प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ६ काठकसंहिता (विस्वरः)
स्थानकम् ०७
[[लेखकः :|]]
स्थानकं ८ →
आलोभी।

अथ सप्तमं स्थानकम् ।

आलोभी ।
अम्भस्थाम्भो वो भक्षीय महस्स्थ महो वो भक्षीयोर्जस्स्थोर्जं वो भक्षीय रायस्पोषस्स्थ रायस्पोषं वो भक्षीय रेवती रमध्वमस्मिन्योना अस्मिन् गोष्ठेऽयं वो बन्धुरितो मापगात मा मा हासिष्ट बह्वीर्मे भवत सँहितासि विश्वरूपा मोर्जा विशा गौपत्येना प्रजया रायस्पोषेण मयि वो रायश्श्रयन्ताँ सहस्रपोषं वः पुषेयम् ।।
संपश्यामि प्रजा अहमिडाप्रजसो मानवीः । बह्वीभवन्तु नो गृहे ॥
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ।।
राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानँ स्वे दमे ॥
स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नस्स्वस्तये ।।
अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।
तं त्वा शोचिष्ठ दीदिवस्सुम्नाय नूनमीमहे सखिभ्यः ।।
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ।।
स नो बोधि श्रुधी हवमुरुष्या णो अघायतस्समस्मात् ॥
ऊर्जा वः पश्याम्यूर्जा मा पश्यत रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्यतेडास्स्थ मधुकृतस्स्योना माविशतेरंमदो मयि वो रायश्श्रयन्ताँ सहस्रपोषं वः पुषेयम् ॥ १ ॥

महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ।।
नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशँसः ।
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय । ज्योतिर्यच्छन्त्यजस्रम् ॥
सोमानँ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ।।
यो रेवन्यो अमीवहा वसुवित् पुष्टिवर्धनः । स नस्सिषक्तु यस्तुरः ॥
मा नश्शँसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते ।।
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते ।।।
परि ते दूडभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः ॥
अच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि निम्रदोऽसीदमहं तं निमृणामि योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विभूरस्यभ्यहं तं भूयासं योऽस्मान् द्वेष्टि यं च वयं द्विष्मः प्रभूरसि प्राहं तमतिभूयासं योऽस्मान् द्वेष्टि यं च वयं द्विष्मः पूषा मा प्रपथे पातु पूषा मा पशुपाः पातु पूषा माधिपतिः पातु प्राची दिगग्निर्देवताग्निं स ऋच्छतु यो मैतस्या दिशोऽभिदासति दक्षिणा दिगिन्द्रो देवतेद्रँ स ऋच्छतु यो मैतस्या दिशोऽभिदासति प्रतीची दिक्सोमो देवता सोमँ स ऋच्छतु यो मैतस्या दिशोऽभिदासत्युदीची दिङ् मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्या दिशोऽभिदासत्यूर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्या दिशोऽभिदासतीयं दिगदितिर्देवतादितिं स ऋच्छतु या मैतस्या दिशोऽभिदासति ज्योतिषे तन्तव आशिषमाशास्तेऽसा अनु मा तनु ॥ २ ॥
 
धनं मे शँस्य पाहि तन्मे गोपाय ।।
मम नाम प्रथमं जातवेदा माता पिता च दधतुर्न्वग्रे ।
तत्त्वं गोपाया पुनर्ददै ते वयं बिभराम तव नाम ।।
प्रजां मे नर्य पाहि तां मे गोपाय ।।
इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षत्वास्माकं पुनरागमात् ।।
अन्नं मे पुरीष्य पाहि तन्मे गोपाय धनं मे शँस्याजुगुपस्तन्मे पुनर्देहि ॥ अग्ने सहस्राक्ष शतमूर्धञ्छततेजश्शतं ते प्राणास्सहस्रं व्यानाः ॥ त्वँ साहस्रस्य राय ईशिषे तस्य नो रास्व तस्य ते भक्तिवानो भूयास्म ॥
मम च नाम तव जातवेदो वाससी इव विवसानौ चरावः ।।
ते बिभृवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेदः ।।
प्रजां मे नर्याजुगुपस्तां मे पुनर्देह्यग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासँ सुगृहपतिर्मया त्वं गृहपतिना भूया अस्थूरि णौ गार्हपत्यं दीदायच्छतँ हिमाद्वायू अन्नं मे पुरीष्याजुगुपस्तन्मे पुनर्देहि ।। ३ ।।

   अग्निहोत्रे स्तोमो योक्तव्यो यस्य वा अग्निहोत्रे स्तोमो युज्यते वसीयान् भवत्युपप्रयन्तो अध्वरमिति प्रजा वा इमा उप तास्सत्सत्स्तोमस्ता एवोपयुनक्त्यस्य प्रत्नामनु द्युतमिति देवा वै प्रत्नं ते सत्सत्स्तोमस्तानेव प्रायुक्त स्वर्गायोपोपेन्नु मघवन् भूय इन्नु त इतीयं वा उप स्वर्गमेवेत्वास्यां प्रतितिष्ठति या वै प्रजा आभविष्यन्तीस्ता उप ता एवोपयुनक्ति परि ते दूडभो रथ इति स्तोममेवैतया युक्तं परिगृह्णात्यग्निर्मूर्धा दिवः ककुदित्येषा मिथुना रेतस्वती पशव्या यासौ धुरां गायत्री प्रथमा सैषा गायत्र्योपास्थितोभा वामिन्द्राग्नी आहुवध्या इति सूर्यो वा इन्द्रस्सोऽग्निं नक्तं प्राविशत्युभा एवैनौ सहेट्टे यासौ धुरां त्रिष्टुप्प्रथमा सैषा त्रिष्टुभोपास्थितायामिह प्रथमो धायि धातृभिरित्यग्निर्ह्येवास्मिंल्लोक इह प्रथमोऽधीयत यासौ धुरां जगती प्रथमा सैषा जगत्योपास्थितायं ते योनिर्ऋत्विय इतीयँ ह्यग्नेर्योनिरग्निस्सूर्यस्य यासौ धुरामनुष्टुप्प्रथमा सैषानुष्टुभोपास्थित ॥ दधिक्राव्णो अकारिषमित्येषा वा अग्नेः पशव्या तनूर्या दधिक्रावती तामेवास्य गृह्णात्युपस्थायुका एनं पशवो भवन्ति पशुर्वा अग्निर्यथा वै गौर्जीर्यति यथाश्वो यथा पुरुष एवमेष आहितो जीर्यत्यग्न्याधेयस्यर्ग्भिरुपस्थेयस्तन्वो वा अस्यैतास्ताभिरेवैनं पुनर्णवं करोति यच्छन्दोभिरुपतिष्ठते तैरेवैनं पुनर्णवं करोति यथाग्र आहित एवमस्य भवत्युपतिष्ठते योग एवस्यैष दम एवास्यैष याच्ञ एवास्यैष यथा श्रेयस आहृत्य नमस्यत्येवमेव तत् ।। ४ ।।

अग्नीषोमीयया पूर्वपक्ष उपतिष्ठेताग्नीषोमयोर्वा एतद्भागधेयं यत् पौर्णमासं ताभ्यामेवैनं परिददाति ता एनमनपक्रामन्तौ गोपायत ऐन्द्राग्न्यापरपक्ष इन्द्राग्न्योर्वा एताद्भागधेयं यदमावस्या ताभ्यामेवैनं परिददाति ता एनमनपक्रामन्तौ गोपायतोऽग्नीषोमा एवैनं पूर्वपक्षाय परिदत्त इन्द्राग्नी अपरपक्षाय संप्रदायँ ह वा एनं देवा अनपक्रामन्तो गोपायन्ति य एवं विद्वानग्निमुपतिष्ठते कस्मै कमग्निरुपस्थीयत इत्याहुरशित्रं वा एतदग्नेर्यदग्निमुपतिष्ठतेऽग्नय एवैतदशित्रं क्रियते सायमुपतिष्ठते न प्रातस्तस्मात् सायमतिथये प्रत्येनसो नोत तथा प्रातर्यज्ञस्य यज्ञस्य वा आशीरस्ति यदग्निमुपतिष्ठतेऽग्निहोत्रस्यैवैतामाशिषमाशास्ते प्रजापतिः प्रजा असृजत सोऽग्निमेवाग्रेऽसृजत तस्मा एतद्भागधेयमकल्पयद्यदग्न्युपस्थानं यदग्निमुपतिष्ठते स्वेनैवैनं भागधेयेन समर्धयत्यग्निर्वै प्रयुक्तिमभ्यकामयत यथाश्वो रथकाम्यति यदग्निमुपतिष्ठते प्रैवैनं युङ्क्ते काममस्यर्ध्नोति मनुष्यस्येन्नु यः काममृध्नोति स वसीयान् भवत्यृध्नोति वसीयान् भवति य एवं विद्वानग्निमुपतिष्ठत उपेति संभवत्येवैतयाग्निर्मूर्धेति रेत एवैतया प्रसिञ्चत्युभा वामिन्द्राग्नी इति प्राणापानौ वा इन्द्राग्नी प्राणापाना एवैतया दधात्ययमिह प्रथमो धायीति गर्भमेवैतया दधात्यस्य प्रत्नामनु द्युतमित्यूध एवैतया करोत्ययं ते योनिर्ऋत्विय इति जनयति चैवैतया वर्धयति च क्लृप्ता ह वा अस्य प्रजा जायते य एवं विद्वानग्निमुपतिष्ठते ।।५।।

अहर्वै देवानामासीद्रात्र्यसुराणां ते देवास्तमसोऽन्धसो मृत्यो रात्र्या अभ्याप्लवमानादबिभयुस्ते छन्दोभिरग्निमन्वारभन्त गायत्र्या वसवस्त्रिष्टुभा रुद्रा जगत्यादित्या अम्भस्स्थेति पशव इन्धाना इति मनुष्यास्ते देवास्तमसोऽन्धसो मृत्यो रात्र्याः पारमतरन्यच्छन्दोभिरग्निमुपतिष्ठते तमस एवैषान्धसो मृत्यो रात्र्याः पारतीर्तिस्त्वमग्ने सूर्यवर्चा इत्यग्नय एवैतामाशिषमाशास्ते सं मामायुषा वर्चसा सृजेत्यात्मन एवैतामाशिषमाशास्ते सं त्वमग्ने सूर्यस्य ज्योतिषागथा इत्यग्नय एवैतामाशिषमाशास्ते ॥ समृषीणाँ स्तुतेनेति च्छन्दाँसि वा ऋषीणाँ स्तुतं छन्दोभिरेवैनं समर्धयति सं प्रियेण धाम्नेति पशवो वा अग्नेः प्रियं धाम पशुभिरेवैनं समर्धयति समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीयेत्यात्मन एवैतामाशिषमाशास्त इन्धानास्त्वा शतं हिमा इत्येतद्ध वै दाशर्म आरुणिमुवाचाग्निमादधिवाँसमुद्गातः केनाग्निरुपस्थेय इति तस्मै हैतदग्न्युपस्थानमुवाच स होवाचानयोपस्थेय इन्धानास्त्वा शतँ हिमा इति यो वा एतयोपतिष्ठते पापीयानस्माद् भ्रातृव्यो भवति पापीयान् सपत्नस्सर्वमायुरेत्या जीवितोरन्नमत्त्यायुर्धा अग्नेऽस्यायुर्मे धेहीत्यात्मन एवैतामाशिषमाशास्ते वयोधा अग्नेऽसि वयो मे धेहीत्यात्मन एवैतामाशिषमाशास्ते तनूपा अग्नेऽसि तन्वं मे पाहीत्यात्मन एवैतामाशिषमाशास्ते यन्मे अग्न ऊनं तन्वस्तन्म आपृणेति यदेवास्योनमात्मनस्तदापूरयतेऽग्नेस्समिदस्यभिशस्त्या मा पाहि सोमस्य यमस्येति सर्वस्मादेवैनमेताः पान्त्यग्ने यत् ते तपस्तेन तं प्रतितप योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति तेनैवैनं प्रतितपति प्रतिशोचति प्रतितित्यक्ति प्रत्यर्चति प्रतिहरत्येतद्ध वा आरुणिरुवाचैतेनाहँ सर्वान् सपत्नान् सर्वान् भ्रातृव्यानभ्यभवमिति श्रेयाञ्छ्रेयानात्मना भवति पापीयान् पापीयान् य एनं द्वेष्टि योऽस्मा अरातीयति य एवं विद्वानग्निमुपतिष्ठतेऽग्ने रुचां पते नमस्ते रुचे मयि रुचं धेहीति सर्वा एव शुचश्शमयित्वा रुचमात्मन् धत्ते चित्रावसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीयेति रात्री वै चित्रावसुरहरर्वाग्वसुरहोरात्रयोरेवैषा परीतिर्न नक्तं न दिवार्तिमार्च्छति य एवं वेद भङ्गे वा एते यज्ञस्याग्नी रात्र्यसा आदित्योऽहरेते एव भङ्गे ईट्ट ईश्वरो भूतं च भविष्यच्चाज्ञातोर्य एवं वेद ॥ ६ ॥

अम्भस्स्थेत्यम्भो ह्येता महस्स्थेति महो ह्येता ऊर्जस्स्थेत्यूर्जो ह्येता रायस्पोषस्स्थेति रायस्पोषो ह्येता रेवती रमध्वमिति पशवो वै रेवतीः पशव एतद्यदन्तराग्नी स्व एवैना गोष्ठे रमयामकरस्मिन् योना इत्येष ह्यासां योनिरस्मिन् गोष्ठ इत्येष ह्यासां गोष्ठोऽयं वो बन्धुरितो मापगातेत्युपोपेवैनं पशवो यन्ति नापक्रामन्ति य एवं विद्वानग्निमुपातिष्ठत एति वा एषोऽस्माल्लोकाद्योऽग्निमुपतिष्ठतेऽम्भस्स्थेति पशवो वा अम्भः पशवोऽन्तरिक्षं पशुष्वेव प्रतितिष्ठति बिभ्यति वै देवेभ्यः पशवो देवानामेष एको योऽग्निमुपतिष्ठते । तेऽस्मादीश्वराः प्रत्रसस्सँहितासि विश्वरूपेत्येतानि वै गोर्नामानि सँहिता विश्वरूपा गौस्तान्येवास्य गृह्णात्यप्रत्रासाय सँहितासि विश्वरूपेति रूपेण रूपेण ह्येषा सँहिता मोर्जा विशा गौपत्येना प्रजया रायस्पोषेणेत्येतैर्ह्येषा विशन्त्याविशति मयि वो रायश्श्रयन्ताँ सहस्रपोषं वः पुषेयमिति साहस्रीमेव पुष्टिं न्यङ्क्ते वत्सं पराहन्ति वत्सनिकान्ताः पशवः पशूनामनुक्शात्या अभिका एनं पशवो भवन्ति सप्त वै बन्धुमतीरिष्टका अग्नौ चित्य उपधीयन्ते तास्ता अमुष्मै लोकाय सप्त ग्राम्यास्ता अत्रोपधेया गौश्चाश्वश्चाविश्चाजा चाश्वतरश्च गर्दभश्च पुरुषो यद्गां पराहन्ति ता एवैतद्रपधत्ते ऽथो गवैवैनं चिनुते ।। ७ । ।

सं पश्यामि प्रजा अहमिति सर्वा एव प्रजा अवरुन्द्ध इडप्रजसो मानवीरित्यैडीर्हि प्रजा मानवीर्ये च वै ग्राम्याः पशवो ये चारण्यास्त उभये नक्तँ संसृज्यन्ते तस्मादपि येऽल्पाः पशवस्ते नक्तं बहव इव दृश्यन्ते त ईश्वरा अमुं लोकमनुपदो यदेतद्यजुर्वदत्यस्मिन्नेवैनांल्लोके यच्छत्यग्निर्वा एतस्यास्मिंल्लोकेऽग्रे जायते य आहिताग्निस्सोऽस्य पशूनुपजायमानान् हिनस्त्युप त्वाग्ने दिवे दिव इत्युपैवैनं जायमानेभ्यश्शमयति दोषावस्तर्धिया वयं नमो भरन्त एमसीति नमस्वत्योपास्थित राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानँ स्वे दम इति वृधद्वत्या स नः पितेव सूनवेऽग्ने सूपायनो भव सचस्वा नस्स्वस्तय इति स्वस्तिमत्याग्ने त्वं नो अन्तम इत्येतद्ध वै दिवोदासो भैमसेनिरारुणिमुवाचाग्निमादधिवाँसमुद्गातः केन गार्हपत्य उपस्थेय इति तस्मै हैता उवाच स होवाचाभिरुपस्थेयोऽग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्य इत्येषा वा अग्नेः प्रिया तनूर्या वरूथ्या प्रिययैवैनं तन्वोपास्थित द्विपदाभिर्द्विपात् पुरुषो गृहा गार्हपत्यो गृहेष्वेव प्रतितिष्ठति तिस्रः पूर्वाश्चतस्र एतास्तास्सप्त सप्त ग्राम्याः पशवस्तानेवावरुन्द्ध ऊर्जा वः पश्याम्यूर्जा मा पश्यतेत्यूर्जमेव गृहेषु पशुष्वात्मन् धत्तेऽथो या अमूरिष्टका उपधत्ते ता एवैतत् कल्पयतीडास्स्थ मधुकृत इतीडा ह्येता मधुकृतस्स्योना माविशतेरंमद इति स्योना ह्येता इरया सहाविशन्ति मयि वो रायश्श्रयन्ताँ सहस्रपोषं वः पुषेयमिति साहस्रीमेव पुष्टिं न्यङ्क्ते वत्सं पराहन्ति वत्सनिकान्ताः पशवः पशूनामनुक्शात्या अभिका एनं पशवो भवन्त्यथो इष्टकामेवैतां गार्हपत्य उपाधत्ते ।। ८॥

महि त्रीणामवोऽस्त्वित्येष प्राजापत्यस्त्रिचः प्राजापत्या इमाः प्रजास्सर्वा एव प्रजा अवरुन्द्धे प्रजापतिर्वा एताः प्रजापतिमेवैतदुपेत्य सर्वमाप्त्वा सर्वमवरुध्य सोमानँ स्वरणं कृणुहि ब्रह्मणस्पत इति ब्राह्मणस्पत्या ब्रह्मवर्चसमेवैतयात्मन् धत्ते वैश्वदेवीर्वा एता वैश्वदेवीरिमाः प्रजा ब्रह्मणो योनेः प्रजाः प्रजायन्ते यदेषा ब्राह्मणस्पत्या ब्रह्मण एवैना योनेः प्रजनयत्येताभिर्वा अदितिः पुत्रानन्वैक्षत यत् सोममाहरन्नमुष्माल्लोकात् स्वस्ति पुनरागच्छन् सह सोमेन यमेव कामं कामयते तँ स्पृणोति यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत स्वस्त्येव पुनरागच्छति ॥ कदा चन स्तरीरसि परि ते दूडभो रथ इति स्तोमस्यैवैतद्योगः कदा चन स्तरीरसीत्येतद्ध वा आरुणिरुवाच न तावद्रात्रीँ स्तर्यमुवस यावदेतामृचमशृणवमिति न रात्रीँ स्तर्यं वसति य एवं वेद गायत्रो वा अग्निर्गायत्रच्छन्दास्तं छन्दसा व्यर्धयति यद्विच्छन्दोभिरुपतिष्ठते यदेषा गायत्र्युत्तमा स्वेनैवैनं छन्दसा समर्धयति सर्वं वा एष आप्त्वा सर्वमवरुध्य स्वर्गं लोकमेति योऽग्निमुपतिष्ठते व्यस्य प्रजा छिद्यते यत् पुत्रं ह्वयति प्रजामेवानुसंतनोति मानुषमिव वा एतदुपावर्तत यत् पुत्रं ह्वयत्यच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदीति देवलोकं चैव मनुष्यलोकं च संतनोत्युभौ लोका आजयति ॥ निम्रदोऽसीत्यव तं गृह्णाति योऽस्य पश्चाद् भ्रातृव्योऽभिभूरसीत्यभि तं भवति य एनेन सदृङ् प्रभूरसि प्राहं तमतिभूयासमित्यति तं क्रामति य एवैनं पूर्वोऽतिक्रान्तो भ्रातृव्यः पूषा मा प्रपथे पातु पूषा मा पशुपाः पातु पूषा माधिपतिः पात्वितीयं वै पूषा प्रपथेऽन्तरिक्षं पशुपा द्यौरधिपतिरिम एवैनं लोकाः पान्त्यग्निं समिन्धेऽनुसंतत्यै प्राची दिगग्निर्देवतेत्येता एव स देवता ऋत्वा पराभवति य एनमेताभ्यो दिग्भ्योऽभिदासति ज्योतिषे तन्तव आशिषमाशास इत्याशिषमेवाशास्ते योऽस्य प्रियः पुत्रस्स्यात् तस्य नाम गृह्णीयात् तस्मिन्नेव ता आशिषो दधाति ॥ ९ ।।

अहर्वावासीन्न रात्री सा यमी भ्रातरं मृतं नामृष्यत तां यदपृच्छन्यमि कर्हि ते भ्रातामृतेत्यद्येत्येवाब्रवीत् ते देवा अब्रुवन्नन्तर्दधामेदं रात्रीं करवामेति ते रात्रीमकुर्वँस्ते रात्र्यां भूतायां पशून्नापश्यन् सावेन्न वै पश्यन्तीति सा न व्यौच्छदरेत्क्लस्यत् पशषु तान् देवा इच्छन्तः पल्यायन्त ताँश्छन्दोभिरन्वपश्यँस्तस्माच्छन्दोभिर्नक्तमग्निरुपस्थेयः पशूनामनुक्शात्यै नास्मात् पशवस्तिरोभवन्ति य एवं वेद सावेदनु वा अख्यन्निति सा व्यौच्छत् ते देवा अब्रुवन्नमा वै नो वस्वभूदिति सामावस्यामा ह वा अस्य वसु भवति विन्दतेऽन्यस्य वसु नास्यान्यो वसु विन्दते य एवं विद्वानग्निमुपतिष्ठते।। देवा वा अह्नो रक्षाँसि निरघ्नँस्तानि रात्रीं प्राविशँस्तां देवा न व्येतुमधृष्णुवँस्त इन्द्रमब्रुवँस्त्वं वै न ओजिष्ठोऽसि त्वमिमां वीहीति स्तुत मेत्यब्रवीन्नास्तुतो वीर्यं कर्तुमर्हामीति तेऽब्रुवन्नेष तेऽग्निर्नेदिष्ठँ स त्वा स्तौत्विति तमग्निरस्तौत् स स्तुतस्सर्वा मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षाँस्यतरदिन्द्रो यजमानो यदग्निमुपतिष्ठते सर्वा एव मृधस्सर्वा नाष्ट्रास्सर्वाणि रक्षँसि तरति नास्य नक्तं रक्षाँसीशते य एवं वेद त्वष्टा वै भूत्वा प्रजापतिः प्रजा असृजत त्वष्टा यजमानस्स यद्वाचावदत् तदभवद्यद्वै वाचा वदति तद्भवति यद्यदेव वाचा वदति तत् तद्भवति तत् तत् सृजते ॥१०॥

धनं मे शँस्य पाहि तन्मे गोपायेति प्रवत्स्यन्नाहवनीयमुपतिष्ठेत धनस्य वा एष गोप्ता तदेवास्मै परिददाति मम नाम प्रथमं जातवेद इत्याग्निनैवैतत्तन्वं विपरिधत्ते यथान्ते सतोऽग्निहोत्रँ हुतं यथेष्टमेवमस्यापि प्रवसतो भवति प्रजा मे नर्य पाहि तां मे गोपायेति प्रजाया वा एष गोप्ता तामेवास्मै परिददातीमान्मे मित्रावरुणौ गृहान् गोपायतं युवमिति मित्रेण च वा इमाः प्रजा गुप्ताः क्रूरेण च मित्रं मित्रः क्रूरं वरुण इयं पूषैताभ्य एव देवताभ्यो गृहान् परिददात्यन्नं मे पुरीष्य पाहि तन्मे गोपायेत्यन्नस्य वा एष गोप्ता तदेवास्मै परिददाति धनं मे शँस्याजुगुपस्तन्मे पुनर्देहीति धनमेव गुप्तं पुनरात्मन् धत्तेऽग्ने सहस्राक्ष शातमूर्धञ्छततेज इत्येतैर्वा एतौ व्यृध्येते विप्रवसन्तौ प्राणैरपानैस्तेजोभिर्वीयैर्यदेतैरुपतिष्ठते तैरेव समृध्येते मम च नाम तव च जातवेद इत्यग्निनैवैतत् तन्वं यथायथं कुरुते प्रजां मे नर्याजुगुपस्तां मे पुनर्देहीति प्रजामेव गुप्तां पुनरात्मन् धत्तेऽग्ने गृहपत इति नार्तिमार्च्छतोऽग्निश्च यजमानश्च न भ्रेषं नीतोऽन्नं मे पुरीष्याजुगुपस्तन्मे पुनर्देहीत्यन्नमेव गुप्तं पुनरात्मन् धत्ते ॥ ११ ॥

प्र वेधसे कवये वेद्याय वचो वन्दारु वृषभाय वृष्णे।
यतो भयमभयं तन्नो अस्त्वव देवानां यजेहीड्यानि ॥
समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन ।।
उदग्ने तव तद् घृतादर्ची रोचत आहुतम् । निँसानं जुह्वो मुखे । ।
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः ॥
प्रजा अग्ने संवासयाशाश्च पशुभिस्सह । राष्ट्राण्यस्मा आधेहि यान्यासन् सवितुस्सवे ॥
सँ वस्सृजामि हृदयँ सँसृष्टं मनो अस्तु वः । सँसृष्टास्तन्वस्सन्तु वस्सँसृष्टः प्राणो अस्तु वः ॥
सं या वः प्रियास्तन्वस्संप्रिया हृदयानि वः ।।
आत्मा वो अस्तु संप्रियस्संप्रियास्तन्वो मम ॥
यो अश्वत्थश्शमीगर्भ आरुरोह त्वय्यपि ।
तं ते गृह्णामि यज्ञियैः केतुभिस्सह ।।
मयि गृह्णाम्यहमग्रे अग्निं रायस्पोषेण सह वर्चसेह देवाः ।
मयि प्रजां मयि पुष्टिं दधामि मदेम शतहिमास्सुवीराः ॥
यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याँ आविवेश ।।
तमात्मनि परिगृह्णीमहे वयं मैषो अस्मानवहाय परागान्मा वयमेतमवहाय परागाम ।।
मही विश्पत्नी सदनी ऋतस्यार्वाची एतं धरुणे रयीणाम् ।
अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ।।
उत् समुद्रान्मधुमाँ ऊर्मिरागात् साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं चेषमूर्जं मधुमत् संभरेम ।।
इयत्यग्र आसीरदो देवि प्रथमाना पृथग्यत् ।।
देवैर्नुत्ता व्यसर्पो महित्वा अदृँहथाश्शर्कराभिस्त्रिविष्टपि ।
अजयो लोकान् प्रदिशश्चतस्रः ।।
उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् ।।
आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ।।
यदीदं दिवों यदि वा पृथिव्यास्संबभूव सुकृतो रराणयोः ।।
तयोः पृष्ठे सीदतु जातवेदाः प्रजामस्मभ्यं जनयन् रयिं च ॥
चन्द्रमग्निं चन्द्ररथँ हरिव्रतं वैश्वानरमप्सुषदँ स्वर्विदम् ।।
विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
यत् पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नये ददत् तस्मिन्नाधीयतामयम् ॥
यदन्तरिक्षस्य यद्दिवो अनामृतँ संबभूव त्वे सचा।।
तदग्निरग्नये ददत् तस्मिन्नाधीयतामयम् ।। १२ ।।
इत एव प्रथमं जज्ञे अग्निरेभ्यो योनिभ्यो अधि जातवेदाः ।।
स गायत्र्यां त्रिष्टुभा जगत्यानुष्टुभा देवेभ्यो हव्यं वहतु प्रजानन् ।
सहाग्ने अग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह ब्रह्मवर्चसेनाजन्यग्निर्होता पूर्वः पूर्वेभ्यः पवमानः पावकश्शुचिरीड्योऽसुरसि प्रथमजा असुर्नामासुरुच्यसेऽसुरहमसुस्त्वं किंमद्यासुरसुं करदसोरसुं प्रतीतन संजानीध्वं भूर्भुवरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमनद्यायान्नपत्यायादधे ।
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्स्वः ॥
अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ।
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या ।।
या वाजिन्नग्नेः प्रिया तनूः पशुषु पवमाना तामावह तया मा जिन्व या वाजिन्नग्नेः प्रिया तनूरप्सु पावका तामावह तया मा जिन्व या वाजिन्नग्नेः प्रिया तनूस्सूर्ये शुक्रा शुचिमती तामावह तया मा जिन्वौजसे बलाय त्वौद्यच्छे वृष्णे शुष्मायाशस्तितूरसि वृत्रतूरस्मान् पथो ज्यैष्ठ्यान्मा योषम् ॥
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्ने भवेह ।
विश्वा आशा दीद्यद्विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥
भुवरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौरमह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमन्नाद्यायान्नपत्यायादधे ॥
अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषो दिवम् ॥
अग्ने नय मयोभो सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्टयो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ।।
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या नाकोऽसि ब्रध्नः प्रतिष्ठा संक्रमणं भूर्भुवस्स्वरङ्गिरसां त्वा देवानां व्रतेनादध आदित्यानां त्वा देवानां व्रतेनादधे द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदित उपस्थेऽन्नादमन्नाद्यायानपत्यायादधे ।।
त्रिंशद्धाम विराजति वाक्पतङ्गा अशिश्रयुः । प्रति वस्तोरह द्युभिः ॥
अग्ने संराडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्या मूर्धन् सीद यज्ञिये लोके यो नो अग्ने निष्ट्यो योऽनिष्ट्योऽभिदासतीदमहं तं त्वयाभिनिदधामि ॥
यास्ते शिवास्तन्वो जातवेदो या अन्तरिक्षे दिवि या पृथिव्याम् ।।
ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ।
सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन वैश्वानर्या समिधा दीदिही न ऊर्जस्वत्या वर्चस्वत्या भास्वत्या रश्मिवत्या ज्योतिष्मत्या ।।
यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वाविवेश ।
यत्र यत्र बिभ्रतो जातवेदा अग्ने ततो द्रविणोदा न एहि ।।
मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान् देवयते यज ॥ १३ ॥

सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि सप्त होत्रा अनुविद्वान् सप्त योनीँरापृणस्वा घृतेन या ते अग्ने पवमाना तनूः पृथिवीमन्वाविवेश याग्नौ या रथन्तरे या गायत्रे छन्दसि या त्रिवृति स्तोमे यान्ने तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने पावका तनूरन्तरिक्षमन्वाविवेश या वाते या वामदेव्ये या त्रैष्टुभे छन्दसि या पञ्चदशे स्तोमे या पशुषु तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने शुचिस्तनूर्दिवमन्वाविवेश या सूर्ये या बृहति या जागते छन्दसि या सप्तदशे स्तोमे याप्सु तां त एतदवरुन्धे तस्यै स्वाहा ॥ वातः प्राणस्तदयमात्मा पुरीषमसि संप्रियः पशुभिर्यच्छा तोकाय तनयाय शं योः प्रजां मे यच्छ घर्मश्शिरस्तदयमग्निः पुरीषमसि संप्रियः पशुभिस्स्वदितं नः पितुं पच पशून् मे यच्छार्कश्चक्षुस्तदसौ सूर्यः पुरीषमसि संप्रियः पशुभिर्यत् ते शुक्र शुक्रं धाम शुक्रा तनूश्शुक्रं ज्योतिरजस्रं यत् तेऽनाधृष्टं नामानाधृष्यं तेन त्वादधे वर्चो मे यच्छ येऽग्नयो दिवो येऽन्तरिक्षाद्ये पृथिव्यास्समाजग्मुरिषमूर्जं वसानास्तेऽस्मा अग्नये द्रविणानि दत्त्वा तृप्ताः प्रीताः पुनरस्तं परेत ।।
कल्पेतां द्यावापृथिवी कल्पन्तामपि ओषधयः ।।
कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसस्सचेतस औषधीष्वप्सु प्रविष्टाः ।
ते सम्राजमभिसंयन्तु सर्व ऊर्जं नो धत्त द्विपदे चतुष्पदे ।।
अयमग्निश्श्रेष्ठतमोऽयमस्तु यशस्तमः ।
अयँ सहस्रसातमस्सुकृतं योनिमासदत् ततो वरान् वृणीमहे ॥
निषसाद धृतवतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ।।
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाँसि चक्रिरे ।। १४ ।।

अदितिर्वै प्रजाकामौदनमपचत् तस्योच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त य एष ओदनः पच्यत आरम्भणमेवैतत् क्रियत आक्रमणमेव प्रादेशमात्रीस्समिधो भवन्त्येतावान् ह्यात्मा प्रजापतिना संमितोऽग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छतैषास्य घृत्या तनूर्यद् घृतं यद् घृतेन समिधोऽनक्ति ताभ्यामेवैनं तनूभ्याँ संगमयति निर्मार्गस्यादधात्यपगूर्त्या वै वीर्यं क्रियते यन्निर्मार्गस्यादधात्यपगूर्त्या एव संवत्सरो वै प्रजननमग्निः प्रजनयिता तत् प्रजननं यत् पुरा संवत्सरादग्नौ समिध आदधाति प्रजननादेवैनं प्रजनयिता प्रजनयत्यभक्तर्तुर्वै पुरुषो न हि तद्वेद यमृतुमभिजायते यन्नक्षत्रं यत् समिध आदधाति य एवास्यर्तुर्यन्नक्षत्रं तदाप्नोति य एष ओदनः पच्यते योनिरेवैष क्रियते यत् समिध आधीयन्ते रेतस्तद्धीयते संवत्सरे वै रेतो हितं प्रजायते यत् संवत्सरे पर्येतेऽग्निमाधत्ते प्रजातमेवैनमाधत्ते द्वादशसु रात्रीषु पुराधेयास्ता हि संवत्सरस्य प्रतिमाथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निमादधानेनादित्या वा इत उत्तमा अमुं लोकमायँस्ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्त तच्छेषणभागा वा आदित्या यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत तेभ्य एवं प्रोच्य स्वर्गं लोकमारोहति ।। १५ ॥

अ वो राजानमध्वरस्य रुद्रं होतारँ सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ।।
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ।।
अग्निर्होता साध्वीमकरग्न आयूँषि पवसे ।।
अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ।।
यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ ।
अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ।।
महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
यं पूरुभ्यो दीदिवाँसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ।।
ऋतावानं वैश्वानरं वैश्वानरस्य सुमतौ स्याम ।।
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नये ।।
तृषु यदन्ना तृषुणा ववक्ष तृषु दूतं कृणुते यह्वो अग्निः ।।
वातस्य मेडिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ।
अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य । तान्यस्मभ्यं रासते ।।
त्वामग्ने वसुपतिं वसूनामभि प्रमन्दे अध्वरेषु राजन् ।
त्वया वाजं वाजयन्तो जयेमाभिष्याम पृत्सुतीर्मर्त्यानाम् ।।
त्वं यविष्ठ दाशुषो नॄँ पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ।।
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ।।
कृष्णा रजाँसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ।।
त्वे वसूनि पूर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।।
क्षामेव विश्वा भुवनानि यस्मिन् सँ सौभगानि दधिरे पावके ।
प्र वस्सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । अर्च गाय च वेधसे ।।
प्र वश्शुक्राय भानवे भरध्वँ हव्यं मतिं चाग्नये सुपूतम् ।।
यो दैव्यानि मानुषा जनूँष्यन्तर्विश्वानि विद्मना जिगाति ।।
वि ज्योतिषा वि पाजसा ।।
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः । उरुक्षयेषु दीद्यत् ।।
तँ सुप्रतीकँ सुदृशँ स्वञ्चमविद्वाँसो विदुष्टरँ सपेम ।।
स यक्षद्विश्वा वयुनानि विद्वान् प्र हव्यमग्निरमृतेषु वोचत् ।।१६।।

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ।
नि होता पूर्व्यस्सदः ।
उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ।।
त्वं ह यद्यविष्ठ्य सहसस्सून आहुत । ऋतावा यज्ञियो भुवः ।।
अयमग्निस्सहस्रिणः ।।
तं नेमिमृभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञमङ्गिरः ॥
कस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ।।
कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे ।।
मा नो देवानां विशः प्रस्नातीरिवोस्राः । कृशं न हासुरघ्न्याः ।
मा नस्समस्य दूढ्यः परिद्वेषसो अँहतिः ।
ऊर्मिर्न नावमा वधीत् ।।
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ।।
कुवित्सु नो गइष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ।।
मा नो अस्मिन् महाधने परावर्भा् रभृद्यथा । संवर्गँ सं रयिं जय ।।
परस्या अधि संवत एह्यू षु ब्रवाणि ते ।। १७ ॥


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामालोभी नाम सप्तमं स्थानकं संपूर्णम् ॥ ७ ॥