प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ३ काठकसंहिता (विस्वरः)
स्थानकम् ०४
[[लेखकः :|]]
स्थानकं ५ →
ग्रहाः।

अथ चतुर्थं स्थानकम्

ग्रहाः ।।
वाचस्पतये पवस्व ।। वाजिन् वृष्णो अँशुभ्यां गभस्तिपूतो देवो देवानां पवित्रमसि येषां भागोऽसि मधुमतीर्न इषस्कृधि स्वंकृतोऽस्युर्वन्तरिक्षं वीहि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभो सूर्याय देवेभ्यस्त्वा मरीचिपेभ्यः प्राणाय त्वा व्यानाय त्वोपयामगृहीतोऽसि ।।
अन्तर्यच्छ मघवन् पाहि सोममुरुष्य रायस्समिषो यजस्व ।
अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षम् ।।
सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥
मधुमतीर्न ईषस्कृधि स्वंकृतोऽस्युर्वन्तरिक्षं वीहि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभो सूर्याय देवेभ्यस्त्वा मरीचिपेभ्योऽपानाय त्वा ।। १ ।।

आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यमयामि यतो देव दधिषे पूर्वपेयम् ।।
उपयामगृहीतोऽसि वायवे त्वा ।।
इन्द्रवायू इमे सुता उप प्रयोभिरागतम् ॥
इन्दवो वाग्मुशन्ति हि ।।
उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिस्सजोषोभ्यां त्वा ।।
अयं वां मित्रावरुणा सुतस्सोम ऋतावृधा । ममेदिह श्रुतं हवम् ।।
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वैष ते योनिर्ऋतायुभ्यां त्वा ।
या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् ।। उपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वोपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिर्विष्णोरुरुक्रम उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वैष ते योनिर्विष्णोरुरुक्रम उपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्विष्णोरुरुक्रम तं रक्षस्व मा त्वा दभन् दुश्चक्षास्ते मावक्षत् ॥ २ ॥

अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमानः ।
इममपाँ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।।
उपयामगृहीतोऽसि शण्डायेन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिर्वीरतायै त्वा ।
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदँ स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे गिरा या संजयन्तमधि यासु वर्धसे ।।
उपयामगृहीतोऽसि मर्काय सूर्याय त्वा जुष्टं गृह्णाम्येष ते योनिः प्रजाभ्यस्त्वा ॥ ३ ॥

अपनुत्ता शण्डामर्कौ सह तेन यं द्विष्मस्तुथोऽसि जनधाया देवास्त्वा शुक्रपाः प्रणयन्तु तुथोऽसि जनधाया देवास्त्वा मन्थिपाः प्रणयन्त्वायुस्संधत्तं प्राणँ संधत्तं चक्षुस्संधत्तँ श्रोत्रँ संधत्तं वाचँ संधत्तमनाधृष्टासि जिन्वेथाँ स्वपत्या मध्वा वीतँ सुवीराः प्रजाः प्रजनयन् परीहि सुप्रजाः प्रजाः प्रजनयन् परीहि ॥
 इन्द्रेण मन्युना युजा सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति ।
संजग्माना दिवा पृथिव्या शुक्रश्शुक्रशोचिषा मन्थी मन्थिशोचिषा शुक्रोऽसि शुक्रशोचिर्मन्थ्यसि मन्थिशोचिरच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारस्स्याम निरस्ता शण्डामर्कौ सह तेन यं द्विष्मश्शुक्रस्याधिष्ठानमसि मन्थिनोऽधिष्ठानमसि ।।
या सँस्कृतिः प्रथमा विश्वकर्मा यो मध्यमो बृहस्पतिश्चिकित्वान् ।
यः परमो वरुणो मित्रो अग्निस्तस्मा इन्द्राय सुतमाजुहोत तस्मै सूर्याय सुतमाजुहोत ।।
स्वाहा त्वा सुभो सूर्याय देवेभ्यस्त्वा मरीचिपेभ्यः ।। ४ ।।

ये देवा दिव्यैकादश स्थ पृथिव्यामध्येकादश स्थ ।
अप्सुषदो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ।। उपयामगृहीतोऽस्याग्रायणो जिन्व यज्ञं जिन्व यज्ञपतिमभि संवनानि पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ।। उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थाव्यं यत्त इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वैष ते योनिरिन्द्राय त्वा ।।
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्तु देवाः ।।
उपयामगृहीतोऽसि वैश्वानरो ध्रुवोऽसि धुवक्षितिर्रुयसवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम एष ते योनिर्वैश्वानरीय त्वा ।। ५ ।।

उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्णाम्येष ते योनिर्मित्रावरुणाभ्यां त्वा पुनर्हविरसि देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्राय त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्णाम्येष ते योनिरिन्द्राय त्वा पुनर्हविरसि देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्णाम्येष ते योनिरिन्द्राग्निभ्यां त्वा देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्राय त्वेन्द्राय त्वोक्थेभ्यस्त्वोक्थाव्य गृह्णाम्येष ते योनिरिन्द्राय त्वा देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्रावरुणाभ्यां त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्णाम्येष ते योनिरिन्द्रावरुणाभ्यां त्वा पुनर्हविरसि देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्राबृहस्पतिभ्यां त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्णाम्येष ते योनिरिन्द्राबृहस्पतिभ्यां त्वा पुनर्हविरसि देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुष उपयामगृहीतोऽसीन्द्राविष्णुभ्यां त्वोक्थेभ्यस्त्वोक्थाव्यं गृह्राम्येष ते योनिरिन्द्राविष्णुभ्यां त्वा पुनर्हविरसि देवेभ्यस्त्वा देवाव्यं पृणच्मि यज्ञस्यायुषे ।। ६ ।।

उपयामगृहीतोऽसि मधवे त्वोपयामगृहीतोऽसि माधवाय त्वोपयामगृहीतोऽसि शुक्राय त्वोपयामगृहीतोऽसि शुचये त्वोपयामगृहीतोऽसि नभसे त्वोपयामगहीतोऽसि नभस्याय त्वोपयामगृहीतोऽसीषाय त्वोपयामगृहीतोऽस्यूर्जाय त्योपयामगृहीतोऽसि सहसे त्वोपयामगृहीतोऽसि सहस्याय त्वोपयामगृहीतोऽसि तपसे त्वोपयामगृहीतोऽसि तपस्याय त्वा ।।
इन्द्राग्नी आगतँ सुतं गीर्भिनभो वरेण्यम् । अस्य पातं धियेषिता ।। उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वैष ते योनिरिन्द्राग्निभ्यां त्वा ।
ओमासश्चर्षणीधृतो विश्वे देवास आगत । दाश्वाँसो दाशुषस्सुतम् ॥ उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ ७ ॥

जनिष्ठा उग्रस्सहसे तुराय मन्द्रं ओजिष्ठो बहुलाभिमानः । ।
अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ।
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते ।।
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य ।।
तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयस्सुयज्ञाः ।।
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते ॥
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवस्सुतानाम् ॥
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते ॥
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।।
विश्वासाहमवसे नूतनायोग्रँ सहोदामिह तं हुवेम ॥
उपयार्मगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा मरुत्वते ।।
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधे । उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ।।
महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनस्सहोभिः ।
अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुस्सुकृतः कर्तृभिर्भृत् ॥
उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ।। ८ ।।

उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ।।
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणास्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च ।।
द्यां गच्छ स्वर्गच्छ रूपं वो रूपेणाभ्यांगां वयसा वयस्तुथो वो विश्ववेदा विभजतु वर्षिष्ठेऽधि नाक एतत्ते अग्ने राध एति सोमच्युतं तन्मित्रस्य पथा नयर्तस्य पथा प्रेत चन्द्रदक्षिणा ब्राह्मणमद्यर्ध्यासं पितृमन्तं पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणम् ।।
अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुरएतु प्रभिन्दन् ।
अयँ शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ ।।
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्न्यासु ।
हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात् सोममद्रौ ।।
वि स्वः पश्य व्यन्तरिक्षं यतस्व सदस्यैरस्मद्राता मधुमती देवत्रा गच्छ प्रदातारमाविशानवहायास्मान् देवि दक्षिणे देवयानेन पथा यती सुकृतां लोके सीद तन्नौ सँस्कृतम् ॥ ९॥

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते ।। उपयामगृहीतोऽस्यादित्येभ्यस्त्वा ।।
कदा चन प्रयुच्छस्युभे निपासि जन्मनी ।
तुरीयादित्य सवनं त इन्द्रियमातस्था अमृतं दिवि ।। उपयामगृहीतोऽस्यादित्येभ्यस्त्वा ।।
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः ।।
आ वोऽर्वाची सुमतिर्ववृत्यादँहोश्चिद्या वरिवोवित्तरासत् ॥ उपयामगृहीतोऽस्यादित्येभ्यस्त्वा ॥ विवस्व आदित्यैष ते सोमपीथस्तस्मिन् मन्दस्व ।। या दिव्या वृष्टिस्तया त्वा श्रीणामि ।।
अदब्धेभिस्सवितः पायुभिष्ट्वँ शिवेभिरद्य परिपाहि नो गयम् ।। हिरण्यजिह्वस्सुविताय नव्यसे रक्षा माकिर्नो अघशँस ईशत ।।
उपयामगृहीतोऽसि देवाय त्वा सवित्र उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नम एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ १० ।।

उपयामगृहीतोऽसि बृहस्पतिसुतस्य इन्द इन्द्रियावतः पत्नीवतो ग्रहमध्यासमग्ना३ इ पत्नीवा३न्त्सजूस्त्वष्ट्रा सोमं पिबोपयामगृहीतोऽसि हरिरसि हारियोजनो हर्योस्स्थाता हरिभ्यां त्वा स्तुतस्तोमस्य ते देव सोम शस्तोक्थस्येष्टयजुषो हरिवतो ग्रहमृध्यासँ हयाँस्स्थ हरिवतो धानास्सहसोमा इन्द्रस्य।।
अग्न आयूँषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छनाम् ।। उपयामगृहीतोऽस्यग्नये त्वा तेजस्वत एष ते योनिरग्नये त्वा तेजस्वते ।।
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी ।। उपयामगृहीतोऽसीन्द्राय त्वौजस्वत एष ते योनिरिन्द्राय त्वौजस्वते ।।
अदृश्रन्नस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा ।। उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिस्सूर्याय त्वा भ्राजस्वते ।।
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ।। उपयामाहीतोऽसीन्द्राय त्वा हरिवत एष ते योनिरिन्द्राय त्वा हरिवते ।। ११ ।।

धाता रातिस्सवितेदं जुषन्तां प्रजापतिर्वरुणो मित्रो अग्निः ।
त्वष्टा विष्णुः प्रजया संरराणा यजमानाय द्रविणं दधातु ।।
समिन्द्र नो मनसा नेषि गोभिस्सँ सूरिभिर्हरिवस्सँ स्वस्त्या ।
सं ब्रह्मणा देवकृतं यदस्ति सं देवानाँ सुमत्या यज्ञियानाम् ।।
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सँ शिवेन ।
त्वष्टा सुदत्रो विदधातु रायोऽनु नो मार्ष्टु तन्वो यद्विलिष्टम् ।।
सुगा वो देवास्सदनेदमस्तु य आजग्म सवनेदं जुषाणाः ।
जक्षिवाँसः पपिवाँसश्च विश्वेऽस्मे धत्त वसवो वसूनि ॥
यानावह उशतो देव देवाँस्तान् प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवीँष्यसुं घर्मं दिवमातिष्ठतानु ।।
यदद्य त्वा प्रयति यज्ञे अस्मिनग्ने होतारमवृणीमहीह ।।
ऋधगयाडृधगुताशमिष्ट विद्वान् प्रजानन्नुपयाहि यज्ञम् ।।
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वं योनिं गच्छ स्वाहैष ते यज्ञो यज्ञपते सहसूक्तवाकस्सुवोरस्स्वाहा देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं देवयज्ञँ स्वाहा वाचि स्वाहा वाते धाः ॥ १२ ॥

उरुँ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ।।
शतं ते राजन् भिषजस्सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
आरे बाधस्व निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मात् ॥
अग्नेरनीकमप आविवेशापां नपात् प्रतिरक्षन्नसुर्यम् ।
दमे दमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत् ।।
समुद्रे ते हृदयमप्स्वन्तस्सं त्वा विशन्त्वोषधीरुतापः ।
यज्ञस्य त्वा यज्ञपते सह सूक्तवाके नमोवाके विधेम ।।
स्वाहावभृथ निचुङ्कुण निचेरुरसि निचुङ्कुणोऽव नो देवैर्देवकृतमेनो यक्ष्यव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहि देवीराप एष वो गर्भस्तं वस्सुप्रीतं सुभृतमभार्षं देवेषु नस्सुकृतो ब्रूताभिष्ठितो वरुणस्य पाशोऽवहतो वरुणस्य पाशोऽप्सु धौतस्य ते देव सोम नृभिस्स्तुतस्य यो भक्षो गोसनिर्योऽश्वसनिस्तस्य त उपहूत उपहूतस्य भक्षं कृणोमि प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशाय ।।
उदेत प्रजामायुर्वर्चो दधाना अध स्याम सुरभयो गृहेषु ।।
गायत्री छन्दाँस्यनु सँरभन्तामस्मान् राय उर्त यज्ञस्सचन्ताम् ।।
सुप्रीतश्शिशुर आविवेश । उन्नेतर्वस्योऽभ्युन्नया नः ॥ एधोऽस्येधिषीमहि समिदसि समेधिषीमहि तेजोऽसि तेजो मयि धेहि ।।।
अपो अद्यान्वचारिषं रसेन समगन्महि । पयस्वानग्न आगमं तं मा सँसृज वर्चसा ॥ सं माग्ने वर्चसा सृज प्रजया च धनेन च ।
विद्युर्मे अस्य देवा इन्द्रो विद्याद सहर्षिभिः ॥ १३ ।।

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ।।
अग्ने व्रतपते व्रतमालभे तत्ते प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ।।
अग्निर्होतोप तँ हुवे देवान् यज्ञियानिह यान् यजामहै ।
आ देवा यन्तु सुमनस्यमाना व्यन्तु देवा हविषो मे अस्य ।।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवै जातवेदः ।।
इन्धानात्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते ।।
अङ्गिरसो मास्य यज्ञस्य प्रथमानुवाकैरवन्तु ।। समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः ।। मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश वागस्यैन्द्री सपत्नक्षयणी वाचामिन्द्रियेणाविश देवाः पितरः पितरो देवा योऽस्मि स सन्यजे तद्वः प्रब्रवीमि तस्य मे वित्त स्वं म इष्टमस्तु शुनँ शान्तँ स्वं कृतं वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु वसन्तस्याहं देवयज्ययोर्जस्वान् पयस्वान् भूयासं ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मस्याहं देवयज्ययौजस्वॉस्तेजस्वान भूयासं वर्षाऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु वर्षाणामहं देवयज्यया पुष्टिमान् पशुमान् भूयासँ शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु शरदोऽहं देवयज्ययान्नवान् वर्चस्वान् भूयासँ हेमन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु हेमन्तस्याहं देवयज्यया सहस्वान् वीर्यावान् भूयासम् ॥ १४ ॥

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ।।
श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेस्सहस्तमा सहसा वाजयन्ता ।।
या वाँ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरागतम् ।।
ता योधिष्टमभि गा इन्द्र नूनमपस्स्वरुषसो अग्न ऊढाः ।।
दिशस्स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ।।
ता वामेषे रथानामिन्द्राग्नी हवामहे । पती तुरस्य राधसो विद्वाँसा गिर्वणस्तमा ।।
अश्रवँ हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
अधा सोमस्य प्रयती युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ।।
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ।।
आ वृत्रहणा वृत्रहभिश्शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।।
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ।।
उग्रा विघनिना मृध इन्द्राग्री हवामहे । ता नो मृडात ईदृशे ।।
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ।।
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि ।।
गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ।।
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा वाजं सनोतु नः ॥
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ।
क्षेत्रस्य पतिना वयँ हितेनेव जयामसि । गामश्वं पोषयित्न्वा स नो मृडातीदृशे ।।
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्च्युतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥ १५ ॥

अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यानि नाम ।
दमे दमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमुच्चरण्यत् ।।
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा ।
दमे दमे सुष्टुत्या वावृधानानु वां जिह्वा घृतमाचरण्यत् ॥
अग्निर्मुखं प्रथमो देवतानाँ संगतानामुत्तमो विष्णुरासीत् ।
यजमानाय परिगृह्य देवान् दीक्षायेदं हविरागच्छतं नः ।।
इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ।।
इयं शुष्मेभिर्विसखा इवारुजत् सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिस्सरस्वतीमाविवासेम धीतिभिः ।
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।
घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान् पृत्सु साहन् ।
बृहस्पतिस्समजयद्वसूनि महो व्रजान् गोमतो देव एषः ।
अपः सिषासन् स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ।।
पावका नस्सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ।।
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमँ सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ।।
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ।।
वृषभं चर्षणीनां विश्वरूपमदाभ्यम् । बृहस्पतिं वरेण्यम् ।।
अंदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघाँसति ।
बृहस्पते मा प्रणक्तस्य नो वधो निकर्म मन्युं दुरेवस्य शर्धतः ।।
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ।।
बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ।।
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँसि सुक्रतू ।।
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ।
हिरण्यगर्भः ।।
यः प्राणतो निमिषतश्च राजा पतिर्विश्वस्य जगतो बभूव ।।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।
अग्नीषोमा इमें सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ।।
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
युवँ सिन्धूंरभिशस्तेरवद्यादग्नीषोमा अमुञ्चतं गृभीतान् ॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निरुक्थेन वाहसा ।।
त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।
वैश्वानर त्वमस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ।
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ।।
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ।।
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा औषधीराविवेश ।
वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तम् ॥
अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीरम् ।।
वयं जयेम शतिनँ सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ।।
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीः ।।
शतेन पाशैर्वरुणाभिधेहि मा ते मोच्यनृतवाङ् नृचक्षः ।।
आस्तां जल्म उदरँ स्रँसयित्वा कोश इवाबन्ध्रः परिकृत्यमानः ।।
धीरा त्वस्य महिना जनूँषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ।। १६ ।।

॥ इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां ग्रहो नाम चतुर्थं स्थानकं संपूर्णम् ।।४।।