डुपरारिकाः ॥ ५८ ॥
यच्चान्यत्परिचक्षते ॥ ५९॥
क्याक्क भोज्यमिति हि ब्राह्मणम् ॥ २६.५.६० ॥
एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ॥ ६१ ॥
धेन्वनडुहोश्च कारणाद्भक्ष्यम् ॥ ६२ ॥
कुक्कटो विकिराणाम् ॥ ६३ ॥
प्लवः प्रतुदाम् ॥ ६४ ॥
क्रव्यादाः ॥ ६५ ॥
हꣳसभासचक्रवाकसुपर्णाश्च ।। ६६ ।।
क्रुञ्चक्रौञ्चवार्ध्राणसलक्ष्मणवर्जम् ॥ ६७॥
पञ्चनखानां गोधाकच्छपश्वाविट्शल्यकखड्ग शशपूतीकखषवर्जम् ॥ ६८ ॥
अभक्ष्यश्चेटो मत्स्यानाम् ॥६९॥
सर्पशीर्षा मृदुरः क्रव्यादो ये चान्यै विकृता यथा मनुष्यशिरसः । २६.५.७० ॥
मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यूतिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ।७१॥
एतान्यपि नानन्तेवास्याहृतानीति हारीतः ॥ ७२ ।।
आमं वा गृह्णीरन् ॥ ७३ ॥
कृतान्नस्य विरसस्य ।। ७४ ॥
न सुभिक्षाः स्युः ।। ७५॥
स्वयमप्यवृत्तौ सुवर्णं दत्त्वा पशुं वा भुञ्जीत ॥ ७६ ॥
नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् ॥ ७७॥
त्रयाणां वर्णानां क्षत्त्रियप्रभृतीनाँ समावृत्तेन न भोक्तव्यम् ॥ ७८॥
प्रकृत्या ब्राह्मणस्य भोक्तव्यं कारणादभोज्यम् ॥ ७९ ॥
यत्राप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ।। २६.५.८० ॥
चरितनिर्वेषस्य भोक्तव्यम् ।। ८१ ॥
सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्रवर्जमित्येके ॥ ८२ ।।
तस्यापि धर्मोपनतस्य ॥ ८३ ॥
सुवर्णं दत्त्वा पशुं वा भुञ्जीत नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् ॥ ८४॥
गतम् ॥ ८४ ॥
संघान्नमभोज्यम् ॥ ८५ ॥
परिक्रुष्टं च ।। ८६ ।
सर्वेषां च शिल्पजीविनाम् ॥ ८७ ॥
ये च शस्त्रमाजीवन्ति ॥ ८८ ॥
ये चाधिम् ॥ ८९ ॥
भिषक् ॥ २६.५.९० ॥
वार्धुषिकः ॥ ९१॥
अक्रीतराजको दीक्षितः ।। ९२ ॥
अग्नीषोमीयसंस्थायामेव दीक्षितस्य भोक्तव्यम् ॥ ९३ ।।
हुतायां वा वपायां क्रीते वा राजनि यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्निति ब्राह्मणम् ॥ ९४ ॥
क्लीबः ॥ ९५॥
राज्ञः प्रैषकृत् ।। ९६ ।।
अहविर्याजी चाऽऽर्यविधिप्रव्रजितः ॥ ९७ ॥
यश्चाग्नीनपास्यति ॥ ९८ ॥
यश्च सर्वान्वर्जयति ॥ ९९ ॥
सर्वान्नी च ।। २६.५.१००॥
श्रोत्रियो निराकृतिः ॥ १०१॥
वृषलीपतिः॥ १०२॥ (ख०१८) ।
मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युपवेशयते यश्च प्रश्रयते तावन्तं कालम् ॥ १०३ ॥
अथ क आश्यान्नः ॥ १०४॥
यस्येप्सेदिति कण्वः ॥ १०५ ॥
पुण्य इति कौत्सः ॥ १०६ ॥
यः कश्चिद्द्यादिति वार्ष्यायणिः ॥ १०७ ॥
यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन निर्दोषो भवति ॥ १०८ ।।
शुद्धा भिक्षा भोक्तव्यैककुणिकौ कण्वकौत्सौ ॥ १०९ ॥
सर्वतोपेतं वार्ष्यायणीयम् ।। २६.५.११० ।।।
पुण्यस्येप्सतो भोक्तव्यम् ॥ १११ ॥
पुण्यस्याप्यनीप्सतो न भोक्तव्यम् ॥ ११२ ॥
यतः कुतश्चाभ्युद्यतं भोक्तव्यम् ॥ ११३ ॥
नाननियोगपूर्वमिति हारीतः ॥ ११४ ॥
उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् ।
भोज्यां मेने प्रजापतिरपि दुष्कृतकर्मणः ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यनिर्यस्तामभ्यधिमन्यते ।। इति ॥११५।।
चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः कुलटायाः षण्ढकस्य च तेषामन्नमभोज्यम् ॥११६॥
अन्नादे भ्रूणहा मार्य्ट्ान्नं नाभिशंसति स्तेनः प्रमुक्तो राजनि यावन्न(द)नृतसंगरे ॥ ११७ ॥
गुरौ याज्यश्च शिष्यश्च स्त्रियश्चर्तुर्व्यभिचारिणीति ॥ ११८ ॥ (ख० १९)।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये ) षड्विंशप्रश्ने पञ्चमः पटलः ॥ ५ ॥

26.6
अथ षष्ठः पटलः ।
अध्यात्मिकान्योगाननुतिष्ठेन्न्यायसꣳहिताननैश्चारिकान् ॥ १॥
आत्मलाभान्न परं विद्यते ॥ २॥
तत्राऽऽत्मलाभीयान् श्लोकानुदाहरिष्यामः ॥३॥
पू: प्राणिनः सर्व एव गुहाशयस्याहन्यमानस्य विकल्मषस्याचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ॥ ४ ॥
यदिदमिती हेदिह लोके विषयमुच्यते विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५॥
आत्मन्नेवाहमलब्धैतद्धितꣳ सेवस्व नाहितम् । अथान्येषु प्रतीच्छामि साधुष्ठान(स्थान)मनपेक्षया महान्तं तेजस्कायं सर्वत्र निहितं प्रभुम् ॥ ६॥
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवोऽनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्छुचिः स सर्वं परमा काष्ठा स वैषुवतꣳ स वै वैभाजनं पुरम् ॥ ७ ॥
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेद्दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८॥
आत्मन्पश्यन्सर्वभूतानि न मुह्येच्चिन्तयन्कविरात्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥ ९ ॥
निपुणोऽणीयान्विसोर्णाया यः सर्वमावृत्य तिष्ठति वर्षीयाꣳश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजस्तस्मात्कायात्प्रभवन्ति सर्वे स मूलꣳ शाश्वतिकः स नित्यः ॥ २६.६.१०॥
दोषाणां तु निर्घातो योगमूल इह जीविते निर्हृत्य भूतदाहान्क्षेमं गच्छत्ति पण्डित इति ॥ ११ ॥
अथ भूदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥
क्रोधो हर्षो रोषो लोभी द्रोहो दम्भो मृषोद्यमत्याशपरीवादावस्या काममन्यू आनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३॥
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽद्रोहोऽदम्भः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवꣳ शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशꣳस्वं तुष्टिरिति सर्वाश्रमाणाꣳ समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति
॥ १४ ॥ (ख. २०)॥
नेमं लौकिकमर्थं पुरस्कृत्य धर्मांश्चरेत् ॥ १५॥
निष्फला ह्यभ्युदये भवन्ति ॥ १६ ॥
तद्यथाऽऽम्रे फलार्थे निर्मिते छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते॥१७॥
न चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ १८॥
अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ॥ १९ ॥
न धर्माधर्मौ चरत आवा(व)ꣳ स्वेव इति न देवा न गन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म इति ॥ २६.६.२०॥
यत्त्वार्याः क्रियमाणं प्रसंशन्ति स धर्मो यद्गर्हन्ते सोऽधर्मः ॥२१॥
सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः इति ॥ २१॥
सर्वजनपदेष्येकान्तसमाहितमाचार्याणां वृत्तꣳ सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत ॥ २२ ॥
एवं वर्तमान उभौ लोकावभिजयति ॥ २३ ॥
अविहिता ब्राह्मणस्य वणिज्या ॥ २४ ॥
आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥२५॥
मनुष्यान् रसान् रागान् चर्म गवां वशाꣳ श्लेष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यमाꣳ समायुधꣳ सुकृताशां च ॥ २६॥
तिलतण्डुलाꣳस्त्वेव विशेषेण धान्यस्य न विक्रीणीयात् ॥ २७ ॥
अपिहितश्चैतेषां मिथो विनिमयः ॥ २८ ॥
अन्नेन चान्नस्य रसानां च रसैर्मनुष्याणां च मनुष्यैर्विद्यया च विद्यानाम् ॥ २९ ॥
अक्रीतपण्यैर्व्यवहरेत ( ख० २१ ) मुञ्जबल्वजैर्मूलफलैः ॥ २६.६.३० ॥
तृणकाष्ठैरविकृतैः ॥ ३१ ॥
नात्यन्तमन्ववस्येत् ॥ ३२ ॥
वृत्तिं प्राप्य विरमेत् ॥ ३३ ॥
अथाप्युदाहरन्ति । पशवश्च मुखादाना अश्मा चालवणो धृतः। एतद्ब्राह्मण ते पण्यं तन्तुश्चारजनीकृत इति ॥ ३४ ॥
न पतितैः संव्यवहारो विद्यते ॥ ३५॥
तथाऽपपात्रैः॥३६॥
अथ पतनीयानि ॥ ३७॥
स्तेयमाभिशस्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मातुः पितुरिति योनिसंबन्धे सहापत्ये स्त्रीगमनꣳ सुरापानमसंयोगसंयोगः ॥ ३८॥
गुर्वीं सखीं(खिं) गुरुसखीं(खिं) च गत्वाऽन्याꣳश्च परतल्पान् ॥ ३९ ॥
नागुरुतल्पे पततीत्येके ॥ २६.६.४० ॥
अधर्माणां तु सततमाचारः ।। ४१ ॥
अथाशुचिकराणि ॥ ४२ ॥
शूद्रगमनमार्यस्त्रीणाम् ॥ ४३ ॥
प्रतिषिद्धानां मांसभक्षणम् ।। ४४ ॥
शुनो मनुष्यस्य कुक्कुटसूकराणां क्रव्यादसाम् ॥ ४५॥
मनुष्याणां मूत्रपुरीषप्राशनम् ॥ ४६ ॥
शूद्रोच्छिष्टमपपात्रागमनं चाऽऽर्याणाम् ॥ ४७ ॥
अपि पतनीयान्येतानि भवन्तीत्येके ॥ ४८ ॥
अतोऽन्यानि दोषफलान्यशुचिकराणि ॥४९॥
दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्वर्जयेत्त्वेनं धर्मेषु ॥२६.६.५०॥(ख०२२)।
क्षत्रियꣳ हत्वा गवाꣳ सहस्रं वैरयातनार्थं दद्यात् ॥ ५१ ॥
शतं वैश्ये दश शूद्रे ॥ ५२ ॥
ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थम् ॥ ५३॥
स्त्रीषु चैतेषामेवम् ॥ ५४ ।।
पूर्वयोर्वर्णयोर्वेदाध्यायꣳ हत्वा सवनगतं चाभिशस्तः ॥ ५५ ॥
ब्राह्मणमात्रं च ॥ ५६ ॥
गर्भं च तस्याविज्ञानम् ।। ५७॥
आत्रेयीं च स्त्रियम् ॥ ५८ ॥
तस्य निर्वेषः ॥ ५९॥
अरण्ये कुटिं कृत्वा वाग्यतः शवशिरोध्वजोऽर्ध शाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ २६.६.६० ॥
तस्य पन्था अन्तरा वर्त्मनी ॥ ६१ ॥
दृष्ट्वा चान्यमुत्क्रामेत् ॥ ६२ ॥
खण्डेन लोहितकेन शरावेण ग्रामे प्रतितिष्ठेत ॥ ६३ ।।
कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् सा वृत्तिः ।। ६४॥
अलब्धोपवासः ॥६५॥
गाश्च रक्षेत् ॥६६॥
तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः ॥ ६७ ॥
द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः ॥ ६८ ॥
आजिपथे वा कुटिं कृत्वा ब्राह्मणगवीरुपजिहीर्षमाणो वसेत्त्रि: प्रतिराद्धोऽपजित्य वा मुक्तः ॥ ६९ ॥
आश्वमेधिकं वाऽऽवभृथमवेत्य मुच्यते ॥ २६.६.७० ॥
धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव ।। ७१ ।।
गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् ॥ ७२ ॥
नास्यास्मिँल्लोके प्रत्यापत्तिर्विद्यते ।। ७३ ॥
कल्मषं तु निर्हण्यते ॥ ७४ ॥
गुरुतल्पगामी सवृषणꣳ शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिशमनावृत्तिं व्रजेत् ॥ ७५ ।।
ज्वलितां वा सूर्मिं परिष्वज्याऽऽत्मानं समाप्नुयात् ।। ७६ ॥
कृच्छ्रं संवत्सरं वा चरेत् ॥ ७७ ॥
सुरापोऽग्निस्पर्शाꣳ सुरां पिबेत् ॥ ७८ ॥
स्तेनः प्रकीर्णकेशोऽꣳसे मुसलमाधाय ॥ ७९ ॥ (ख० २३)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(धर्मसूत्रापरपर्याये)षड्विंशप्रश्ने षष्ठः पटलः ।

26.7
अथ सप्तमः पटलः।
राजानं गत्वा कर्माऽऽचक्षीत तैनैनꣳ हन्याद्वधे मोक्षः ॥ १॥
अनुज्ञातेऽनुज्ञातारमेनः स्पृशति ॥ २॥
उत्तरमृत्वग्निं वा प्रविशेत् तीक्ष्णं वा तप आयच्छेत् ।। ३॥
भक्तापचयेन वाऽऽत्मानꣳ समाप्नुयात् ।।४ ॥
कृच्छ्रꣳ संवत्सरं वा चरेत् ॥ ५॥
अथाप्युदाहरन्ति ॥ ६॥
स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामकृत्वा चतुर्थकाला मितभोजिनः स्युरपोऽभ्यवेयुः सवनान्यनुकल्पयेत्स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुदन्ते॥७॥
तेन कल्पेन धनलाभे वधे च संवत्सरं वैरमणं चरित्वा त्रयाणामेकशुचयो भवन्ति ।। ८॥
प्रथमं वर्णं परिहाप्य प्रथमं वर्णꣳ हत्वा संग्रामं गत्वाऽपतिष्ठेत तत्रैनꣳ हन्युः ॥ ९॥
अपि वा लोमानि त्वचं माꣳसमिति हावयित्वाऽग्निं प्रविशेत् ॥२६.७.१०॥
वायसप्रचलाकबर्हिणचक्रकाकहꣳसभासनकुलमण्डूकडेरीकाश्वहिꣳसाद्यां शूद्रवत्प्रायश्चित्तम् ॥ ११ ॥
धेन्वनडुहोश्चाकारणात् ॥ १२ ॥
धुर्यवाहप्रसृतौ चेतरेषां प्राणिनाम् ॥ १३ ॥
अनाक्रोश्यमाक्रुश्यानृत्तं चोक्त्वा त्रिरात्रमक्षीरवलवणं भोजनम् ।। १४ ॥
शूद्रस्य सप्तरात्रमभोजनम् ॥ १५ ॥
स्त्रीषु चैतेषामेवम् ॥ १६ ॥
येष्वाभिशस्यं(स्त्यं) तेषामेकाङ्गं छित्त्वाऽप्राणहिꣳसायाम् ॥ १७ ॥
अनार्यवपैशुनप्रतिषिद्धाचारेष्वभक्ष्याभोज्यापेयान्नाद्यप्राशने शूद्रायां च रेतः सिक्त्वाऽयोनौ च दोषवच्च कर्माभिसंधिपूर्वं कृत्वाऽनभिसंधिपूर्वं वाऽब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वाऽन्यैर्वा पवित्रैर्यथा कर्माभ्यासः ॥ १८ ॥
गर्दभेनावकीर्णी निर्ऋतिं पाकयज्ञेन यजेत ॥ १९॥
तस्य शूद्रः प्राश्नीयात् ॥ २६.७.२०॥
मिथ्याधीतप्रायश्चितम् ॥ २१ ॥ (ख. २४)।
संवत्सरमाचार्यहिते वर्तमानो वाचं यच्छेत्स्वाध्याय एवोत्सृजेद्वाचमाचार्य आचार्यदारे भिक्षाचर्ये च ॥ २२॥
एवमन्येष्वपि दोषवत्सु कर्मस्वपतनीयेषूत्तराणि यानि वक्ष्यामः ॥२३॥
काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति जपेद्वा ॥ २४ ॥
पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूते म(मा)हानदमुदकमुपस्पृश्य सावित्रीं प्राणायामं सहस्रकृत्व आवर्तयेदाप्राणायामशो वा ।। २५ ।।
श्रावण्यां पौर्णमास्यां पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूते म(मा)हानदमुदकमुपस्पृश्य सावित्र्या समित्सहस्रमादध्याज्जपेद्वा ॥ २६ ॥
इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् ॥ २७॥
अभोज्यं भुक्त्वा नैष्पुरीष्यम् ।। २८ ॥
सप्तरात्रेणावाप्यते ॥ २९॥
हेमन्तशिशिरयोर्वोभयोः संध्ययोरुदकमुपस्पृशेत् ।। २६.७.३० ॥
कृच्छ्रद्वादशरात्रं वा चरेत् ॥ ३१ ॥
त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किंचनेति कृच्छ्रद्वादशरात्रस्य विधिः ।। ३२॥
एवमेवाभ्यस्येत्संवत्सरꣳ स कृच्छ्रसंवत्सरः ॥ ३३ ॥
अथापरं बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नन्पारायणैश्चरितप्रायश्चित्तो भवति ॥ ३४ ॥
अनार्यां शयने बिभ्रद्ददद्वृद्धिं कषायपोऽब्राह्मणादि वन्दित्वा तृणेष्वासीत पृष्ठतष् ॥ ३५ ॥
यदेकरात्रेण करोति पापं कृष्णवर्णं ब्राह्मणः सेवमानश्चतुर्थकाल उदकाभ्यपा(वा)यी त्रिभिर्वर्षैस्तदपहन्ति पापम् ॥ ३६ ॥ (ख० २५ )।
यथाकथा च परपरिग्रहमभिमन्यते स्तेनो ह भवतीति कौत्सहारीतौ तथा काण्वपुष्करसादी ॥ ३७ ।।
सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः ॥ ३८ ॥
शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ॥ ३९॥
अतिव्यवहारो व्यृद्धो भवतीति ॥ २६.७.४०॥
सर्वत्रानुमतिपूर्वमिति हारीतः ॥ ४१ ॥
न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ॥ ४२ ॥
न चास्माद्भोगानुपयुञ्जीत ॥ ४३ ॥
यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ॥ ४४ ॥
माता पुत्रस्य भूयाꣳसि कर्माण्यारभते तस्याꣳशुश्रूषा नित्या पतितायामपि ॥ ४५ ॥
न तु धर्मसंनिपात: स्यात् ॥ ४६॥
अधर्माहृतान्भोगानुत्सृज्य न वयं चाधर्मश्चेत्यभिव्याहृत्याधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्नक्षीराक्षारलवणं भुञ्जानो द्वादश वर्षाणि नागारं प्रविशेत् ।। ४७ ।।
अथ संयोगः स्यादार्यैः ॥ ४८ ॥
एवमन्येष्वपि दोषवत्सु कर्मसु पतनीयेषु ॥ ४९
गुरुतल्पगामी तु सुषिराꣳ सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् ॥ २६.७.५० ॥
मिथ्यैतदिति हारीतः ॥ ५१ ।।
यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव भवति ॥ ५२ ॥
एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेन्नास्यास्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ॥ ५३॥
दारव्यतिक्रमे खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत्॥ ५४॥
चरवृत्तिराषण्मासात् ॥ ५५ ॥
स्त्रियाश्च भर्तुर्व्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् ॥ ५६ ॥
अथ भ्रूणहा श्वाजिनं (खराजिनं) वा बहिर्लोम परिधाय (ख• २६) । खट्वाङ्गं दण्डमादाय पुरुषशिरःप्रतीपानार्थं कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति प्राणवृत्तिं प्रतिलभ्योपनिक्रम्य शून्यागारं वृक्षमूलं वाऽभ्युपाश्रयेन्नहि म आर्यैः संप्रयोगो विद्यत एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेन्नास्यास्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ।। ५७ ॥
यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ ५८ ॥
सह संकल्पेन भूयः ॥ ५९॥
एवमन्येष्वपि दोषवत्सु कर्मसु ॥ २६.७.६० ॥
तथा पुण्यक्रियासु ॥ ६१ ॥
परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽददीत ।। ६२ ।।
यो हिंसार्थमभिक्रांतꣳ हन्ति स मन्युरेव मन्युꣳ स्पृशति न तस्मिन्दोष इति पुराणे ॥ ६३ ॥
अथाऽप्युदाहरन्त्यध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तन्मन्युमृच्छतीति ।। ६४ ॥
अथाभिशस्ताः समवसाय चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः ॥ ६५ ॥
पुत्रान्संनिष्पाद्य ब्रूयुर्विप्रव्रजतैवं ह्यस्मत्स्वार्याः संप्रतिपत्स्यते(न्त इ) इति ।। ६६ ॥
अथापि न सेन्द्रियः पतति ॥ ६७ ॥
तदेतेन वेदितव्यमङ्गहीनो हि साङ्गं जनयति ॥ ६८ ॥
मिथ्यैतदिति हारीतः ॥ ६९ ॥
दधिधानीसधर्मा स्त्री भवति ॥ २६.७.७० ॥
यो हि दधिधान्यामप्रयतं पय आतञ्च( च्य )मन्थति न तेन धर्मकृत्यं क्रियत एवमशुचियुक्तं यन्निर्वर्तते न तेन सह संप्रयोगो विद्यते ॥ ७१ ॥
अभीचारानुव्याहारावशुचिकरावपतनीयौ ।। ७२ ॥
पतनीयाविति हारीतः ॥ ७३ ॥
पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादश द्व्यहान्द्वादशाहꣳ सप्ताहं त्र्यहं द्व्यहमेकाहम् ॥ ७४॥
अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि पतनीयेषु कर्मसु इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ ७५ ॥ (ख० २७) ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) षड्विंशप्रश्ने सप्तमः पटलः ॥ ७॥

26.8
अथाष्टमः पटलः।
विद्यया स्नातीत्येके ॥१॥
तथा व्रतेनाष्टाचत्वारिꣳशत्परिमाणेन ॥२॥
विद्या व्रतेन च ॥ ३ ॥
तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥
समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥ ५ ॥
अथ स्नातकव्रतानि ।। ६॥
पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥ ७ ॥
संध्योश्च बहिर्ग्रामादासनं वाग्यतस्य ॥ ८ ॥
विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९ ॥
सर्वान्रागान्वाससि वर्जयेत् ॥ २६.८.१० ॥
कृष्णं च स्वाभाविकम् ॥ ११ ॥
अनूद्भासि वासो वसीत ॥ १२ ॥
अप्रकृष्टं च शक्तिविषये ॥ १३ ॥
दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य ॥ १४ ॥
शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय ॥१५॥
छायायां च मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥
अग्निमादित्यमपो ब्राह्मणान्देवताद्वारं प्रतिवातं च शक्तिविषये नाभिप्रसारयीत ॥ १७ ॥
अथाप्युदाहरन्ति ॥ १८ ।। (ख० २८)।
प्राङ्मुखोऽन्नानि भुञ्जीतोच्चारे दक्षिणामुख उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥ १९ ॥
आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वा ग्रामादावसथाद्वा ॥ २६.८.२० ॥
अस्तमिते च बहिर्ग्रामान्मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २१ ॥
अश्मानं लोष्टमार्द्रानोषधिवनस्पतीनानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २२ ॥
देवताभिधानं चाप्रयतः ॥ २३ ॥
ब्राह्मणस्य गोरिति पदोपस्पर्शनम् वर्जयेत् ॥ २४ ॥
हस्तेन चाकारणात् ॥ २५ ॥
देवानां सुराज्ञश्च गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ २६ ॥
वत्सततीं(न्तीं) च नोपरि गच्छेत् ।। २७ ।।
स्तृहतीं गां नाऽऽचक्षीत ॥ २८ ॥
सꣳसृष्टां च वत्सेनानिमित्ते ॥ २९ ॥ (ख०२९) ।
नाधेनुरिति ब्रूयाद्धेनुर्भव्येत्येव ब्रूयात् ॥ २६.८.३० ॥
न भद्रं भद्रमिति ब्रूयात् ॥ ३१ ॥
पूर्णं (पुण्यं) प्रशस्तमित्येव ब्रूयात् ॥ ३२ ॥
नासौ मे सपत्न इति ब्रूयाद्यदसौ मे सपत्न इति ब्रूयाद्द्विषन्तं भ्रातृव्यं जनयेत् ॥ ३३ ॥
नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ ३४ ॥
न पततः संचक्षीत ॥ ३५ ॥
प्रेङ्खावन्तरेण नातिक्रामेत् ॥ ३६ ॥
उद्यन्तमस्तं यन्तमादित्यं दर्शने वर्जयेत् ॥ ३७॥
दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं च चन्द्रमास्तस्मादमावास्यायाꣳ रात्र्याꣳ स्वाधीय आत्मनो गुप्तिमिच्छेत्प्रायत्यब्रह्मचर्य कालचर्ययेति ॥ ३८ ॥
सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ ३९ ॥
न कुसृत्या ग्रामं प्रविशेद्यदि प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्रीम् ॥ २६.८.४० ॥
नाब्राह्मणायोच्छिष्टं प्रयच्छेद्यदि प्रयच्छेद्दन्तान्स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत् ॥ ४१ ॥
क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ ४२ ॥ (ख० ३०)।
प्रवचनयुक्तो वर्षाशरदं च मैथुनं न चरेत् ॥ ४३ ॥
मिथुनीभूय न च तया सह सर्वाꣳ रात्रिꣳ शयीत ॥ ४४ ॥
शयानश्चाध्यापनं वर्जयेत् ॥ ४५ ॥
न तस्यां शय्यायामध्यापयेत् ॥ ४६॥
अनाविःस्रगनुलेपनः स्यात् ॥ ४७ ॥
निशायां दारं प्रत्यलंकुर्वीत ।। ४८ ॥
सशिरामज्जनं चाप्सु वर्जयेत् ॥ ४९ ॥
अस्तमिते च स्नानम् ॥ २६.८.५० ॥
पालाशमासनं पादुके दन्तप्रक्षालनमिति [च] वर्जयेत् ॥ ५१ ॥
स्तुतिं च गुरोः समक्षं यथा सुस्नातम् ।। ५२ ॥
आ निशायां जागरणम् ॥ ५३॥
अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ॥ ५४ ॥
मनसा वा स्वयम् ॥ ५५ ॥
ऊर्ध्वं मध्यरात्रादध्यापनम् ॥ ५६ ॥
नापररात्रमुपोत्थायानध्याय इति संविशेत् ॥ ५७ ॥
काममधः श्शयीत ॥ ५८ ॥
मनसा वाऽधीयीत ।। ५९ ॥
क्षुद्रान्क्षुद्राचरितांश्च देशान्न सेवेत ।। २६.८.६० ॥
सभाः समाजाꣳश्च ॥ ६१ ।।
समाजं चेद्गच्छेत्प्रदक्षिणीकृत्यापेयात् ।। ६२ ॥
नगरप्रवेशनानि च वर्जयेत् ॥ ६३ ॥
प्रश्नं च न विब्रूयात् ॥ ६४ ॥
मूलं कूलं बृं(वृ)हति दुर्विवक्तुः प्रजां पशूनायतनꣳ हिनस्ति । धर्म पह्लादनाय कुपालनाय रुदन्हन्त (ह) मृत्युर्व्युवाचः(च) प्रश्नमिति ॥ ६५ ।।
गादर्भं यान(मा)रोहणे विषमारोहणावरोहणानि च वर्जयेत् ।। ६६ ॥
ब(बा)हुभ्यां च नदीतरम् ॥ ६७ ॥
नावां(वं) च साꣳशयिकीम् ॥ ६८॥
तृणच्छेदनलोष्ठविमर्दननिष्ठीवनानि चाकारणात् ॥ ६९ ॥
यच्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते ॥ २६.८.७० ॥ (ख० ३१) ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(धर्मसूत्रापरपर्याये) षड्विंशप्रश्नेऽष्टमः पटलः ॥ ८ ॥
इति षड्विंशः प्रश्नः समाप्तः ॥ २६ ॥