प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं१० काठकसंहिता (विस्वरः)
स्थानकम् ११
[[लेखकः :|]]
स्थानकं १२ →
मारुतम्

अथैकादशं स्थानकम् ।

मारुतम् ।
मारुतं च निर्वपेत् तस्यैकविंशतिनिर्बाधो हरितो रुक्मोऽपिधानस्स्यात् तस्यापग्राहमवद्येद्यत् क्षत्रियं विण् निर्बाधे कुर्वीत विड्वै मरुतो भागधेयेनैवैनाञ्छमयत्येकविंशतिनिर्बाधो भवत्येकविंशतिर्वै मारुता गणा यदेकविँशतिनिर्बाधो निर्बाधैरेवैषां निर्बाधान् वृङ्क्त ऐन्द्रमेकादशकपालं निर्वपेद् वैश्वदेवं द्वादशकपालँ सजातकामः क्षत्रं वा इन्द्रो वैश्वदेवीरिमाः प्रजाः क्षत्रायैव विशमनुनियुनक्त्यैन्द्रस्यावदायाथ वैश्वदेवस्योभे अवदाने अवद्येदथैन्द्रस्य क्षत्रं वा इन्द्रो वैश्वदेवीरिमाः प्रजाः क्षत्रेणैव विशमुभयतः परिगृह्णात्यैन्द्री वैश्वदेववर्णे याज्यानुवाक्ये भवतस्समृद्ध्या उपचाय्यपृडं हिरण्यं दक्षिणा सजातानेवास्मा उपदधाति तदेतदनुवर्त्म नाम हविस्सजातानेवास्मा अनुवर्त्मनः करोति सौम्यँ श्यामाकं चरुं निर्वपेत् सोमवामीन्द्रो वै त्वष्टुस्सोममनुपहूतोऽपिबत् स विश्वक् सोमपीथेन व्यार्ध्यत तस्मात् सोमो नानुपहूतेन पातवै सोमपीथेन व्यर्धुको भवति स यत् परावमीत्ते श्यामाका एष वाव स सोमपीथो यच्छ्यामाकस्समक्षमेव सोमपीथमवरुन्द्धे सौमेन्द्रः कार्य इन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्सोमं वमिति सौम्यो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यत् सौमेन्द्र इन्द्रियेणैवैनँ सोमपीथेन समर्धयत्यधृतो वा एतस्मिन् सोमपीथो यस्सोमं वमिति तण्डुलानुच्छिँषेत् तान् क्वथति प्रत्यावपेत् सोमपीथमेवास्मिन् दधाराग्नये ज्योतिष्मतेऽष्टाकपालं निवपेत् सौर्यं चरुमग्नये ज्योतिष्मत उपरिष्टादष्टाकपालं चक्षुष्कामोऽग्नेर्वै मनुष्या नक्तं चक्षुषा पश्यन्ति सूर्यस्य दिवा तौ चक्षुषः प्रदातारौ ता एव भागधेयेनोपधावति ता अस्मै चक्षुः प्रयच्छतो यत् समानी देवता द्वेधा क्रियते तस्मात् समानँ सच्चक्षुर्द्वेधा तस्मात् समानी याज्यानुवाक्ये भवतस्सौर्यस्य मध्यतोऽवद्यतीदमेव तेन करोति यदिदमन्तरा चक्षुषी चक्षुषोर्व्यावृत्त्यै त्रीन् पिण्डान् प्रयच्छत्युदु त्यं जातवेदसमयुक्त सप्त शुन्ध्युवस्सप्त त्वा हरितो रथ इति चक्षुरेवास्मै तत् प्रयच्छति यदेव तस्य तत् सैषा राजनी नामेष्टिरेतया ह वै रजनं कोणेयं क्रतुजिज्जानकिश्चक्षुष्कामं याजयांचकार तयैतया चक्षुष्काम एव यजेताग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं बार्हस्पत्यमष्टाकपालं बुभूषन्निन्द्रो वा अधृतश्शिथिल इवामन्यत सोऽग्नौ चैव बृहस्पतौ चानाथत तमेतयेष्ट्यायाजयतां यदाग्नेयस्तेज एवास्मिँस्तेन पुरस्तादधत्तां यदैन्द्र इन्द्रियमेवास्मिँस्तेन मध्यतोऽधत्तां यद्बार्हस्पत्य उपरिष्टादेवास्मिँस्तेन ब्रह्मवर्चसमधत्तां ततो वै सोऽभवदेतया यजेत बुभूषन् यदाग्नेयस्तेजो वा अग्निस्तेज एव तेन पुरस्ताद्धत्ते यदैन्द्र इन्द्रियं वा इन्द्र इन्द्रियमेव तेन मध्यतो धत्ते यद्बार्हस्पत्यो ब्रह्म वै बृहस्पतिरुपरिष्टादेव तेन ब्रह्मवर्चसं धत्ते भवत्येवैन्द्र इतरयोर्नाभी समादधातीन्द्रियमेवास्मिन् मध्यतस्समादधात्यैन्द्रो मध्ये भवत्यभित इतरौ तेजो वा अग्निरिन्द्रियमिन्द्रो ब्रह्म बृहस्पतिस्तेजसा चैव ब्रह्मवर्चसेन चेन्द्रियमुभयत आत्मन् परिगृह्णाति त्रिवतीर्याज्यानुवाक्या भवन्ति समृद्ध्यै तदेतत् त्रिधातु नाम हविस्त्रीणि हि स तेन वीर्याण्यधत्त ।। १ ।।

आग्नेयमष्टाकपालं निर्वपेत् सावित्रमष्टाकपालं वायव्यां यवागुं भौममेककपालं यस्य हिरण्यमपहृतं वोपहृतं वा स्याद्यो वा कामयेत हिरण्यं विन्देयेत्यग्निर्वा अन्ने हिरण्यमविन्दत् तस्मिन् सविता चामन्त्रयतान्नेऽतो वायुनानुपगतमस्त्यस्यामेतद्विन्दन्त्यस्यां पुनन्ति यदाग्नेयो वित्त्या एव स जातवेदा इति हि प्रसवायैव सावित्रोऽभिनीत्यै वायव्यास्यामेतद्विन्दन्यस्यां पुनन्त्येता वै देवता हिरण्यस्येशते ता एव भागधेयेनोपधावति ता अस्मै हिरण्यं ददति यदा हिरण्यं विन्देताथैतामेव निर्वपेद्या एवास्मै देवता हिरण्यं ददति ता एव भागिनीः करोत्यात्मनोऽहिँसाया आग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं दधि मधु घृतं धानास्तण्डुलास्तत् सँसृष्टँ स्यात् तेन पशुकामो यजेतर्याध्ेक एवाग्नेयो यदैन्द्र इन्द्रः पशूनां प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै पशून् प्रयच्छति यत् सँसृष्टं पशवो वै सँसृष्टं पशूनेवावरुन्द्ध ऐन्द्रः कार्यमिन्द्रः पशूनां प्रदाता यदैन्द्रे द्वे सह कुर्याज्जामि स्यात् प्राजापत्यं कार्यं प्रजापतिः पशूनां योनिस्स्वादेवैनान् योनेः प्रजनयति प्रजापतिः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै पशून् प्रयच्छति रेवती सँसृष्टस्य याज्यानुवाक्ये शक्करी इतरस्य पशवो वै रेवती पशवश्शक्वरी पशूनेवावरुन्द्धे पञ्चैतानि सँसृष्टानि द्वे इतरे तानि सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशूनेवावरुन्द्धे । पङ्क्तिरपिभवति पाङ्क्तः पुरुषस्सर्व एवं भूत्वा पशूनुपैति घृतं भवत्याग्नेयं वै घृतमग्निः प्रवापयिता प्रैव तेन वापयति मधु भवति सौम्यं वै मधु सोमो रेतोधा रेत एव तेन दधाति धानाश्च तण्डुलाश्च भवन्त्यह्नो वै रूपं धाना रात्र्यास्तण्डुला अहोरात्रे पशवोऽनुप्रजायन्ते नक्तं वा हि दिवा वा प्रजायन्तेऽहोरात्रे एवैनाननुप्रजनयति दधि भवत्येतद्रूपा वै पशवो यद्दधि सरूपानेव पशूनवरुन्द्धे न मधु होतव्यमायुर्वै मध्वायुरग्नौ प्रदध्यात् प्रमायुकस्स्यादेतयेष्ट्वायुष्यया यजेत पशूनेवावरुध्यायुरुपैति यद्येतया न यजेत वरं दद्याद्वरेणैव वरँ स्पृणोति ।। द्वौ दद्याद् द्वौ हि प्राणश्चापानश्च त्रीन् दद्यात् त्रयो हि प्राणाः प्राणो व्यानोऽपानस्तानेव यजमाने दधात्येकमेव दद्यात् त्रिवृतं तु त्रिवृद्धि प्राणो बहु वा एतदन्यदन्यज्जुहोति स ईश्वरोऽन्यद्रूपं पोष्टोस्सिध्मां गां दद्याद्रूपाणां निष्क्रीत्यै सर्वाणि वयाँसि दद्यात् सर्वानेव पशूनवरुन्द्धे यदि नाभ्याशँसेत पष्ठौहीमन्तर्वतीं दद्यात् सा हि सर्वाणि वयाँसि यद्वत्सं बिभर्ति तेन वत्सा यद्वत्सतरी तेन वयो यत् परं वय आप्ता तेन स्थविरा तयैव सर्वान् पशूनवरुन्द्ध आपो वा इदं निरमृजन् स मनुरेवोदशिष्यत स एतामिष्टिमपश्यत् तामाहरत् तयायजत तयाप्रथत तयेमं भूमानमगच्छत् प्रथत एव तं भूमानं गच्छति यं मनुरगच्छद्य एवं विद्वानेतया यजेत ।। २ ।।

देवा वै न समजानत ते चतुर्धा व्युदक्रामन्नग्निर्वसुभिस्सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैस्तान् बृहस्पतिरब्रवीद्याजयानि वस्सं वै ज्ञास्यध्व इति तव गृहे याजयानीतीन्द्रमब्रवीत् तव वै श्रैष्ठ्याय संज्ञास्यन्त इति सोऽग्नये वसुमतेऽष्टकपालं निरवपत् सोमाय रुद्रवते चारुमिन्द्राय मरुत्वत एकादशकपालं वरुणायादित्यवते चरुं तानिन्द्रस्य गृहेऽयाजयत् ततो वै ते समजानत त इन्द्रस्यैव श्रैष्ठ्याय समजानत स त्रिष्टुभौ याज्यानुवाक्ये अकरोत् त्रिष्टुब् वा इन्द्रस्य स्वं छन्द ओजो वीर्यं त्रिष्टुप् स्वेनैवास्मिञ्श्छन्दसौजो वीर्यमदधात् तस्मादिन्द्रो देवानामोजिष्ठो ये स्वा न संजानीरँस्तानेतया याजयेद्यं कामयेतायँ श्रेष्ठस्स्यादिति तस्य गृहे समेव जानत एता एवैनं देवता भागधेयमभि संजानानास्संज्ञापयन्ति त्रिष्टुभौ याज्यानुवाक्ये कुर्यादोजो वै वीर्यं त्रिष्टुबोज एवैषु वीर्यं दधाति संवती संयाज्ये समृद्ध्यै सैषा संज्ञानी नामेष्टिस्समेव जानते प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान्नक्षत्राणि स रोहिण्यामेवावसत् तन्यनुपेयमानानि पुनरगच्छँस्तस्मात् स्त्र्यनुपेयमाना पुनर्गच्छति तान्यन्वागच्छत् तानि पुनरयाचत तान्यस्मै न पुनरददात् सोऽब्रवीत् सर्वेष्वेव समावद्वसाथ ते पुनर्दास्यामीति से रोहिण्यामेवावसत् तं तस्मिन्ननृते यक्ष्मोऽगृह्णाच्चन्द्रमा वै सोमो राजा यद्राजानं यक्ष्मोऽगृह्णात् तद्राजयक्ष्मस्य जन्म स तृणमिवाशुष्यत् स प्रजापता अनाथत सोऽब्रवीत् सर्वेष्वेव समावद्वसाथ त्वातो मोक्ष्यामीति तस्माच्चन्द्रमास्सर्वेषु नक्षत्रेषु समावद्वसति तं वैश्वदेवेन चरुणामावस्यां रात्रीमयाजयत् तेनैनं यक्ष्मादमुञ्चत् सोऽमुमेवाप्यायमानमन्वाप्यायत वैश्वदेवेन चरुणामावस्यां रात्रीं यजेत यो राजयक्ष्माद्बिभीयाद्यक्ष्मादेवैनं मुञ्चति सोऽमुमेवाप्यायमानमन्वाप्यायते ॥३।।

बार्हस्पत्यं च निर्वपेदानुषूकानां व्रीहीणामानुजावरो बृहस्पतिर्वै देवानामानुजावरस्सोऽग्रं पर्यैद्बृहस्पतिरेतस्य देवता य आनुजावरस्तमेवान्वारभते स एनमग्रं परिणयति ब्रह्म वै बृहस्पतिर्ब्रह्म ब्राह्मणस्य पिता पिता पुत्रस्येशे प्राचो वापाचो वा नोत्तोर्ब्रह्मैवैनं पिताग्रं परिणयत्यानुषूका वा एते व्रीहयो य आनुजावरस्तानेतदग्रं परिणयति यद्धविष्करोति तानेवान्वारभते त एनमग्रं परिणयन्ति पुनः प्रवृद्धं बर्हिर्भवति पुनः प्ररूढ इध्मस्समृद्ध्यै बार्हस्पत्यं चरुं निवपेत् सजातकामस्तस्य गणवती याज्यानुवाक्ये स्यातां बार्हस्पत्यो वै ब्राह्मणो देवतया स्वामेव देवतां भूयिष्ठेनार्पयते गणवती याज्यानुवाक्ये भवतस्सजातैरेवैनं गणिनं करोति ब्राह्मणस्पत्यं चरुं निर्वपेत् तस्य मारुती याज्यानुवाक्ये स्यातां यः कामयेत ब्रह्म बलं स्यादिति ब्रह्म वै ब्रह्मणस्पतिर्विण्मरुतो ब्रह्मण्येव विशमनुविनाशयति ताजग् ब्रह्म बलं भवत्यर्यम्णे चरुं निर्वपेद्यः कामयेत दानाकामा मे प्रजास्स्युरित्येष वा अर्यमा यो ददाति दानमिमाः प्रजा उपजीवन्ति दानकामा अस्मै भवन्त्यैन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्याय बुभूषते देवा वै राजन्याज्जायमानादबिभयुस्तमनुहाय दाम्नाषौम्भन्नपोब्धो वा एष जायते यो राजन्यो यद्वा एषोऽनपोब्धो जायेत न किंचन स्यात् सर्वा इमाः प्रजा अधिषादमद्यादैन्द्रो राजन्यो देवत्या ब्रह्म बृहस्पतिर्ब्रह्मणैवैनमपोम्भनान्मुञ्चति सोऽनपोब्धो वीर्याय प्रस्रियते द्विवृद्धिरण्यं दक्षिणा यदेवादो दाम तस्य निरवत्त्यै प्राजापत्यं चरुं निर्वपेच्छतकृष्णलं घृत आयुष्कामो देवा वै प्रमयादबिभयुस्ते प्रजापता अनाथन्त तानेतयेष्ट्यायाजयदमृतं वै हिरण्यममृतेनैवैष्वमृतमदधात् ततो वै तेऽमृता अभवन्नेतया यजेत यः प्रमयाद्बिभीयादमृतं वै हिरण्यममृतेनैवास्मिन्नमृतं दधाति शतकृष्णलो भवति शतायुर्वै पुरुषश्शतवीर्यआयुरेव वीर्यमवरुन्द्धे वैश्वदेवः कार्यो विश्वान् हि स तद्देवानयाजयत् प्राजापत्यः कार्यः प्रजापतिर्योनिर्योना एव प्रतितिष्ठति ।। चत्वारि चत्वारि कृष्णलान्यवदानं भवति समृद्ध्यै तं ब्रह्मणे परिहरन्ति ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन्नेकधायुर्दधात्येतया यजेत यः कामयेत वसीयान् स्यामित्येष वै मनुष्यस्य स्वर्गो लोको यदस्मिंल्लोके वसीयान् भवत्यृध्नोति वसीयान् भवति य एवं विद्वानेतया यजेत सौर्यं चरुं निर्वपेद्गतश्रीस्तस्य हरितो रुक्मोऽपिधानस्स्याद्रजतोऽधस्तादसौ वा आदित्योऽन्तोऽन्तं मनुष्याश्श्रियो गत्वा निवर्ततेऽन्तादेवान्तमालभते न ततः पापीयान् भवति यादृक् सन् यजतेऽसौ वा आदित्य इदमासीत् स इदं निर्दहन्नचरत् तं देवा आभ्यां परिगृह्यामुं लोकमगमयन् स न व्यरोचत ते प्रयाजेषु पञ्च हिरण्यकृष्णलान्यजुहवुस्तेजो वै हिरण्यं तेजसैवास्मिंस्तेजोऽदधुस्ततो वै स तेजो ऽगृह्णात् स इमाः पञ्च दिशोऽनु तेजस्व्यभवदियं वै रजतासौ हरिण्याभ्यामेवैनं परिगृह्यामुं लोकं गमयति स वै न विरोचत इत्याहुर्न हि स व्यरोचतेति प्रयाजेषु पञ्च हिरण्यकृष्णलानि जुहुयात् तेजो वै हिरण्यं तेजसैवैनँ सँसृजति स इमाः पञ्च दिशोऽनु तेजस्वी भवति ।। ४ ।।
 
सौमारौद्रं चरुं निर्वपेच्छुक्लानां व्रीहीणाँ श्वेताश्वेतवत्साया आज्यं मथितँ स्यात् तस्मिन् ब्रह्मवर्चसकामस्स्वर्भानुर्वा आसुरस्सूर्यं तमसाविध्यत् स न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छँस्तमेतयेष्ट्यायाजयँस्तयास्मात् तमोऽपाघ्नँस्तमसैष प्रावृतो योऽलं ब्रह्मवर्चसाय सन्न ब्रह्मवर्चसी भवति तम एवास्मादपहन्ति ब्रह्मवर्चसैनैनँ सँसृजति श्वेतायाश्वेतवत्साया आज्यं भवति शुक्ला व्रीहय एवमिव वै ब्रह्मवर्चसं ब्रह्मवर्चसमेव संदधाति ।। घृतेन प्रोक्षन्ति घृतेन मार्जयन्ते शान्त्यै शान्तिर्ह्यापोऽप्यस्य तां रात्रीमपो गृहान्नावहरेयुः परिश्रिते यजेत ब्रह्मवर्चसस्य परिगृहीत्यै प्रादेशमात्रश्चरुरूर्द्वो भवत्येवं तिर्यङ्ङेतावान् वै पुरुषो यावदस्य प्राणा अभि यावानेवास्यात्मा तस्मात् तमोऽपहन्ति साकं रश्मिभिः प्रचरन्त्यसा एवास्मादादित्य उद्यँस्तमोऽपहन्ति तिष्यापूर्णमासे यजेत तिष्यो वै रुद्रश्चन्द्रमास्सोमस्सौमीरतः प्राचीनमोषधयो रौद्रीः प्रतीचीनँ शुष्यन्ति प्राचीनँ शुष्यन्ति प्रतीचीनं प्रत्यक्षमेवैना ऋध्नोतीश्वरो दुश्चर्मा भवितोर्य एतया यजतेऽतीव ह्यस्मादपहन्ति मनोर्ऋचस्सामिधेनीष्वप्यनुब्रूयान्मनुर्वै यत् किंचावदत् तद्भेषजमासीद्भेषजमेवास्मै करोत्युपक्षरन्ति सिन्धवो मयोभुव इति नाराशँस्या परिददाति शान्त्यै षट्पदा भवति षड्वा ऋतव ऋतुष्वेव प्रतितिष्ठतीश्वरस्तु तदति दुश्चर्मैव भवितोस्तेजाँसि ह्येष प्रत्यारोहन्नेति सौमापौष्णं चरुं पशुकामोऽनुनिर्वपेत् सोमो वै ब्राह्मणस्य स्वा देवता पशवः पूषा स्वामेव देवतां पशुभिर्बँह्यते त्वचमेव कुरुते सौमारौद्रं च निर्वपेत् कृष्णानां व्रीहीणामभिचरन् सोमो वा आसां प्रजानामधिपती रुद्रोऽग्निरधिपतिर्वध्यस्य चावध्यस्य चेशेऽधिपतिमेवैनं निर्याच्य रुद्रायापिदधाति कृष्णानां व्रीहीणां भवति कृष्णमिव तमस्तमो मृत्युर्मृत्युनैवैनं ग्राहयति शरमयं बर्हिश्शीर्त्यै वैभीतक इध्मो विभित्त्यै सौमारौद्रं चरुं निर्वपेद् भ्रातृव्यतायै वा द्वितीयतायै वा तस्यार्धमर्धँ सर्वँ स्यादर्धँ शुक्लानां व्रीहीणाँ स्यादर्धं कृष्णानामर्धँ शरमयं बर्हिषोऽर्धं दर्भमयमर्धँ वैभीतकमिध्मस्यार्धमन्यस्य वृक्षस्य सोमो वै ब्राह्मणस्य स्वा देवता स्वायामेवास्मै देवतायां द्वितीयं जनयति यदर्धमर्धं द्वितीयत्वायैव तत् सौमारौद्रं चरुं निर्वपेत् पयस्यामयाविनस्सौम्यो वै जीवन्नाग्नेयः प्रमीतो नैष जीवो न मृतो य आमयावी तयोरेवैनं भागधेयेन निष्क्रीणाति ।। पयसि भवति पयो वै पयः पयः पुरुषः पय एतस्यामयति यस्यामयति पयसैवास्य पयस्स्पृणोति ग्रसितं वा एष एतँ सोमारुद्रयोर्निष्खिदति यो होता भवति स ईश्वरः प्रमेतोरनड्वाहं तस्मै दद्यात् तँ हन्यात् तस्याश्नीयात् सैव तत्र प्रायश्चित्तिस्सौमारौद्रं चरुं निर्वपेत् प्रजाकामो वा पशुकामो वा सोमो वै रेतोधा रुद्रोऽग्निस्स प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजनयति विन्दते प्रजां वा पशून् वा यतरस्मै कामाय निर्वपति।।५॥

आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वापरुरुत्स्यमानो वादित्या वै त्रातार आदित्या अपरोद्धारस्तानेव भागधेयेनोपधावति त एनं दाध्रत्यादित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्बुभूषन्नदितिर्वै प्रजाकामौदनमपचत् तस्योच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त सामन्यतेतो मे श्रेयाँसोऽजनिष्यन्त यत् पुरस्तादशिष्यमिति सापरमपचत् तस्योभयत आश्नात् पुरस्ताच्चोपरिष्टाच्च सा गर्भमधत्त सोऽन्तरेव गर्भोऽवदत् त आदित्या अमन्यन्तायं च वै जनिष्यते स एवेदं भविष्यतीति तं निरघ्नन् स निरस्तोऽशयत् सा तृतीयमपचदादित्येभ्य एवास्त्वेव स यस्तस्माद्योनेरभूद्यस्माद्यूयमसृज्यध्वमिति तँ समस्कुर्वँस्तस्य यन्मृतमासीत् तदपाकृन्तन् स हस्त्यभवद्यज्जीवँ स विवस्वाँ आदित्यस्स न तथासीद्यथा तेन भवितव्यं स एतमादित्येभ्यो भुवद्वद्य्तश्चरुं निरवपत् स्वो वै स्वाय नाथिताय सुहृदयतमस्स्वानेवोपाधावत् ततो वै सोऽभवदादित्या इमाः प्रजास्स्वस्स्वाय नाथिताय सुहृदयतमस्स्वानेव भागधेयेनोपधावति भृत्यै भवत्येवादित्या भागं वः करिष्यामीति निर्वपन् ब्रूयादिमममुमामुष्यायणममुष्याः पुत्रममुष्यां विश्यवगमयतेति भागधेयमेवैभ्यः कुर्वन् प्राह तमादित्येभ्यश्चरुं निर्वपत्यादित्या देवविशा देवविशा मनुष्यविशाया ईशे देवविशैवैनं मनुष्यविशामवगमयति सप्ताश्वत्था मयूखा भवन्ति तानिध्मेऽपि प्रोक्षति त आ सँस्थातोर्वेद्याँ शेरते तान् सँस्थिते मध्यमेषायामुपहन्तीदमहमादित्यान् बध्नाम्यमुष्यामुष्यायणस्यावगमायेति यद्या सप्तमादह्नो नावगच्छेदिध्मं तान् कृत्वापरया यजेतैवं द्वितीययैवं तृतीयया त्रिर्वा आदित्यास्सप्त सप्त यावन्त एवादित्यस्तान् बध्नाति त एनं बद्धा मोक्षमाणा अवगमयन्ति ।। विशो वीर्यमपाक्रामत् तदश्वत्थं प्राविशत् तस्मादेषोऽधृतस्सर्वाहा पर्णमेजयँस्तिष्ठति यदाश्वत्था भवन्ति विश एवास्मिन् वीर्यं बध्नाति सत्याशीरिह मन इति निरुद्धस्य पदमादधीतामनस एवैनान् करोत्युप प्रेत मरुतस्स्वतवस एना विश्पतिनाभ्यमुं राजानमिति विशोऽभिवातमभिध्वँसयन् परीयादभिमनस एवैनान् करोति यः परस्ताद्ग्राम्यवादी स्यात् तस्य गृहाद्व्रीहीनाहरेयुस्ताञ्छुक्लाँश्च कृष्णाँश्च विचिनुयुर्ये शुक्लास्तमादित्येभ्यश्चरुं निर्वपेद्ये कृष्णा नि तान् दध्युरादित्या देवविशा देवविशा मनुष्यविशाया ईशे देवविशैवैनं मनुष्यविशामवगमयत्येतद्विशमवागन्नित्याहुरथ क्व क्षत्रमिति यदा वै क्षत्रमवगच्छत्यथावगच्छति यदावगच्छेद्ये कृष्णास्तं वारुणं चरुं निर्वपेत् क्षत्रं वै वरुणो वरुण एवैनं क्षत्रमवगमयत्युभे विशा अवगच्छति देवविशां च मनुष्यविशां च यच्छुक्लानामादित्येभ्यो निर्वपति तस्माच्छुक्ल इव वैश्यो जायते यत् कृष्णानां वारुणं तस्माद्धूम्र इव राजन्यः ।।६।।

अग्नेरायुरसि तस्य ते मनुष्या आयुष्कृतस्तेनास्मा अमुष्मा आयुर्धेहीन्द्रस्य प्राणस्स ते प्राणं ददातु यस्य प्राणस्तस्मै ते स्वाहा पितॄणां प्राणस्ते ते प्राणं ददतु येषां प्राणस्तेभ्यो वस्स्वाहा मरुतां प्राणस्ते ते प्राणं ददतु येषां प्राणस्तेभ्यो वस्स्वाहा विश्वेषां देवानां प्राणस्ते ते प्राणं ददतु येषां प्राणस्तेभ्यो वस्स्वाहा प्रजापतेः परमेष्ठिनः प्राणस्स ते प्राणं ददातु ययोः प्राणस्ताभ्यां वाँ स्वाहा यदसर्पस्तत् सर्पिरभवो यन्नवमैस्तन्नवनीतमभवो यदघ्रियथास्तद् घृतमभवः ॥
घृतस्य धाराममृतस्य पन्थामिन्द्रेण दत्तं प्रयतं मरुद्भिः ।।
तत्त्वा विष्णुरन्वपश्यत् तत्त्वेडा गव्यैरयत् ।।
पावमानेन त्वा स्तोमेन गायत्र्या वर्तन्योपाँशोर्वीर्येणोद्धराम्यसौ बृहता त्वा रथन्तरेण त्रिष्टुभा वर्तन्या शुक्रस्य वीर्येणोत्सृजाम्यसा अग्नेस्त्वा मात्रया जगत्या वर्तन्या देवस्त्वा सवितोन्नयतु जीवातवे जीवनस्याया असौ देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेषामयमायुषायुष्मानस्त्वसौ ब्रह्मायुष्मत् तद्ब्राह्मणैरायुष्मत् तस्यायमायुषायुष्मानस्त्वसा अग्निरायुष्मान् स वनस्पतिभिरायुष्माँस्तस्यायमायुषायुष्मानस्त्वसौ यज्ञ आयुष्मान् स दक्षिणाभिरायुष्माँस्तस्यायमायुषायुष्मानस्त्वसौ सोम आयुष्मान् स ओषधीभिरायुष्माँस्तस्यायमायुषायुष्मानस्त्वसा ओषधय आयुष्मतीस्ता अद्भिरायुष्मतीस्तासामयमायुषायुष्मानस्त्वसौ।
इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सँशिशाधि ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ।।
अश्विनोः प्राणस्तौ ते प्राणं दत्तां तेन जीव मित्रावरुणयोः प्राणस्तौ ते प्राणं दत्तां तेन जीव बृहस्पतेः प्राणस्स ते प्राणं ददातु तेन जीव ॥७॥

आग्नावैष्णवमेकादशकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं च पूर्वेद्युरेतया यक्ष्यमाणोऽग्निर्वै सर्वा देवता विष्णुर्यज्ञो वाक् सरस्वती ब्रह्म बृहस्पतिरेता एव देवताः पूर्वेद्युर्गृह्णाति प्राणा वै देवताः प्राणानेवं गृहीत्वोपवसत्याग्नेयमष्टकपालँ श्वो निर्वपेत् सौम्यं चरुमदित्यै चरुं वारुणं यवमयं चरुमग्नये वैश्वानराय द्वादशकपालमामयाव्यग्निं वै पुरुषस्य प्रमीतस्य माँसानि गच्छन्ति सोमं रसः पृथिवीँ शरीरमियमदितिरस्याँ हि शय एता वै देवताः पुरुषस्येशते ताभ्य एवैनमधि समीरयति ।। सौम्यो वै जीवन्नाग्नेयः प्रमीतो नैष जीवो न मृतो य आमयावी तयोरेवैनं भागधेयेन निष्क्रीणाति वरुणगृहीत एष य आमयावी यद्वारुणो वरुणादेवैनं मुञ्चति यवमयो भवति प्रादेशमात्रो भवति संवत्सरो वा अग्निर्वैश्वानर आयुस्संवत्सरस्संवत्सर एवैनमायुषि प्रतिष्ठापयति सर्वमायुरेति पञ्चैतानि हवीँषि पाङ्क्तः पुरुषः पुरुषमेवाप्नोत्यग्नेरायुरसीति हिरण्यं घृतेऽवदधात्यग्निजा वै हिरण्यं मनुष्या अग्नेरायुष्कृतस्तैरेवास्मा आयुर्दधातीन्द्रस्य प्राण इत्येतद्देवत्या वै प्राणास्तानेवास्मिन् दधात्येतद्देवत्या दिशो यथादेवतमेवैनं दिग्भ्योऽधि समीरयति पञ्चैतानि जुहोति पाङ्क्तः पुरुषः पुरुषमेव स्पृणोति।। सर्व ऋत्विजः पर्याहुस्सर्व एवास्मा ऋत्विजश्चिकित्सन्ति ब्रह्मणो हस्तमनु पर्याहुर्ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन्नेकधायुर्दधति यदसर्प इति घृतस्यैवैतज्जन्म बन्धुतां वीर्यं व्याचष्टे पावमानेन त्वा स्तोमेनेत्येतावद्वावास्ति यावद्ग्रहास्स्तोमाश्छन्दाँसि यावदेवास्ति तावतास्मै चिकित्सत्युद्धराम्युत्सृजाम्युन्नयामीति यथा वध्यमुद्धरत्युत्सृजत्युन्नयत्येवमेवैनमेतदुद्धरत्युत्सृजत्युन्नयति देवा आयुष्मन्त इति प्रयच्छत्येते वै देवा आयुष्मन्तस्तैरेवास्मा आयुः प्रयच्छति तत् पिबत्यायुरेव तत् पिबति यदेव तस्य तन्निरिव धयेद्धिरण्याद् घृतं तेजो वै हिरण्यमायुर्घृतं तेजस एवाध्यायुरात्मन् धत्त इममग्न आयुषे वर्चसे कृधीति हिरण्यमाबध्नात्यग्निर्वै सर्वा देवता आयुर्हिरण्यँ सर्वाभिरेवास्मै देवताभिराबध्नाति तिग्ममोजो वरुण संशिशाधीति समेवैनँ श्यति मातेवास्मा अदिते शर्म यच्छेतीयमदितिरस्यामेवैनं प्रतिष्ठापयति विश्वे देवा जरदष्टिर्यथासदिति जरामृत्युमेवैनं करोत्यश्विनोः प्राणो मित्रवरुणयोर्बृहस्पतेरित्येतद्देवत्या वै प्राणास्तानेवास्मिन् दधाति तानस्मिन्नधि वियातयति तानस्मादनपगान् करोति ॥८॥

पुरोवातो जिन्व रावत् स्वाहा वातावान् वर्षमुग्र रावत् स्वाहा स्तनयन् वर्ष भीम रावत् स्वाहावस्फूर्जन् विद्युद्वर्षँस्त्वेव रावत् स्वाहातिरात्रं ववृष्वान् पूत रावत् स्वाहा बहु हायमवृषदिति श्रुत रावत् स्वाहा तपति वर्षन् विराड् रावत् स्वाहा नशन्यवस्फूर्जन् विद्युद्वर्षन् भूत रावत् स्वाहा मान्दा वशाश्शुन्ध्युवोऽजिरा उन्दतीस्सुफेना ज्योतिष्मतीस्तमस्वतीर्मित्रभृतः क्षत्रभृतस्सुराष्ट्रा इह मावत ।। वृष्णस्संदानमसि वृष्यैी त्वोपनह्यामि देवा वसव्या अग्ने सोम सूर्योद्नो दत्तोदधिं भिन्त दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो मा वृष्ट्यावत देवाश्शर्मण्या मित्र वरुणार्यमन्नुद्नो दत्तोदधिं भिन्त दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो मा वृष्ट्यावत देवास्सपीतयोऽपां नपादाशुहेमन्नुद्नो दत्तोदधिं भिन्त दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो मा वृष्ट्यावत ।।
दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । यत् पृथिवीं व्युन्दन्ति ।
उदीरयत मरुतस्समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
न वो दस्रा उपदस्यन्ति धेनवश्शुभं यातामनु रथा अवृत्सत ।।
आ यं नरस्सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
प्र पर्जन्यस्सृजतां रोदसी अनु धन्वना यन्तु वृष्टयः ।।
सृजा वृष्टिं दिव आद्भिस्समुद्रं पृण ये देवा दिविभागा येऽन्तरिक्षभागा ये पृथिविभागास्त इमं यज्ञमवन्तु त इदं क्षेत्रमाविशन्तु त इदं क्षेत्रमनुविविशन्त्वब्जा असि प्रथमजा बलमसि समुद्रियं दिवो धारां भिन्द्धि मारुतमसि मरुतामोजोऽपां धारां भिन्द्धि ।।
उन्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभः ।।
उद्नो दिव्यस्य नो देहीशानो विष्या दृतिम् ।।
कृष्णं नियानँ हरयस्सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन् सदनानि रात्वी घृतेन द्यावापृथिवी व्युन्दन् ॥९॥

कृष्णाजिनं भवति मधु करीराणि श्यावस्याश्वस्य दाम तानि पूर्वस्याग्नेरन्ते निधाय कृष्णं वासो यजमानं परिधापयित्वान्वारम्भयित्वैतानि जुहोति वातनामानि वा एतान्येष वै वर्षस्येशे यदा ह्येष आप्याययति यदा समीरयति यदा प्रदापयत्यथ वर्षति तमेव भागधेयेनोपधावति सोऽस्मै प्रीतो वृष्टिं निनयत्यष्टा एतानि जुहोति चतस्रो दिशश्चतस्र उपदिशा यथादिशमेव दिग्भ्यो वृष्टिं संप्रच्यावयति कृष्णाजिने संयौति हविरेवं करोति मधुना संयौत्यपां व एष ओषधीनां रसो यन्मध्वद्भ्य एष ओषधिभ्यो वर्षति यर्हि वर्षत्यद्भ्य एवौषधिभ्यो वृष्टिं निनयति ।। मान्दा वशा इत्येतानि वा अपां नामधेयानि यथाद आहासा एह्यसा एहीत्येवमेवैना एतन्नामग्राहं दिवश्च्यावयति न वा अन्ययेत्याहुस्सौम्या आहुत्या दिवो वृष्टिं च्यावयितुमर्हतीति यतीन् सालावृकेया आदँस्तेषाँ शीर्षाणि परापतँस्ते खर्जूरा अभवन् यस्सोमपीथस्स ऊर्ध्वोऽपतत् तानि करीराणि यत् करीराणि भवन्ति सौम्यैवाहुत्या दिवो वृष्टिं निनयति तस्मात् करीराणि न स्त्रियै दद्यान्न शूद्रायासोमपीथ इव ह्येष वृष्णस्संदानमसि वृष्ट्यै त्वोपनह्यामीति वृषा ह्यश्वो वृषा पर्जन्यस्समृद्ध्यै श्यावस्याश्वस्य दाम भवति श्याव इव ह्येष वर्षिष्यन् भवति। देवा वसव्या देवाश्शर्मण्या देवास्सपीतय इत्येता वै देवता वर्षस्येशते ताभिरेवास्मा अन्वहं वृष्टिमिच्छति कृष्णाजिन उपनह्यत्यृक्सामयोर्वा एतद्रूपं यत् कृष्णाजिनमृक्सामाभ्यामेवास्मै वृष्टिमिच्छति यदि वर्षेत् तदैवेष्टिं निर्वपेद्यदि न वर्षेत् तथैव वसेयुरहोरात्रे वै मित्रावरुणा अहोरात्रे पर्जन्योऽनुवर्षति नक्तं वा हि दिवा वा वर्षत्येतौ वर्षस्येशाते ता एव भागधेयेनोपधावति ता अस्मै प्रीतौ वृष्टिं निनयतोऽग्नये धामच्छदे श्वोऽष्टाकपालं निर्वपेन्मारुतं चरुँ सौर्यमेककपालमग्निर्वा इतो वृष्टिमुदीरयति धामच्छदिव भूत्वा वर्षति मरुतस्सृष्टां वृष्टिं नयन्ति ।। यदासा आदित्योऽर्वाङ् रश्मिभिः पर्यावर्ततेऽथ वर्षत्येता वै देवता वर्षस्येशते ता एव भागधेयेनोपधावति ता अस्मै प्रीता वृष्टिं निनयन्त्यप्यवर्षिष्यन् वर्षत्येव षडेतानि हवीँषि षड्वा ऋतव ऋतुभ्य एव वृष्टिँ संप्रच्यावयति यत् सप्तमँ संवत्सरादेव तेन वृष्टिं च्यावयत्यथैता मारुतीश्चतस्रः पित्र्यास्तासां तिसृभिः प्रचरन्ति न्येकां दधत्यृचोऽनुवाक्या यजूँषि याज्या मरुतो वै वर्षस्येशते तेभ्य एव भूयो भागधेयं करोति या चतुर्थी ताँ सँस्थितेऽप्सु जुहोति सृजा वृष्टिं दिव अद्भिस्समुद्रं पृणेत्याभिरेवामूरच्छैत्यथो इमाश्चैवामूश्च सँसृजति यै देवा दिविभागा इति कृष्णाजिनमवधूनोति दिशश्चैव देवताश्च तर्पयत्यथो इम एवास्य लोका अभीष्टाः प्रीता भवन्ति सैषा कारीरी नामेष्टिस्संवत्सरे करीराणां नाश्नीयाद्य एतया यजेताथो योऽनुब्रुवीत तदस्या व्रतम् ।।१०।।

या वां मित्रावरुणौ सहस्यौजस्या रक्षस्या यातव्या तनूस्तया वां विधेम तयेमममुमामुष्यायणममुष्याः पुत्रमँहसो मुञ्चतं यस्ते राजन् वरुण देवेषु पाशस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुणान्ने द्विपात्सु चतुष्पात्सु पशुषु वनस्पतिष्वोषधीष्वप्सु पृथिव्यां पाशस्तं त एतदवयजे तस्मै स्वाहा या वां मित्रावरुणौ सहस्यौजस्या रक्षस्या यातव्या तनूस्तया वामविधाम तयेमममुमामुष्यायणममुष्याः पुत्रमॅँहसोऽमौक्तम् ।।११।।

मक्षू देववतो रथश्शूरो वा पृत्सु कासु चित् ।।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ।।
नकिष्टं कर्मणा नशन्न प्रयोषन्न योषति ।
देवानां य ईन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान ने देवयो ।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ।।
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
अग्निं वः पूर्व्यं गिरा देवमीडे वसूनाम् ।।
सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ।।
उपक्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उपयन्ति विश्वतः ॥
सोमारुद्रा विवृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बाधेथां निर्ऋतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ।।
सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।
अवस्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ।।
सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु ।
दमे दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥
सोमापूषणेमौ देवौ महि वो महतामवः ।
वरुण मित्रार्यमन्नवाँस्यावृणीमहे ।।
यज्ञो देवानाम् ॥
धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥
तिस्रो भूमीर्धारयन् त्रीँरुतं द्यून् त्रीणि व्रता विदथे अन्तरेषाम् ।।
ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुण मित्र चारु ।।
इमा गिर आदित्येभ्यो घृतस्नूस्सनाद्राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्यमा भगो मे तुविजातो वरुणो दक्षो अँशः ॥
आदित्यासो अदितयस्स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥
इमं मे वरुणस्तभ्नाद् द्यामसुरः ॥१२॥

अग्नाविष्णू अग्नाविष्णू पावका न आ नो दिवो बृहस्पते जुषस्व नः ॥
बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत् तमाँसि ।।
अग्न आयूँषि पवसे ॥
आयुर्दा देव जरसं वृणानो घृतं वसानो घृतपृष्ठो अग्ने ।
घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम् ॥
गयस्फानः ।।
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ।
गयस्फानः प्रतरणस्सुवीरोऽवीरहा प्रचरा सोम दुर्यान् ॥
सुत्रामाणं महीमू ष्विमं मे वरुण तत्त्वायामि वैश्वानरो न ऊतये पृष्टो दिवि ॥
रमयता मरुतश्श्येनमायिनं मनोजवसं वृषणँ सुवृक्तिम् ।
येन शर्धोऽवसृष्टमुग्रमेति तमश्विना परिधत्तँ स्वस्ति ।
अभिक्रन्द स्तनय गर्भमाधा उदन्वता परिदीया रथेन ।
दृतिँ सु कर्ष विषितं न्यञ्चँ समा भवन्तूद्धतो निपादाः ॥
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर्न स्मयमानाभिरागात् पतन्ति मिहस्स्तनयन्त्यभ्रा ॥
कृष्णं नियानँ हरयस्सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन् सदनादृतस्यादिद् घृतेन पृथिवी व्युद्यते ।।
वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति । यदेषां वृष्टिरसर्जि ॥
दिवो नो वृष्टिं मरुतो ररीध्वं प्रपिन्वत वृष्णो अश्वस्य धाराः ।
अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥
परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः । उभे आपप्रौ रोदसी महित्वा ॥
वहिष्ठेभिर्विहरन् यासि तन्तुमवव्ययन्नसितं देव वस्म ।
दविध्वतो रश्मयस्सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥१३॥ [ ८४४] ॥

इति श्रीयजुषि काठके चरकशखायामिठिमिकायां मारुतं नाम एकादशं स्थानकं संपूर्णम् ॥११॥