प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← स्थानकं १३ काठकसंहिता (विस्वरः)
स्थानकम् १४
[[लेखकः :|]]
स्थानकं १५ →
वाजपेयम्।

अथ चतुर्दशं स्थानकम् ।

वाजपेयम् ।
इन्द्राय वाचं वदतेन्द्राय वाचं संवदतेन्द्रं वाजं जापयतेन्द्र वाजं जय ।।
आ मा वाजस्य प्रसवो जगम्यादा मा द्यावापृथिवी विश्वरूपे ।
आ मा गन्तां पितरा मातरा च मा सोमो अमृतत्वेन गम्यात् ।।
एषा वस्सा सत्या संवागभूद्यामिन्द्रेण समदध्वम् ।
अजीजपत वनस्पतय इन्द्रं वाजं विमुच्यध्वम् ।।
वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागमवजिघ्रतां वाजिनो वाजजितो वाजं जिगीवाँसो बृहस्पतेर्भागे निमृजतां पत्नी स्वो रोहावेहि स्वो रोहावेहि स्वो रोहाव स्वो रोहाव स्वो रोहाव स्वो रोहावयुर्यज्ञेन कल्पतां मनो यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताँ श्रोत्रं यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताँ स्वर्देवा अगन्म प्रजापतेः प्रजा अभूवन्नमृता अभूम वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वाक्पतये स्वाहा वसवे स्वाहा स्वर्मौर्ध्नाय स्वाहा मूर्ध्ने वैयशनाय स्वाहा व्यश्वन आन्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहा प्रजापतये स्वाहाधिपतये स्वाहान्नाय त्वा वाजाय त्वा वाजजित्यै त्वा ॥१॥

वाजस्य नु प्रसवस्सुषुवेऽग्रे सोमो राजौषधीष्वप्सु ।
ता अस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः ।।
वाजस्येदं प्रसव आबभूवेमा विश्वा भुवनानि सर्वतः ।।
अदित्सन्तं दापयति प्रजानन् सोमो रयिं सहवीरं नियँसत् ।।
वाजस्य नु प्रसवश्शिश्रिये देवीमा विश्वा भुवनानि सम्राट् ।
स विराजा परियाति प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ।।
सोमं राजानमवस इन्द्रं दानाय चोदय ।
विष्णुं वाचँ सरस्वतीँ सवितारं च वाजिनम् ।।
प्र नो यच्छत्वर्यमा प्र पूषा प्र बृहस्पतिः । प्र वाग्देवी ददातु नः ।।
अग्ने अच्छा वदेह नः प्रत्यङ नस्सुमना भव ।
प्र नो रास्व विशस्पते धनदा असि नस्त्वम् ।।
इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नस्सर्व इज्जनस्संगमे सुमना असत् ।।
सोमं राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुँ सूर्यं ब्रह्माणं च बृहस्पतिम्।।
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सरस्वत्या वाचा यन्तुर्यन्त्रेणेमममुमामुष्यायणममुष्याः पुत्रं बृहस्पतेस्साम्राज्येनाभिषिञ्चामीन्द्रस्य साम्राज्येनाभिषिञ्चामि ॥२॥

उपयामगृहीतोऽसि द्रुषदं त्वा नृषदमायुस्सदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वोपयामगृहीतोऽस्यप्सुषदं त्वा घृतसदं भूतसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वोपयामगृहीतोऽसि पृथिविषदं त्वान्तरिक्षसदं नाकसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा ।। उपयामगृहीतोऽसि ग्रह विश्वजनीन न्यन्तर्विप्र आ सती ॥
यास्तिस्रः परमजा दैव्यः कोशस्समुब्जितः । तासां विशिश्न्यानामिषमूर्जँ समग्रभम्॥
एष ते योनरिन्द्राय त्वोपयामगृहीतोऽसि ।।
अपां रसमुदयँसँ सूर्ये शुक्रँ समाभृतम् । अपां रसस्य यो रसस्तं वो गृह्णाम्युत्तमम् ।।
एष ते योनिरिन्द्राय त्वा ।।
अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
स प्रत्युदैद्धरुणं मध्वो अग्रँ स्वा यत् तनू तन्वमैरयत ।।
उपयामगृहीतोऽसि प्रजापतये त्वैष ते योनिः प्रजापतये त्वा ।।
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ।।
उपग्रामगृहीतोऽसि प्रजापतये त्वैष ते योनिः प्रजापतये त्वा ॥३॥

अग्निरेकाक्षरामश्विनौ द्व्यक्षरां विष्णुस्त्र्यक्षराँ सोमश्चतुरक्षराँ सविता पञ्चाक्षरां पूषा षडक्षरां मरुतस्सप्ताक्षरां बृहस्पतिरष्टाक्षरां मित्रो नवाक्षरां वरुणो दशाक्षरामिन्द्र एकादशाक्षरां विश्वे देवा द्वादशाक्षरां वसवस्त्रयोदशाक्षरां रुद्राश्चतुर्दशाक्षरामादित्याः पञ्चदशमदितिष्षोडशं प्रजापतिस्सप्तदशोऽग्निरेकाक्षरया वाचमुदजयदश्विनौ द्व्यक्षरया प्राणापाना उदजयतां विष्णुस्त्र्यक्षरया त्रीनिमांल्लोकानुदजयत् सोमश्चतुरक्षरया चतुष्पदः पशूनुदजयत् सविता पञ्चाक्षरया पञ्च दिश उदजयत् पूषा षडक्षरया षडृतूनुदजयन्मरुतस्सप्ताक्षरया शक्वरीमुदजयन् बृहस्पतिरष्टाक्षरयाष्टौ दिश उदजयच्चतस्रो दिशश्चतस्र उपदिशा मित्रो नवाक्षरया नव प्राणानुदजयद्वरुणो दशाक्षरया विराजमुदजयदिन्द्र एकादशाक्षरया त्रिष्टुभमुदयजयद्विश्वे देवा द्वादशाक्षरया जगतीमुदजयन् वसवस्त्रयोदशाक्षरया त्रयोदशं मासमुदजयन् रुद्राश्चतुर्दशाक्षरया चतुर्दश रात्रीरुदजयन् या इमा अन्तरार्धमासा आदित्याः पञ्चदशमदितिष्षोडशं प्रजापतिसप्तदशोऽग्निरेकाक्षरया मामुदजयदिमां पृथिवीमश्विनौ द्व्यक्षरया प्रमामन्तरिक्षं विष्णुस्त्र्यक्षरया प्रतिमाँ स्वर्गं लोकँ सोमश्चतुरक्षरयास्रीवीर्नक्षत्राणि सविता पञ्चाक्षरया पङ्क्तिमुदजयद्या ह्यक्षरपङ्क्तिस्सा पङ्क्तिश्चतुर्धा हि तस्याः पञ्च पञ्चाक्षराणि ।। पूषा षडक्षरया गायत्रीमुदजयच्चतुर्धा हि तस्याष्षट् षडक्षराणि मरुतस्सप्ताक्षरयोष्णिहमुदजयँश्चतुर्धा हि तस्यास्सप्त सप्ताक्षराणि बृहस्पतिरष्टाक्षरयानुष्टुभमुदजयच्चतुर्धा हि तस्या अष्टा अष्टाक्षराणि मित्रो नवाक्षरया बृहतीमुद्जयच्चतुर्धा हि तस्या नव नवाक्षराणि वरुणो दशाक्षरया विराजमुदजयदिन्द्र एकादशाक्षरया त्रिष्टुभमुदजयद्विश्वे देवा द्वादशाक्षरया जगतीमुदजयन् वसवस्त्रयोदशाक्षरया त्रयोदशं मासमुदजयन् रुद्राश्चतुर्दशाक्षरया चतुर्दश रात्रीरुदजयन् या इमा अन्तरार्धमासा आदित्याः पञ्चदशमदितिष्षोडशं प्रजापतिस्सप्तदशः ॥४।।

देवा वै नानैव यज्ञानपश्यन्निममहमिदं त्वमित्यथैतँ सर्वेऽपश्यँस्तस्मिन्नायतन्त तस्मिन्नाजिमयुस्तं बृहस्पतिरुदजयद्बृहस्पतिर्वै देवानां पुरोहितो यद्वै पुरोहितो ब्रह्म शृणोति तद् राज्ञे तेनेन्द्रमयाजयत् स स्वाराज्यमगच्छत् स एष स्वाराज्यो यज्ञस्स्वाराज्यं गच्छति य एतेन यजते यद्बृहस्पतिरुदजयत् तस्माद्ब्राह्मणो यजेत यदिन्द्रमयाजयत् तस्माद्राजन्यो देवा वै नानैव यज्ञानाहरन्नथैतं प्रजापतिराहरत् तस्मिन् देवा अपित्वमैच्छन्त तेभ्यश्छन्दाँस्युज्जितीः प्रयच्छदथैतेन प्रजापतिरयजत स स्वाराज्यमगच्छत् स एष स्वाराज्यो यज्ञस्स्वाराज्यं गच्छति य एतेन यजतेऽन्नं वै वाजो य एवं विद्वानन्नमत्ति वाजयत्येनँ सोमो वाजपेयो य एवं विद्वान् सोमं पिबति वाजमेव गच्छति यावन्तो हि देवास्सोममपिबँस्ते वाजमगच्छँस्तस्मात् सर्व एव सोमं पिपासति वाग्वै वाजस्य प्रसवस्सा वाग्दृष्टा चतुर्धा व्यभवदेषु लोकेषु त्रीणि तुरीयाणि पशुषु तुरीयं या दिवि सा बृहति सा स्तनयित्नौ यान्तरिक्षे सा वाते सा वामदेव्ये या पृथिव्याँ साग्नौ सा रथन्तरे या पशुषु तस्या यदत्यरिच्यत तां ब्राह्मणे न्यदधुस्तस्माद् ब्राह्मण उभे वाचौ वदति दैवीं च मानुषीं च करोति वाचा वीर्यं य एवं वेद । या बृहद्रथन्तरयोस्तयैनं यज्ञ आगच्छति या पशुषु तयर्तेयज्ञमाह वा एनमप्रतिख्याताद्गच्छति य एवं वेद यावती हि वाक्तां वेद वाचा हि दीयते वाचा प्रदीयते यो गाथानाराशँसीभ्याँ सनोति तस्य न प्रतिगृह्यमनृतेन हि स सनोत्यनृतँ हि गाथानृतं नाराशँसी मत्तस्य न प्रतिगृह्यमनृतँ हि मत्तो यदा हि सोऽमत्तो भवत्यथ तं तत्तुपति ।। ५ ॥

सप्तदशैते द्वया ग्रहाः प्राजापत्यास्सप्तदशो वै पुरुषः प्राजापत्यश्चत्वार्यङ्गानि शिरोग्रीवमात्मा वाक् सप्तथी दश प्राणा अङ्गेऽङ्गे वै पुरुषस्य पाप्मोपाश्लिष्टो यद्व्यतिषङ्गं ग्रहान् गृह्णात्यङ्गादङ्गादेवैनं पाप्मनो मुञ्चति श्रीर्वै सोमः पाप्मा सुरोपयामा यदागते काले प्राञ्चस्सोमैरुद्द्रवन्ति प्रत्यञ्चस्सुरोपयामैः पाप्मनैवैनं विपुनाति तस्मादाहुर्वाजपेययाजी त्वै पूत इति पाप्मना ह्येनं विपुनाति पञ्चैते ग्रहा गृह्यन्ते पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्ध ऐन्द्रास्सर्वे भवन्त्येकधैवास्मिन्निन्द्रियं दधाति ।।। परं वा एतद्देवानामन्नं यत् सोमः परममेतन्मनुष्याणामन्नाद्यं यत् सुरा यत् सोमग्रहाश्च सुराग्रहाश्च सह गृह्यन्ते परेणैवान्नेनावरमन्नाद्यमवरुन्द्धे ब्रह्मणो वा एतत् तेजो यत् सोमोऽन्नस्य शमलँ सुरा यत् सोमग्रहाश्च सुराग्रहाश्च सह गृह्यन्ते ब्रह्मण एव तेजसा तेज आत्मन् धत्तेऽन्नस्य शमलेन शमलमपहते देवलोकमेव सोमग्रहैरभिजयति मनुष्यलोकँ सुराग्रहैरात्मानमेव समग्रहैस्स्पृणोति पत्नीँ सुराग्रहैस्तस्मादाहुर्वाजपेययाजी त्वा अमुष्मिँल्लोके संभवतीति यज्ञेन ह्यस्याभिजितं देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सावित्र्या परुषि परुषि जुहोत्युत्सन्नयज्ञो वा एष को ह तद्वेद यावदेतस्याधियन्ति यावन्न सर्वत्वायैव प्रसवाय वाजस्य नु प्रसवे मातरं महीमिति रथमुपावहरतीयमदितिरनया चैव सवित्रा च प्रसूत उपावहरति वाजस्योज्जित्या अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान् पल्पूलयत्यप्सुजा वा अश्वस्स्वादेवैनान्योनेर्जनयत्यथो मेध्यानेवैनान् यज्ञियान् करोति वायुर्वा त्वा मनुर्वा त्वेति युनक्ति न वा एतान्मनुष्यो योक्तुमर्हति देवताभिरेवैनान्युनत्यपां नपादाशुहेमन्निति रराटानि प्रतिमार्ष्टि पूर्वमेवोदितमनुवदति ।।६।।
 
सप्तदशस्सर्वो भवति सप्तदशः प्रजापतिः प्रजापतिमेवाप्नोति दुन्दुभीन्निर्रा एदयन्ति वाग्वा एषैकारण्यं प्राविशत् तामेवोज्जयति देवस्य सवितुः प्रसवे सत्यसवस्येति सवितृप्रसूत एव वज्रं रोहति देवस्य वयँ सवितुः प्रसवे सत्यसवनस्येति सवितृप्रसूत एव रथमभ्यातिष्ठति वाजस्योज्जित्यै ब्रह्मान्वेति प्रजापतिर्वै ब्रह्मा यज्ञस्य प्रजापतिरिन्द्रमसुवत प्रजापतिरेवैनं वज्रादधि प्रसुवति साम गायति सत्यं वै साम सत्येनैवैनमुज्जापयति वाजिनामृचोऽन्वाह वाजस्योज्जित्या अनुदिष्टै रथैर्धावन्ति दक्षिणया वै देवास्वर्गं लोकमायन् यदनुदिष्टै रथैर्धावन्ति दक्षिणयैव स्वर्गं लोकमेति।। दर्भमयं वासो भवति पवित्रत्वायोज्जितीर्वाचयति वाग्वा उज्जित्यो वाचमेवोज्जयति देवा वा ओषधीषु पक्वास्वाजिमयुस्ता बृहस्पतिरुदजयत् स नीवारान्निरवृणीत तन्नीवाराणां नीवारत्वं बृहस्पतिर्वा एतमुदजयत् तमेव भागिनं करोति चात्वालेऽवदधातीह वा असा आदित्य आसीत् तं देवा आभ्यां परिगृह्यामुं लोकमगमयन् स्वर्गस्य लोकस्य समष्ट्या आ मा वाजस्य प्रसवो जगम्यादिति पुनरागतेषु जुहोति यमेव ते वाजमुज्जयन्ति तमात्मन् धत्त एषा वस्सा सत्या संवागभूद्यामिन्द्रेण समदध्वम् ।। अजीजपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते वाजिनौ वाजजिता इति युग्या अवघ्रापयति भागिना एवैनौ करोति वाजिनो वाजजित इत्यनुदिशति सवनेवैनान् प्रीणाति ।।७।।

अर्धवशां च सुरोपयामाँश्च हरन्ति य आजिं धावन्ति तेभ्यो यमेव ते वाजमुज्जयन्ति तं तेन परिक्रीणाति मधुष्ठालं ब्रह्मणे हरन्ति ब्रह्मण एव तेन परिक्रीणाति ककुभो राजपुत्रः प्राश्नाति वीर्यं वै ककुब्वीर्यं राजपुत्रो वीर्य एवं वीर्यं दधाति पत्नी३ स्वो रोहावेति स्वरेव रोक्ष्यन् पत्न्या संवदते पत्न्या एवैष यज्ञस्यान्वारम्भोऽथो मिथुनमेव यज्ञमुखे दधाति प्रजननायायुर्यज्ञेन कल्पतामित्येतावान् वै पुरुषस्सर्व एव भूत्वा स्वर्गं लोकमेति गौधूमं चषालं भवति प्राजापत्या वै गोधूमा अर्धं प्रत्योषधीनाँ सहैवान्नाद्येन स्वर्गं लोकमेति वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदशैता आहुतयस्त्रयोदश मासास्संवत्सरस्संवत्सरस्स्वर्गो लोकस्संवत्सरमेवास्मै स्वर्गे लोक उपाधात् तस्मिन्नधि प्रतितिष्ठत्यूषपुटैरर्पयन्ति प्राजापत्या वा ऊषा अन्नाद्येनैवैनमर्पयन्त्येति वा एषोऽमांल्लोकाद्योऽमुं लोकं गच्छति यदूषपुटैरर्पयन्ति तेनास्माल्लोकानैति बस्ताजिनं च रुक्मं चाभ्यवरोहति पशवो वै बस्ताजिनं यद्बस्ताजिनमभ्यवरोहति पशुष्वेव प्रतितिष्ठति तेजो हिरण्यं यद्रुक्ममभ्यवरोहति तेजस्येव प्रतितिष्ठति शतमानो भवति शतायुर्वै पुरुषश्शतवीर्य आयुरेव वीर्यमवरुन्द्धे वाजप्रसव्याभिरन्नस्यान्नस्य जुहोत्यन्नाद्यस्यावरुद्ध्यै सप्तभिस्सप्त वै छन्दाँसि च्छन्दोभिरेवान्नाद्यमवरुन्द्धे वाग्वै छन्दाँसि वाचैवान्नाद्यमवरुन्द्धे देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सरस्वत्या वाचा यन्तुर्यन्त्रेणेमममुमामुष्यायणममुष्याः पुत्रं बृहस्पतेस्साम्राज्येनाभिषिञ्चामीति यदि ब्राह्मणो यजेत बृहस्पतिसवो ह्येष इन्द्रस्येति यदि राजन्य इन्द्रसवो ह्येषः ॥८॥

अथैतेऽतिग्राह्या यदेव परमन्नाद्यमनवरुद्धं तस्यावरुद्ध्या अथैते पशवो यज्ञक्रतूनामवरुद्ध्यै यदाग्नेयोऽग्निष्टोमं तेनाप्नोत्यग्निप्रतिष्ठानो ह्यग्निष्टोमो यदैन्द्राग्न उक्थानि तेनाप्नोत्यैन्द्राग्नानि ह्युक्थानि यदैन्द्रष्षोडशिनं तेनाप्नोत्यैन्द्रो हि षोडश्यात्मानमेवाग्निष्टोमेन स्पृणोति प्राणापाना उक्थेन वीर्यँ षोडशिनस्स्तोत्रेण वाचमतिरात्रेण प्रजां बृहतस्स्तोत्रेणास्मिन्नेव लोकेऽग्निष्टोमेन प्रतितिष्ठत्यन्तरिक्ष उक्थेन स्वर्गे लोके षोडशिनस्स्तोत्रेण ये देवयानाः पन्थानस्तेष्वतिरात्रेण नाके बृहतस्स्तोत्रेणैतावन्तो वै देवलोका यावन्त एव देवलोकास्तानाप्नोत्यथैषा सारस्वती मेषी यदेवादस्सप्तदशँ स्तोत्रमनवरुद्धं तस्यावरुद्ध्या अथैषा मारुती पृश्निर्वशा देवाश्च वा असुराश्चास्मिंल्लोक आसन्नेमे देवा नेमेऽसुरास्ते देवा एतां मारुतीं पृश्निं वशामपश्यँस्तामालभन्त तया लोकं द्वितीयमवृञ्जतासुरलोकं यस्यावद्यन्ति स देवलोको यस्य नावद्यन्ति सोऽसुरलोको लोकमेवैतया द्वितीयं वृङ्तेेव भ्रातृव्यलोकं द्वितीये हि लोके भ्रातृव्यस्सारस्वत्येतेषां पञ्चानामुत्तमा भवति सारस्वत इतरेषाँ सप्तदशानामुत्तमो वाग्वै सरस्वती वाचैव यज्ञँ संतनोति यद्वै विद्वान् यज्ञस्य न करोति यद्वाविद्वानन्तरेति तच्छिद्रं तद्वाचैव सरस्वत्या कल्पयति सप्तदशैते प्राजापत्याः पशव आलभ्यन्ते सप्तदशः प्रजापतिः प्रजापतिमेवाप्नोत्येकरूपा भवन्त्येकधैवास्मिन् वीर्यं दधाति सारस्वत उत्तमो भवति वाग्वै सरस्वती वाच्येव प्रतितिष्ठति ॥ ९ ॥

रथन्तरँ साम भवत्याशीय उज्जित्या इयं वै रथन्तरमस्यामेवाध्यभिषिच्यते वियोनिर्वै वाजपेयोऽनिरुक्तस्सन् प्राजापत्योऽनिरुक्तसामा तेन वियोनिर्यदनिरुक्ताः प्रातस्सवास्तेन संयोनिरनिरुक्ताः प्रातस्सवा अनिरुक्तः प्रजापतिः प्रजापतिमेवाप्नोति वाजवतीभिर्मध्यंदिने स्तुवन्त्यन्नं वै वाजोऽनाद्यस्यावरुद्ध्यै चित्रवतीभिरार्भवे पवमाने स्वर्गस्य लोकस्य समष्ट्या आष्ट्रादँष्ट्रमुत्तममुक्थानां भवत्युत्तरे एव स्तोत्रे अभिसंतनोति बृहत् साम भवति यद्वा अतिरिच्यतेऽमुं तल्लोकमभ्यतिरिच्यते बृहत् त्वा अमुं लोकमाप्तुमर्हतीन्द्रियं वीर्यं बृहदिन्द्रिय एव वीर्ये प्रतितिष्ठति वैष्णवीषु शिपिविष्टवतीषु स्तुवन्त्येषा वै प्रजापतेः पशुष्टास्तनूर्या शिपिविष्टवती तस्माच्छिपिविष्टवतीषु स्तुवन्त्यतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोति ।।१०।।[९७३]


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां वाजपेयं नाम चतुर्दशं स्थानकं संपूर्णम् ॥१४॥