प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं २ काठकसंहिता (विस्वरः)
स्थानकम् ०३
[[लेखकः :|]]
स्थानकं ४ →
ज्योतिरिकम्।

अथ तृतीयं स्थानकम् ।

ज्योतिरिकम् ।।
ज्योतिरासि विश्वरूपं मरुतां पृषती देवेभ्यस्त्वा यज्ञियेभ्यो गृह्णामि ॥
त्वँ सोम तनूकृद्भ्यो द्वेषेभ्योऽन्यकृतेभ्यः । उरु यन्तासि वरूथम् ॥
स्वाहा जुषाणो अप्तुराज्यस्य वेतु स्वाहा ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ।।
उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर ।। स्वाहोर्वन्तरिक्षं वीह्यदित्यास्त्वगस्यदित्यास्सदने सीद ।। देव सवितरेष ते सोमस्तं रक्षस्व मा त्वा दभन्नेतत्त्वं देव सोम देवानुपागा इदमहं मनुष्यान् सह प्रजया सह रायस्पोषेण नमो देवेभ्यस्स्वधा पितृभ्यो निर्द्रुहो निर्वरुणस्य पाशान्मुक्षीय स्वरभिव्यख्यं ज्योतिर्वैश्वानरमग्ने व्रतपा अस्मे व्रतपास्त्वे व्रतपा व्रतिनां व्रतानि याग्ने मम तनूस्त्वय्यभूदियँ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि यथायथं नो व्रतपा व्रतिनां व्रतानि स्वाहा यज्ञं मनसि स्वाहा दिवि स्वाहा पृथिव्याँ स्वाहोरा अन्तरिक्षे स्वाहा वाते वाचि विसृजे ।। १ ।।

उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिर ।।
स्वाहात्यन्यानगां नान्यानुपागां यान्नाजुजोषं परि तानवृजमर्वाक्त्वा परेभ्योऽविदं परोऽवरेभ्यस्तं त्वा जुषामहे वनस्पते देवयज्यायै जुष्टं विष्णवे विष्णवे त्वा देवस्त्वा सविता मध्वानक्त्वोषधे त्रायस्वैनँ स्वधिते मैंनँ हिँसीर्द्यां मा लेखीरन्तरिक्षं मा हिंसीः पृथिव्या संभव ।।
वनस्पते शतवल्शो बिरोह सहस्रवल्शा वि वयं रुहेम ।।
यं त्वायँ स्वधतिस्तेतजानः प्रणिनाय महते सौभगाय ।
अच्छिन्नरायँ सुवीरः ।। २ ।।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामदद इदमहं रक्षसो ग्रीवा अपिकृन्तामीदमहं यो नस्समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामि पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवोऽसि यावयास्मद्द्वेषं यावयारातिं पितृषदनं त्वा लोकमास्तृणामि स्वावेशोऽस्यग्रेगा नेतॄणां वनस्पतिस्त्वाधिष्ठास्यति तस्य वित्ताद् घृतेन द्यावापृथिवी
आपृणेथां देवस्त्वा सविता मध्वानक्तु सुपिप्पला ओषधीस्कृधि द्यामग्रेणास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृँहीः ।।
ता वां वास्तून्युश्मसि गमध्यै यंत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य विष्णोः परमं पदमवभाति भूरि ।।
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ।।
ब्रह्मवनिं त्वा क्षत्रवनिं देववनिं सजातवनिं रायस्पोषवनिं पर्यूहामि ब्रह्म दृंह क्षत्रं दृंह प्रजां दृँह रायस्पोषं दृँह ।।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।।
परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमं रायो मनुष्यमन्तरिक्षस्य सानूपेष द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्म स्वाहा ।। ३ ।।

इषे त्वोपावीरस्युप देवान्दैवीर्विशः प्रागुर्वह्नय उशिजो बृहस्पते धारया वसूनि हव्या ते अस्वदन् देव त्वष्टर्वसु रण रेवती रमध्वमग्नेर्जनित्रमसि वृषणौ स्थ उर्वश्यस्यायुरसि पुरूरवा असि गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं छन्दोऽनुप्रजायस्व जागतं छन्दोऽनुप्रजायस्व ।।
भवतं नस्समनसौ समोकसा अरेपसौ ।
मा हिँसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः ।।
अग्ना अग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः ।
स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवेभ्यो हव्यं वहतु प्रजानन् ॥ ४ ॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चाम्यमुष्मै जुष्टं धर्षा मानुषँ अद्भ्यस्त्वौषधीभ्योऽनु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्य आवह देवान् देवयते यजमानायापां पेरुरसि स्वात्तँ हव्यं देवेभ्यो घृतवत् सं ते वायुः प्राणेन गच्छताँ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा ॥ ५ ॥

घृतेनाक्तौ पशुं त्रायेथां रेवति प्रेधा यज्ञपतिमाविशोरो अन्तरिक्ष सजूर्देवेन वातेनास्य हविषस्त्मना यज समस्य तन्वा भव वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धा नमस्त आतानानर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेण देवीरापश्शुद्धा यूयं देवान् यूढ्वँ शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म प्राणं ते मा हिंसिषं चक्षुस्ते मा हिँसिषँ श्रोत्रं ते मा हिँसिषं वाचं ते मा हिँसिषं यत्ते क्रूरतरं यदास्थितं तत्त एतेन कल्पतां तत्ते मा हिँसिषं चरित्राँस्ते मा हिंसिषं नाभिं ते मा हिँसिषं मेढ्रं ते मा हिसिषं पायुं ते मा हिँसिषं देवेभ्यश्शुन्धस्व समद्भ्य ओषधे त्रायस्वैनँ स्वधिते मैनँ हिंसी रक्षसां भागोऽसीदमहं रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीषे त्वोर्जे घृतेन द्यावापृथिवी प्रोर्णुवाथां देवेभ्यश्शुन्धस्व देवेभ्यश्शुम्भस्वामुष्मै त्या जुष्टामुर्वन्तरिक्षं वीहि वायो वेष्टोकानां प्रत्युष्टं रक्षः प्रत्यष्टारातिर्देवेभ्यस्स्वाहा स्वाहा देवेभ्यः प्रयुता द्वेषाँसि स्वाहोर्ध्वनभसं मारुतं गच्छतम् ॥ ६ ॥

रेडस्यग्निस्त्वा श्रीणात्वापस्समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रँह्या ऊष्मणोऽव्यथिष्या अपामोषधीनां रोहिष्या ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यदैन्द्रो व्यानो अङ्गे अङ्गे निदीध्यदैन्द्रोऽपानो अङ्गे अङ्गे निदध्यत् ॥
देव त्वष्टर्भूरि ते सँ समेतु सलक्ष्म यद्विषुरूपं बभूव ।।
देवत्रा यन्तमवसे सखायमनु त्वा माता पितरो मदन्तु ।।।
घृतं वृतपावानः पिबत वसां वसापावानः पिवतान्तरिक्षस्य हविरसि स्वाहा त्वा वाताय दिशः प्रदिश आदिशो विदिश उद्दिशो दिशस्स्वाहा दिग्भ्यो नमो दिग्भ्यः ॥ ७ ॥

समुद्रं गच्छ स्वाहान्तरिक्षं गच्छ स्वाहा देवँ सवितारं गच्छ स्वाहाहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा छन्दो गच्छ स्वाहा सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा नभो गच्छ स्वाहाग्निं वैश्वानरं गच्छ स्वाहा मनो मे हार्दिं यच्छ पुत्रं नप्तारमशीयौषधीभ्यस्स्वाहा ॥ धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्न्या वरुणेति शपामहे ततो वरुण नो मुञ्च । ।
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवनागसो अदितये स्याम ।।
सुमित्रा ण आप ओषधयो भवन्तु दुर्मित्रास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः॥
द्वीपे राज्ञो वरुणस्य गृहो हिरण्ययो मितः ।।
ततो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु ।। ८ ॥

हविष्मतीरिमा आपो हविष्मान् देवो अध्वरः ।।
हविष्मां आविवासति हविष्मानस्तु सूर्यः ।।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नायवस्सुम्न्याय सुम्न्यं धत्तेन्द्राग्न्योर्भागधेयीस्स्थ मित्रावरुणयोर्भागधेयीस्स्थ विश्वेषां देवानां भागधेयीस्स्थ सोमस्य वसतीवरीर्हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वोर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छ सोम राजन् विश्वाः प्रजा उपावरोह विश्वास्त्वा प्रजा उपावरोहन्तु ।।
शृणोत्वग्निस्समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः ।
शृणोतु ग्रावाणो विदुषो नु यज्ञँ शृणोतु देवस्सविता हवं मे ।
देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं देवेभ्यो देवत्रा दात शुक्रपेभ्यो येषां भागस्स्थ स्वाहा कार्य्रसि समुद्रस्य वोऽक्षित्या उन्नये ॥
से वो दधातु वरुणो मित्रो अग्निस्समिन्द्रस्सं बृहस्पतिः ।
त्वष्टा विष्णुः प्रजया संरराणा यजमानाय द्रविणं दधातु ॥
यथाधूरन्धूरो धूर्भिः कल्पन्ताम् ।।
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ।।
स्वाहा वसूनां रुद्राणामादित्यानां पन्नेजनीस्स्थ ।। वसवो रुद्रा आदित्या एता वः पन्नेजनीस्समुद्रं गन्धर्वेष्ठामन्वातिष्ठथ वातस्य पत्मन्नीडिता वामी ते संदृशि विश्वं रेतो धिषीय तव वाम्यनु संदृशि ।। ९ ।।

निग्राभ्यास्स्थ देवश्रुतश्शुक्राश्शुक्रभृत आयुर्मे तर्पयत प्राणं मे तर्पयत व्यानं मे तर्पयतापानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत वाचं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत गृहान् मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत तृप्ता मा तर्पयत प्रीता मा प्रीणीत ते मे मा वितृषन् देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे ग्रावाध्वरकृद्देवेभ्य ऊर्ध्वमिममध्वरं कृध्युत्तमेन पविनेन्द्राय सुषुत्तमं मधुमन्तं पयस्वन्तमिन्द्राय त्वाभिमातिघ्न इन्द्राय त्वा सहोद इन्द्राय त्वा वसुमत इन्द्राय त्वा रुद्रवत इन्द्राय त्वादित्यवतेऽग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा यत्ते सोम दिवि ज्योतिर्यत् पृथिव्यां यदुरा अन्तरिक्षे तेनास्मै यज्ञपतय उरु राये कृध्यधि धात्रे वोचश्श्वात्रास्स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं कृत्वोपहूतास्सोमस्य पिबत मा भैर्मा संवित्था धिषणे वीते वीडयेथामूर्जं दधथामूर्जमस्मासु धत्तं मा वाँ हिँसिषं मा युवमस्मान् हिँसिष्टं प्रागपागुदगधराक्तास्त्वा दिश अधावन्त्वम्ब निस्वर समरिर्विदः ॥ १० ॥

इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां ज्योतिरिकं नाम तृतीयं स्थानकं संपूर्णम् ॥३॥