प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पञ्चमं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (षष्ठं वचनम् )
[[लेखकः :|]]
सप्तमं वचनम्  →
जीमूतानुवचनम्

अथ षष्ठं वचनम् ।

जीमूतानुवचनम्।
जीमूतस्येव भवति प्रतीक यद्वर्मी याति समदामुपस्थे ।
अनाविद्धया तन्वा जय त्वँ स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्रास्समदो जयेम ।
धनुश्शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
वक्ष्यन्तीवेदागनीगन्ति कर्णं प्रियँ सखायं परिषस्वजाना।
योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयँ समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे।
अप शत्रून् विध्यताँ संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ।
बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।
इषुधिस्सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनुयच्छन्ति रश्मयः॥
तीवान् घोषान् कृण्वते वृषपाणयोऽश्वा रथेभिस्सह वाजयन्तः।
अवक्रामन्तः प्रपदैरामित्रान् क्षिणन्ति शत्रूँरनपव्ययन्तः ॥
रथवाहनँ हविरस्य नाम यत्रायुधं निहितमस्य वर्म।
तत्रा रथमुप शग्मँ सदेम विश्वाहा वयँ सुमनस्यमानाः ।।
स्वादुषँसदः पितरो वयोधाः कुच्छ्रेश्रितश्शक्तीवन्तो गभीराः।
चित्रसेना इषुबला अमृध्रास्सतोवीरा उरवो व्रातसाहाः ।।
ब्राह्मणासः पितरस्सोम्यासश्शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशँस ईशत ।।
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिस्संनद्धा पतति प्रसूता ।
यत्रा नरस्सं च वि च द्रवन्ति तत्रास्मभ्यमिषवश्शर्म यँसन् ।।
वृजीते परिवृङ्धि नोऽश्मा भवतु नस्तनूः । सोमो अधिब्रवीतु नोऽदितिश्शर्म यच्छतु ।।
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाँसं परिपातु विश्वतः ॥
आजङ्घन्ति सान्वेषां जघनाँ उपजिघ्नते । अश्वाजनि प्रचेतसोऽश्वान् समत्सु चोदय ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणस्सुवीरः।
गोभिस्संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥
दिवः पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतँ सहः ।
अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रँ हविषा रथं यज ।।
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
उपश्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अपसेध शत्रून् ।
आक्रन्दय बलमोजो न आधा निष्टनिहि दुरिता बाधमानः ।
अपप्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीडयस्व ॥
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति ।
समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥१॥

समिद्धो अञ्जन् कृदरं मतीनां घृतमग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियमा सधस्थम् ।।
घृतेनाञ्जन् सं पथो देवयानान् प्रजानन् वाज्यप्येतु देवान् ।
अनु त्वा सप्ते प्रदिशस्सचन्ताँ स्वधामस्मै यजमानाय धेहि ॥
ईड्यश्चासि वन्द्यश्च वाजिन्नाशुश्चासि मेध्यश्च सप्ते ।
अग्निष्ट्वा देवैर्वसुभिस्सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥
स्तीर्णं बर्हिस्सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिरक्तमदितिस्सजोषास्योनं कृण्वाना सुविते दधातु ॥
एता उ वस्सुभगा विश्ववारा वि पक्षोभिश्श्रयमाणा उदातैः ।
ऋष्वास्सतीः कवयश्शुम्भमाना द्वारो देवीस्सुप्रयाणा भवन्तु ।
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानामभिसंविदाने ।
उषासा वाँ सुहिरण्ये सुशिल्पे ऋतस्य योना इह सादयामि ॥
प्रथमा वाँ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥
आदित्यैर्नो भारती वष्टु यज्ञँ सरस्वती सह रुद्रैर्न आवीत् ।
इडोपहूता वसुभिस्सजोषा यज्ञं नो देवीरमृतेषु धत्त ॥
त्वष्टा वीरं देवकामं जजान त्वष्टुरर्वा जायत आशुरश्वः ।
त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारमिह यक्षि होतः ॥
अश्वो घृतेन त्मन्या समक्त उप देवाँ ऋतुशः पाथ एतु ।
वनस्पतिर्देवलोकं प्रजानन्नग्निना हव्या स्वदितानि वक्षत् ॥
प्रजापतेस्तपसा वावृधानस्सद्यो जातो ममिषे यज्ञमग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि सख्या हविरदन्तु देवाः ॥२॥

यदक्रन्दः ॥
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम् ।
शिरो अपश्यं पथिभिस्सुगेभिररेणुभिर्जेहमानं पतत्रि ।।
अत्रा ते रूपमुत्तमपश्यं जिगीषमाणमिष आ पदे गोः ।
यदा ते मर्तो अनु भोगमानडादिद्ग्रसिष्ठ ओषधीरजीगः ।।
अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् ।
अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥
ईर्मान्तासस्सिलिकमध्यमासस्सँ शूरणासो दिव्यासो अत्याः ।
हँसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥
तव शरीरं पतयिष्णवर्वन् तव चित्तं वात इव ध्रजीमान् ।
तव शृङ्गानि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ।।
अजः पुरो नीयते नाभिरस्यानु पश्चात् कवयो यन्ति रेभाः॥
उप प्रागात् परमं यत् सधस्थमर्वाँ अच्छा पितरं मातरं च ।
अद्या देवाञ्जुष्टतमो हि गम्या अथाशास्ते दाशुषे वार्याणि ॥३॥

मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परिख्यन् ।
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वार्याणि ॥
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येतु पाथः ।।
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेवः ।
अभिप्रियं यत् पुरोडाशमर्वता त्वष्टेदेनँ सौश्रवसाय जिन्वन्ति ।
यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
तत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः परिवेदयन्नजः ॥
होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शँस्ता सुविप्रः।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आपृणध्वम् ॥
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनँ संभरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥
उप प्रागात् सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
अन्वेनं विप्रा ऋषयो मदन्तु देवानां पुष्टे चकमा सुबन्धुम् ।।
यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
यद्वा घास्य प्रभृतमास्ये तृणँ सर्वा ता ते अपि देवेष्वस्तु ।।
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
यद्धस्तयोश्शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
यदूवध्यमुदरस्यापवाति य आमस्य ऋविषो गन्धो अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधँ शृतपाकं पचन्तु ॥
यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणामङ्कास्सूनाः परिभूषन्त्यश्वम् ॥४॥

यत् ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तद्भूम्यामाश्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ।
ये वाजिनं परिपश्यन्ति पक्कं य ईमाहूस्सुरभिर्निर्हरेति ।
ये चार्वतो माँसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥
मा त्वाग्निर्ध्वनयेद्धूमगन्धिर्मोखा भ्राजन्त्यभिविक्त जघ्निः ।
इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्यश्वम् ।।
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः।
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
संदानमर्वन्तं पड्बीशं प्रिया देवेष्वायामयन्ति ॥
चतुस्त्रिँशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिस्समेति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या विशस्त ॥
एकस्त्वष्टुरश्वस्य विशस्ता द्वा यन्तारा भवतस्तथर्तुः।
या ते गात्राणामृतुथा कृणोमि ता ता पिण्डानां प्रजुहोम्यग्नौ ॥
मा त्वा तपत् प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आतिष्ठिपत् ते।
मा ते गृध्नुरविशस्तातिहाय च्छिद्रा गायत्राण्यसिना मिथू कः ॥
न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिस्सुगेभिः।
हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ।।
सुगव्यं नो वाजी स्वश्व्यं पुँसः पुत्राँ उत विश्वपुषं रयिम् ।
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनते हविष्मान् ॥५॥ [२९६८]


॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे जीमूतानुवचनं नाम षष्ठं वचनं संपूर्णम् ॥६॥