प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं ११ काठकसंहिता (विस्वरः)
स्थानकम् १२
[[लेखकः :|]]
स्थानकं १३ →
पयस्स्थानकम्

अथ द्वादशं स्थानकम् ।

पयस्स्थानकम् ।
पयस्यया यजेतामयावी मैत्रावरुणी ब्राह्मणस्य स्यादैन्द्रावरुणी राजन्यस्याग्निवारुणी वैश्यस्यर्याध्णस एवाग्नेयो मैत्रो ब्राह्मणो देवतया वरुणगृहीत एष य आमयावी स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चत्यैन्द्रो राजन्यो देवतया वरुणगृहीत एष य आमयावी स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चत्यग्निस्सर्वा देवतास्तत्र वैश्यस्यापि वरुणगृहीत एष य आमयावी स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चति पयस्या भवति पयो वै पयस्या पयः पुरुषः पय एतस्यामयति यस्यामयति पयसैवास्य पयस्स्पृणोति ॥ पुरोडाशो भवत्यस्थन्वन्तमेवैनं कृत्वा प्रतिष्ठापयति पशुर्वै पुरुषः पशुः पुरोडाशः पशुनैव पशुँ स्पृणोति व्युह्यावद्यति यथानुभिद्य शल्यं निर्हरत्येवमेवास्यैतन्मध्यतो यक्ष्मं निर्हरति समुह्याग्नयेऽवद्यति यथा शल्यं निर्हृत्य समायत्य संनह्यत्येवमेव तदथैत एककपाला न वै पुरुषं कपालैराप्तुमर्हत्येकधैवैनमाप्नोत्यष्टौ भवन्त्यष्टौ वै पुरुषस्य शफाश्शफश एवैनमाप्नोति ताननुपरिचारं जुहोत्यत्रात्र वै वरुणपाशो यत्र यत्रैव वरुणपाशस्तत एनं वरुणान्मुञ्चति ।। व्यृद्धा वा एषाहुतिर्यामनग्नौ जुहोत्यग्नौ सर्वे होतव्या अग्निस्सर्वा देवतास्तेनैव तान् कामान् स्पृणोति न व्यृद्धामाहुतिं जुहोति पयस्यया यजेत सजातकाम ऋद्ध्या एवाग्नेयो मैत्रो ब्राह्मणो देवतया वरुणगृहीत एष योऽलं सजातेभ्यस्सन्नसजातो भवति स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चति पयस्या भवति पयो वै पयस्या पयस्सजाताः पयसैव पयोऽवरुन्द्धे व्यूहति दिशस्तर्पयति समूहति सजातानेवास्मै समूहति समानमेककपालानां ब्राह्मणं पयस्यया यजेत पशुकाम ऋद्ध्या एवाग्नेयो मैत्रो ब्राह्मणो देवतया वरुणगृहीत एष योऽलं पशुभ्यस्सन्नपशुर्भवति स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चति पयस्या भवति पयो वै पयस्या पयः पशवः पयसैव पयोऽवरुन्द्धे व्यूहति दिशस्तर्पयति समूहति पशूनेवास्मै समूहति समानमेककपालानां ब्राह्मणं पयस्यया यजेत बुभूषन्नृद्ध्या एवाग्नेयो मैत्रो ब्राह्मणो देवतया वरुणगृहीत एष योऽलं भूत्यै सन्न भवति स्वामेव देवतां भागधेयेनोपधावति वरुणादेनं वारुणेन मुञ्चति पयस्या भवति पयो वै पयस्या पयः पुरुषः पयसैव पयोऽवरुन्द्धे व्यूहति दिशस्तर्पयति समूहति भूतिमेवास्मै समूहति समानमेककपालानां ब्राह्मणम् ॥१॥

ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासं धुवा मयि सजाता उग्रश्चेत्ता वसुविदभिभूरस्यभ्यहँ सजातान् भूयासं धीरश्चेत्ता वसुवित् परिभूरसि पर्यहँ सजातान् भूयासं धीरश्चेत्ता वसुवित् सूरिरसि सूरिरहँ सजातेष्वधिभूयासमुग्रश्चेत्ता वसुविदामनस्य देवा ये सजातास्समनसो यानहं कामये हृदा ते मां कामयन्ताँ हृदा ता म आमनसस्कृधि स्वाहामनस्य देवा यास्स्त्रियस्समनसो या अहं कामये हृदा ता मां कामयन्ताँ हृदा ता म आमनसस्कृधि स्वाहामनस्य देवा ये पुत्रासो ये पशवस्समनसो यानहं कामये हृदा ते मां कामयन्ताँ हृदा तान्म आमनसस्कृधि स्वाहा।। देवाश्च वा असुराश्च संयत्ता आसँस्तेऽसुरा मनस्वितरा आसन्नमनस्तरा इव देवास्ते देवा एतत् संग्रहणमपश्यँस्तेनासुराणां मनाँसि समगृह्णँस्ततो वै ते समनसः पराभवन् मन एव भ्रातृव्यस्य संगृह्णाति सोऽस्यामनाः पराभवत्येतया यजेत पशुकाम एतया वै देवा असुराणां पशून् समगृह्णँस्ततो वै ते पशवः पराभवन् पशूनेव भ्रातृव्यस्य संगृह्णाति सोऽस्यापशुः पराभवत्येतया यजेत सजातकामो मनोग्रहणं वा एतन्मनस्विन इव सजाता यावन्त एव सजातास्तेषां मनाँसि गृह्णाति तेऽस्मान्मनोगृहीता नापयन्ति । वैश्वदेवः कार्यो वैश्वदेवा हि सजाताः पृषत्याः पृषद्वत्साया दुग्धे भवति वैश्वदेवी हि पृषती सर्वेभ्यस्सजातेभ्य आज्यँ समाहरन्ति वैश्वदेवत्वाय वैश्वदेवा हि सजाता ध्रुवोऽसीति परिधीन् परिदधाति सजातानेवास्मा उपदधात्यामनस्य देवा इत्यन्वारम्भयित्वा जुहोति मनोग्रहणं वा एतदेवमिव सजातास्स्त्रिय इव पुमाँस इव कुमारा इव यावन्त एव सजातास्तेषां मनाँसि गृह्णाति तेऽस्मान् मनोगृहीता नापयन्ति ।। वि वा एतद्यज्ञं छिनत्ति यद्यज्ञे प्रतत एता अन्तराहुतीर्जुहोति सँस्थिते होतव्या यत् सँस्थिते जुहुयाद्बहिरात्मँ सजातान् कुर्वीतान्तरा प्रयाजानुयाजाञ्जुहुयात् प्राणा वै प्रयाजा अपाना अनुयाजा आत्मा हविरात्मन्नेव मध्यतस्सजातान् धत्ते दारुमयेण जुहुयाद्यदि कामयेत क्षिप्रं मा सजाता एयुः क्षिप्रं पुनः परेयुरित्येवमेव हि वनस्पतयोऽध्रुवा इव चराचरा इव मृन्मयेन जुहुयाद्यदि कामयेत चिरं मा सजाता एयुश्चिरं पुनः परेयुरित्येवमिव हीयं ध्रुवेव प्रतिष्ठितेवाचराचरेव ।।२।।

इन्द्रो वै वृत्राय वज्रमुदयच्छत सोऽब्रवीद्वीर्यं वा इदं मय्यस्ति तत् ते प्रदास्यामि मा मे प्रहारिति तदस्मै प्रायच्छत् सोऽवेदस्ति वावास्मिन् वीर्यमिति तस्मै द्वितीयं तस्मै तृतीयमुदयच्छत सोऽब्रवीद्वीर्यं वा इदं मय्यस्ति तत् ते प्रदास्यामि मा मे प्रहारिति तदस्मै प्रायच्छद्यज्ञं वावास्मै तत् प्रायच्छद्यज्ञं प्रायच्छदिन्द्राय प्रायच्छत् तस्मादैन्द्रावैष्णवँ हविर्भवति वीर्यं वावास्मै तत् प्रायच्छत् तन्निर्वीर्यं भूतमस्तृणुत तं विष्णुर्वीर्यैरन्वतिष्ठत सोऽब्रवीत् सकृन्माधा विष्णो द्विर्माधा विष्णो त्रिर्माधा विष्ण इति तत् त्रैधातव्यायास्त्रैधातव्यात्वमिन्द्रो वै वृत्रं हत्वा तँ शवे मानवे प्रौहत् सोमो वै वृत्र उदरँ शवो मानवस्तस्मादुदरे सोमः पीयते ॥ तस्मादाहुर्हतो वृत्रोऽस्तृतस्त्विति यज्ञो वा असुरेभ्योऽपाक्रामदुत्सङ्गे पात्राण्योप्यैतद्रूपं कृत्वा यत् तार्प्याणि विषीव्यन्ति स इन्द्रं प्रतिन्यागच्छेत् तेनेन्द्रोऽयजत ततो देवा अभवन् परासुरा अभवन् य एवं विद्वानेतेन यजेत भवत्यात्मना परास्य भ्रातृव्यो भवति यज्ञो न्यागच्छदिन्द्रं प्रतिन्यागच्छत् तस्मादैन्द्रावैष्णवँ हविर्भवत्यृचो वावास्मै तद्ग्रे प्रायच्छदथ सामान्यथ यजूँषि ब्रह्मणो वा एष योनिरतो वा इदँ सर्वमसृज्यतर्चस्सामानि स्तोमा यजूँषि ब्रह्मण एव योनिमालभते ॥ स इदँ सर्वमत्येत्येतेन वै सृञ्जया अयजन्त त इदँ सर्वमत्यायँस्तदेनान्मुहुः प्रयुज्यमानमवाधूनुत तस्मान्न मुहुः प्रयोज्यं वि वा एष च्छिनत्ति य एतेन यजतेऽपि पुत्रं याजयेदनुसंतत्या एतस्य वै वीर्येण वृत्रोऽहरहरिषुमात्रमूर्ध्वोऽवर्धतेषुमात्रं तिर्यङ्ङथो यत् प्राणीत् तत् पुनर्न समैद्वर्धते प्रजया प्र पशुभिर्भवति य एवं विद्वानेतेन यजते सर्वेभ्यः कामेभ्यो यजेत सर्वो वा एष यज्ञस्सर्वेभ्यो हि कामेभ्यस्सौम्योऽध्वरः प्रयुज्यतेऽभिचरन् यजेत न दक्षिणां दद्यान्मेनिमेवैनं कृत्वाभिप्रयुङ्क्ते मेनिर्ह्यदक्षिणः ।।३।।

त्रीन् पुरोडाशान्निर्वपेद्बुभूषँस्त्रय इमे लोका इमानेव लोकानाप्त्वौजो वीर्यमवरुन्द्ध उत्तर उत्तरो ज्यायान् भवत्युत्तर उत्तरो ह्येषां लोकानां ज्यायानधरोत्तरं भवन्त्येवमिव हीमे लोका द्वादश कपालानि भवन्ति त्रयो हि ते चतुष्कपालास्समृद्ध्यै सर्वेषामभिघातमवद्यत्यच्छम्बट्कारं यस्य नावद्यति च्छम्बट्करोति च्छम्बण्नास्य चरति व्रीहिमयः प्रथमो भवत्यथ यवमयोऽथ व्रीहिमयो रोहिता इव वै व्रीहयो रोहित इवायं लोको रोहित इवासौ शुक्ला इव यवाश्शुक्लमिवान्तरिक्षमन्तरिक्षेणेमे लोकास्संतता एषां लोकानामनुसंतत्यै नैवारमुत्तमं कुर्यादजामित्वाय ।। तिस्रो धेनवो दक्षिणा त्रीणि तार्प्याणि त्रीणि हिरण्यानि यजुषां वा एतद्रूपं यत् तार्प्याणि विषीव्यन्ति साम्नाँ हिरण्यानि च्छन्दसां धेनव एतानि वै यज्ञस्य रूपाणि रूपैरेव यज्ञमवरुन्द्धे सर्वदेवत्यं वासो यद्वासाँसि ददाति सर्वा एव देवता अवरुन्द्धे तेजो ब्रह्मवर्चसँ हिरण्यं यद्धिरण्यानि ददाति तेज एव ब्रह्मवर्चसमवरुन्द्धे । त्रिस्समृद्धा धेनुरात्मा वत्सः पयो यद्धेनूर्ददाति त्रिस्समृद्धमेवैनं करोति सर्वाणि च्छन्दाँस्यनुब्रूयात् सर्वो वा एष यज्ञस्सर्वाणि हि च्छन्दाँसि सौम्येऽध्वरेऽनूच्यन्ते यज्ञो यदसृज्यत तस्योल्बमन्ववेष्टत तत् तार्प्यमभवद्यज्ञस्त्रैधातव्या यत् तार्प्यं यजमानः परिधत्ते स्वेनैव योनिनात्मानमोर्णुत उष्णिहककुभौ सामिधेनीष्वप्यनुब्रूयादुष्णिहा वै ककुभो वीर्यं ककुबुष्णिहायास्सवीर्ये एवैने अवरुन्द्धे न जगत्या परिदध्यादन्तो वा एषा छन्दसामन्तं गच्छेद्यज्ञं विच्छिन्द्यादग्ने त्री ते वाजिना त्री षधस्थेति त्रिष्टुभा परिदधात्योजो वै वीर्यं त्रिष्टुब्नान्तं गच्छत्योजस्येनं वीर्ये प्रतिष्ठापयति।।४।।

देवा वा असुराणां वेशत्वमुपायँस्तदिन्द्रोऽपि नोपैत् तेषां वीर्याण्यपाक्रामन्नग्ने रथन्तरमिन्द्राद्बृहद्विश्वेभ्यो देवेभ्यो वैरूपँ सवितुर्वैराजं मरुताँ शक्वरी त्वष्टू रेवती तानीन्द्रोऽवरुरुत् समानोऽन्वचरत् स एतमैन्द्रमपश्यद् द्वादशकपालं तेन वै स तानीन्द्रियाणि वीर्याण्यवारुन्द्ध ततो वै सोऽभवत् तत एनं देवा अनुसमभवन्नेतेन यजेत बुभूषनैन्द्रेण द्वादशकपालेनैतान्येवेन्द्रियाणि वीर्याण्यवरुन्द्ध भवत्येवान्वेनँ स्वास्संभवन्ति द्वादशकपालो भवति वैश्वदेवत्वायोत्तानेषु कपालेष्वधिश्रयति चरुमेव करोति शान्त्या अनिर्दाहाय सर्वाणि वा एतानीन्द्रियाणि वीर्याणि यत् पृष्ठानि तान्येनमीश्वराण्यनायतनानि निर्मृजो व्यतिषजेद् याज्यानुवाक्या इन्द्राय रथन्तरायानुब्रूहीति रथन्तरस्यर्चमनूच्य बृहत ऋचा यजेदिन्द्राय बार्हतायानुब्रूहीति बृहत ऋचमनूच्य रथन्तरस्यर्चा यजेदिन्द्राय वैरूपायानुब्रूहीति वैरूपस्यर्चमनूच्य वैराजस्यर्चा यजेदिन्द्राय वैराजायानुब्रूहीति वैराजस्यर्चमनूच्य वैरूपस्यर्चा यजेदिन्द्राय शाक्वरायानुब्रूहीति शक्वरीमनूच्य रेवत्या यजेदिन्द्राय रैवतायानुब्रूहीति रेवतीमनूच्य शक्वर्या यजेदेतैरेवेन्द्रियैर्वीर्यैरात्मानमभ्यतिषजत्यनिर्मार्गाय न बृहत्या वषट्कुर्याद् बृहत्या वा इदमन्वयातयामत्वं प्रजाः प्रजायन्ते प्रजननमपिहन्यात् पशवो वै बृहती रुद्रोऽग्नी रुद्राय पशूनपिदध्यादपशुस्स्यादनुवाक्यायाश्चत्वार्यक्षराणि याज्यामभ्यत्यूहेत् तथा ते पङ्क्तिश्चानुष्टुप् च संपद्येते अनुष्टुबनुवाक्या स्यात् पङक्तिर्याज्या प्रजाकामस्य वा पशुकामस्य वा प्रजापतिर्वा इदमासीत् तस्य वाग् द्वितीयासीत् तां मिथुनँ समभवत् सा गर्भमधत्त सास्मादपाक्रामत् सेमाः प्रजा असृजत सा प्रजापतिमेव पुनः प्राविशद् यदनुष्टुबनुवाक्या भवति पङ्क्तिर्याज्या वाग् वा अनुष्टुप्पाङ्क्तस्संवत्सरस्संवत्सरः प्रजापतिर्वाच्येव संवत्सरं वृषाणमपिसृजति सोऽस्मै मिथुनं करोति समन्तं पर्यूहं पुरोडाशस्यावद्येदेतैरेवेन्द्रियैर्वीर्यैस्समन्तमात्मानमभितः पर्यूहति स्तृत्या एतया यजेत यमजघ्निवाँसमभिशँसेयुर्देवता वा एतस्यान्नं नादन्ति यमजघ्निवाँसमभिशँसन्ति तस्य देवैः परिवृज्यमानस्य मनुष्या अन्नं नादन्ति तस्मादपि यमनृतमभिशँसेयुस्तस्यान्नं नाद्यात् सर्वदेवत्यानि पृष्ठानि यत् सर्वपृष्ठ्या यजते देवता एवास्यान्नमादयति तस्य पूतस्य स्वदितस्य मनुष्या अन्नमदन्ति सैषा सर्वपृष्ठा नामेष्टिः पृष्ठमेव समानानां भवति य एवं विद्वानेतया यजते ।।५।।
 
अश्वो न प्रतिगृह्य उभयादन्वा एष एतस्येन्द्रियं वीर्यं निर्बभस्ति यः प्रतिगह्णाति तस्मान्न प्रतिगृह्यो वरुणो वा एतमग्रे प्रत्यगृह्णात् स स्वां देवतामार्छत् तं वरुणोऽगृह्णात् स एतेन वारुणेन हविषायजत निर्वरुणत्वाय योऽश्वं प्रतिगृह्णीयात् स एतेन वारुणेन हविषा यजेत निर्वरुणत्वाय चतुष्कपालो भवति चतुष्पाद् वा अश्वः प्रत्यक्षमेवैनं वरुणपाशान्मुञ्चति तदाहुर्न वै तेनेतरेभ्यो मुच्यते यदेनमेकस्मान्मुञ्चतीति यावतोऽश्वान् प्रतिगृह्णीयात् तावतश्चतुष्कपालान्निर्वपेदत्रात्र वै वरुणपाशो यत्र यत्रैव वरुणपाशस्तत एनं वरुणान्मुञ्चत्येकोऽधिभवति यस्यैव नाधियन्ति तस्मादेनं तेन मुञ्चत्यथो भविष्यदेव वरुणस्यावयजते भूयस्त्वा एतं वरुणो गृह्णाति य एतयेष्ट्वापरमश्वं प्रतिगृह्णाति यद्यपरमश्वं प्रतिग्रहीष्यन् स्यात् सौर्यवारुणां कुर्यात् सूर्यमेव देवतामेतं लोकमुपप्रतिगृह्णाति वरुणादेनं वारुणेन मुञ्चत्यपांनप्त्रीयश्चरुरपिभवत्ययोनिर्वा अश्वोऽप्सुजा योनिमन्तमेवैनं कृत्वा प्रतिष्ठापयत्येकविंशतिस्सामिधेन्यो भवन्त्येकविँशो वै संवत्सरः पञ्चर्तवो द्वादश मासास्त्रय इमे लोका असा आदित्य एकविंश एष प्रजापतिः प्राजापत्योऽश्वोऽश्वमेवाप्नोति ।। यस्ते राजन् वरुण गायत्रच्छन्दाः पाशस्त त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण त्रिष्टुप्छन्दा जगच्छन्दा अनुष्टुप्छन्दाः पाशस्तं त एतदवयजे तस्मै स्वाहेत्येतावन्ति वै छन्दाँसि च्छन्दाँसि वरुणपाशास्तैरेष गृह्णाति यं वरुणो गृह्णात्यत्रात्र वै वरुणपाशो यत्र यत्रैव वरुणपाशस्तत एनं वरुणान्मुञ्चत्यपांनप्त्रीये द्वे अपिभवतो या एवास्याप्सव्यौ पाशौ ताभ्यामेनं तेन मुञ्चति षडेतानि जुहोति षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठति ।।६।।

देवा वा ओषधीषु पक्वास्वाजिमयुस्स इन्द्रोऽवेदग्निर्वा उज्जेष्यतीति सोऽब्रवीद्यतरो ना उज्जयात् तन्नौ सहेति सोऽग्निरेव पूर्व उदजयत् तदिन्द्रोऽनूदजयत् तस्मादाग्नेन्द्रमैन्द्राग्नं कार्यमग्निर्हि पूर्व उदजयत् तदिन्द्रोऽनूदजयदभिजित्या एवाग्रायणं द्वादशकपालो भवति संवत्सराद्ध्येतदधिभवति सप्तदश सामिधेन्यो भवन्ति संवत्सराद्ध्येतदधिभवत्येका वै तर्हि व्रीहेश्श्नुष्टिरासीदेका यवस्यैका माषस्यैका तिलस्य ते विश्वे देवा अब्रुवन् भागो नोऽस्तु वयमिदं प्रथयिष्याम इति तेभ्य एतं भागमकुर्वँस्ततो वा इदमप्रथत भूम्ने वैश्वदेवः प्रथयत्येवैतेन पयसि भवति वैश्वदेवत्वाय वैश्वदेवँ हि पयोऽथ वा इयमब्रवीन्मयि वा एतदध्यसौ वृष्ट्या पचति नावाभ्यामृत उज्जेष्यथेति ताभ्यामेतं भागमकुर्वन्नेककपालं प्रतिष्ठित्यै द्यावापृथिव्यं ग्राम्या वा अन्या ओषधय आरण्या अन्यास्ता अस्यैतेनोभयीरेष्टा भवन्ति सोम ओषधीनामधिराजस्तस्यैष उद्धारो यदकृष्टपच्यमुद्धार एवास्यैष भाग एव यदारण्यं तस्यैतेनाग्रं क्रियते यत् फालकृष्टं तस्येतरेण वत्सः प्रथमजो दक्षिणा रेत एव ह्येषोऽप्रजातः प्रजननाय सर्वस्मै वा एषोऽभिषिच्यते यदाग्रायणं राजसूये भवत्यन्नमेवावरुन्द्धे तदस्य स्वदितमिष्टं भवत्यानीतो वा एष देवानां य आहिताग्निरदन्त्यस्यान्नं यदनिष्ट्वाग्रयणेन नवस्याश्नीयाद् देवानां भागं प्रतिक्लृप्तमद्यादार्तिमार्छेत् तस्मान्नानिष्ट्वाग्रायणेन नवस्याशितव्यमेतेन वै देवा अग्रं पर्यायँस्तदाग्रायणस्याग्रायणत्वमग्रमेव समानानां पर्येति य एवं विद्वानाग्रायणेन यजते ।।७।।

संवत्सरं वा एतस्य च्छन्दाँसि यातयामानि भवन्ति यस्सोमेन यजते छन्दाँसि देविकाश्छन्दाँस्येवायातयामानि पुनर्यामाणि कुरुते पष्ठौह्यप्रवीता दक्षिणाशा वा एषाशामेष उपाभिषिच्यत आशामेवास्मै करोति पशुकामो देविकाभिर्यजेत च्छन्दाँसि देविका मिथुनं छन्दाँसि गायत्र्यनुमती राका त्रिष्टुप्सिनीवाली जगती कुहूरनुष्टुब्धाता वषट्कारो यद् द्वे अवरे द्वे परे तन्मिथुनं यद्धाता वषट्कारस्तन्मिथुनं तस्मादेवास्मै मिथुनात् पशून् प्रजनयति ॥ या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावस्या सा सिनीवाली योत्तरा सा कुहूश्चन्द्रमा एव धाता यत् पूर्णोऽन्यां वसत्यूनोऽन्यां तन्मिथुनं यत् पश्यन्त्यन्या नान्यां तन्मिथुनं यच्चन्द्रमा अमावस्याया अधि प्रजायते तन्मिथुनं तस्मादेवास्मै मिथुनात् पशून् प्रजनयति प्रजाकामो देविकाभिर्यजेत धातारमुत्तमं कुर्यात् स्त्रियो वै देविकाः पुमान् धाता पराचीः प्रजा रेतो दधते पराचीष्वेवैतद् रेतो धीयते तदाहुर्न वै तेन पराधत्ते यत् पूर्वा प्रवीयत इति व्यवदध्याद्धातारँ सर्वा एवैना वृषामोदिनीः करोति ।। विन्दते पुत्रं पश्चाच्चर इव तु भवति स्त्रीभिर्ह्येनं पश्चात् परिणयति यदाजायेत धातारं पुरस्तात् कृत्वाथैतामेव निर्वपेदग्रमेवैनं परिणयत्यामयावी देविकाभिर्यजेत धातारं मध्ये कुर्यात् संवत्सरो वै धाता संवत्सरो हि वा एतस्य लुब्धोऽथैतस्यामयति संवत्सरमेवास्मै मध्यतः कल्पयित्वाथैनमेतस्मान्मिथुनात् पुनः प्रजनयतीश्वराणि वा एनमेतानि च्छन्दाँस्यशान्तानि निर्मजः पशुमालभेत शान्त्या अनिर्मार्गाय । वीरस्था वा अन्ये पशवोऽवीरस्था अन्ये ये पुरस्तात् पुरोडाशास्ते वीरस्था ये पश्चात् पुरोडाशास्ते - ऽवीरस्था ये वीरस्था भुञ्जन्तस्त उपतिष्ठन्ते येऽवीरस्थाः परा ते भवन्ति ये पुरस्तात् पुरोडाशास्ते वीरस्थाः प्रजापतिं ते प्रतिष्ठामभिसृज्यन्ते यासु स्थालीषु सोमा भवन्ति तासु देविकाः कुर्याद् रेतोधा हि सोमस्सर्ववेदसी देविकाभिर्यजेत पशुभिर्वा एष व्यृध्यते यस्सर्वं ददाति च्छन्दाँसि देविकाः पशवश्छन्दाँस्यत्रैष जघन्यं पशून् पश्यति यत्रैनान् विभजति यत्रैवैनाञ्जघन्यं पश्यति तत एनान् पुनः प्रजनयति य एव कश्च सोमेन यजेत स देविकाभिर्यजेत च्छन्दाँसि देविका श्छन्दाँस्येवायातयामानि पुनर्यामाणि कुरुते ।।८।।

स्वाद्वीं त्वा स्वादुना तीव्र तीव्रण देवी देवेन शुक्राँ शुक्रेणामृताममृतेन सृजामि सँ से मेन सोमोऽस्यश्विभ्यां पयस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राणे पच्यस्व ।
पुनातु ते परिसुतं सोमं सूर्यस्य दुहिता । वारेण शश्वता तना ।। वायुः पूतः पवित्रेण प्रत्यङ् सोमो अतिदूतः । इन्द्रस्य युज्यस्सखा ।।।
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।।
इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
उपयामगृहीतोऽस्यच्छिद्रां त्वाच्छिद्रेणाश्विभ्यां जुष्टां गृह्णाम्येष ते योनिरश्विभ्यां त्वोपयामगृहीतोऽस्यच्छिद्रां त्वाच्छिद्रेण सरस्वत्यै जुष्टां गृह्णाम्येष ते योनिस्सरस्वत्यै त्वोपयामगृहीतोऽस्यच्छिद्रां त्वाच्छिद्रेणेन्द्राय सुत्राम्णे जुष्टां गृह्णाम्येष ते योनिरिन्द्राय वा सुत्राम्णे । स्वाद्वीं त्वा स्वादुनेति ब्रह्मणैवैनाँ सँसृजति तिस्रो रात्रीस्सँसृष्टा वसति तिस्रो हि रात्रीस्सोमः क्रीतो वसत्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेत्येताभ्यो ह्येषा देवताभ्यः पच्यते वायुः पूतः पवित्रेणेति व्यृद्धस्यातिपवितस्यैतया पुनीयादेका पुरोरुगेकधैवास्मिन् वीर्यं दधात्यनिरुक्ता प्राजापत्यानिरुक्तः प्रजापतिः प्रजापतिमेवाप्नोति ॥९॥

विश्वरूपो वै त्रिशीर्षासीत् त्वष्टुः पुत्रोऽसुराणां स्वस्रीयस्स सोममेकेन शीर्ष्णापिबदन्नमेकेनावयत् सुरामेकेनापिबत् स इन्द्रोऽमन्यतायं वावेदं भविष्यतीति तेन समलभत तेन युगशरमपद्यत स तक्षाणं तिष्ठन्तमब्रवीदाधावास्येमानि शीर्षाणि च्छिन्द्धीति तस्य तक्षोपाद्रुत्य परशुना शीर्षाण्यच्छिनत् तस्मान् तक्ष्णश्शिरो धृतं तस्मादस्यान्नमाद्यं तस्य यत् सोमपानँ शिर आसीत् स कपिञ्जलोऽभवद् यदन्नादनँ स तित्तिरिर्यत् सुरापानँ स कलविङ्कस्तस्मात् स नितततपमिव वदति। स त्वष्टा पुत्रहतो वीन्द्रँ सोममाहरत् तमधस्सहस्रशलेऽसुनोदथो आहुश्शतशल इति तमस्येन्द्रः प्रासहापहृत्य नाड्या निरपिबत् स विष्वक् सोमपीथेन व्यार्ध्यत तस्मात् सोमो नानुपहूतेन पातवै सोमपीथेन व्यर्धुको भवति तस्य यन्नस्तोऽमुच्यत तौ सिंहा अभवतां यदक्षीभ्यां तौ शार्दूलौ यत् कर्णाभ्यां तौ वृकौ यदधस्तात् सा सौत्रामणी यत् प्रथमं निरष्टीवत् तत् कुवलमभवद् यद् द्वितीय तद्बदरं यत् तृतीयं तत् कर्कन्धु तमश्विना अभिषज्यतां तमयाजयतामेतया सौत्रामण्या स यैरेव तद्वीर्यैर्व्यार्ध्यत तान्यस्मिन्नाप्त्वाधत्तामेतया यजेत यँ सोमोऽतिपवेत वीर्येण वा एष व्यृध्यते यँ सोमोऽतिपवते यावदेव वीर्यं तदस्मिन् दधात्येषैव राजसूयेऽपि भवति वीर्येण वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यावदेव वीर्यं तदस्मिन् दधात्येतयैव ब्राह्मणो वा राजन्यो वा बुभूषन् यजेतैतावद्वै वीर्यं यावदेव वीर्यं तदस्मिन् दधाति तदाहुरार्तयज्ञो वा एष नानार्त एतया यजेतेति तदाहुर्यष्टव्यमेव सर्वो हि पुरुष आर्तस्सर्वो बुभूषति तस्माद्यष्टव्यं यदाश्विनोऽश्विनौ ह्यभिषज्यतां यत् सारस्वतो वाग्वै सरस्वती वाचा ह्यभिषज्यताम्।। यदैन्द्र इन्द्रे हि तद्वीर्यमधत्तां कुवलसक्तुभिराश्विनँ श्रीणाति बदरसक्तुभिरैन्द्रं कर्कन्धुसक्तुभिस्सारस्वतं वाग्वै सरस्वती वाच्येवास्य स्वाद्मानं दधात्यथो यैनमसौ वागश्लीलमभिवदति सैनं पुनः कल्याणमभिवदति सिँहा अध्वर्युर्मनसा ध्यायेच्छार्दूलौ प्रतिप्रस्थाता वृकौ यजमानस्सुरा भवति यैरेव तद्वीर्यैर्व्यृध्यते तान्यस्मिन्नाप्त्वा धत्तः॥१०॥

ब्राह्मणस्य मूर्धन् सादयेत् तेन मेध्यान्नं वै सुरा मेध्यमन्नं तेन मेध्यैका पुरोरुगेका याज्यैकधैवास्मिन् वीर्यं दधाति सर्वहुतं जुहोति सर्वमेवास्मिन् वीर्यं दधाति ब्राह्मणं पाययेत् तेन हविष्क्रियत आत्मनापेयात्मन्नेव वीर्यं धत्ते तत् तन्न सूर्क्ष्यं पाप्मा वै सुरा मध्यत एष पाप्मना गृहीतो यत् समयात्येति मध्यत एवैनं पाप्मनो मुञ्चति यदुत्तरेऽग्नौ जुहुयान्न पाप्मना व्यावर्तेत क्रियेत भेषजं यद् दक्षिणेऽग्नौ जुहोति वि पाप्मना वर्तते क्रियते भेषजं यद् विक्षारयति वीव ह्येष क्षरिति ।। यद् वा एतस्य व्यार्धि यत् प्रामायि पितॄँस्तदगन्यत् पितृमतीभिरभिमन्त्रयन्ते पितृभ्य एवैनमधिसमीरयन्ति यत् तिसृभिस्तिसृभिस्तृतीये हि लोके पितरो यच्चत्वार आभ्य एवैनं चतसृभ्यो दिग्भ्योऽधिसमीरयन्ति शताक्षरा भवति शतायुर्वै पुरुषश्शतवीर्य आयुरेव वीर्यमवरुन्द्धे क्लीबात् सीसेन तोक्मानि क्रीणात्यनृतं वै क्लीबोऽनृतँ सीसमनृतँ सुरानृतेनैवानृतादध्यनृतं क्रीणाति बडवा दक्षिणा सृत्वरी ह्येषा सृत्वरीव सुरा समृद्ध्यै ।।११।।

आश्विनमजमालभेत सारस्वतीं मेषीमैन्द्रमृषभं वा वृष्णिं वैवमेव वपाभिश्चरन्ति यदैन्द्री वपानामुत्तमा भवतीन्द्र एवास्मिँस्तदधिभवति यत् प्रचरन्त ऐन्द्रेण पुनः प्रथमेन प्रचरन्तीन्द्रमेव तत् पुनरालब्ध सेन्द्रत्वाय यदाश्विनोऽश्विनौ ह्यभिषज्यतां यत् सारस्वती वाग्वै सरस्वती वाच्येव प्रतितिष्ठत्यैन्द्री वपानामुत्तमा भवत्यैन्द्रः पुरोडाशानां प्रथमो वीर्यं वा इन्द्रो वीर्य एवैनमभिसंधत्तः प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणो मध्यतो ह्येष वरुणगृहीतः पश्चाद् वा एषा सृष्टा प्रतीचीनशीर्ष्णी यदुपरिष्टात् पुरोडाशा भवन्त्यपिहित्या एवाच्छिद्रत्वाय सह समवत्तं भवति सहेडामुपह्वयन्ते सँहित्या एवाथो इडाया अविदोहाय ।। यद्वै सौत्रामण्या व्यृद्धं तदस्यास्समृद्धं यदन्यदेवत्याः पशवो भवन्त्यन्यदेवत्याः पुरोडाशा एतद् वा अस्या व्यृद्धँ सदथ समृद्धं नाना वै तैर्वीर्याण्यवरुन्द्धेऽर्धं वै प्रजापतेर्धैर्यमासीदर्धं माल्व्यं यद्धैर्यमासीत् तद् पुरस्तात् पर्यहरत सोमो वाव स ततो ब्राह्मणमसृजत तस्माद् ब्राह्मणस्सर्वो ब्रह्माभि धीरो यन्माल्व्यमासीत् तत्पश्चात् पर्यौहत सुरा वाव सा ततो राजन्यमसृजत तस्माज्ज्यायाँश्च कनीयाँश्च स्नुषा च श्वशुरश्च सुरां पीत्वा सह लालपत आसते पाप्मा वै माल्व्यं तस्माद् ब्राह्मणस्सुरां न पिबति पाप्मना नेत्सँसृज्या इति तदेतत् क्षत्रियाय ब्राह्मणं ब्रूयान्नैनँ सुरा पीता हिनस्ति य एवं विद्वान् सुरां पिबति प्रजापतेर्वा एषा तनूर्वीर्यं प्रजापतिर्वीर्यमेवास्मिन् दधाति ॥१२॥

स्वर्भानुर्वा आसुरस्सूर्यं तमसाविध्यत् स न व्यरोचत तस्माद्देवास्तमोऽपालुम्पन् यत् प्रथममपालुम्पन् साविष्कृष्णाभवद्यद् द्वितीयँ सा फल्गुर्यत् तृतीयँ सा बलक्षी यदध्यस्थादपालुम्पन् साविर्वशाभवदथ व इयं तर्ह्यृक्षालोमकासीत् तां देवा अदित्यै कामायालभन्त तयास्यां लोमान्यरोहयँस्ततो वा इयं लोमान्यगृह्णात् तामेतामेवमालभेतादित्यै कामाय यमेव कामं कामयते तँ स्पृणोत्यमुतो वा आदित्यस्यार्वाङ् रश्मिरवातिष्ठच्चात्वालमभि तदिमे मिथुनँ समभवताँ सविर्वशाभवदथ वा इमास्तर्ह्यफला ओषधय आसँस्तां देवा आदित्येभ्यः कामेभ्य आलभन्त तया सु फलमग्राहयँस्ततो वा इमाः फलमगृह्णँस्ते एते एवमालभेतादित्या अन्यां कामायादित्येभ्योऽन्यां कामेभ्य उभाभ्यामेव सृष्टिभ्यां कामायालभते सारस्वतीं मेषीमालभेत यस्माद् वागपक्रामेद् वाग्वै सरस्वती सरस्वत्येतस्मादपक्रामति यस्माद् वागपक्रामति यत् सारस्वती वाचमेव समक्षमाप्त्वावरुन्द्धेऽपन्नदती भवति सर्वत्वायानास्कन्ना समृद्ध्यै यस्त्रेतानामुत्तमो जायेत तमूर्ज आलभेतोर्क्कामो नाना वा एतौ स्तना अभिजायेते अथैष ऊर्जमेवाभिजायत ऊर्जमेवैतेनाप्त्वावरुन्द्ध औदुम्बरो यूपो भवति देवा वै यत्रोर्जं व्यभजन्त तत उदुम्बरोऽजायत यदौदुम्बर ऊर्ज एवावरुद्ध्या एतमेव सौमापौष्णमालभेत प्रजाकामो वा पशुकामो वा सोमो वै रेतोधाः पूषा प्रजनयिता सोम एवास्मै रेतो दधाति पूषा प्रजनयति विन्दते प्रजां वा पशून् वा यतरस्मै कमायालभते वायवे श्वेतमजमालभेत बुभूषन् वायुर्वै देवानां क्षेपिष्ठस्तमेव भागधेयेनोपधावति स एनमाशिष्टँ श्रियमभिप्रणयति स निमार्ष्टि स प्रधन्वति स एवैनँ श्रियमभिप्रणयति ।। स एष आचोपच उत पुण्यो भवत्युतो यथेव तथेव वायवे नियुत्वते श्वेतमजं पिप्लुकर्णमालभेत सजातकामो वायुं वा इमाः प्रजा नस्योता इत्थं चेत्थं चानुचरन्ति प्राणो वायुर्वायुर्देवानां विशो नेता नियुतो देवानां विंशस्तमेव भागधेयेनोपधावति सोऽस्मै विशं निनयति यन्नियुत्वत आरंम्भणमेव कुरुतेऽनिर्मार्गाय वायवे श्वेतमजमालभेत कामेभ्योऽणु वा एष कामयते यः कामयते वायुर्देवानामण्वनुवाति तमेव भागधेयेनोपधावति सोऽस्य कामाननुवाति।।१३।।

आ नो मित्रावरुणा प्र बाहवा ।।
इन्द्रावरुणयोरहँ सम्राजोरव आवृणे । ता नो मृडात ईदृशे ।।
नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा ।।
इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ।।
त्वं नो अग्ने स त्वं नो अग्ने शं नो भवन्तु वाजे वाजे ।।
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृतास्सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ।।
एनाङ्गूषेण वयमिन्द्रवन्तोऽभिष्याम वृजने सर्ववीराः ।
तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ।।
अग्निर्मूर्धा ।।
प्र सो अग्ने तवोतिभिस्सुवीराभिस्तिरते वाजभर्मभिः । यस्य त्वँ सख्यमावरः ।। अग्ने वाजस्याग्ने त्री ते । ।
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ।।
उभा जिग्यथुर्न पराजयेथे ने पराजिग्ये कतरश्चनैनोः ।
इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ।
इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुन्वते ।
अग्ने घृतस्नुस्त्रिर्ऋतानि दीद्यद् वर्तिर्यज्ञं परियन् सुक्रतूयसि ।।
त्रीण्यायूँषि तव जातवेदः ॥१४॥

दूतं वो विश्ववेदसँ हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा ।।
स हि वेदा वसुधितिं महाँ आरोधनं दिवः । स देवाँ एह वक्षति ।।
स वेद देव आनमं देवाँ ऋतायते दमे । दाति प्रियाणि चिद् वसु ॥
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते । विद्वाँ आरोधनं दिवः ॥
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः । य ईं पुष्यन्त इन्धते ॥
ते राया ते सुवीर्वैस्ससवाँसो विशृण्विरे । ये अग्ना दधिरे दुवः ॥
अभि त्वा शूर नोनुमस्त्वामिद्धि हवामहे ।।
यद् द्याव इन्द्र ते शतँ शतं भूमीरुत स्युः ।।
न त्वा वज्रिन् सहस्रँ सूर्या अनु न जातमष्ट रोदसी ॥
बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ।।
ता अस्य नमसा सहो रेवतीर्न इमं मे वरुण तत्त्वायामि ।।
रदत् पथो वरुणस्सूर्याय प्रार्णाँसि समुद्रिया नदीनाम् ।
सर्गो न सृष्टो अर्वतीर्ऋतायञ्चकार महीरवनीरहभ्यः ।।
प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय ।
वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ।।
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपादाशुहेमा कुवित् स सुपेशसस्करोति जोषिषद्धि ।।
इमँ स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ।।
आपो रेवतीः ।।
आपः पृणीत भेषजं वरूथं तन्वे मम । ज्योक् च सूंर्य दृशे ।।१५।। [९०९ ]


॥ इति श्रीयजुषि काठके चरक शाखायामिठिमिकायां पयस्स्थानकं नाम द्वादशं स्थानकं संपूर्णम् ॥१२॥