प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ५ काठकसंहिता (विस्वरः)
स्थानकम् ०६
[[लेखकः :|]]
स्थानकं ७ →
अग्निहोत्र-ब्राह्मणम्।

अथ षष्ठं स्थानकम् ।

अग्निहोत्र-ब्राह्मणम् ।
प्रजापतिर्वा इदमासीत् तस्मादग्निरध्यसृज्यत सोऽस्य मूर्ध्न ऊर्ध्व उदद्रवत् तस्य यल्लोहितमासीत् तदपामृष्ट तद्भूम्यां न्यमार्ट् तत उदुम्बरोऽजायत तस्मात् स लोहितं पच्यते स प्राङ् प्राद्रवत् तँ स्वा वागैट्ट जुहुधीति स इतः पर्यमृष्ट तत् स्वाहेत्यजुहोत् तस्मादेषैवमाहुतिस्स्वा ह्येनं वागैट्ट तस्मान्न ललाटे लोमास्ति न पाण्योस्तस्मादरत्निमात्री स्रुग्भवति चक्षुर्वाव स तत् स्वमजुहोदमुमेवादित्यमग्नौ ज्योतिर्ज्योतिरग्ना इति ज्योतिरेव ज्योतिष्यजुहोद्ब्रह्माजुहोत् सत्यमजुहोदमुमेवं तदादित्यम जुहोदेष ह्येवाग्निहोत्रँ श्वश्श्वो वसीयान् भवति यस्यैवमग्निहोत्रँ हूयते ।। न वै पुराहोरात्रे आस्तां ते एतयाहुत्योभे सहसृज्येतां यत् सायं जुहोति तेन भ्रातृव्याय पराचीं विवासयति यत् प्रातस्तेनात्मने प्रतीचीमग्नेर्वै गुप्त्या अग्निहोत्रँ हूयते यत् सायं जुहोति तेनैनं रात्र्यै रमयति यत् प्रातस्तेनाह्न एषा वा अग्ना आहुतिः प्रथमा हुता यदग्निहोत्रं तस्मादग्नौ सर्वा आहुतयो हूयन्तेऽथैवाग्निहोत्रमुच्यतेऽग्निहोत्रँ ह वै नाम नास्मादन्यस्समानेषु वसीयान् भवति यस्यैवमग्निहोत्रँ हूयते ॥ १ ॥

स नारमत स प्राद्रवत् तस्मिन्नजुहोत् तस्या आहुत्याः पुरुषोऽजायत स नारमत स प्राद्रवत् तस्मिन्नजुहोत् तस्या आहुत्या अश्वोऽजायत तस्मात् पुरुषश्चाश्वश्च नक्तं प्रत्यञ्चौ न सु विज्ञायेते इव स नारमत स प्राद्रवत् तस्मिन्नजुहोत् तस्या आहुत्या गौरजायताविरजायताजाजायत यवोऽजायत व्रीहिरजायतैताभ्यो सप्तभ्य आहुतिभ्यस्सप्तेमे ग्राम्याः पशवोऽसृज्यन्त स नारमत से प्राद्रवत् तस्मिन्नजुहोत् तस्या आहुत्या वसन्तोऽजायत ग्रीष्मोऽजायत वर्षा अजायन्त शरदजायत हेमन्तऽजायत स त्रयोदश्यामाहुत्यामुद्यतायामबिभेत् तं प्रत्यङ्ङुपापद्यत तं पाणितः प्रविशत् तस्मात् पाण्योर्लोम नास्त्यग्निधानँ ह्येतत् तस्माद्धस्ताभ्यामग्निर्मथ्यमानो जायते ।। तस्माद्धन्यमानौ हस्तौ प्रतिगृह्णात्यग्ना एवं तत् त्राणमिच्छतेऽग्निं पशवोऽनूपतिष्ठन्ते पशूनग्निः प्रैनं पशवो विशन्ति प्र पशून् विशति य एवं वेद तामाहुतिमप्सु प्रासिञ्चत् ततश्शिशिरमजायत तस्मात् तत् क्रूरतमं नहि तद्धुतान्नाहुतादजायत सहुतिरपो दग्धुमुपाक्रामत तत आपोऽग्नये वज्रोऽभवँस्तस्मात् प्रोक्षन्नग्निं न प्रापयेद्यत् प्रापयेद्धतेन यजेत तामाहुतिमोषधीषु न्यदधात् तस्मादोषधयोऽनभ्यक्ता रेभन्त औषधिभ्योऽधि पशवः पशुभ्योऽधि प्रजास्तदेतच्छिशिर आज्यं श्यायत्यग्नये तस्माच्छिशिरे कक्ष उपादुत्यः प्रियमेव धामाग्नये प्रादात् सोऽस्मा अन्नाद्यं प्रयच्छत्यन्नादो भवति य एवं वेद ॥ २ ॥

समाने वै योना आस्ताँ सूर्यश्चाग्निश्च ततस्सूर्य ऊर्ध्व उदद्रवत् तस्य रेतः परापतत् तदग्निर्योनिनोपागृह्णादयसा तदक्रूडयत् तत् क्रूड्यमानं गवि न्यदधात् तदिदं पयस्तस्मादत्रप्वयः पात्रं प्रतिधुक् क्रूडयति तत् पयसाग्निहोत्रं जुहोत्यमुमेव तदादित्यं जुहोत्येष ह्येवाग्निहोत्रमनडुहो वै पयस्तण्डुला असा आदित्योऽनङ्वान् यद्यवाग्वाग्निहोत्रं जुहोत्यमुमेव तदादित्यं जुहोत्येष ह्येवाग्निहोत्रं चक्रवृत्तमन्यदचक्रवृत्तमन्यद्यच्चक्रवृत्तं तदसुर्यं यदचक्रवृत्तं तद्देवमात्रं तस्मादचक्रवृत्तामग्निहोत्रतपनीं कुर्वीत ।। न क्षीरेण प्रतिषिश्चेन्नोदकेन यत् क्षीरेण प्रतिषिञ्चेदप्रतिषिक्तँ स्याद्यदुदकेन शमयेद्दोहने सँस्रावमुच्छिष्येत नोदकमिश्रेण प्रतिषिश्चेत् तन्न क्षीरेण प्रतिषिक्तं भवति नोदकेन स्कन्नं वाव तत् परि चेदाकरोति या स्थाल्यग्निहोत्रतपनी तया दुह्यादियं वै मानवा इमामिह नेहातिस्कन्दत्यनयैवोपसीदति तदस्यास्कन्नं भवत्यद्भिः प्रतिषिञ्चत्यापो हि प्रतिषेचनाय तस्थिरे तच्छान्तं मिथुनमापश्च पयश्च यदि दुह्यमानावभिद्यादन्यया स्थाल्या दुह्यात् सैव तत्र प्रायश्चित्तिर्यद्यधिश्रीयमाणं यद्यधिश्रितं स्कन्देदन्यामभिदुद्याधिश्रित्योन्नीय जुहुयात् सैव तत्र प्रायश्चित्तिर्यद्युन्नीयमानं यद्युनीतं यदि पुर उपसन्नमहुते स्कन्देत् पुनरवनीयान्यामभिदुह्याधिश्रित्योन्नीय जुहुयात् सैव तत्र प्रायश्चित्तिर्यत्र स्कन्देत् तदपो निनयेदापो वै यज्ञस्य निष्कृतिरद्भिरेवैनं निष्करोति प्रतिषिक्तमन्यदप्रतिषिक्तमन्यत् प्रतिषिक्तं पशुकामस्याप्रतिषिक्तं ब्रह्मवर्चसकामस्य घर्मो वा एष प्रवृज्यते यदग्निहोत्रं यदप्रतिषिक्तं न जुहोति ब्रह्मवर्चसी भवति यदि पयो न विन्देदाज्येन जुहुयात् तद्ध्यप्रतिषेक्यमपशव्यमीश्वरमस्याशान्तँ शुचा पशून्निर्दहः प्रतिषिक्तं पशुकामस्य तच्छान्तं मिथुनमापश्च मयश्च यदि पयो न विन्देद्यवाग्वा जुहुयात् तद्धि प्रतिषेक्यँ शान्तं मिथुनं पशव्यमापश्च तण्डुलाश्च ।। ३ ।।

अग्निहोत्रे वै जायम्पती व्यभिचरेते यत् प्राचीनमुद्वासयेत् पतिः पूर्वः प्रमीयेत यत् प्राचीनमुद्वासयेज्जाया पूर्वा प्रमीयेत संप्रत्युदीचीनमुद्वासयेत् समेवं जीर्यतः पूर्णमग्र उन्नयेदथ संमितमथ संमितमथ संमिततममुत्तममनुज्येष्ठमेवास्य पुत्रा ऋध्नुवन्ति संमितमग्र उन्नयेदथ भूयोऽथ भूयोऽथ पूर्णमुत्तमं भूयो भूय एवान्नाद्यमभ्युत्क्रामति कनिष्ठस्त्वस्य पुत्राणामर्धुको भवति सर्वान् समावदुन्नयेद्यः कामयेत सर्वे मे पुत्रास्समावदृध्नुयुरिति सर्वेषां वै पिता पुत्राणामृद्धिं कामयते सर्व एव समावदृध्नुवन्ति ॥ नान्योऽन्यमतिक्रामति चतुरुन्नयति चतुष्पद एवास्मै पशून्न ... ... :::: ::: द्विपद एवास्मै पशून् यच्छति पशून् मे यच्छेति पश्चादुपसादयेत् पशवो वै गार्हपत्यः पशवः पयः पशूनामेवैषा यतिर्न पश्चादुपसादयेद्धविर्वा एतद्यदग्निहोत्रं यजमानो हविर्हविर्भूतमेव यजमानमपनुदत उत्तरादुपसादयेदपूतं वा एतद्यदग्निहोत्रमग्निः पवित्रं यत् समयाग्निँ हरति तेनैवैनत् पुनात्यनु वा एष एतद्ध्यायति यत् पश्चाधिश्रित्य पुरो जुहोति यत् समयाग्निँ हरति तेनैवैनं प्रीणात्यनुध्यायिनं करोत्यस्माद्वै गार्हपत्यादसौ पूर्वोऽग्निरसृज्यतायं वाव प्रजापतिरसौ पूर्वोऽग्निस्तदयमित आदाय प्राङनूद्द्रुत्याजुहोत् तस्मादग्निहोत्रं पश्चाधिश्रित्य पुरो जुह्वति पुर एवान्यानि हवीँषि शृतानि कुर्वन्ति पुरो जुह्वति ॥ ४ ॥

इध्मो वा एषोऽग्निहोत्रस्य यत् समिद्यत् समिधमादधातीध्ममेवैतमग्निहोत्रस्य करोति रुद्र ओषधीर्विषेणालिम्पत्ताः पशवो नालिशन्त ताभ्यो देवाः प्रायश्चित्तिमैच्छन् स प्रजापतिरब्रवीद्वार्यं वृणा अहं च एतास्स्वदयिष्यामीति स एताँ समिधमवृणीत तस्मादेकैको हि प्रजापतिस्ता अग्निनोपासृजत्ता
अग्निरस्वदयदेतस्यां वा आहितायामग्निहोत्रिणे वीरुधस्स्वदन्ति स्वदितमस्यान्नं भवति य एवं वेद बहुर्द्वीकरोत्युभे आहुती समिद्धे जुहवानीत्येकैव कार्या सकृद्ध्येव सर्वस्मै यज्ञाय समिध्यत आयुर्मे यच्छ वर्चो मे यच्छ प्रजां मे यच्छेति पुर उपसादयेत् सृष्टिर्वा एतद्यदग्निहोत्रं यन्नोपसादयेत् पराचीः प्रजा इयुर्यदुपसादयति तस्मादिदं प्रजा यतास्तस्मादुपतिष्ठन्तेऽग्नौ ज्योतिर्ज्योतिरग्ना इति सायमग्निहोत्रं जुहुयाद्गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा गर्भं दधाति सूर्यो ज्योतिर्ज्योतिस्सूर्य इति प्रातस्तं गर्भिण्या वाचा मिथुनया प्रजनयति यन्निरुक्तं चानिरुक्तं च तन्मिथुनं यद्यजुषा च मनसा च तन्मिथुनं तदजाम्याहुत्योराग्नेयी सायमाहुतिस्सौरी प्रातरग्निः प्रवापयिता सूर्यः प्रजनयिताम्नस्सूर्ये निम्रुक्ते सायमग्निहोत्रं जुहुयादुपोदयँ सूर्यस्य प्रातरग्निरेव प्रवापयित्वा सूर्यं रात्र्यै गर्भं दधाति तं गर्भिण्या वाचा मिथुनया प्रातः प्रजनयत्येतं वै प्रजायमानं प्रजा अनुप्रजायन्ते प्र प्रजया प्र पशुभिर्जायते यस्यैवमग्निहोत्रं हूयत एषा वा अग्निहोत्रस्य स्थाणुर्या पूर्वाहुतिस्तामतिहाय जुहुयात् तमेव परिवृणक्त्यभिक्रामँ सायँ होतव्यं गर्भमेव दधाति प्रतिक्रामं प्रातः प्रैव जनयति तदाहुरभिक्राममेव होतव्यमभिक्रान्तेन हि यज्ञस्यर्ध्नोति यज्जुहोति तद्देवानां यदुद्दिशति तेन रुद्रँ शमयति यन्निमार्ष्टि तत् पितॄणां यत् प्राश्नाति तन्मनुष्याणां तस्मादग्निहोत्रं वैश्वदेवमुच्यते ।।५॥
   
प्रैयमेधा वै नाम ब्राह्मणा आसँस्ते सर्वमविदुस्तत् सहैवाविदुस्तेऽग्निहोत्र एव न समराधयँस्तेषाँ सकृदेकोऽग्निहोत्रमजुहोद् द्विरेकस्त्रिरेकस्तेषां यस्सकृदजुहोत् तमितरा अपृच्छतां कस्मै त्वं जुहोषीत्येकधैवेदमित्यब्रवीत् प्रजापतिः प्रजापतय एवाहं जुहोमीति तेषां यो द्विरजुहोत् तमितरा अपृच्छतां कस्मै त्वं जुहोषीत्यग्नये चैव सायं प्रजापतये चेत्यब्रवीत् सूर्याय च प्रातः प्रजापतये चेति तेषां यस्त्रिरजुहोत् तमितरा अपृच्छतां कस्मै त्वं जुहोषीत्यग्नये सूर्याय प्रजापतय इत्यब्रवीत् तेभ्य एव सायं जुहोमि तेभ्यः प्रातरिति तेषां यो द्विरजुहोत् स आर्ध्नोत् स भूयिष्ठोऽभवत् । प्रजयातीतरौ श्रियाक्रामत् तस्य प्रजामितरयोः प्रजे सजातत्वमुपेतां तस्माद् द्वे होतव्ये यजुषा च मनसा च यामेव स ऋद्धिमार्ध्नोत् तामृध्नोति यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयाग्निना पूर्वेणोद्द्रुत्याग्निहोत्रेणानूद्रवेदाहुत्यैवैनं च्यावयति यो ब्राह्मणो बहुवित्स्यात् स उद्धरेत् सर्वेणैवैनं ब्रह्मणोद्धरति यत् पुरा धनमदायी स्यात् तद्दद्यादच्युतेनैवैनं च्यावयति यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वापरमुद्धृत्य जुहुयात् सैव तत्र प्रायश्चित्तिर्यदि त्वरेत ।। पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् सैव तत्र प्रायश्चित्तिर्जामि नु तद्योऽस्य पूर्वोऽग्निस्तमपरं करोत्यन्यत्रैवावसायाग्निं मथित्वोद्धृत्य जुहुयात् सैव तत्र प्रायश्चित्तस्ततश्श्वोऽग्नये तपस्वते जनद्वते पावकवत इष्टिं निवेपेद्यदा वा अग्निस्संतप्यतेऽथ जायत ओषधयः पावका ओषधीरेवास्मै पावका भागधेयमपिदधाति न गार्हमनुबुध्यते यदा ह्येवास्मै नापिदधत्यथैषोऽनुगच्छति यौ पन्थाना अभितस्थौ दर्शपूर्णमासौ या मध्ये सृतिस्तदग्निहोत्रमेवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोकोऽनुभाति ।। मनसा वा इमां प्रजापतिर्वेदिं पर्यगृह्णादग्निहोत्रिणे तत्र यत् किंच ददाति तद्बर्हिष्यं यथासन्नेषु नाराशँसेषु ददात्येवमेष ददाति यत्किंच ददाति मध्य एव यज्ञस्य द्यावापृथिवी एतस्य सदोहविर्धाने अहोरात्राणीध्मो दिशः परिधयः प्रुष्वाः प्रोक्षणीरोषधयो न हि यजमानो यूपो न संभवन् वदेत् पशुरेव भूत्वा संभवत्यहरहर्वै पशवस्संभवन्तोऽथ मेध्या न राजन्यस्याग्निहोत्रमस्त्यव्रत्यो हि से हन्ति व्रतं न विच्छिन्द्यात् पौर्णमासीं च रात्रीममावस्यां च जुहुयात् ते हि व्रतं गोपायति यान्यहानि न जुहुयात् तान्यस्य ब्राह्मणायाग्ने गृह उपहरेयुरग्निर्वै ब्राह्मणोऽग्ना एव तज्जुहोति तदस्य स्वदितमेष्टं भवति ॥ ६ ।।

वाचा वै सह मनुष्या अजायन्त ते वाचो देवाश्चासुराश्च ते यन्मनुष्या अवदँस्तदेवाभवन्ते देवाश्चासुराश्च प्रजापतिमब्रुवन्निमे वावेदमभूवन्निति स वाचस्सत्यं निरमिमीत भूर्भुवस्स्वरिति यत्तुरीयमनृतं तन्मनुष्येषु न्यदधादेतद्वै वाचोऽनृतं यन्मनुष्या वदन्ति भूरितीमामसृजताग्निं रथंतरं त्रिवृतं गायत्रीं भुवरित्यन्तरिक्षं वातं वामदेव्यं त्रिष्टुभं पञ्चदश स्वरिति दिवँ सूर्यं बृहदेकविशं जगतीं भूर्भुवस्स्वरग्नौ ज्योतिर्ज्योतिरग्ना इत्याग्निहोत्रं जुहुयादेतद्वै वाचस्सत्यमेतन्मिथुनमेतद्ब्रह्म तेनैव जुहोतीमा एवैतदिष्टका उपधत्त इमा एवैतदिष्टका उपधायोत्तमं नाकं रोहत्युत्तमस्समानानां भवति यस्यैवमग्निहोत्रँ हूयते ।। वाचं यच्छेदग्निहोत्र उन्नीयमाने तपसा वै प्रजापतिः प्रजा असृजत यन्न व्याहरत् तदेवातप्यत सृष्टिर्वा एतद्यदग्निहोत्रँ सृष्टिरेतद्व्रतं ता उद्भवस्स्थेत्युदभावयद्यर्हि बिन्दव इव स्युस्तर्ह्यवेक्षेतोद्भवस्स्थोदहं प्रजया प्र पशुभिर्भूयासमित्युद्भूतिर्वा एतत् प्रभूतिर्यदग्निहोत्रमुत्प्रजया प्र पशुभिर्भवति यस्यैवमग्निहोत्रँ हूयतेऽग्निनावेक्षते प्रजननं वा एतद्यदग्निहोत्रमग्निः प्रजनयिता प्रैव जनयति॥ रेतो वा एतद्यदग्निहोत्रं न सुशृतं कुर्याद् रेतः क्रूडयेन्नो अशृतमन्तरेणैव स्याद्रुद्र मृडानार्भव मृड धूर्ते नमस्तेऽस्त्विति हुत्वोदङ्ङुद्दिशेदेतानि वै रुद्रस्य क्रूराणि नामानि तैरेष प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानस्तान्येवास्य प्रतिनुदति तानि शमयति यर्ह्ययं देवाः प्रजा अभिमन्येत सजूर्जातवेदो दिवा पृथिव्या हविषो वीहि स्वाहेति द्वादश रात्रीग्निहोत्रं जुहुयाद्या वा अग्नेर्जातवेदास्तनूस्तयैष प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानस्तामेवास्य प्रीणाति तस्यैतज्जुहोति। तदजाम्याहुत्योराग्नेय्येषाग्नेयीतरा संवत्सरं वा एतमिन्धतेऽग्निं वैश्वानरं न वा एतस्य संवत्सरेऽप्यस्ति न वैश्वानरे योऽनाहिताग्निर्यानि दारूणि ते मासा ये स्थूला अङ्गारास्ते ऋतवो येऽणीयाँसस्तेऽर्धमासा मुर्मुरा अहोरात्राणि यत् सुवर्ण ज्योतिस्तद्बार्हस्पत्यं यन्न सुवर्णं न लोहितं तन्मैत्रं यल्लोहितं तद्वारुणं यत्सधूमं तद्वैश्वदेवं यत्राङ्गारेष्वग्निर्लेलायेव तदस्यास्यमाविर्नाम तद्ब्रह्म तस्मिन् होतव्यं मुखेन वा अश्नात्यङ्गान्यवत्याविः प्रजासु भवति श्वश्श्वो वसीयान् भवति यस्यैवमग्निहोत्रं हूयते ॥ ७ ॥

ओदनपचनो गार्हपत्य आहवनीयो मध्याधिदेवनमामन्त्रणमेषा वै विराट् पञ्चपदा तामेवाप्नोति तामवरुन्द्धे यस्य ह्येषावरुद्धा स मनुष्याणाँ श्रेष्ठो भवति यदि सायमग्निहोत्रस्य कालोऽतिपद्येत दोषा वस्तोस्स्वाहेति जुहुयात् सैव तत्राहुतिस्तेनास्य तदनतिपन्नं भवति यदि प्रातरग्निहोत्रस्य कालोऽतिपद्येत दिवा वस्तोस्स्वाहेति जुहुयात् सैव तत्राहुतिस्तेनास्य तदनतिपन्नं भवति न स्वाहाकारो वा अग्निहोत्रस्याहुतिं युवते यर्हि वाव प्रवदेत् तर्हि जुहुयात् स ह्यग्निहोत्रस्य वषट्कारस्सजूरग्निर्दिवा पृथिव्येति द्यावापृथिवी अग्निं तानेव प्रीणाति तानवरुन्द्धे सजूर्देवेन सावित्रेति न हि सवितुर्ऋत आहुतिरस्ति सज़ूः पूष्णान्तरिक्षेणेति पशवो वै पूषा पशवोऽन्तरिक्षं पशूनेवावरुन्द्रे सज़ू रात्र्येन्द्रवत्या स्वाहेति रात्रीमेवैतदभिजुहोति न हीन्द्रादृत् आहुतिरस्ति देवा वै पुराग्निहोत्रमहौषुस्तस्मात् पुरा बृहन्महानजनि सजूरह्नेन्द्रवता स्वाहेति बार्हतं वा अहर्बार्हतस्सूर्योऽहश्चैवास्यैतत् सूर्यश्चाभिजिता अभिहुतौ भवत आनुष्टुभी वै रात्री त्रैष्टुभमहो रात्रीं चैवैतदहश्चाभिजुहोत्यग्नेऽदाभ्य जुषस्व स्वाहेत्युत्तरामाहुतिं जुहोति यथाग्नये समवद्यत्येवमेव तदपिप्रेरग्ने स्वां तन्वमयान् द्यावापृथिवी ऊर्जमस्मासु धेहीति तृणमक्त्वानुप्रहरति सँस्थितिरेवैषा स्वगाकृतिरग्निहोत्रस्य वा एषोऽशान्तमनु प्रजा हिनस्ति यत्तृणमक्त्वानु प्रहरति तेनैवैनच्छमयत्यग्ने गृहपते जुषस्व स्वाहेति स्रुवेण गार्हपत्ये जुहोति यथा पत्नीस्संयाजयत्येवमेव तदनु वा एष एतद्ध्यायति यत् पश्चाधिश्रित्य पुरा जुहोति यत् स्रुवेण गार्हपत्ये जुहोति तेनैवैनं प्रीणात्यननुध्यायिनं करोत्यस्याग्निहोत्री प्रजायां जायते श्वश्श्वो वसीयान् भवति यस्यैवमग्निहोत्रँ हूयते ॥ ८ ॥

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ।।
अस्य प्रत्नामनु द्युतँ शुक्रं दुदुह्रे अह्रयः । पयस्सहस्रसामृषिम् ।।
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेताँसि जिन्वति ।।
उभा वामिन्द्राग्नी आहुवध्या उभा राधसस्सह मादयध्यै ।।
उभा दातारा इषां रयीणामुभा वाजस्य सातये हुवे वाम् ।।
अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विशे ।।
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।।
तं जानन्नग्न आरोह ततो नो वर्धया रयिम् ।।
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।।
सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ।।
त्वमग्ने सूर्यवर्चास्सं मामयुषा वर्चसा सृज सं त्वमग्ने सूर्यस्य ज्योतिषागथास्समृषीणाँ स्तुतेन सं प्रियेण धाम्ना समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीय ॥
 इन्धानास्त्वा शतँ हिंमा द्युमन्तस्समिधीमहि ।
वयस्वन्तो वयस्विनं यशस्वन्तो यशस्विनम् ।
सुवीरासो अदाभ्यमग्ने सपत्नदम्भनम् ।।
आयुर्धा अग्नेऽस्यायुर्मे धेहि वयोधा अग्नेऽसि वयो मे धेहि तनूपा अग्नेऽसि तन्वं मे पाहि ॥ यन्मे अग्न ऊनं तन्वस्तन्म आपृणाग्नेस्समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्पा म एधि यमस्य समिदसि मृत्योर्मा पाह्यग्ने यत्ते तपस्तेन तं प्रतितप योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते शोचिस्तेन तं प्रतिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते तेजस्तेन तं प्रतितित्यग्धि योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने यत्ते हरस्तेन तं प्रतिहर योऽस्मान् द्वेष्टि यं च वयं द्विष्मोऽग्ने रुचां पते नमस्ते रुचे मयि रुचं धेहि चित्रावसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीय ।। ९ ।।

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो ।।
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमागहि । महान्महीभिरूतिभिः ।।
त्वं महाँ इन्द्र तुभ्यँ ह क्षा अनु क्षत्रं मँहना मन्यत द्यौः ।
त्वं वृत्रँ शवसा जघन्वान् सृजस्सिधूँरहिना जग्रसानान् ।।
ऋतावानं वैश्वानरम् ।। वैश्वानरस्य सुमतौ स्याम ।।
अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । शिशीहि नस्सूनुमतः ।।
त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्तूतयो वि वाजाः ।।
त्वं देहि सहस्रिणं रयिं नोऽद्रोघेन वचसा सत्यमग्ने ।
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि । यजमानाय सुन्वते ॥
आ तू भर माकिरेतत् परिष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।।
इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्रयन्धि ।।
प्र तत्ते अद्य शिपिविष्ट नामार्यश्शँसामि वयुनानि विद्वान् ।।
तं त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके ।।
वषट् ते विष्ण आस आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिस्सदा नः ॥
त्यामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टतम् । स नो रास्व सुवीर्यम् ।।
अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् ।
अयं वाजं जयतु वाजसाता अयँ शत्रूञ्जयतु जर्हृषाणः ।।
त्वमग्ने व्रतपा असि ॥ यद्वो वयम् ॥ १० ॥

कृणुष्व पाजः ।।
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभिद्यौत् ॥
सेदग्ने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीपति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥
अर्चामि ते सुमतिं घोष्यर्वाक् सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मार्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ।
इह त्वा भूर्याचरेदुप त्मन् दोषावस्तर्दीदिवाँसमनु द्यून् ।
क्रीडन्तस्त्वा सुमनसस्सपेमाभि द्युम्ना तस्थिवाँसो जनानाम् ॥
यस्त्वा स्वश्वस्सहिरण्यो अग्न उपयाति वसुमता रथेन ।।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग् जुजोषत् ।।
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ।।
अस्वप्नजस्तरणयस्सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।।
ते पायवस्सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ।।
त्वया वयँ सधन्य२स्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शँसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ।।
अया ते अग्ने समिधा विधेम प्रति स्तोमँ शस्यमानं गृभाय ।
दहाशंसो रक्षसः पाह्यस्मान् द्रुहो निदा मित्रमहो अवद्यात् ॥ ११ ॥ [४४१]


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामग्निहोत्र--ब्राह्मणं नाम षष्ठं स्थानकं संपूर्णम् ॥६॥