← तृतीयं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (चतुर्थं वचनम् )
[[लेखकः :|]]
पञ्चमं वचनम्  →
मेषानुवचनम्

अथ चतुर्थं वचनम् ।

मेषानुवचनम् ।
मेषस्त्वा पचतैरवतु लोहितग्रीवश्छागैश्शल्मलिर्ऋद्ध्या पर्णो ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश्चमसैरुदुम्बर ऊर्जा गायत्री छन्दोभिस्त्रिवृत्स्तोमैरवन्तीस्स्थावन्तीस्त्वावन्तु प्रियं त्वा प्रियाणां वर्षिष्ठमाप्यानां गणानां त्वा गणपतिँ हवामहे वसो मम प्रियाणां त्वा प्रियपतिँ हवामहे वसो मम निधीनां त्वा निधिपतिँ हवामहे वसो मम ॥१॥

कूप्याभ्यस्स्वाहा कुल्याभ्यस्स्वाहा स्थाल्याभ्यस्स्वाहावट्याभ्यस्स्वाहा खल्याभ्यस्स्वाहा ह्रद्याभ्यस्स्वाहा सूद्याभ्यस्स्वाहा पल्वल्याभ्यस्स्वाहा वैशन्तीभ्यस्स्वाहा सरस्याभ्यस्स्वाहा वर्ष्याभ्यस्स्वाहावर्ष्याभ्यस्स्वाहा प्रुष्टाभ्यस्स्वाहा ह्रादुनिभ्यस्स्वाहा स्थावराभ्यस्स्वाहा स्यन्दमानाभ्यस्स्वाहा नादेयीभ्यस्स्वाहा सैन्धवीभ्यस्स्वाहा समुद्रियाभ्यस्स्वाहा सर्वाभ्यस्स्वाहा ॥२॥

अद्भ्यस्स्वाहा वहन्तीभ्यस्स्वाहा समुद्रं वहन्तीभ्यस्स्वाहा समन्तं वहन्तीभ्यस्स्वाहोग्रं वहन्तीभ्यस्स्वाहा भीमं वहन्तीभ्यस्स्वाहा शीभं वहन्तीभ्यस्स्वाहा शीघ्रं वहन्तीभ्यस्स्वाहाम्भोभ्यस्स्वाहा नभोभ्यस्स्वाहा महोभ्यस्स्वाहा ॥३॥

यो अर्वन्तं जिघाँसति तमभ्यमीति वरुणः । परो मर्तः परश्श्वा ।।
अहं च त्वं च वृत्रहन् सँसनुयाव वरीष्वा ।
अरातीवा चिदद्रिवोऽनु नौ शूर मँसते भद्रा इन्द्रस्य रातयः॥
अभि क्रत्वेन्द्र भूरथ ज्मन्न ते विव्यङ् महिमानं रजाँसि ।
स्वेना हि वृत्रँ शवसा जगन्थ न शत्रुरन्तं विविदद्युधा ते ॥४॥

नमो राज्ञे नमो वरुणाय नमोऽश्वाय नमः प्रजापतये नमोऽधिपतयेऽधिपतिरस्यधिपतिं मा कुर्वधिपतिरहं प्रजानां भूयासं मां धेहि मयि धेह्युपाकृताय स्वाहालब्धाय स्वाहा हुताय स्वाहा ॥५॥

मयोभूर्वातो अभिवात्युस्रा ऊर्जस्वतीरोषधीराविशन्ताम् ।
पीवस्वतीर्जीवधन्याः पिबन्त्यवसाय पद्वते रुद्र नो मृड ॥
यास्सरूपा विरूपा एकरूपा यासामग्निर्निष्ट्या नामानि वेद ।
या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥
या देवेषु तन्वमैरयन्त यासाँ सोमो विश्वा रूपाणि वेद ।
ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥
प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैर्यज्ञियैस्संविदानः ।
बह्वीर्भवन्तीरुप नो गोष्ठमाशुस्तासां वयं प्रजया सँसदेम ॥
इह धृतिस्स्वाहेह विधृतिस्स्वाहेह रन्तिस्वाहेह रमतिस्स्वाहा महामू षु सुत्रामाणम् ॥६॥

कस्स्विदेकाकी चरति क उ स्विज्जायते पुनः ।
किँ स्विद्धिमस्य भेषजं किँ स्वदावपनं महत् ॥
सूर्य एकाकी चरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ॥
का स्विदासीत् पूर्वचित्तिः किं स्विदासीद्बृहद्वयः ।
का स्विदासीत् पिलिप्पिला का स्विदासीत् पिशङ्गिला ॥
द्यौरासीत् पूर्वचित्तिरश्व आसीद्बृहद्वयः।
अविरासीत् पिलिप्पिला रात्रिरासीन् पिशङ्गिला ॥
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
वेदिमाहुः परमन्तं पृथिव्या यज्ञमाहुर्भुवनस्य नाभिम् ।
सोममाहुर्वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥७॥

अम्बे अम्बाल्यम्बिके न मा नयति कश्चन । ससस्त्यश्वकस्सुभगे काम्पीलवासिनि ॥
स्वर्गे लोके संप्रोर्णुवाथामाहमजामि गर्भधमा त्वमजासि गर्भधं तौ सह चतुरः पदस्संप्रसारयावहै वृषा वां रेतोधा रेतो दधातूत्सक्थ्योर्गृदं धेह्यञ्जिमुदञ्जिमन्वज ॥
यस्स्त्रीणां जीव भोजनो य आसां बिलधावनः।
प्रियस्त्रीणामपीच्यो य आसां कृष्णे लक्ष्मणि सर्दिगृदिं परावधीत् ।।
अम्बे अम्बाल्यम्बिके न मा नयति कश्चन । ससस्त्यश्वकः ॥
ऊर्ध्वामेनामुच्छ्रयताद्वेणुभारं गिरा इव ।
अधास्या मध्यमेधताँ शीते वाते पुनन्निव ॥
अम्ब इत्युक्तम् ॥
यद्धरिणी यवमत्ति न पुष्टं पशु मन्यते । शूद्रा यदर्यजारा न पोषाय धनायति ॥ अम्ब इत्युक्तम् ॥
इयं यका शकुन्तिकाहलमिति वञ्चति । आहतं गभे पसो निजल्गलीति धानिका ॥
अम्ब इत्युक्तम्।।
माता च ते पिता च तेऽयं वृक्षस्य रोहतः ।
प्रसुलामीति ते पिता गभे मुष्टिमतँसयत् ॥
दधिक्राव्णो अकारिषमापो हि ष्ठेति तिस्रः ॥८॥

भूर्भुवस्स्वर्वसवस्त्वाञ्जन्तु गायत्रेण च्छन्दसा रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन च्छन्दसादित्यास्त्वाञ्जन्तु जागतेन च्छन्दसा॥
यद्वातो अपो अगमदिन्द्रस्य तन्वं प्रियाम् ।
एतँ स्तोतरेतेन पथा पुनरश्वमावर्तयासि नः॥
लाजी३ञ्छाची३न्यशो ममा३ यव्यायै गव्याया एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापते॥
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा ॥
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥९॥

प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा स्नावभ्यस्स्वाहा संतानेभ्यस्स्वाहा परिसंतानेभ्यस्स्वाहा पर्वभ्यस्स्वाहा संधानेभ्यस्स्वाहा शरीरेभ्यस्स्वाहा यज्ञाय स्वाहा दक्षिणायै स्वाहा स्वर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥१०॥ [२८८१]


॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे मेषानुवचनं नाम चतुर्थं वचनं संपूर्णम् ॥४॥