← स्थानकं १४ काठकसंहिता (विस्वरः)
स्थानकम् १५
[[लेखकः :|]]
स्थानकं १६ →
श्रीराजसूयम्।

अथ पञ्चदशं स्थानकम् ।

श्रीराजसूयम् ।
अनुमत्या अष्टाकपालो धेनुर्दक्षिणा ये प्रत्यञ्चश्शम्यामतिशीयन्ते स नैऋत एककपालो भवति ता उभौ सह शृतौ कुर्वन्ति तयोर्नैर्ऋतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय विस्रँसिकायाः काण्डाभ्यां जुहोति जुषाणा निऋतिर्वेतु स्वाहा वासो भिनान्तं दक्षिण य उदञ्चोऽवशीयन्ते तानुदक् परेत्य वल्मीकवपामुद्धृत्य जुहोतीमहममुष्यामुष्यायणस्य क्षेत्रियमवयजे स्वाहेदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामीत्यपिदधात्यादित्येभ्यो भुवद्वद्भ्यो घृते चरुर्वरो दक्षिणाग्नावैष्णव एकादशकपालोऽनड्वान् वामनो दक्षिणाग्नीषोमीय एकादशकपालो हिरण्यं दक्षिणैन्द्राग्न एकादशकपाल ऋषभोऽनड्वान् दक्षिणाग्नेयोऽष्टाकपालो महेन्द्रीयं दधि वासः क्षौमं दक्षिणा सौम्यश्श्यामाकश्चरुर्बभ्रुः पिङ्गलो दक्षिणैन्द्राग्नो द्वादशकपालो वैश्वदेवश्चरुर्द्यावापृथिव्य एककपालो वत्सः प्रथमजो दक्षिणा ।।१।।

आग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालस्सारस्वतश्चरुः पौष्णश्चरुर्वायवे नियुत्वते पयो वा यवागूर्वेन्द्राय शुनासीराय द्वादशकपालस्सौर्य एककपाल उष्टारौ दक्षिणा सीरं वा द्वादशायोगमाग्नेयोऽष्टाकपालो वारुणो यवमयो दशकपालो रौद्रो गावीधुकश्चरुरैन्द्रँ सान्नायं धेनुरनड्वाही दक्षिणापां न्ययनादपामार्गानाहरन्ति तान् सक्तून् कुर्वन्ति तान् पर्णमयेन स्रुवेण जुहोति दक्षिणा परेत्य स्वकृत इरिणे देवस्य सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रस्यौजसा रक्षोहासि स्वाहा हतं रक्षोऽवधिष्म रक्षो वरो दक्षिणा ।। ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ये देवा दक्षिणात् सदो यमनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ये देवाः पश्चात् सदो मरुन्नेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ये देवा उत्तरात् सदो मित्रावरुणनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ये देवा उपरिषदस्सोमनेत्रा अवस्वद्वन्तो रक्षाहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यस्स्वाहा ।। इदं मह रक्षोऽभिसमूहाम्यग्ने संदह रक्षस्संदग्धं रक्षोऽग्नये पुरस्सदे रक्षोघ्ने स्वाहा यमाय दक्षिणात् सदे रक्षोघ्ने स्वाहा मरुद्भ्यः पश्चात् सद्भ्यो रक्षोभ्यस्स्वाहा मित्रावरुणाभ्यामुत्तरात् सद्भ्यां रक्षोभ्याँ स्वाहा सोमायोपरिषदेऽवस्वद्वते रक्षोघ्ने स्वाहा रथः पञ्चवाही दक्षिणा ॥ २ ॥

अनुमत्यै चरू राकायै चरुस्सिनीवाल्यै चरुः कुह्वै चरुर्धात्रे द्वादशकपालः पष्ठौह्यप्रवीता दक्षिणा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्वाहायस्स्वाहौषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा पतयद्भ्यस्स्वाहा परिप्लवेभ्यस्स्वाहा चराचरेभ्यस्स्वाहा सरीसृपेभ्यस्स्वाहाग्नावैष्णव एकादशकपाल ऐन्द्रावैष्णवश्चरुर्वैष्णवस्त्रिकपालो वामनो दक्षिणा सौमापौष्णश्चरुरैन्द्रापौष्णश्चरुः पौष्णश्चरुश्श्यामो दक्षिणाग्नये वैश्वानराय द्वादशकपालो हिरण्यं दक्षिणा वारुणो यवमयश्चरुरश्वो बभ्रुर्दक्षिणा ।। ३ ॥

बार्हस्पत्यश्चरुः पुरोहितस्य गृहे शितिपृष्ठो दक्षिणैन्द्र एकादशकपालो राज्ञो गृह ऋषभो दक्षिणादित्यै चरुर्महिष्या गृहे धेनुर्दक्षिणा नैर्ऋतश्चरुः कृष्णानां व्रीहीणां नखनिर्भिन्नानां परिवृक्त्या गृहे श्येनी कूटा वण्डापस्फुरा दक्षिणाग्नेयोऽष्टाकपालस्सेनान्यो गहे हिरण्यं दक्षिणाश्विनो द्विकपालस्संग्रहीतुर्गृहे सवात्यौ दक्षिणा सावित्रोऽष्टाकपालः क्षत्तुर्गृहे श्येतो दाक्षिणा वारुणो यवमयो दशकपालस्सूतस्य गृहे बभ्रुर्महानिरष्टो दक्षिणा मारुतस्सप्तकपालो वैश्यस्य ग्रामण्यो गृहे पृश्निः पष्टौही दक्षिणा पौष्णश्चरुर्भागदुघस्य गृहे श्यामो दक्षिणा रौद्रो गावीधुकश्चरुरक्षावपस्य च गोव्यच्छस्य च गृहेऽसिर्वालावृतो वव्रिर्वालप्रतिग्रथिता बरासी दामभृषा वत्सतरो वा शबलो दक्षिणेन्द्राय सुत्राम्ण एकादशकपाल इन्द्रायाँहोमुच एकादशकपालो राज्ञो गृह ऋषभो दक्षिणा ।। ४ ।।
 
स्वयमवपन्नाया अश्वत्थशाखायाः पात्रं भवति श्वेताँ श्वेतवत्सां दुहन्ति तत् स्वयं मूर्च्छति स्वयं मथ्यते स्वयं विलीयतेऽथ मैत्राबार्हस्पत्यँ हविर्निर्वपति तान् द्वेधा तण्डुलान् विभजति ये क्षोदीयाँसस्तं बार्हस्पत्यं चरुँ शृतं कुर्वन्ति स यदाशृतो भवत्यथ तत् पात्रमाश्वत्थमपिधाय पवित्रवत्याज्यमानयति तत् स्थवीयस आवपति स मैत्रश्चरुस्स्वयँशृतो भवत्यर्धं वेद्याः कुर्वन्त्यर्धँ स्वयंकृतमर्धं बर्हिषो दान्त्यर्धँ स्वयंदिनमर्धमिध्मस्य कुर्वन्त्यर्धँ स्वयंकृतँ शितिपृष्ठो बार्हस्पत्यस्य दक्षिणाश्वो मैत्रस्य सा वै श्वेता श्वेतवत्साग्नये गृहपत्य आशूनामष्टाकपालस्सवित्रे प्रसवित्रे सतीनानामष्टाकपालस्सोमाय वनस्पतये श्यामाकश्चरुर्बृहस्पतये वाचस्पतये नैवारश्चरुरिन्द्राय ज्येष्ठाय हायनानामेकादशकपालो मित्राय सत्यस्य पतय आम्बानां चरुर्वरुणाय धर्मणस्पतये यवमयो दशकपालो रुद्राय पशुपतय गावीधुकश्चरुस्सविता त्वा प्रसवानाँ सुवतामग्निर्गाहपत्यानाँ सोमो वनस्पतीनां बृहस्पतिर्वाचामिन्द्रो ज्यैष्ठ्यानां मित्रस्सत्यानां वरुणो धर्मणां रुद्रः पशूनां ते देवा असपत्नमिमँ सुवध्व महते क्षत्राय महते ज्यैष्ठ्याय महते राज्याय महते जानराज्याय महते विश्वस्य भुवनस्याधिपत्याय ॥५॥

दवारापा अपां नपाद्राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहा वृषोर्मिरसि राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहा वृषसेनोऽसि राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहापां पतिरसि राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहा प्रहावरीस्स्थ परिवाहिणीस्थौजस्विनीस्स्थ व्रजक्षितस्स्थ सूर्यवर्चसस्स्थ सूर्यत्वचसस्स्थ मान्दास्स्थ वशास्स्थ शक्वरीस्स्थ मरुतामोजस्स्थ जनभृतस्स्थ विश्वभृतस्स्थानाधृष्टास्स्थापामोषधीनां रसश्श्रविष्ठास्स्थ राष्ट्रदास्स्थ राष्ट्रं दत्त स्वाहा ।।
अपो देवीर्मधुमतीरगृभ्णामूर्जस्वती राजसूयाश्चितानाः ।
याभिर्मित्रावरुणा अभ्यषिञ्चन् याभिरिन्द्रमनयनत्यरातीः ।।
देवीरापो मधुमतीस्सँसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वानाः ।
अनाधृष्टास्सीदतोर्जस्वतीर्महि वर्चः क्षत्रियाय ददतीः ।।
अनिभृष्टमसि वाचो बन्धुस्तपोजास्सोमस्य दात्रँ शुक्रा वश्शुक्रेण पुनामि चन्द्रा वश्चन्द्रेण पुनामि देवो वस्सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिस्स्वाहा राजसूयाः ।।
सधमादो द्युम्न्या ऊर्ज एका अनाधृष्टा अपस्यो वसानः ।
पस्त्यासु चक्रे वरुणस्सधस्थमपाँ शिशुर्मातृतमास्वन्तः ।।
रुद्र यत्ते क्रिवि परं नाम तस्मै हुतमसि यमेष्टमसि स्वाहा सोम इन्द्रो वरुणो मित्रो अग्निस्ते देवा धर्मधृतो धर्मं धारयन्तां तेऽस्मै वाचँ सुवन्ताम् ॥६॥

क्षत्रस्य योनिरसि क्षत्रस्योल्बमसि क्षत्रस्य नाभिरस्याविद आवेदयतावित्तो अग्निर्गृहपतिरावित्त इन्द्रो वृद्धश्रवा आवित्तौ मित्रावरुणौ धृतव्रता आवित्ते द्यावापृथिवी ऋतावृधा आवित्ता देव्यदितिरावित्तः पूषा विश्ववेदा आवित्तोऽयमसा आमुष्यायणोऽमुष्याः पुत्रोऽमुष्यां विश्येष ते जनते राजा सोमो अस्माकं ब्राह्मणानां राजेन्द्रस्य वज्रोऽसि वार्त्रघ्रस्त्वयायं वृत्रं वध्याच्छत्रुबाधनास्स्थ पात प्राचः पात प्रतीचः पातानूचः पात तिरश्चो मित्रोऽसि वरुणोऽसि ।।
हिरण्यवर्णमुषसो व्युष्टा अयस्स्थूणमुदितौ सूर्यस्य ।
आरोहथो वरुण मित्र गर्तं तत्र चक्राथे अदितिं दितिं च ।।
समिधमातिष्ठ गायत्री त्वा छन्दसावतु त्रिवृत्स्तोमो रथन्तरँ सामाग्निर्देवता ब्रह्म द्रविणमुग्रामातिष्ठ त्रिष्टुप्त्वा छन्दसावतु पञ्चदशस्स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणं प्राचीमातिष्ठ जगती त्वा छन्दसावतु सप्तदशस्स्तोमो वैरूपँ साम मरुतो देवता विड् द्रविणमुदीचीमातिष्ठानुष्टुप् त्वा छन्दसावत्वेकविंशस्स्तोमो वैराजँ साम मित्रावरुणौ देवता पुष्टं द्रविणमूर्वाष्मातिष्ठ पङ्क्तिस्त्वा छन्दसावतु ॥ त्रिणवत्रयस्त्रिंशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर्देवता वर्चो द्रविणँ सोमस्य त्विषिरसि त्विषिमाँ असि तवेव मे त्विषिर्भूयात् प्रत्यस्तं नमुचेश्शिरोऽवेष्टा दन्दशूका मृत्योः पाहि दिद्योत्पाह्यग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाँशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा सोमस्य त्वा द्युम्नेनाग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चाम्यति दिवस्पाहीन्द्रस्य योनिरसि जनय ।।
समाववृत्रन्नधरागुदक्ता अहिं बुध्न्यमन्वीयमानाः ।
ताः पर्वतस्य वृषभस्य पृष्ठे नावो वियन्ति सुषिचो न वाणीः ॥७॥

इन्द्रस्य वज्रोऽसि वाजसास्त्वयायं वाजँ सेन्मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि विष्णोः क्रमोऽसि मरुतां प्रसवे जयाप्तं मनस्समिन्द्रियेणैष वज्रो वाजसातमस्तेन नौ पुत्रो वाजँ सेदियदस्यायुरस्यायुर्मे धेह्यूर्गस्यूर्जं मे धेहि युङ्ङसि वर्चोऽसि वर्चो मे धेहि मित्रोऽसि वरुणोऽसि सं विश्वैर्देवैर्नमो मात्रे पृथिव्यै ।।
प्रति त्यन्नाम राज्यमधायि स्वां तन्वं वरुणोऽसुषोत् ।
शुचेर्मित्रस्य व्रत्या अभूमामन्महि महदृतस्य नाम ।।
सर्वे व्राता वरुणस्याभूवन्नि मित्रयुररतीनतारीत् ।
अशूशुभन्त यज्ञिया ऋतेन नि त्रितो नो जरिमाणमानट् ॥
स्योनासि सुषदासि स्योनामासीद सुषदामासीद ॥
निषसाद धृतवतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ।
अग्नये गृहपतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुतामोजसे स्वाहा॥
हँसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ।।
ब्रह्माँ३स्त्वं ब्रह्मासि सवितासि सत्यसवो ब्रह्माँ३स्त्वं ब्रह्मासि मित्रोऽसि सुशेवो ब्रह्माँ३स्त्वं ब्रह्मासीन्द्रोऽसि सत्यौजा ब्रह्माँ३स्त्वं ब्रह्मासि वरुणोऽसि विश्वौजा एष वज्रस्तेन मे रध्य दिशो अभ्यभूदयम् ॥
प्रजापते नहि त्वदन्य एता विश्वा जातानि पर ता बभूव ।
यत् कामास्ते जुहुमस्तन्नो अस्तु ।।
असा अमुष्य पुत्रोऽमुष्यासौ पुत्रः । वयँ स्याम पतयो रयीणाम् ।।
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहा ॥८॥

सावित्रोऽष्टाकपालश्श्येतो दक्षिणा सारस्वतश्चरुः पष्ठौह्यप्रवीता दक्षिणा पौष्णश्चरुश्श्यामो दक्षिणा बार्हस्पत्यश्चरुश्शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दाक्षिणा वारुणो यवमयो दशकपालो बभ्रुर्महानिरष्टो दक्षिणा त्वाष्ट्रोऽष्टाकपालश्शुण्ठो दक्षिणाग्नेयोऽष्टाकपालस्सौम्यश्चरुर्वैष्णवस्त्रिकपाल आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणैन्द्र एकादशकपाल ऋषभो दाक्षिणा ।। वैश्वदेवश्चरुर्धेनुः पिशङ्गी दक्षिणा मैत्रावरुण्यामिक्षा वशा दक्षिणा बार्हस्पत्यश्चरुश्शितिपृष्ठो दक्षिणाग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालो बार्हस्पत्यश्चरुरग्नये वैश्वानराय द्वादशकपालस्त्वाष्ट्रोऽष्टाकपालो दाक्षिणो रथवाहनवाहो दक्षिणा सारस्वतश्चरुः पौष्णश्चरुर्मैत्रश्चरुर्वारुणश्चरुरदित्यै चरुः क्षेत्रस्य पतये चरुरितरो रथवाहनवाहो दक्षिणा सवित्रे द्वादशकपालोऽश्विभ्यां पूष्ण एकादशकपालस्सरस्वत्यै सत्यवाचे चरुस्तिसृधन्वँ शुष्कदृतर्दण्ड उपानहौ तद्दक्षिणाश्वो वा शोणकर्णः ॥९॥
 
त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यंदिनः पवमानस्सप्तदशानि पृष्ठानि सप्तदश आर्भवः पवमान एकविंशोऽग्निष्टोमश्चतुस्त्रिँशाः पवमाना अभिषेचनीयस्य पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमश्चोक्थानि च सप्तदशो दशपेयस्सर्व एकविंशं बहिष्पवमानं केशवपनीयस्य सप्तदशान्याज्यानि सप्तदशो माध्यंदिनः पवमानः पञ्चदशानि पृष्ठानि पञ्चदश आर्भवः पवमानस्त्रिवृदग्निष्टोमश्चोक्थानि चैकविँशष्षोडशी पञ्चदशी रात्री त्रिवृत्सन्धिरथैष द्विरात्रो व्युष्टिस्तस्य यावन्ति संवत्सरस्याहोरात्राणि तावतीस्स्तोत्रीयाः ।।१०।।

युञ्जानः प्रथमं मनस्तत्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभरत्।।
युक्तेन मनसा वयं देवस्य सवितुस्सवे । स्वर्ग्यया शक्त्या ।।
युक्त्वाय सविता देवान् स्वर्यतो धिया दिवम् ।
बृहज्ज्योतिः करिष्यतस्सविता प्रसुवाति तान् ।।
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ।।
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथेव सूरः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ।।
यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमर्चतः ।
यः पार्थिवानि विममे स एतशो रजाँसि देवस्सविता महित्वना ।।
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।।
दिव्यो गन्धर्वः केतपः केतं पुनातु वाचस्पतिर्वाचं नस्स्वदतु ॥
इमं मे देव सवितर्यज्ञं प्रणय देवाव्यम् । सखिविदँ सत्राजितं धनजितँ स्वर्विदम् ॥
ऋचा स्तोमँ समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि ॥११॥
 
प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषक् ।।
अयम् ष्य प्र देवयुर्होता यज्ञाय नीयते । रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ।।
अयमग्निरुरुष्यत्यमृतादिव जन्मनः । सहसश्चित् सहीयान् देवो जीवातवे कृतः ।।
इडायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो निधीमह्यग्ने हव्याय वोढवे ।।
अग्ने विश्वेभिस्स्वनीक देवैरूर्णावन्तं प्रथमस्सीद योनिम् ।
कुलायिनं घृतवन्तं सवित्रे यज्ञ नय यजमानाय साधु ॥
सीद होतर्नि होता ।
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद्बोधि गोपाः ।।
अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
यदूर्ध्वस्तिष्ठाद् द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ।।
उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । सुमिती मीयमानो वर्चो धा यज्ञवाहसे ।।
समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरँ सुवीरम् ।
आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ।।
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ।।
ऊर्ध्वो नः पाह्यँहसो नि केतुना विश्वँ समत्रिणं दह ।
कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ।।
युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ।।
अभि त्वा देव सवितरीशानं वार्याणाम् । सदावन् भागमीमहे ।।
मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधि तमु त्वा दध्यङ्ङृषिस्तमु त्वा पाथ्यो वृषाग्नी रक्षाँसि सेधत्युत ब्रुवन्तु जन्तवः ॥
आ यँ हस्ते न खादिनँ शिशुं जातं न बिभ्रति । विशामग्निं स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् । अ स्वे योनौ निषीदत ॥
आ जातं जातवेदसि प्रियँ शिशीतातिथिम् । स्योन आ गृहपतिम् ।।
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यः ।।
त्वँ ह्यग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे ।।
तं मर्जयन्त सुक्रतुं पुरोगावानमाजिषु । स्वेषु क्षयेषु वाजिनम् ।।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानस्सचन्त यत्र पूर्वे साध्यास्सन्ति देवाः ।। १२ ।।

होता यक्षदग्निँ समिधा सुषमिधा समिधं नाभा पृथिव्यास्संगथे वामस्य वर्ष्मन् दिव इडस्पदे वेत्वाज्यस्य होतर्यज होता यक्षत् तनूनपातमदितेर्गर्भं भवनस्य गोपां मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्वाज्यस्य होतर्यज होता यक्षदग्निमिड ईडितो देवो देवाँ-आ वक्षद्दूतो हव्यवाडमूर उपेमं यज्ञमुपेमां देवो देवहूतिं वेत्वाज्यस्य होतर्यज होता यक्षद्बर्हिस्सुष्टरीमोर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथताँ स्वासस्थं देवेभ्य एमेनदद्य वसवो रुद्रा आदित्यास्सदन्तु प्रियमिन्द्रस्यास्तु वेत्वाज्यस्य होतर्यज होता यक्षद्दुर ऋष्वाः कवष्यो कोषधावनीरुदाताभिर्जिहतां वि पक्षोभिश्श्रयन्ताँ सुप्रायणा अस्मिन् यज्ञे विश्रयन्तामृतावृधो व्यन्त्वाज्यस्य होतर्यज होता यक्षदुषासानक्ता बृहती सुपेशसा नॄँ पतिभ्यो योनिं कृण्वाने सँस्मयमाने इन्द्रेण देवैरेदं बर्हिस्सीदतां वीतामाज्यस्य होतर्यज होता यक्षद्दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा स्विष्टमद्यान्यः करत् स्वभिगूर्तमन्यस्स्वतवसेमं यज्ञं दिवि देवेषु धत्तां वीतामाज्यस्य होतर्यज होता यक्षत् तिस्रो देवीरपसामपस्तमा अच्छिद्रमद्येदमपस्तन्वतां देवेभ्यो देवीर्देवमपो व्यन्त्वाज्यस्य होतर्यज होता यक्षत् त्वष्टारमचिष्टुमपाकं रेतोधां विश्रवसं यशोधां पुरुरूपमकामकर्शनँ सुपोषः पोषैस्स्यात् सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज होता यक्षद्वनस्पतिमुपावस्रक्षद्धियो जोष्टारँ शशमन्नरस्स्वदात् स्वधितिर्ऋतुथाद्य देवो देवेभ्यो हव्यवाड्वेत्वाज्यस्य होतर्यज होता यक्षदग्निं स्वाहाज्यस्य स्वाहा मेदसस्स्वाहा स्तोकानाँ स्वाहा स्वाहाकृतीनाँ स्वाहा हव्यसूक्तीनाँ स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्तु होतर्यज ।।१३।।[ १०३८] ॥


इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां श्रीराजसूयं नाम पञ्चदशं स्थानकं संपूर्णम् ॥१५॥